विसर्जयेद्दर्शयित्वा मुद्रां तु भरतर्षभ । । अंकुशं नरशार्दूल ह्याह्वाने कंजमादिशेत्
मुद्रा दाखवून, हे भरतश्रेष्ठा, देवतेला नम्रपणे निरोप द्यावा. बोलावण्यासाठी, हे नरश्रेष्ठा, कमळ दाखवावे.
यस्त्वेवं पूजयेद्देवं प्रतिपन्नित्यमेव च । । उपोष्य पंचदश्यां तु स याति परमं पदम्
जो कोणी अशा प्रकारे, नेहमी ठरलेल्या दिवशी देवाची पूजा करतो आणि पंधराव्या दिवशी उपवास करतो, तो परमपदाला पोहोचतो.
सुमंतु रुवाच । । । । आपो हिष्ठेति मंत्रोऽयं हृदयं परिकीर्तितम् । । ऋतं सत्यं शिखा प्रोक्ता उदुत्यं नेत्रमादिशेत्
सुमंतु म्हणाले: 'आपो हिष्ठ' हा मंत्र हृदयासाठी सांगितला आहे; 'ऋतं सत्यं' शिखेसाठी म्हणतात आणि 'उदुत्यं' डोळ्यांसाठी दाखवतात.
चित्रं देवानां मस्तमिति सर्वलोकेषु विश्रुतम् । । वर्मणा ते च्छादयामि कवचं समुदाहृतम्
'चित्रं देवानां मस्त' हे सर्व लोकांत प्रसिद्ध आहे; 'मी तुला कवचाने झाकतो' असे कवच म्हणून सांगितले आहे.
गायत्र्या पूजयेद्देवमोंकारेणाभिमंत्रितम्। । प्रणवेनापरान्सर्वानृग्वेदादीन्प्रपूजयेत्
गायत्री मंत्राने, ओंकाराने अभिमंत्रित करून, देवतेची पूजा करावी. तसेच प्रणवाने, म्हणजे 'ॐ' या अक्षराने, ऋग्वेद वगैरे सर्वांचा सन्मानपूर्वक पूजन करावे.
आह्वाने पूजने वीर विसर्गे ब्रह्मणस्तथा । । गायत्री परमो मंत्रो वेदमाता विभाविनी
आवाहन, पूजा आणि विसर्जन या सर्व प्रसंगी, तसेच ब्रह्मदेवाच्या कार्यात, गायत्री हा सर्वश्रेष्ठ मंत्र आहे. ती वेदांची तेजस्वी जननी आहे.
गायत्र्यक्षरतत्त्वैस्तु पूजयेद्यस्तु देवताम् । । स गच्छेद्ब्रह्मणः स्थानं दुर्लभं यद्दुरा सदम्
जो कोणी गायत्रीच्या अक्षरांच्या तत्त्वांनी देवतेची भक्तीपूर्वक पूजा करतो, तो दुर्मिळ आणि कठीण मिळणारे ब्रह्मलोक प्राप्त करतो.
चतुर्थीतिथिव्रतमाहात्म्यम् सुमन्तुरुवाच चतुर्थ्यां तु सदा राजन्निराहारव्रतान्वितः । दत्त्वा तिलान्नं विप्रस्य स्वयं भुंक्ते तिलौदनम् । । १ वर्षद्वये समाप्तिर्हि व्रतस्य तु यदा भवेत् । विनायकस्तस्य तुष्टो ददाति फलमीहितम्
सुमंतु म्हणतो—राजा, चतुर्थीच्या दिवशी नेहमी उपवास करावा, ब्राह्मणाला तीळाचे अन्न द्यावे आणि स्वतः तीळाचा भात खावा.
२ याति भाग्यनिवासं हि क्रीडते विभवैः सह । इह चागत्य पुण्यान्ते दिव्यो दिव्यवपुर्यशाः । । ३ मतिमान्धृतिमान्वाग्मी भाग्यवान्कामकारवान्
दोन वर्षे हे व्रत पूर्ण केल्यावर विनायक प्रसन्न होतो आणि इच्छित फळ देतो. मग तो भाग्याचे निवासस्थान मिळवतो, संपत्तीने आनंद करतो, पुण्य संपल्यावर दिव्य शरीर आणि कीर्ती मिळवतो. तो बुद्धिमान, धीरगंभीर, वाग्मिता असलेला, भाग्यवान आणि इच्छित कार्य साधणारा होतो.
