धनधान्यसमायुक्तः. पुत्रपौत्रप्रवर्द्धनः
ततः सुतीर्थे मरणं ध्यात्वा नारायणं विभुम्
वसते यावदासृष्टेः पुनराभूतसंप्लवम्
एषैवं च मयाख्याता गुह्या पार्थ बुधाष्टमी
यश्चाष्टमीं बुधयुतां समवाप्य भक्त्या सम्पूजयेद्विधुसुतं कनपृष्ठसं स्थम्
जन्माष्टमीवर्णनम् कस्मिन्काले समुत्पन्नं किं पुण्यं को विधिः स्मृतः
देवकी मां परिष्वज्य कृत्वोत्संगे रुरोद ह
तत्रैव रंगवाढेन मंचारूढजनोत्सवे
स्वजनैर्बंधुभिः स्निग्धैः सस्त्रीभिः समावृते
समाकृष्य परिष्वज्य पुत्रपुत्रेत्युवाच ह
बलभद्रं च मां चैव परिष्वज्य मुदा पुनः
यदुभाभ्यां सुपु त्राभ्यां समुद्भूतः समागमः
प्रणिपत्य जनाः सर्वे बभूवुस्ते प्रहर्षिताः
प्रसादः क्रियतां नाथ लोकस्यास्य प्रसादतः
तद्दिने देहि वैकुंठं कुर्मस्तेत्र नमोनमः 4.55.
एवमुक्ते जनौघेन वसुदेवोऽतिविस्मितः एवमस्त्विति लोकानां कथयस्व यथा तथा
ततश्च पितुरादेशात्तथा जन्माष्टमीव्रतम्
पौरजना जन्मदिनं वर्षेवर्षे ममोदितम् क्षत्रिया वैश्यजातीयाः शूद्रा येन्येऽपि धार्मिकाः
सिंहराशिगते सूर्ये गगने जलदाकुले वृषराशिस्थिते चन्द्रे नक्षत्रे रोहिणीयुते
वसुदेवेन देवक्यामहं जातो जनाः स्वयम्
भगवत्पार्श्वतो राजन्बहुरूपं महोत्सवम् शांतिरस्तु सुखं चास्तु लोकाः सन्तु निरामयाः
जन्माष्टमीव्रतं नाम पवित्रं पुरुषोत्तम
येन त्वं तुष्टिमायासि लोकानां प्रभुर व्ययः
उपवासस्य नियमं गृह्णीयाद्भक्तिभावितः
एकेनैवोपवासेन कृतेन कुरुनंदन 4.55.
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह
ततः स्नात्वा च मध्याह्ने नद्यादौ विमले जले
पद्मरागैः पत्रनेत्रैर्मंडितं चर्चितं शुभैः
सर्वं गोकुलवत्कार्यं गोपीजनसमाकुलम्
यवार्धं स्वस्तिका कुड्यैः शंखवादित्रसंकुलम्