षष्ठे चेक्षुयन्त्रगतां मस्तके मुद्गराहताम्
सप्तमे पञ्जरे चीर्णस्वनां पूतिकगंधिनीम् श्यामला म्लानवदना किंचिन्नोवाच भामिनी
अथागतं यमं प्राह सरोषा श्यामला पतिम् येनेयं विविधैर्घातैर्वध्यते बहुधा त्वया
यमः प्राह प्रियां दृष्ट्वा भद्रे ह्युद्घाटितास्त्वया
तव मात्रा सुतस्नेहाद्गोधूमा ये हृताः किल
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम् 4.54.
गोधूमास्त इमे भूताः कृमिरूपाः सुदारुणाः
तथापि त्वां समासाद्य सा च जामातरं शुभम्
तच्छ्रुत्वा चिन्तयाविष्टश्चिरं स्थित्वा जगाद ताम्
इतश्च सप्तमेऽतीते जन्मनि ब्राह्मणी शुभा बुधाष्टमी सुसंपूर्णा यथोक्तफलदायिनी
तत्फलं यद्ददास्यस्यै सत्यं कृत्वा ममाग्रतः
ऊर्मिला रूपसंपन्ना दिव्यदेहधरा शुभा
भर्तुः समीपे स्वर्गस्था दृश्यतेऽद्यापि सा जनैः विस्फुरंती महाराज बुधाष्टम्याः प्रभावतः
तस्या एव विधिं ब्रूहि यदि तुष्टोसि मे प्रभो
यदायदा सिताष्टम्यां बुधवारो भवेद्यदि
स्नात्वा नद्यां तु पूर्वाह्ने गृहीत्वा कलशं नवम् 4.54.
अष्टवारान्प्रकर्तव्या विधानैस्तु पृथक्पृथक्
तृतीया घृतपूपैश्च चतुर्थी वटकैर्नृप
अशोकवर्तिभिः शुभ्रैः सप्तमी खंडसंयुतैः एवं क्रमेण कर्तव्या सुहृत्स्वजनबांधवैः
सह कृत्वा स्थितैर्भोज्यं भोक्तव्यं स्वस्थमानसैः
श्रुत्वाष्टमी बुधस्यापि माहात्म्यं भोजनं त्यजेत्
तथा भुक्त्वा बुधस्याग्रे आचम्य च पुनःपुनः
साक्षतं सहिरण्यं च जातरूपमयं शुभम्
पीतवस्त्रैः समाच्छन्नं बुधं सोमात्मजाकृतिम्
ॐ बुधाय नमः ॐ दुर्बुद्धिनाशनाय नमः ॐ ताराजाताय नमः ॐ सर्वसौख्यप्रदाय नमः अष्टमी तु यदा पूर्णा तदा राजर्षिसत्तम
वस्त्रालंकरणैः सर्वैर्भूषणैर्विविधैरपि मन्त्रेणानेन कौंतेय दद्यादेवं समाचरन् ।। 4.54.
बुधोऽयं प्रतिगृह्णातु द्रव्यस्थोऽयं बुधः स्वयम्
(इति दानमंत्र ।) बुधः सौम्यस्तारकेयो राजपुत्र इलापतिः
( इति प्रतिग्रहणमंत्रः ।) सौख्यं च सौमनस्यं च करोतु शशिनंदनः
इत्युच्चार्य गृहीत्वा तु दद्यान्मंत्रपुरःसरम्