असाध्यान्यपि साध्येह क्षणादेव महान्त्यपि । । ४ हन्त्यश्वरथसम्पन्नं षलीपुत्रसहायवान् । राजा भवति दीर्घायुः सप्तजन्मान्यसौ नृप । । एतद्ददाति सन्तुष्टो विघ्नहन्ता४ विनायकः । । ५ शतानीक उवाच विघ्नः कस्य कृतस्तेन येन विघ्नविनायकः । एतद्वदस्व विघ्नेश विघ्नकारणमद्य मे । । ६ सुमन्तुरुवाच कौमारे लक्षणे पुंसां स्त्रीणां च सुकृते कृते । विघ्नं चकार विघ्नेशो गाङ्गेयस्य विनायकः । । ७ तं तु विघ्नं विदित्वासौ कार्त्तिकेयो रुषान्वितः । उत्कृष्य दन्तं तस्यास्याद्धन्तुं तं च समुद्यतः । । ८ निवार्यापृच्छद्देवेशो रोषः कार्यः कुतस्त्वया । तं चाचख्यौ स पित्रे वै कृतं पूरुषलक्षणम् । । तत्र विघ्नकृते मह्यं योषिता न च लक्षणम् । । ९ अथोवाच महादेवः प्रहसन्त्स्वसुतं किल । मम किं लक्षणं पुत्र पश्यसे त्वं वदस्व मे । । 1.22.१० स चोवाच करे तुभ्यं कपालं द्विजलक्षितम् । अविचारेण संस्थाप्यं कपाली तेन चोच्यते । । स तल्लक्षणमादाय समुद्रे प्राक्षिपद्रुषा । । ११ अथ देवसमाजे वै प्रवृत्ते ब्रह्मरुद्रयोः । अहं ज्यायानहं ज्यायान्विवादोऽभूत्तयोर्द्वयोः । । तव संभूत्यभिज्ञोऽस्ति मां तु वेद न कश्चन । । १२ एवं शिवेऽति ब्रुवति ब्रह्मणः पञ्चमं शिरः । मुक्ताट्टहासं प्रोवाच त्वामहं वेदिता भव । । १३ एवं ब्रुवन्तु रुद्रेण ब्राह्मं हयशिरो महत् । नखाग्रेण निकृत्तं च तस्यैव च करे स्थितम् । । १४ करस्थेनैव तेनासावागच्छद्यत्र वै हरिः । तपस्तेपे तदा मेरौ तत्रासौ भगवान्वशी । । १५ कृत्ते हयशिरे तस्मिन्स्थानात्तस्मात्तु ब्रह्मणः । रोषाद्विनिःसृतस्त्वन्यः पुरुषः श्वेतकुण्डली । । १६ कवची सशिरस्कश्च सशरः सशरासनः । अनिर्देश्यवपुः स्रग्वी किं करोमि स चाब्रवीत् । । १७ अथोवाच रुषा ब्रह्मा हन्यतां स सुदुर्मतिः । स तु मार्गेण रुद्रस्य आगच्छद्रोषतो द्रुतम् । । १८ रुद्रोऽपि विष्णुतेजोभिः प्रविष्टः स त्वधिष्ठितः । स प्रविश्य तदापश्यत्तपन्तं चोत्तमं तपः । । हरो नारायणं देवं वैकुण्ठमपराजितम् । । १९ हरं दृष्ट्वाथ सम्प्राप्तं कार्यं चास्य विचिन्त्य च । उवाच शूलिनं देवो भिन्धि शूलेन मे भुजम् । । 1.22.२० स बिभेद महातेजा भुजं शूलेन तं हरः । । २१ शूलभेदादसृक्चोर्ध्वं जगामावृत्य रोदसी । विनिवृत्य ततः पश्चात्कपाले निपपात ह । । २२ असृक्कपाले पतितं प्रदेशिन्या व्यवर्द्धयत् । यदा हि विनिवृत्तिः स्याद्देवस्य रुधिरं प्रति । । २३ तदा तु व्यसृजत्तोयं स कृत्वा वारुणीं तनुम् । तोये प्रवृत्तेऽसृग्भूते कपाले यत्र तच्छिरः । । २४ कपाले तु प्रदेशिन्या रुद्रोऽसौ रुधिरेऽसृजत् । आमुक्तकवचं रक्तं रक्तकुण्डलिनं नरम् । । २५ अथोवाच भवं देवं किं करोमीति मानद । असावपि ससर्जाथ श्वेतकुण्डलिनं नरम् । । २६ तावुभौ समयुध्येतां धनुष्प्रवरधारिणौ । यथा राजन्बलीयांसौ कुजकेतू युगात्यये । । २७ तयोस्तु युध्यतोरेवं संवर्तश्चाधिको गतः । न चादृश्यत विजय एकस्यापि तदा तयोः । । २८ अथान्तरिक्षे तौ दृष्ट्वा वागुवाचाशरीरिणी । अवतारोऽथ भविता युवयोर्हि मया सह । । २९ भारापनोदः कर्त्तव्यः पृथिव्यर्थे सुरैः सह । तदाश्चर्यो हि भविता देवकार्यार्थसिद्धये । । 1.22.