ततस्तं ब्राह्मणे दद्याद्दत्त्वा मंत्रेण तालकम्
दुष्टदौर्भाग्यदुःखेभ्यो मया दत्तं तु तालकम्
सपुत्रपशुभृत्याय मेऽर्कोयं प्रीयतामिति
विप्रानन्यान्यथाशक्त्या पूजयित्वा गृहं व्रजेत्
अचलासप्तमीस्नानं सर्वकामफलप्रदम्
इति पठति य इत्थं यः शृणोति प्रसंगात्कलिकलुषहरं वै सप्त मीस्नानमेतत्
बुधाष्टमीव्रतवर्णनम् येन चीर्णेन नरकं नरः पश्यति न क्वचित्
पुरा कृतयुगस्यादौ इलो राजा बभूव ह
जगाम हिमवत्पार्श्वे महादेवेन वारितः
स राजा मृगसंगेन प्राविशत्तदुमावने
सा बभ्राम वने शून्ये पीनोन्नतपयोधरा
तां ददर्श बुधः सौम्यां रूपौदार्यगुणान्विताम्
दधौ गर्भं तदुदरे इलाया रूपतोषितः
चंद्रवंशकरो राजा आद्यः सर्वमहीक्षिताम्
सर्वपापप्रशमनी सर्वोपद्रवनाशिनी
आसीद्राजा विदेहानां मिथिलायां स वैरिभिः 4.54.
ऊर्मिला नाम बभ्राम महीं बालकसंयुता
चकारोदरपूर्त्यर्थं नित्यं कंडनपेषणे
कारुण्यान्मातृवात्सल्यात्क्षुधासंपीड्यमानयोः
पुत्रस्तस्या विदेहायां गत्वा स्वपितुरासने
अन्विष्य धर्मराज्ञो वै सा कन्या मिथिवंशजा
श्यामला नाम चार्वंगी प्रसिद्धा श्रूयते श्रुतौ
वहस्व सर्वव्यापारं श्यामले त्वं गृहे मम
किं त्वेते पंजराः सप्त कीलकैरतियंत्रिताः
एवमस्त्विति साप्युक्ता निजं कर्म चकार ह उद्धाटयित्वा प्रथमं ददर्श जननीं स्वकाम्
सा पच्यमाना क्रंदंती भीषणैर्यमकिंकरैः 4.54.
तथैव तालकं दत्त्वा व्रीडिता सा मनस्विनी
सुधावल्लिप्यमानां तां शिलातल्पेष्टकेन तु क्रकचैः पाट्यते मूर्ध्नि घण्टायुक्तैः करोल्बणैः
चतुर्थे पञ्जरे स्थाने भीषणैर्दारुणाननैः
पञ्चमे निहिता भूमौ कण्ठे पादेन पीडिता