कृतयुगभूपाख्यानम् श्रीगणेशाय नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
अष्टाविंशे सत्ययुगे के राजानोऽभवन्मुने
प्राप्ते सप्तमुहूर्ते च मनुर्वैवस्व तोऽभवत
स तप्त्वा सरयूतीरे तपो दिव्यं शतं समाः
ब्रह्मणो वरदानेन दिव्यं यानं स आप्तवान्
षट्त्रिंशच्च सहस्राणामब्दं राज्यं तदाऽकरोत्
राज्यं कृत्वा दिवं यातस्तस्माज्जातो रिपुंजयः
शतहीनं कृतं राज्यं ततोऽनेनांस आत्मजः
शतहीनं कृतं राज्यं विष्वगश्वश्च तत्सुतः
शतहीनं कृतं राज्यं भद्राश्वस्तत्सुतोऽभवत् 3.1.1.
शतहीनं कृतं राज्यं श्रवस्थस्तत्सुतोऽभवत्
उदयादस्तपर्यंतं तैर्नृपैर्भूमिमंडलम् शतहीनं कृतं राज्यं बृहदश्वस्ततोऽभवत्
शतहीनं कृतं राज्यं तस्मात्कुवलयाश्वकः
सहस्रहीनं राज्यं तत्तस्मात्पुत्रो निकुंभकः
सहस्रहीनं राज्यं तत्तस्माज्जातः प्रसेनजित्
सहस्रहीनं राज्यं तन्मांधाता तत्सुतोऽभवत्
शतहीनं कृतं राज्यं त्रिंशदश्वस्तु तत्सुतः
अनरण्यस्ततो जातो ह्यष्टाविंशत्सहस्रकम्
पृषदश्वस्ततो जातो राज्यं षष्ठसहस्रकम्
हर्यश्वस्तु ततो जातो विष्णुभक्तकुले नृपः 3.1.1.
सहस्रहीनं राज्यं तत्त्रिधन्वा तनयस्ततः
सत्यपादः समाप्तोऽयं द्वितीयो भारतेऽन्तरे
सहस्रहीनं राज्यं तत्कृत्वा स्वर्गमुपाययौ
छद्मना हीनतां जातो हरिश्चंद्रस्तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं हारीतस्तनयोऽभवत्
पितुस्तुल्यं हि राज्यं तद्विजयो नाम तत्सुतः
पितुस्तुल्यं कृतं राज्यं सगरस्तनयोऽभवत्
राज्यमानं कृतं सम्यग्भूपैर्वैवस्वतादिभिः
पूर्णो धर्मस्तदा भूम्यां मुने सत्ययुगस्य वै
शिवभक्तः सदाचारस्तत्पुत्राः सागराः स्मृताः 3.1.1.