स्त्रीभिरेवार्चिता दूर्वा सौभाग्यसुखदायिनी
दत्त्वा दानानि विप्रेभ्यः फलं दत्त्वार्चयेत्प्रभोः
भक्षयित्वा सुहृन्मित्रसंबंधिस्वजने तथा
दूर्वाष्टमीति विख्यातं पुण्यं संतानकारकम् 4.56.
मर्त्ये लोके चिरं स्थित्वा ततः स्वर्गं गताः पुनः
मेघावृतेंबरतले हरिते वनांते या साष्टमी शुभफला सफला नभस्ये
कृष्णाष्टमीव्रतवर्णनम् धर्मसंजननं लोके रुद्रप्रीतिकरं परम्
मासि मार्गशिरे प्राप्ते दंतधावनपूर्वकम्
अशक्तशक्तभेदेन गृहान्निष्क्रम्य बाह्यतः
ब्रह्मचारी जितक्रोधः शिवार्चनजपे रतः
शिवलिङ्गं समभ्यर्च्य सुमनोभिः सुगंधिभिः
ततो देवस्य पुरतो होमं कुर्यात्तिलै र्गुरु
गोमूत्रप्राशनं कृत्वा स्वप्याद्भूमौ ततो निशि
एवं पुष्येपि संपूज्य शंभुं नाम महेश्वरम्
माघे माहेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत्
फाल्गुने च महादेवं संपूज्य प्राशयेत्तिलान् 5.57.
चैत्रे च स्थाणुनामानं कृष्णाष्टम्यां शिवं यजेत्
वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम्
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत्
आषाढे चोग्रनामानमिष्ट्वा संप्राश्य गोमयम्
श्रावणे शर्वनामानमिष्ट्वार्कं निशि भक्षयेत्
मासि भाद्रपदेऽष्टम्यां त्र्यंबकं नाम पूजयेत्
भवनामाश्विने पूज्यः प्राशयेत्तंडुलोदकम्
कार्तिके रुद्रनामानं संपूज्य प्राशयेद्दधि
अब्दांते भोजयेद्विप्राञ्छिवभक्तिपरायणान् शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत्
सतिला कृष्णकलशा भक्ष्यभोज्येन संयुताः निवेदयति रुद्राणां गां च कृष्णां पयस्विनीम् ।। 5.57.
वर्षमेकं चरेदेवं नैरन्तर्य्येण यो नरः
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः
अनेन विधिना देवाः सर्वे देवत्वमागताः
ब्रह्मा ब्रह्मत्वमापन्नो ह्यहं विष्णुत्वमागतः