एकस्मिन्दिवसे प्रातः सुमुखस्थितया तया
सन्निमज्य जगदिदं विषये कायसागरे
ये यांति दिवसाः पुंसां धर्मकामार्थवर्जिताः
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम्
पुत्राणां दारगृहकसमासक्तं हि मानसम्
इत्येवं चिंतयित्वा तु वेश्या चेन्दुमती ततः
वशिष्ठमृषिमासीनं प्रणम्य विनयात्ततः १- इन्दुमत्युवाच दशध्वजसमा वेश्या दशवेश्यासमो नृपः
मया न दत्तं न हुतं नोपवासो व्रतं कृतम् 4.53.
सांप्रतं वर्तमानाया व्रतं किंचिद्वदस्व मे
एतदस्याः सुबहुशः श्रुत्वा धर्मं परंतपः
तपःसौभाग्यजननं स्नानं तव वरानने
कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम्
माघस्य सितसप्तम्यामचलं चालितं मया
वशिष्ठवचनं श्रुत्वा तस्मिन्नहनि भूपते
त्र्यहस्नानप्रभावेण भुक्त्वा भोग्यान्यथेप्सितान्
अचलासप्तमीस्नानं कथितं च विशांपते
सप्तमीस्नानमाहात्म्यं श्रुतं न च विशेषतः
सप्तम्यां तु व्रजेत्प्रातः सुगंभीरं जलाशयम् ।। 4.53.
सरित्संगं तडागं च देवखातमथापि वा
पशुभिः पक्षिभिश्चैव जलजैर्मत्स्यकच्छपैः
नमस्ते रुद्ररूपाय रसानां पतये नमः
यावज्जन्म कृतं पापं मया जन्मसु सप्तसु
जननी सर्वभूतानां सप्तमी सप्तसप्तिके
जलोपरितरं दीपं स्नात्वा संतर्प्य देवताः
मध्ये शर्वं सपत्नीकं प्रणवेन तु पूजयेत्
याम्ये विवस्वान्नैर्ऋत्ये भास्करस्येति पूजयेत्
सौम्ये सहस्रकिरणः शेषे सर्वात्मनेति च
पुष्पैः सुगन्धधूपैश्च वस्त्रेणाच्छाद्य भास्करम् 4.53.
ताम्रपात्रे सुविस्तीर्णे मृन्मये वा युधिष्ठिर
काञ्चनं तालकं कृत्वा ह्यसिक्तस्तिलचूर्णकम्