बलभद्रं च मां चैव परिष्वज्य मुदा पुनः
यदुभाभ्यां सुपु त्राभ्यां समुद्भूतः समागमः
प्रणिपत्य जनाः सर्वे बभूवुस्ते प्रहर्षिताः
प्रसादः क्रियतां नाथ लोकस्यास्य प्रसादतः
तद्दिने देहि वैकुंठं कुर्मस्तेत्र नमोनमः 4.55.
एवमुक्ते जनौघेन वसुदेवोऽतिविस्मितः एवमस्त्विति लोकानां कथयस्व यथा तथा
ततश्च पितुरादेशात्तथा जन्माष्टमीव्रतम्
पौरजना जन्मदिनं वर्षेवर्षे ममोदितम् क्षत्रिया वैश्यजातीयाः शूद्रा येन्येऽपि धार्मिकाः
सिंहराशिगते सूर्ये गगने जलदाकुले वृषराशिस्थिते चन्द्रे नक्षत्रे रोहिणीयुते
वसुदेवेन देवक्यामहं जातो जनाः स्वयम्
भगवत्पार्श्वतो राजन्बहुरूपं महोत्सवम् शांतिरस्तु सुखं चास्तु लोकाः सन्तु निरामयाः
जन्माष्टमीव्रतं नाम पवित्रं पुरुषोत्तम
येन त्वं तुष्टिमायासि लोकानां प्रभुर व्ययः
उपवासस्य नियमं गृह्णीयाद्भक्तिभावितः
एकेनैवोपवासेन कृतेन कुरुनंदन 4.55.
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह
ततः स्नात्वा च मध्याह्ने नद्यादौ विमले जले
पद्मरागैः पत्रनेत्रैर्मंडितं चर्चितं शुभैः
सर्वं गोकुलवत्कार्यं गोपीजनसमाकुलम्
यवार्धं स्वस्तिका कुड्यैः शंखवादित्रसंकुलम्
धान्ये विन्यस्य मुसलं रक्षितं रक्षपालकैः
एवमादि यथाशेषं कर्तव्यं सूतिकागृहम्
कांचनी राजती ताम्री पैत्तली मृन्मयी तथा
सर्वलक्षणसम्पन्ना पर्यंके चार्द्धसुप्तिका
प्रस्तुता च प्रसूता च तत्क्षणाच्च प्रहर्षिता 4.55.
श्रीवत्सवक्षसं पूर्णं नीलोत्पलदल च्छविम्
तत्र देवगृहं नागा यक्षविद्याधरा नराः
संचरंत इवाकाशे प्राकारैरुदितोदितैः
कश्यपो वसुदेवोयमदिति श्चापि देवकी
नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः