तदा सा तु महापुण्या विजया तु निगद्यते
प्रातर्गव्येन पयसा स्नानमस्यां समाचरेत्
प्राङ्मुखोष्टदलं मध्ये तद्विचित्रां च कर्णिकाम्
पूर्वेण तपनायेति मार्तण्डायेति वै नमः
पश्चिमे वरुणायेति भास्करायेति वानिले
आदावंते च तन्मध्ये नमोऽस्तु परमात्मने
शुक्लवस्त्रफलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः
ततो व्याहृतिहोमेन विभज्य द्विजपुङ्गवान्
तिलपात्रं हिरण्यं च गुरवे च निवेदयेत् 4.48.
कृतस्नानजपो विप्रैः सहैव घृतपायसम्
एवं संवत्सरस्यांते कृत्वैतदखिलं नृप
घृतपात्रं सकरकं सोदकुम्भं निवेद येत्
एकामपि प्रदद्याद्गां वित्तहीनो विमत्सरः
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम्
यश्चाष्टपत्रकमलोदरकर्णिकायां संपूजयेत्कुसुमधूपविलेपनायैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्याणसप्तमीव्रतवर्णनं नामाष्टचत्वारिंशोऽध्यायः
शर्करासप्तमीव्रतवर्णनम् आयुरारोग्यमैश्वर्यं ययानंतं प्रजायते
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः
स्थंडिले पद्ममालिख्य कुंकुमेन सकर्णिकम्
स्थापयेदुदकुंभं च शर्करापात्रसंयुतम्
सुवर्णाश्वसमायुक्तं मंत्रेणानेन पूजयेत्
त्वमेवामृतसर्वस्वमतः पाहि सनातन
अहोरात्रे गते पश्चादष्टम्यां कृतनित्यकः
भोजयेच्छक्तितो विप्राञ्छर्कराघृतपायसैः
अनेन विधिना सर्वं मासिमासि समाचरेत्
शयनं वस्त्रसंवीतं शर्कराकलशान्वितम् ।। । सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ।। 4.49.
गृहं च शक्तितो दद्यात्समस्तोपस्करान्वितम्
दशभिर्द्वित्रिभिर्निष्कैस्तदर्धेनापि भक्तितः
वित्तशाठ्यं न कुर्वीत कुर्वन्दोषान्स मश्नुते
निपेतुरेत उत्थाय शालिमुद्गेक्षवः स्मृताः