तस्याश्चोपरि विन्यस्तं मथितामृतमुत्तमम्
तत्राप्यमृतकुंभस्य पेतुर्न्निष्यंदबिंदवः
वंद्या पवित्रा देवैस्तु वंदिताभ्यर्चिता पुरा
द्राक्षाक्षोटकपित्थैश्च बर्बरैर्लकुचैस्तथा 4.56.
दध्यक्षतैः सुपुष्पैश्च धूपनैवेद्यदीपकैः
त्वं दूर्वेऽमृतजन्मासि वंदिता च सुरासुरैः
यथा शाखाप्रशाखाभिर्विस्तृतासि महीतले
एवमेषा पुरा पार्थ पूजिता त्रिदशोत्तमैः
पूजिताभ्यर्हिता वाचा गौर्या राजञ्छ्रिया तथा
सुकेश्या च घृताच्या च रंभया च सुकेशया
स्त्रीभिरेवार्चिता दूर्वा सौभाग्यसुखदायिनी
दत्त्वा दानानि विप्रेभ्यः फलं दत्त्वार्चयेत्प्रभोः
भक्षयित्वा सुहृन्मित्रसंबंधिस्वजने तथा
दूर्वाष्टमीति विख्यातं पुण्यं संतानकारकम् 4.56.
मर्त्ये लोके चिरं स्थित्वा ततः स्वर्गं गताः पुनः
मेघावृतेंबरतले हरिते वनांते या साष्टमी शुभफला सफला नभस्ये
कृष्णाष्टमीव्रतवर्णनम् धर्मसंजननं लोके रुद्रप्रीतिकरं परम्
मासि मार्गशिरे प्राप्ते दंतधावनपूर्वकम्
अशक्तशक्तभेदेन गृहान्निष्क्रम्य बाह्यतः
ब्रह्मचारी जितक्रोधः शिवार्चनजपे रतः
शिवलिङ्गं समभ्यर्च्य सुमनोभिः सुगंधिभिः
ततो देवस्य पुरतो होमं कुर्यात्तिलै र्गुरु
गोमूत्रप्राशनं कृत्वा स्वप्याद्भूमौ ततो निशि
एवं पुष्येपि संपूज्य शंभुं नाम महेश्वरम्
माघे माहेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत्
फाल्गुने च महादेवं संपूज्य प्राशयेत्तिलान् 5.57.
चैत्रे च स्थाणुनामानं कृष्णाष्टम्यां शिवं यजेत्
वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम्
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत्
आषाढे चोग्रनामानमिष्ट्वा संप्राश्य गोमयम्