३० भूलोकभावं निर्धूय भूयो गन्ता सुरालयम् । एवमुक्त्वा तु वैकुण्ठो ददावेकं रवेस्तदा । । ३१ श्वेतकुण्डलिनं दृप्तं१ तं जग्राह रविर्मुदा । इन्द्रस्यापि ततः पश्चाद्रक्तकुण्डलिनं ददौ ।।३२ जग्राह च मुदा युक्त इन्द्रः स्वं च पुरं ययौ । गतौ रवीन्द्रौ प्रगृह्य पुरुषौ क्रोधसम्भवौ ।।३ ३ अथोवाच तदा रुद्रं देवः कमलसंस्थितः । गच्छ त्वमपि कापाले कपालव्रतचर्यया ३४ ये च व्रतं त्वदीयं वै धारयिष्यन्ति मानवाः । न तेषां दुर्लभं किञ्चिद्भवितेह परत्र च ।।३५ एवं संलप्य बहुशः सुमुखं प्रतिनन्द्य च । आहूय च समुद्रं स प्रत्युवाचाविचारयन् ।।३६ कुरुष्वाभरणं२ स्त्रीणां लक्षणं यद्विलक्षणम् । कार्त्तिकेयेन यत्प्रोक्तं तद्वदस्वाविचारयन् ।। ३७ स चाह मम नाम्नेदं भवेत्पुरुषलक्षणम् । देवेन तत्प्रतिज्ञातमेवमेतद्भविष्यति ।।३८ कार्त्तिकेयेन यत्प्रोक्तं तद्वदस्वाविचारयन् ।।३९ प्रयच्छास्य विषाणं वै निष्कृष्टं यत्त्वयाऽधुना । अवश्यमेव तद्भूतं भवितव्यं तु कस्यचित् ।।1.22.४० ऋते विनायकं तद्वै दैवयोगान्न कामतः । गृहाण एतत्सामुद्रं यत्त्वया परिकीर्तितम् ।।४१ स्त्रीपुंसोर्लक्षणं श्रेष्ठं सामुद्रमिति विश्रुतम । इमं च सविषाणं वै कुरु देवविनायकम ।।४२ अथोवाच च देवेशं बाहुलेयः समत्सरम् । विषाणं दद्मि चास्याहं तव वाक्यान्न संशयः । । ४३ यदा त्वयं विषाणं च मुक्त्वा तु विचरिष्यति । तदा विषाणमुक्तः सन्भस्म ऐतं करिष्यति । । ४४ एवमस्त्विति तं चोक्त्वा विषाणं तत्करे ददौ । विनायकस्य देवेशः कार्तिकेयमते स्थितः । । ४५ सविषाणकरोऽद्यापि दृश्यते प्रतिमा नृप । भीमसूनोर्महाबाहोर्विघ्नं कर्त्तुं महात्मनः । । ४६ एतद्रहस्यं देवानां मया ते समुदाहृतम् । यत्र देवो न वै वेद देवानां भुवि दुर्लभम् । । ४७ मया प्रसन्नेन तव गुह्यमेतदुदाहृतम् । कथितं तिथिसंयोगे विनायककथामृतम् । । ४८ य इदं श्रावयेद्विद्वान्ब्राह्मणान्वेदपारगान् । क्षत्रियांश्च स्ववृत्तिस्थान्विट्शूद्रांश्च गुणान्वितान् । । ४९ न तस्य दुर्लभं किञ्चिदिह चामुत्र विद्यते । न च दुर्गतिमाप्नोति न च याति पराभवम् । । 1.22.५० निर्विघ्नं सर्वकार्याणि साधयेन्नात्र संशयः । ऋद्धिं वृद्धिं श्रियं चापि विन्देत भरतोत्तम । । ५१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पवर्णनं नाम द्वाविंशोऽध्यायः
विघ्न-विनायककथावर्णनम् शतानीक उवाच केनायं भीमजो विप्र प्रमथाधिपतिः कृतः । भर्तृत्वे चापि विघ्नानामधिकारी कथं बभौ । । १ सुमन्तुरुवाच साधु पृष्टोऽस्मि राजेन्द्र यदयं विघ्नकारकः । यैर्वापि विघ्नकरणैर्निर्युक्तोऽपि विनायकः । । तत्ते वच्मि महाबाहो शृणुष्वैकमनाधुना । । २ आद्ये कृतयुगे वीर प्रजासर्गमवाप ह । दृष्ट्वा कर्माणि सिद्धानि विना विघ्नेन भारत । । ३ अगतक्लेशां प्रजां दृष्ट्वा गर्वितां कृत्स्नशो नृप । बहुशश्चिन्तयित्या तु इदं कर्म महीपते । । ४ विनायकः समृद्ध्यर्थं प्रजानां विनियोजितः । गणानां चाधिपत्ये च भीमः कञ्जजसात्त्वतैः । । ततोपसृष्टो यस्तस्य लक्षणानि निबोध मे । । ५ स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति । काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । । ६ अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते । व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः । । ७ विमना विफलारम्भः संसीदत्यनिमित्ततः । करटारूढमात्मानमम्भसोन्तरगं तथा । । ८ पत्तिभिश्चावृतं यान्तं सङ्गमनान्तिकं नृप । पश्यते कुरुशार्दूल स्वप्नान्ते नात्र संशयः । । ९ चित्तं च विकृताकारं करवीरविभूषितम् । तेनोपसृष्टो लभते न राज्यं पौर्वसंभवम् । । 