बलदेवं तथा पूज्य सर्वपापैः प्रमुच्यते
ततो वर्द्धापनं षष्ठीनामादिकरणं मम
यथा मम तथा कार्यो भगवत्या महोत्सवः
हिरण्यं काञ्चनं गावो वासांसि कुसुमानि च
यमेवं देवकी देवी वसुदेवादजीजनत् 4.55.
सुजन्मवासुदेवाय गोब्राह्मणहिताय च
एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम्
नरो वा यदि वा नारी यथोक्तफलमाप्नुयात्
पुत्रसंतानमारोग्यं धनधान्यादिसद्गृहम्
तस्मिन्राष्ट्रे प्रभुर्भुंक्ते दीर्घायुर्मनसेप्सितान्
पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं भवेत्
न तत्र मृत निष्क्रांतिर्न गर्भपतनं तथा
न वैद्यजनसंयोगो न चापि कलहो गृहे विष्णुलोकमवाप्नोति सोऽपि पार्थ न संशयः
जन्माष्टमी जनमनोनयनाभिरामा पापापहा सपदि नंदितनंदगोपा
दूर्वाष्टमीव्रतवर्णनम् दूर्वाष्टमीव्रतं पुण्यं यः कुर्याच्छ्रद्धयान्वितः
न तस्य क्षयमाप्नोति संतानं सप्तषौरुषम्
कस्माच्च सा पवित्रा च लोकनाथ ब्रवीहि मे
क्षीरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना
भ्रमितो वै स वेगेन रोमण्युद्धर्षितानि वै
अजायत शुभा दूर्वा रम्या हरितशाद्वला
तस्याश्चोपरि विन्यस्तं मथितामृतमुत्तमम्
तत्राप्यमृतकुंभस्य पेतुर्न्निष्यंदबिंदवः
वंद्या पवित्रा देवैस्तु वंदिताभ्यर्चिता पुरा
द्राक्षाक्षोटकपित्थैश्च बर्बरैर्लकुचैस्तथा 4.56.
दध्यक्षतैः सुपुष्पैश्च धूपनैवेद्यदीपकैः
त्वं दूर्वेऽमृतजन्मासि वंदिता च सुरासुरैः
यथा शाखाप्रशाखाभिर्विस्तृतासि महीतले
एवमेषा पुरा पार्थ पूजिता त्रिदशोत्तमैः
पूजिताभ्यर्हिता वाचा गौर्या राजञ्छ्रिया तथा
सुकेश्या च घृताच्या च रंभया च सुकेशया