अकस्माद्वैश्यजा प्राप्ता तत्करं सा तदास्पृशत्
हा रामकृष्ण प्रद्युम्नानिरुद्धेति पुनःपुनः
द्विज आह च विप्रोऽहं त्र्यहं शूल्यां निरूपितः
श्रुत्वा धनवती तस्मा उद्वाह्य मोहिनीं सुताम् 3.2.18.
द्विजः प्राह शृणु व्यंगे यदा ते हृच्छयो भवेत्
इत्युक्त्वा मरणं प्राप्य यमलोकं गतो द्विजः
मातुर्गृहे तु सा नारी मोहिनी यौवनान्विता
के भोगाश्च किमाश्चर्यं को जागर्ति शयीत कः
इति श्लोकं द्विजानाह नोत्तरं च ददुर्द्विजाः
तामुवाच प्रसन्नात्मा शृणु मोहिनि सुंदरि शय्या च भूषणं ज्ञेयो भोगो ह्यष्टविधो बुधैः
अहन्यहनि भूतानि म्रियन्ते जनयन्ति च
यो विवेकं समासाद्य कुरुते कर्मसंग्रहम्
संसाराजगरं ज्ञात्वा वैराग्यं योऽकरोद्भुवि 3.2.18.
संकल्पाज्जायते कामस्ततो लोभः प्रजायते
जलप्रकृत्यां यो जातो रसो रसविकारवान्
रुद्रात्काल्यां समुद्भूतो मोहो हृदि च लोकहा
मिथ्यादृष्टिस्ततो जाता मोहस्य दयिताभवत्
तयोः सकाशात्संजातं दुःखं शोकसमन्वितम्
मानी शूरश्च चतुरोऽधिकारी गुणवान्सखा
तस्यै गर्भं च विप्रोऽसौ दत्त्वा स्वर्णं गृहीतवान्
कदाचिद्दशमासांते मोहिनीमब्रवीच्छिवः
दोलामध्ये सहस्रं च स्वर्णं चैव स्वबालकम्
शिवेन बोधितो राजा सुतार्थी रुद्रपूजकः 3.2.18.
कारयित्वा जातकर्म विततार धनं बहु
पितुरन्ते च तद्राज्यं प्राप्य धर्मं प्रकाशयन्
त्रयो हस्तास्तदा जाताः स राजा विस्मितोऽभवत्
इत्युक्त्वा स तु वैतालो नृपतिं प्राह भो नृप
द्रव्यार्थी पंडितो ज्ञेयो गुरुतुल्यश्च भूपतिः
निरयान्निःसृतो विप्र स्वर्गलोकं समागतः
चित्रकूटे च नृपती रूपदत्त इति श्रुतः