1.23.१० कुमारी न च भर्तारमपत्यं गर्भिणी तथा । आचार्यत्वं श्रोत्रियश्च शिष्याश्चाध्ययनं तथा । । वणिग्लाभं च नाप्नोति कृषिं चैव कृषीवलः । । ११ स्नपनं तस्य कर्तव्यं पुण्येऽहनि ' महीपते । गौरसर्षपकल्केन साज्येनोत्सादितेन तु । । १२ शुक्लपक्षे चतुर्थ्यां तु वासरे धिषणस्य च । तिष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप । । १३ सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा । भद्रासनोपविष्टस्य स्वस्ति वाच्य द्विजाञ्छुभान् । । १४ व्योमकेशं तु सम्पूज्य पार्वतीं भीमजं तथा । कृष्णं सपितरं तात पवमानं सितं तथा । । १५ धिषणं चेन्दुपुत्रं च कोणं केतुं च ३ भारत । विधुन्तुदं बाहुलेयं नन्दकस्य च धारिणम् । । १६ अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्ह्रदात् । मृत्तिकां रोचनां गन्धान्गुग्गुलं चाप्सु निक्षिपेत् । । १७ यदाहृतं ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् । चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं तथा । । १८ सहस्राक्षं शतधारमृषिभिः १ पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । । १९ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । । 1.23.२० यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद् घ्नन्तु ते सदा । । २१ स्नातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु । जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य तु । । २२ मितश्च सम्मितश्चैव तथा च शालकंटकः । कूष्माण्डो राजश्रेष्ठास्तेऽग्नयः स्वाहासमन्विताः । । २३ नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः । । २४ कृताकृतांस्तण्डुलांश्च पललौदनमेव च । मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु । । २५ पुष्पं चित्रं सगन्धं च सुरां च त्रिविधामपि । मूलकं पूरिकाः पूपांस्तथैवोण्डेरिकास्रजम् । । दधिपायसमन्नं च गुडवेष्टान्समोदकान् । । २६ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् । दूर्वासर्षपपुष्पाणां दत्त्वा पुष्पाञ्जलित्रयम् । । २७ रूपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे । । अचलां बुद्धिं मे देहि धरायां ख्यातिमेव च । । २८ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । भोजयेद् ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । । २९ एवं विनायकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति श्रियं प्राप्नोत्यनुत्तमाम् । । 1.23.३० आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । विनायकपतेश्चैव सर्वसिद्धिमवाप्नुयात् । । ३१ इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पवर्णनं नाम त्रयोविंशोऽध्यायः
गता मध्यं प्रदेशिन्याः स जीवेच्छरदः शतम् । । ३९ इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम पञ्चविंशोऽध्यायः
