तपःसौभाग्यजननं स्नानं तव वरानने
कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम्
माघस्य सितसप्तम्यामचलं चालितं मया
वशिष्ठवचनं श्रुत्वा तस्मिन्नहनि भूपते
त्र्यहस्नानप्रभावेण भुक्त्वा भोग्यान्यथेप्सितान्
अचलासप्तमीस्नानं कथितं च विशांपते
सप्तमीस्नानमाहात्म्यं श्रुतं न च विशेषतः
सप्तम्यां तु व्रजेत्प्रातः सुगंभीरं जलाशयम् ।। 4.53.
सरित्संगं तडागं च देवखातमथापि वा
पशुभिः पक्षिभिश्चैव जलजैर्मत्स्यकच्छपैः
नमस्ते रुद्ररूपाय रसानां पतये नमः
यावज्जन्म कृतं पापं मया जन्मसु सप्तसु
जननी सर्वभूतानां सप्तमी सप्तसप्तिके
जलोपरितरं दीपं स्नात्वा संतर्प्य देवताः
मध्ये शर्वं सपत्नीकं प्रणवेन तु पूजयेत्
याम्ये विवस्वान्नैर्ऋत्ये भास्करस्येति पूजयेत्
सौम्ये सहस्रकिरणः शेषे सर्वात्मनेति च
पुष्पैः सुगन्धधूपैश्च वस्त्रेणाच्छाद्य भास्करम् 4.53.
ताम्रपात्रे सुविस्तीर्णे मृन्मये वा युधिष्ठिर
काञ्चनं तालकं कृत्वा ह्यसिक्तस्तिलचूर्णकम्
ततस्तं ब्राह्मणे दद्याद्दत्त्वा मंत्रेण तालकम्
दुष्टदौर्भाग्यदुःखेभ्यो मया दत्तं तु तालकम्
सपुत्रपशुभृत्याय मेऽर्कोयं प्रीयतामिति
विप्रानन्यान्यथाशक्त्या पूजयित्वा गृहं व्रजेत्
अचलासप्तमीस्नानं सर्वकामफलप्रदम्
इति पठति य इत्थं यः शृणोति प्रसंगात्कलिकलुषहरं वै सप्त मीस्नानमेतत्
बुधाष्टमीव्रतवर्णनम् येन चीर्णेन नरकं नरः पश्यति न क्वचित्
पुरा कृतयुगस्यादौ इलो राजा बभूव ह
जगाम हिमवत्पार्श्वे महादेवेन वारितः
स राजा मृगसंगेन प्राविशत्तदुमावने