प्रयागनगरे रम्ये भूमिराजयमचीकरत्
मायादेवीप्रसन्नार्थे शतं यज्ञमचीकरत्
तस्य पुत्रो बुधो नाम मेरुदेवस्य वै सुतः
चतुर्दशसहस्राणि भूमिराज्यमचीकरत्
आयुर्नाम सुतो जातो धर्मात्मा विष्णुतत्परः
गंधर्वलोकं संप्राप्य मोदते दिवि देववत्
पितुस्तुल्यं कृतं राज्यं ततः शक्रत्वमागतः
मुनेर्दुवाससः शापान्नृपोऽजगरतां गतः
द्वौ तथार्यत्वमापन्नौ यदुज्येष्ठः पुरुर्लघुः
कृत्वा विष्णुप्रसादेन ततो वैकुण्ठमागतः 3.1.2.
वृजिनघ्नस्सुतस्तस्माद्राज्यं विंशत्सहस्रकम्
तस्माच्चित्ररथः पुत्रः कृतं राज्यं पितुस्समम्
अथ श्रवास्ततो जातस्तेजस्वी विष्णुतत्परः
पितुस्तुल्यं कृतं राज्यं तस्मादुशनस्सुतः
पितुस्तुल्यं कृतं राज्यं कमलांशुस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं पारावतसुतस्ततः
पितुस्तुल्यं कृतं राज्यं विदर्भस्तत्सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं कुन्तिभोजस्तु तत्सुतः
उषित्वा नगरे तस्मिन्मायाविद्यस्ततोऽभवत्
दशवर्षसहस्राणि राज्यं कृत्वा दिवं गतः 3.1.2.
पितुस्तुल्यं कृतं राज्यं प्रचिन्वांस्तत्सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं नभस्यस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं सुद्युम्नस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं संयातिस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यमैन्द्राश्वस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं तत्पुत्रः सुतपाः स्मृतः
हिमालयगिरौ प्राप्ते तपः कर्तुं मनो दधत्
संवरणाय ददौ तुष्टो रविलोकं नृपो गतः
चत्वारः सागरा वृद्धा भारतं क्षयतां गतम्
महावायुप्रभावेन सागराः शुष्कतां गताः 3.1.2.