ज्याची मधली बोट तर्जनीपेक्षा मोठी असते, तो पुरुष शंभर वर्षे जगतो.
पुरुषलक्षण-वर्णनम् कार्तिकेय उवाच संक्षेपतो मम विभो लक्षणानि नृपस्य तु । शुभानि चाङ्गजातानि ब्रूहि मे वदतां वर । । १ ब्रह्मोवाच शृणु वक्ष्येङ्गजातानि पार्थिवस्य शुभानि च । पार्थिवो ज्ञायते यैस्तु नराणां मध्यभागतः । । २ त्रीणि यस्य महाबाहो विपुलानि नरस्य तु । उद्यतानि तथा षड् वै गम्भीराणि च त्रीणि वै । । ३ चत्वारि चापि ह्रस्वानि सप्त रक्तानि वा विभो । दीर्घाणि चापि सूक्ष्माणि भवन्ति यस्य पञ्च वा । । ४ नाभिः संधिः स्वनश्चेति गम्भीराणि च त्रीणि वै । वदनं च ललाटं च दन्तोत्तम उरस्तथा । । ५ विस्तीर्णमेतस्त्रितयं वीर यस्य नरस्य तु । स राजा नात्र सन्देहः शृणुष्वेवोन्नतानि च । । ६ कृकाटिका तधा चास्यं नखा वक्षोऽथ नासिका । कक्षे चापि महाबाहो षडेतानि विदुर्बुधाः । । ७ लिङ्गं पृष्ठं तथा ग्रीवा जङ्घा ह्रस्वानि सुव्रत । नेत्रान्ते हस्तपादौ तु ताल्वोष्ठौ च सुरोत्तम । । जिह्वा रक्ता नखाश्चैव सप्तैतानि महामते । । ८ त्वचः कररुहाः केशा दशना ऋभवोत्तम । सूक्ष्माण्येतानि च गुह पञ्च चापि विदुर्बुधाः । । ९ नासिकालोचने बाहू स्तनयोरन्तरं हनुः । इति दीर्घमिदं प्रोक्तं पञ्चकं भूभुजां नृप । । 1.27.१० क्षुतं राज्ञां सकृद्द्विस्त्रिर्नादितं ह्रादितं तथा । दीर्घायुषां प्रयुक्तं ते हसितं च विदुर्बुधाः । । ११ पद्मपत्रनिभे नेत्रे धनिनां शिवनन्दन । भार्गवीमाप्नुयात्सोऽपि रक्तान्ते यस्य लोचने । । १२ मधुपिङ्गैर्महात्मानो नरा ज्ञेयाः सुराधिप । भीरवो हि कृशाक्षास्तु चौरा मण्डलचक्रकैः । । १३ हयः केकरनेत्रास्तु गम्भीरैरर्थसम्पदः । नीलोत्पलाभैर्वेदविदो भृशं कृष्णैस्तथार्थिता । । मन्त्रित्वं स्थूलसुदृशो वदन्ति भुवि तद्विदः । । १४ श्यामाक्षाः सुभगा ज्ञेया दीनाक्षैभ्र दरिद्रता । विस्तीर्णैर्भोगिनो श्रेया विपुलैश्च तथा गुह । । १५ अभ्युन्नताभिर्ह्रस्वायुर्विशालाभिः सुखी भवेत् । दरिद्रो विषमाभिस्तु ततो ज्ञेयः सुरोत्तम । । १६ भ्रुवो बालेन्दुसदृशा धनिनामार्भवोत्तम । दीर्घाभिर्निर्धनो ज्ञेयः संसक्ताभिस्तु सुव्रत । । १७ क्षीणाभिरर्थहीनाः स्युर्नरा ज्ञेयाः सुरोत्तम । मध्ये नतभ्रुवो ये च परदाररतास्तु ते । । १८ विरलैरुन्नतैः शंखैर्धन्याः१ स्युर्नात्र संशयः । निम्नैः स्तुत्यर्थसंसक्ता२ उन्नतैश्च जनाधिपाः । । १९ विषमललाटा विधनाः सदा स्युर्देवसत्तम । आचार्याः शुक्तिसदृशैर्नराः स्युर्नात्र संशयः । । 1.27.२० उन्नतशिरोभिराढ्या नरा ज्ञेयाः सदा गुह । वधबन्धभागिनो वीरा नरा निन्नललाटिनः । । भृशमुन्नतैश्च मूर्खाश्च कृपणाश्च तथा नतैः । । २१ शुभावहं मनुष्याणां वदनं स्याद्यथा शृणु । अदीनमाननं स्निग्धं सस्मितं च विशेषतः । । २२ साश्रुदीनं तथा रूक्षमस्निग्धं निन्दितं४ गुह । असम्भाव्यं मुखं ज्ञेयं नराणां नगदारण । । २३ अकम्पं गुभदं ज्ञेयं नराणां हसितं गुह । निमीलिताक्षं पापस्य हसितं चार्भवोत्तम । । २४ आमण्डलं शिरो यस्य स गवाढ्यो नरो भवेत् । छत्राकृति शिरो यस्य स भवेन्नृपतिर्नरः । । २५ चिपिटाकारितशिरा हन्याद्वै पितरौ नरः । घण्टाकृति शिरोध्वानमसकृत्सेवते नरः । । निम्नं शिरोनर्थदं स्यान्नराणामर्भवोत्तम । । २६ गुडैः स्निग्धैस्तथा कृष्णैरभिन्नाग्रैस्तथैव हि । केशैर्न चातिबहुलैर्मृदुभिः पार्थिवो भवेत् । । २७ बहुलाः कपिलाः स्थूला विषमाः स्फुटितास्तथा । परुषा ह्रस्वातिकुटिला दरिद्राणां कचाः घनाः । । २८ इत्युक्तं लक्षणं नॄणां शुभं वाशुभमेव च । योषितां तदिदानीं ते लक्षणं वच्मि भीमज । । २९ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम सप्तविंशोऽध्यायः
