श्री गणेशाय नमः । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् । जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति । मूकङ्करोति वाचालं पङ्गु लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् । नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे । विप्राय वेदविदुषे च बहुश्रुताय । पुण्यं समं भवति तस्य च तस्य चैव । कृत्वा पुराणानि पराशरात्मजः सर्वाण्यनेकानि सुखावहानि । तत्रात्मसौख्याय भविष्यधर्मान् कलौ युगे भावि लिलेख सर्वम् । तत्रापि सर्वर्षिवरप्रमुख्यैः पराशराद्यैर्मुनिभिः प्रणीतान् । स्मृत्युक्तधर्मागमसंहितार्थान् व्यासः समासादवदद्भविष्यम् । अल्पायुषो लोकजनान्समीक्ष्य विद्याविहीनान्पशुवत्सुचेष्टान् । तेषां सुखार्थं प्रतिबोधनाय व्यासः पुराणं प्रथितं चकार । जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः । जयति च स तु देवो भानुमांश्चित्रभानुः
श्रियावृतं तु राजानं शतानीकं महाबलम् । अभिजग्मुर्महात्मानः सर्वे द्रष्टुं महर्षयः
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । पराशरस्तथा व्यासः सुमन्तुर्जैमिनिस्तथा
मुनिः पैलो याज्ञवल्क्यो गौतमस्तु महातपाः । भारद्वाजो मुनिर्धीमांस्तथा नारदपर्वतौ
वैशम्पायनो महात्मा शौनकश्च महातपाः । दक्षोऽङ्गिरास्तथा गर्गो गालवश्च महातपाः
तानागतानृषीन्दृष्ट्वा शतानीको महीपतिः । विधिवत्पूजयामास अभिगम्य महामतिः
पुरोहितं पुरस्कृत्य अर्ध्यं गां स्वागतेन च । पूजयित्वा ततः सर्वान्प्रणम्य शिरसा भृशम्
सुखासीनांस्ततो राजा निरातङ्कान् गतक्लमान् । उवाच प्रणतो भूत्वा बाहुमुद्धृत्य दक्षिणम्
इदानीं सफलं जन्म मन्येऽहं भुवि सत्तमाः । आत्मनो द्विजशार्दूला! तथा कीर्तिर्यशो बलम्
धन्योऽहं पुण्यकर्मा च यतो मां द्रष्टुमागताः । येषां स्मरणमात्रेण युष्माकं पूयते नरः
श्रोतुमिच्छाम्यहं किञ्चिद्धर्मशास्त्रमनुत्तमम् । आनृशंस्यं समाश्रित्य कथयध्वम् महाबलाः!
येनाहं धर्मशास्त्रं तु श्रुत्वा गच्छे परां गतिम् । यथागतो मम पिता श्रुत्वा वै भारतं पुरा
तथोक्तास्तेन राज्ञा वै ब्राह्मणास्ते समन्ततः । समागम्य मिथस्ते तु विमृश्य च भृशम् तदा
पूजयित्वा ततो व्यासमिदं वचनमब्रुवन् । व्यासं प्रसादय विभो! एष ते कथयिष्यति
तिष्ठत्यस्मिन्महाबाहो! वयं वक्तुं न शक्नुमः । तिष्ठमाने गुरौ शिष्यः कथं वक्ति महामते!
अयं गुरुः सदास्माकं साक्षान्नारायणस्तथा । कृपालुश्च तथा चायं तथा दिव्यविधानवित्
चतुर्णामपि वर्णानां पावनाय महात्मनाम् । धर्मशास्त्रमनेनोक्तं धर्माद्यैः सुसमन्वितम्
बिभेति गहनाच्छास्त्राल्लोको व्याधिरिवौषधात् । भारतस्य च विस्तारो मुनिना व्याहृतः स्वयम्
यथा स्वादु च पथ्यं च दद्यास्त्वं भिषगौषधम् । तथा रम्यं च शास्त्रं च भारतं कृतवान्मुनिः
आस्तिक्यारोहसोपानमेतद्भारतमुच्यते । तच्छ्रुत्वा स्वर्गनरकौ लोकः साक्षादवेक्षते
देवतातीर्थतपसां भारतादेव निश्चयः । न जन्यते नास्तिकता तस्य मीमांसकैरपि
विष्णौ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च । भक्तिर्भवति कल्याणी भारतादेव धीमताम्
धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि । अजिह्मो भारतः पन्था निर्वाणपदगामिनाम्
मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः । अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये
विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् । दुःखावसानाद्राजेन्द्र! पुण्यं च संश्रयेद्बुधः
एवंविधं भारतं वै प्रोक्तं येन महात्मना । सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः
स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः । प्रसादयामास मुनिं व्यासं शास्त्रविशारदम्
शतानीक उवाच अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं पादयोस्तव । ब्रूहि मे धर्मशास्त्रं तु येना पूततां व्रजे
समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् । यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम्
व्यास उवाच तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् । एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो!