अनघं वामनं शौरिं वैकुंठं पुरुषोत्तमम्
वाराहं पुण्डरीकाक्षं नृसिंहं ब्राह्मणप्रियम्
गोविन्दमच्युतं कृष्णमनंतमपराजितम्
अनादिनिधनं विष्णुं त्रैलोक्येशं त्रिविक्रमम्
पीतांबरधरं नित्यं वनमालाविभूषितम् 4.55.
योगेश्वराय योगेशभवाय योगपतये गोविन्दाय नमोनमः ) यज्ञेश्वराय यज्ञसंभवाय यज्ञपतये गोविन्दाय नमोनमः
इत्यनुलेपनार्घ्याद्यर्चनधूपमंत्रः
( इति नैवेद्यमंत्रः
(इति दीपासनमंत्रः गृहाणार्घ्यं शशांकेन्दो रोहिण्या सहितो मम
स्थंडिले स्थापयेद्देवं सचन्द्रां रोहिणीं तथा
बलदेवं तथा पूज्य सर्वपापैः प्रमुच्यते
ततो वर्द्धापनं षष्ठीनामादिकरणं मम
यथा मम तथा कार्यो भगवत्या महोत्सवः
हिरण्यं काञ्चनं गावो वासांसि कुसुमानि च
यमेवं देवकी देवी वसुदेवादजीजनत् 4.55.
सुजन्मवासुदेवाय गोब्राह्मणहिताय च
एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम्
नरो वा यदि वा नारी यथोक्तफलमाप्नुयात्
पुत्रसंतानमारोग्यं धनधान्यादिसद्गृहम्
तस्मिन्राष्ट्रे प्रभुर्भुंक्ते दीर्घायुर्मनसेप्सितान्
पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं भवेत्
न तत्र मृत निष्क्रांतिर्न गर्भपतनं तथा
न वैद्यजनसंयोगो न चापि कलहो गृहे विष्णुलोकमवाप्नोति सोऽपि पार्थ न संशयः
जन्माष्टमी जनमनोनयनाभिरामा पापापहा सपदि नंदितनंदगोपा
दूर्वाष्टमीव्रतवर्णनम् दूर्वाष्टमीव्रतं पुण्यं यः कुर्याच्छ्रद्धयान्वितः
न तस्य क्षयमाप्नोति संतानं सप्तषौरुषम्
कस्माच्च सा पवित्रा च लोकनाथ ब्रवीहि मे
क्षीरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना
भ्रमितो वै स वेगेन रोमण्युद्धर्षितानि वै
अजायत शुभा दूर्वा रम्या हरितशाद्वला