स्त्रीलक्षणवर्णनम् ब्रह्मोवाच शृण्विदानीं महाबाहो स्त्रीलक्षणमनुत्तमम् । यन्मयोक्तं पुरा वीर नारदस्य महात्मनः । । १ तत्त्वं विज्ञायते येन शुभाशुभमवस्थितम् । निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणम् । । २ मातरं पितरं चैव भ्रातरं मातुलं तथा । द्वौ तु बिम्बौ परीक्षेत समुद्रस्य वचो यथा । । ३ मुहूर्ते तिथिसम्पन्ने नक्षत्रे चाभिपूजिते । द्विजैस्तु सह वागम्य कन्यां वीक्षेत शास्त्रवित् । । ४ हस्तौ पादौ परीक्षेत अङ्गुलीर्नखमेव च । १पाणिमेव च जङ्घे च कटिनासोरु एव च । । ५ जघनोदरपृष्ठं च स्तनौ कर्णौ भुजौ तथा । जिह्वां चोष्ठौ च दन्ताश्च कपोलं गलकं तथा । । ६ चक्षुर्नासा ललाटं च शिरः केशांस्तथैव च । रोमराजिं१ स्वरं वर्णमावर्तानि तु वा पुनः । । ७ यस्यास्तु रेखाग्रीवायां या२ च रक्तान्तलोचना । यस्य सा गृहमागच्छेत्तद्गृहं सुखमेधते । । ८ ललाटे दृश्यते यस्यास्त्रिशूलं देवनिर्मितम् । बहूनां स्त्रीसहस्राणां स्वामिनीं तां विनिर्दिशेत् । । ९ राजहंसगतिर्यस्या मृगाक्षी मृगवर्णिका । समशुक्लाग्रदन्ता च कन्यां तामुत्तमां विदुः । । 1.28.१० मण्डूककुक्षी या कन्या न्यग्रोधपरिमण्डला । एकं जनयते पुत्रं सोऽपि राजा भविष्यति । । ११ हंसस्वरा मृदुवचा या कन्या मधुपिङ्गला । अष्टौ जनयते पुत्रान्धनधान्यविवर्धिनी । । १२ आयतौ श्रवणौ यस्याः सुरूपा चापि नासिका । भ्रुवौ चेन्द्रायुधाकारौ सात्यन्तं सुखभागिनी । । १३ तन्वी श्यामा तथा कृष्णा स्निग्धाङ्गी मृदुभाषिणी । शङ्खकुन्देन्दुदशना भवेदैश्वर्यभागिनी । । १४ विस्तीर्णं जघनं यस्या वेदिमध्या तु या भवेत् । आयते विपुले नेत्रे राजपत्नी तु सा भवेत् । । १५ यस्याः पयोधरे वामे हस्तेकर्णे गलेऽपि वा । मशकं तिलकं वापि सा पूर्वं जनयेत्सुतम् । । १६ गूढगुल्फाङ्गुलिशिरा अल्पपार्ष्णिः सुमध्यमा । रक्ताक्षी रक्तचरणा सात्यन्तं सुखभागिनी । । १७ कूर्मपृष्ठायतनखौ स्निग्धभावविवर्जितौ । वक्राङ्गुलितलौ पादौ कन्यां तां परिवर्जयेत् । । १८ येन केनचिदंशेन मांसं यस्या विवर्धते । रासभीं तादृशीं विद्यान्न सा कल्याणमर्हति । । १९ पादे प्रदेशिनी यस्या अङ्गुष्ठं समतिक्रमेत् । दुःशीला दुर्भगा ज्ञेया कन्यां तां परिवर्जयेत् । । 1.28.२० पादे मध्यमिका यस्याः क्षितिं न स्पृशते यदि । रमते सा न कौमारे स्वच्छन्दा१ कामचारिणी । । २१ पादे अनामिका यस्याः क्षितिं न स्पृशते यदि । द्वितीयं पुरुषं हत्वा तृतीये सा प्रतिष्ठिता । । २२ पादे कनिष्ठा यस्यास्तु क्षितिं न स्पृशते यदि । द्वितीयं पुरुषं हत्वा तृतीये सा प्रतिष्ठिता । । २३ न देविका न धनिका न धान्यप्रतिनामिका । गुल्मवृक्षसनाम्नी च कन्यां तां परिवर्जयेत् । । २४ इन्द्रचन्द्रादिपुरुषसनाम्नी च यदा भवेत् । नैताः पतिषु