अहन्यहनि भूतानि म्रियन्ते जनयन्ति च
यो विवेकं समासाद्य कुरुते कर्मसंग्रहम्
संसाराजगरं ज्ञात्वा वैराग्यं योऽकरोद्भुवि 3.2.18.
संकल्पाज्जायते कामस्ततो लोभः प्रजायते
जलप्रकृत्यां यो जातो रसो रसविकारवान्
रुद्रात्काल्यां समुद्भूतो मोहो हृदि च लोकहा
मिथ्यादृष्टिस्ततो जाता मोहस्य दयिताभवत्
तयोः सकाशात्संजातं दुःखं शोकसमन्वितम्
मानी शूरश्च चतुरोऽधिकारी गुणवान्सखा
तस्यै गर्भं च विप्रोऽसौ दत्त्वा स्वर्णं गृहीतवान्
कदाचिद्दशमासांते मोहिनीमब्रवीच्छिवः
दोलामध्ये सहस्रं च स्वर्णं चैव स्वबालकम्
शिवेन बोधितो राजा सुतार्थी रुद्रपूजकः 3.2.18.
कारयित्वा जातकर्म विततार धनं बहु
पितुरन्ते च तद्राज्यं प्राप्य धर्मं प्रकाशयन्
त्रयो हस्तास्तदा जाताः स राजा विस्मितोऽभवत्
इत्युक्त्वा स तु वैतालो नृपतिं प्राह भो नृप
द्रव्यार्थी पंडितो ज्ञेयो गुरुतुल्यश्च भूपतिः
निरयान्निःसृतो विप्र स्वर्गलोकं समागतः
चित्रकूटे च नृपती रूपदत्त इति श्रुतः
मध्याह्ने सरसस्तीरे मुनिपुत्रो ददर्श सः
तस्या नेत्रे स्वयं नेत्रे चैकीभूते समागते
तस्य दर्शनमात्रेण नृपतेर्ज्ञानमागतम्
तमुवाच मुनिर्द्धीमान्दयाधर्मप्रपोषणम् ।। । निर्भयस्य समं दानं न भूतं न भविष्यति
अनर्हान्दण्डमादद्यादर्हपूजाफलं भजेत्
सत्यता सुरपूजायां दमता गुरुपूजने
इत्युक्त्वा स मुनिः पुत्रीं तस्मै दत्त्वा गृहं ययौ
तदा तु राक्षसः कश्चित्तत्पत्नीभक्षणोत्सुकः
दानार्थं चैव क्रव्यादे सप्तवर्षात्मकं द्विजम् 3.2.19.१
अमात्यैः संमतं कृत्वा स्वर्णलक्षं ददौ द्विजे