पंचरत्नफलैर्युक्ताञ्छाखाभिरपि वेष्टितान्
सुशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत्
गृहीत्वा ब्राह्मणं चात्र सौरान्मन्त्रानुदीरयेत्
भोजिताभिर्यथाशक्ति माल्यवस्त्रविभूषणैः
दीर्घायुरस्तु बालोऽयं जीवपुत्रा च भाविनी
शक्रः सलोकपालो वै ब्रह्मा विष्णुर्महेश्वरः
माशनिर्मा स हुतभुङ्मा च बालग्रहा क्वचित्
ततः शुक्लाम्बरधराः कुमारं पतिसंयुताः
काञ्चनीं च ततः कृत्वा तिलपात्रोपरि स्थिताम् 4.52.
वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः भुक्त्वा च गुरुणा चेयमुच्चार्या मंत्रसंततिः
दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं सुखी
ब्रह्मा रुद्रो विष्णुः स्कन्दो वायुः शक्रो हुताशनः
एवमादीनि चान्यानि वदतः पूजयेद्गुरून्
चरुं च पुत्रसहिता प्रणम्य रविशंकरौ
अयमेवाद्भुतं योगो ह्यद्भुतेषु च शस्यते शांत्यर्थं शुक्लसप्तम्यामेतत्कुर्वन्न सीदति
पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः
स चानेन विधानेन कार्तवीर्योऽर्जुनो नृपः
आरोग्यं भास्कारादिच्छेद्धनमिच्छेद्धुताशनात्
एतन्महापातकनाशनं स्यादप्यक्षयं वेदविदः पठंति 4.52.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्नपनसप्तमीव्रतवर्णनं नाम द्विपंचाशत्तमोऽध्यायः
अचलासप्तमीव्रतवर्णनम् अध्रुवेण शरीरेण सुपक्वेनापि किं फलम्
प्रातःस्नानासमर्थानां शरीरं पश्य देहिनाम्
कायक्लेशसहा नार्यो न भवंति यदूत्तम
कथं च ताः सुरूपाः स्युः सुभगाः सुप्रजास्तथा
अल्पायासेन सुमहद्येन पुण्यमवाप्यते
यन्मया कस्यचिन्नोक्तमचलासप्तमीव्रतम्
वेश्या चेन्दुमती नाम रूपौदार्यगुणान्विता
तनुमध्या सुजघना पीनोन्नतपयोधरा
सौंदर्यं सौकुमार्यं च तस्याः कामेन गीयते
मूर्तिः शशधरस्येव नयनानन्दकारिणी 4.53.