रज्यन्ते याश्च नक्षत्रनामिकाः । । २५ आवर्तः पृष्ठतो यस्या नाभिं समनुविन्दति । तदपत्यं भवेद् ध्रस्वं ह्रस्वायुश्च विनिर्दिशेत् । । २६ पृष्ठावर्ता पतिं हन्ति नाभ्यावर्ता पतिव्रता । कट्यावर्ता तु स्वच्छन्दा न कदाचिद्विरज्यते । । २७ यस्यास्तु हसमानाया गण्डे जायेत् कूपकम् । रमते सा न कौमारे स्वच्छन्दा कार्यकारिणी । । २८ यस्यास्तु गच्छमानायाष्टिट्टीकायति जङ्घिका । पुत्रं व्यवस्येत्सा कर्तुं पतित्वे नात्र संशयः । । २९ स्थूलपादा च या कन्या सर्वांगेषु च लोमशा । स्थूलहस्ता च या स्याद्वै दासीं तां निर्दिशेद्बुधः । । 1.28.३० यस्याश्चोत्कटकौ२ पादौ मुखं च विकृतं भवेत् । उत्तरोष्ठे च रोमाणि सा क्षिप्रं भक्षयेत्पतिम् । । ३१ त्रीणि यस्याः प्रलम्बन्ते ललाटमुदरं स्फिचौ । त्रीणि भक्षयते सा तु देवरं श्वसुरं पतिम् । । ३२ समुद्भूषितचारित्रा गुरुभक्ता पतिव्रता । देवब्राह्मणभक्ता च मानुषीं तां विनिर्दिशेत् ।।३ ३ नित्यं स्नाता सुगन्धा च नित्यं च प्रियवादिनी । अल्पाशिन्यल्परोषा च देवतां तां विनिर्दिशेत् ।। ३४ प्रच्छन्नं कुरुते पापमपवादं च रक्षति । हदयं स्याच्च दुर्ग्राह्यं मार्जारी तां विनिर्दिशेत् ।।३५ हसते क्रीडते चैव क्रुद्धा चैव प्रसीदति । नीचेषु रमते नित्यं रासभी तां विनिर्दिशेत् ।। ३६ प्रतिकूलकरी नित्यं बन्धूनां भर्तुरेव च । स्वच्छन्दे ललितां चैव आसुरीं तां विनिर्दिशेत् ।।३७ १बह्वाशी बहुवाक्या च नित्यं चाप्रियवादिनी । हिनस्ति स्वपतिं या तु राक्षसीं तां विनिर्दिशेत् ।। ३८ शौचाचारपरिभ्रष्टा रूपभ्रष्टा भयङ्करा । प्रस्वेदमलपङ्का च पिशाचीं तां विनिर्दिशेत् ।।३९ नित्यं स्नातां सुगन्धां च मांसमद्यप्रियादिनीम् । वृक्षोद्यानप्रसक्ता च गान्धर्वीं तां विनिर्दिशेत् ।।1.28.४० चपला चञ्चला चैव नित्यं पश्येद्दिशस्तथा । चलस्वभावा लुब्धा च वानरीं तां विनिर्दिशेत् ।।४ १ चन्द्राननां शुभाङ्गीं तु मत्तवारणगामिनीम् । आरक्तनखहस्तां तु विद्याद्विद्याधरीं बुधः ।।४२ वीणावादित्रशब्देन वंशगीतरवेण च । पुष्पधूपप्रसक्तां च गान्धर्वीं तां विनिर्दिशेत् ।।४३ सुमन्तुरुवाच इत्येवमुक्त्वा स महानुभावो जगाम वेधा निजमन्दिरं वै । स्त्रीणां तथा पुंस्त्ववतां च वीर यल्लक्षणं पार्थिव लोकपूज्यम् । । ४४ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थी कल्पे स्त्रीलक्षणवर्णनं नामाष्टाविंशोऽध्यायः
गणपतिकल्पवर्णनम् शतानीक उवाच गकाराक्षरदेवस्य गणेशस्य महात्मनः । आराधनविधिं ब्रूहि साङ्गं मन्त्रसमन्वितम् । । १ सुमन्तुरुवाच न तिथिर्न च नक्षत्रं नोपवासो विधीयते । यथेष्टं१ चेष्टतः सिद्धिः सदा भवति कामिका । । २ श्वेतार्कमूलं सङ्गृह्य कुर्याद्गणपतिं बुधः । अङ्गुष्ठपर्वमात्रं तु पद्मासनगतं तथा । । ३ चतुर्भुजं त्रिनेत्रं च सर्वाभरणभूषितम् । नागयज्ञोपवीताङ्गं शशाङ्ककृतशेखरम् । । ४ दन्तं सव्ये करे दद्याद्द्वितीये चाक्षसूत्रकम् । तृतीये परशुं दद्याच्चतुर्थे मोदकं न्यसेत् । । ५ कुङ्कुमं चन्दनं चापि समालम्भनमुच्यते । वासोभिर्भूषणै रक्तैर्माल्यैश्चाराधयेद्गणम् । । ६ धूपेन च सुगन्धेन मोदकैश्चापि पूजयेत् । एवं पूज्याग्रतस्तस्य भोजयेद्ब्राह्मणं बुधः । । ७ वामनं कुब्जकं चापि भोजयेत्पुरतो द्विजम् । आशीर्वादं ततस्तस्मात्प्राप्य सिद्धिमवाप्नुयात् । । ८ भक्त्या कुरुकुलश्रेष्ठ १शृणु मन्त्रपदानि वै । गं स्वाहा मूलमन्त्रोऽयं प्रणवेन समन्वितः । । ९ गां नमो हदयं ज्ञेयं गीं शिरः परिकीर्तितम् । शिखा च गूं नमो ज्ञेयो गैं नमः कवचं स्मृतम् । । 