भविष्यति चिरंजीवी किं तु कल्मषनाशनम्
जातस्य मृतवत्सायाः सप्तमे मासि भूपते
बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः
गोमयेनोपलिप्तायां भूमावेकाग्रचित्तवान्
निर्वपेत्सूर्यमुद्गाभ्यां मातृभ्योपि विधानतः
जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय भारत
यवकृष्णतिलैर्होमः कर्तव्योष्टशतं पुनः
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना
पञ्चमं च पुनर्मध्ये चाक्षतेन विभूषितम् 4.52.
सौरेण तीर्थतोयेन पूर्णचन्द्रमलान्वितम्
पंचरत्नफलैर्युक्ताञ्छाखाभिरपि वेष्टितान्
सुशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत्
गृहीत्वा ब्राह्मणं चात्र सौरान्मन्त्रानुदीरयेत्
भोजिताभिर्यथाशक्ति माल्यवस्त्रविभूषणैः
दीर्घायुरस्तु बालोऽयं जीवपुत्रा च भाविनी
शक्रः सलोकपालो वै ब्रह्मा विष्णुर्महेश्वरः
माशनिर्मा स हुतभुङ्मा च बालग्रहा क्वचित्
ततः शुक्लाम्बरधराः कुमारं पतिसंयुताः
काञ्चनीं च ततः कृत्वा तिलपात्रोपरि स्थिताम् 4.52.
वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः भुक्त्वा च गुरुणा चेयमुच्चार्या मंत्रसंततिः
दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं सुखी
ब्रह्मा रुद्रो विष्णुः स्कन्दो वायुः शक्रो हुताशनः
एवमादीनि चान्यानि वदतः पूजयेद्गुरून्
चरुं च पुत्रसहिता प्रणम्य रविशंकरौ
अयमेवाद्भुतं योगो ह्यद्भुतेषु च शस्यते शांत्यर्थं शुक्लसप्तम्यामेतत्कुर्वन्न सीदति
पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः
स चानेन विधानेन कार्तवीर्योऽर्जुनो नृपः
आरोग्यं भास्कारादिच्छेद्धनमिच्छेद्धुताशनात्
एतन्महापातकनाशनं स्यादप्यक्षयं वेदविदः पठंति 4.52.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्नपनसप्तमीव्रतवर्णनं नाम द्विपंचाशत्तमोऽध्यायः