इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः
सर्वे ह्युपशमं यांति पुनः संततिवर्द्धिनी
कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम्
इदमनघ शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके
कमलासप्तमीव्रतवर्णनम् यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः
वसंतेऽमलसप्तम्यां स्नातः सन्गौरसर्षपैः
वस्त्रयुग्मवृतं कृत्वा गंधपुष्पैरथार्चयेत्
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते
विप्राय दद्यात्संपूज्य वस्त्रमाल्यविभूषणैः
यथाशक्त्याथ भुञ्जीत विमांसं तैलवर्जितम्
सर्वं समाचरेद्भक्त्या वित्त शाठ्यविवर्जितः
गावं स दद्याच्छक्त्या तु सुवर्णाढ्यां पयस्विनीम्
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम्
कल्पेकल्पे तथा लोकान्सप्त गत्वा पृथक्पृथक् 4.50.
यः पश्यतीदं शृणुयान्मुहूर्तं पठेच्च भक्त्या सुमतिं ददाति
शुभसप्तमीव्रतवर्णनम् यामुपोष्य नरो रोगाच्छोकदुःखात्प्रमुच्यते
पुण्य आश्वयुजे मासि कृतस्नानः पयः शुचिः
कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः
त्वामहं शुभकल्याणशरीरां सर्वसिद्धये
काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितम्
पञ्चगव्यं च संप्राश्य स्वप्याद्भूमौ विमत्सरः
अनेन विधिना दद्यान्मासिमासि सदा नरः
संवत्सरांते शयनमिक्षुदण्डगुडान्वितम्
ताम्रपात्रं तिलप्रस्थं सौवर्णवृषसंयुतम्
अनेन विधिना राजन्कुर्याद्यः शुभसप्तमीम् 4.51.
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये
स कल्पादवतीर्णस्तु सप्तद्वीपाधिपो भवेत्
नाशङ्करोति पुण्येयं कृता वै शुभसप्तमी
इमां पठेद्यः शृणुया न्मुहूर्तं वीक्षेत संगादपि दीयमानम्
स्नपनसप्तमीव्रतवर्णनम् युधिष्ठिर उवाच मृतवत्सादिकार्येषु दुःस्वप्ने च किमिष्यते