नारी वा पुरुषो वापि कृत्वा कृष्णाष्टमीव्रतम्
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः
नृत्यवादित्रसंयुक्तैरुत्कृष्टध्वनिनादितैः
त्रिनेत्रः शूलपाणिश्च शिवैश्वर्यसमन्वितः
इत्येतत्ते समाख्यातं पार्थ कृष्णाष्टमीव्रतम्
कृष्णाष्टमीव्रतमिदं शिवभावितात्मा सत्याशनैरुदितनामयुतैरुपोष्य 5.57.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कृष्णाष्टमीव्रतवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः
अनघाष्टमीव्रतवर्णनम् तस्य पत्नी महाभाग अनसूया पतिव्रता
तयोः कालेन महता जातः पुत्रो महा तपाः
द्वितीयो नाम लोकेस्मिन्ननघश्चेति विश्रुतः
अष्टपुत्रा जीववत्सा सर्वब्राह्मगुणैर्वृता
एवं तस्य सभार्यस्य योगाभ्यासरतस्य वा
ब्रह्मलब्धप्रसादेन द्रुतं गत्वामरावतीम्
दैत्यदानवसंयोगे पातालादेत्य भारत
तेन निर्णाशिता देवाः सेंद्रचंद्रमरुद्गणाः
अग्रतः प्रलयं यांतः सेन्द्रा देवा भयार्दिताः
युध्यंतः शरसंघातैर्गदामुसलमुद्गरैः 4.58.
शरभैर्गंडकैर्व्याघ्रैर्वानरै रभसैर्द्रुताः
यावद्विन्ध्यगिरिं प्राप्तास्तत्तस्याश्रममण्डलम्
तयोः समीपं संप्राप्तास्ते नराः शरणार्थिनः
अभ्यंतरे प्रविश्याथ तिष्ठध्वं विगतज्वराः
दैत्या अपि द्रुतं प्राप्ता घ्नंतः प्रहरणैररीन्
द्रुतं द्रुमानाक्षिपध्वं पुष्पोपगफलोपगान्
तत्क्षणाच्चापि दैत्यानां श्रीर्बभूव शिरोगता निस्तेजसो बभूवुर्हिः निःश्रीका मदपंडिताः
देवैरपि गृहीतास्ते दैत्याश्च हरणे रणे
ऋष्टिभिः करणैः शूलैस्त्रिशूलैः परिघैर्घनैः
असुरा देवशस्त्रौघैर्जिता इन्द्रेण घातिताः सुरैरपि मुनेस्तस्य देवर्षेर्महिमाऽभवत् ।। 4.58.
ततः स सर्वलोकानां भवाय सततोत्थितः
काष्ठकुडयशिलाभूत ऊर्ध्वबाहुर्महातपाः
नेत्रे ह्यनिमिषे कृत्वा भ्रुवोर्मध्ये विलोकयन्