पञ्चगव्यं च संप्राश्य स्वप्याद्भूमौ विमत्सरः
अनेन विधिना दद्यान्मासिमासि सदा नरः
संवत्सरांते शयनमिक्षुदण्डगुडान्वितम्
ताम्रपात्रं तिलप्रस्थं सौवर्णवृषसंयुतम्
अनेन विधिना राजन्कुर्याद्यः शुभसप्तमीम् 4.51.
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये
स कल्पादवतीर्णस्तु सप्तद्वीपाधिपो भवेत्
नाशङ्करोति पुण्येयं कृता वै शुभसप्तमी
इमां पठेद्यः शृणुया न्मुहूर्तं वीक्षेत संगादपि दीयमानम्
स्नपनसप्तमीव्रतवर्णनम् युधिष्ठिर उवाच मृतवत्सादिकार्येषु दुःस्वप्ने च किमिष्यते
रोगर्दौर्गत्यरूपेण तथैवेष्टविघातनैः
तद्विघाताय वक्ष्यामि सदा कल्याणसप्तमीम्
बालानां मरणं यत्र क्षीरपानं प्रशस्यते
शान्तये तत्र वक्ष्यामि मृतवत्सादिके च यत्
वराहकल्पे संप्राप्ते मनोर्वैवस्वतेंऽतरे
आसीन्नृपोत्तमः पूर्वं कृतवीर्यः प्रतापवान्
यावद्वर्षसहस्राणि सप्तसप्तति भारत
यवनस्य तु शापेन विनाशमगमत्पुरा
उपवासव्रतैर्दिव्यैर्वेदसूक्तैश्च भारत 4.52.१
कृतवीर्येण वै पृष्टः प्रोवाचेदं बृहस्पतिः
भविष्यति चिरंजीवी किं तु कल्मषनाशनम्
जातस्य मृतवत्सायाः सप्तमे मासि भूपते
बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः
गोमयेनोपलिप्तायां भूमावेकाग्रचित्तवान्
निर्वपेत्सूर्यमुद्गाभ्यां मातृभ्योपि विधानतः
जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय भारत
यवकृष्णतिलैर्होमः कर्तव्योष्टशतं पुनः
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना
पञ्चमं च पुनर्मध्ये चाक्षतेन विभूषितम् 4.52.
सौरेण तीर्थतोयेन पूर्णचन्द्रमलान्वितम्