भगवत्पार्श्वतो राजन्बहुरूपं महोत्सवम् शांतिरस्तु सुखं चास्तु लोकाः सन्तु निरामयाः
जन्माष्टमीव्रतं नाम पवित्रं पुरुषोत्तम
येन त्वं तुष्टिमायासि लोकानां प्रभुर व्ययः
उपवासस्य नियमं गृह्णीयाद्भक्तिभावितः
एकेनैवोपवासेन कृतेन कुरुनंदन 4.55.
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह
ततः स्नात्वा च मध्याह्ने नद्यादौ विमले जले
पद्मरागैः पत्रनेत्रैर्मंडितं चर्चितं शुभैः
सर्वं गोकुलवत्कार्यं गोपीजनसमाकुलम्
यवार्धं स्वस्तिका कुड्यैः शंखवादित्रसंकुलम्
धान्ये विन्यस्य मुसलं रक्षितं रक्षपालकैः
एवमादि यथाशेषं कर्तव्यं सूतिकागृहम्
कांचनी राजती ताम्री पैत्तली मृन्मयी तथा
सर्वलक्षणसम्पन्ना पर्यंके चार्द्धसुप्तिका
प्रस्तुता च प्रसूता च तत्क्षणाच्च प्रहर्षिता 4.55.
श्रीवत्सवक्षसं पूर्णं नीलोत्पलदल च्छविम्
तत्र देवगृहं नागा यक्षविद्याधरा नराः
संचरंत इवाकाशे प्राकारैरुदितोदितैः
कश्यपो वसुदेवोयमदिति श्चापि देवकी
नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः
तत्र कंसनियुक्ता ये दानवा विविधायुधाः
गोधेनुकुञ्जराश्चास्य दानवाः शस्त्रपाणयः
लेखनीयश्च तत्रैव कालियो यमुनाह्रदे
तां पार्थ पूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः
बीजपूरैः पूगफलैर्ल्लकुचैस्त्रपुसैस्तथा 4.55.
ध्यात्वावतारं प्रागुक्तं मंत्रेणानेन पूजयेत्
गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणानिनादैर्भृङ्गारादर्शकुम्भप्रमरकृतकरैः सेव्यमाना मुनीन्द्रैः
पादावभ्यंजयंतीं श्रीर्देवक्याश्चरणांतिके
ॐ देवक्यै नमः ॐ बलभद्राय नमः ॐ सुभद्रायै नमः ॐ यशोदायै नमः पूजयेयुर्द्विजाः सर्वे स्त्रीशूद्राणाममंत्रकम्
विध्यंतरमपीच्छंति केचिदत्र द्विजोत्तमाः