1.29.१० गौं नमो नेत्रमुद्दिष्टं गः फट् कामास्त्रमुच्यते । आगच्छोल्कामुखायेति मन्त्र आवाहने ह्ययम् । । ११ गं गणेशाय नमो गन्धमन्त्रः प्रकीर्तितः । पुष्पोल्काय नमः पुष्पमन्त्र एष प्रकीर्तितः । । १२ धूपोल्काय नमो धूपमन्त्र एष प्रकीर्तितः । दीपोल्काय नमो दीपमन्त्र एष प्रकीर्तितः । । १३ ॐ गं महोल्काय नमो बलिमन्त्रः प्रकीर्तितः । ओं संसिद्धोल्काय नमो मन्त्रश्चायं विसर्जने । । १४ ओं महाकर्णाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् गायत्री जपः पूर्वतः । । १५ महागणपतये वीर१ स्वाहा दक्षिणतः सदा । महोल्काय पश्चिमतः कूश्माण्डायोत्तरेण तु । । एकदन्तत्रिपुरान्तकाय आग्नेय्यां वीर निर्दिशेत् । । १६ ओं शिवदत्त विकटहरहास प्राणाय स्वा नैर्ऋत्याम् । २तुलम्बनात्यचलदन्तकाय स्वाहा वायव्याम् । । १७ पद्मदंष्ट्राय नरायेति ऐशान्यां होमयेद्बुधः । हुं फट् हुँ फट् हस्ततालध्वनिर्हसनकूर्दनः । । १८ मृदनर्तनगणपतिर्देवस्य मुद्रां ततो होमं समाचरेत् । न यदा वश्या भवति । । कृष्णतिलाहुतिमष्टसहस्रं जुहुयात्त्रिरात्रेण राजा वश्यो भवति । । १९ तिलयवहोमेन सर्वे जनपदा वश्या भवन्ति । अति रूपवती कन्या गच्छन्तमनु(?)च्छति । । 1.29.२० चणतन्दुलहोमेनाजितो भवेत् । निम्बपत्रसमैस्तैलैर्विद्वेषणं करोति । । सोमग्रहणे उदकमध्ये अवतीर्य अष्टसहस्रं जपेत् । सङ्ग्रामे अपराजितो भवति । । २१ ( ॐ लम्बराज्ञे नमः ।) आदित्याभिमुखो भूत्वा अष्टसहस्रं जपेत् । आदित्यो वरदो भवति । । २२ शुक्लचतुर्थ्यामुपोष्य गन्धपुष्पादिभिरर्चनं कृत्वा तिलतन्दुलाञ्जुहुयात् । शिरसा धारयंस्तैरपराजितो भवति । । २३ अपामार्गसमिद्भिरग्निं प्रज्वाल्य एकविंशत्याहुतीर्यो जुहुयात् । त्रिरात्राच्छत्रुं व्यापादयति । । २४ अथोत्तरेण मन्त्रं व्याख्यास्ये । वृक्षमूले कज्जलं सङ्गृह्य सप्तभिर्मन्त्रितं कृत्वा नेत्राण्यञ्जयेद्यं पश्यति स वशी भवति । । २५ पुष्पं फलं मूलं चाष्टसहस्राभिमन्त्रितं कृत्वा यस्मै ददाति स वश्यो भवति । । २६ यत्किञ्चिन्मूलमन्त्रेण करोति तत्सिध्यति । सर्वे ग्रहाः सुप्रीता भवन्ति । । नगरद्वारं गत्वा अष्टसहस्रं द्वारं निरूपयेत् । । २७ पुरं द्वारेण गृह्यते प्राङ्मुखो यजति स उच्चाटयति । सम्मुखो जपति चोरान्विद्रावयति । । २८ तृणानि लूनयति । काष्ठानि च्छेदयति । । २९ १गजराजेन युद्धयति । जलमध्ये सप्तरात्रं जपेत् । अकाले वर्षयति । कूपतडागाञ्छोषयति । । प्रतिमां नृत्ययति । आकर्षयति । स्तम्भयति । योजनशतात्स्त्रीपुरुषानाकर्षयति । । 1.29.३० गोरोचनां च सहस्राभिमन्त्रितां कृत्वा हस्ते बद्ध्वा योजनशतसहस्रं गत्वा पुनरागच्छति । । ३१ अथ मारयितुकामः खदिरकीलकं कृत्वा स्त्रीपुरुषं विचिन्त्य हदये निखनयेत् । क्षणादेव म्रियते । । ३२ सर्वपातकविमुक्तो भवति । अग्नितेजाः सर्वेभ्योऽपराजितो भवति । । ३३ ॐ वकतुण्डाय स्वाहा । ॐ एकदंष्ट्राय स्वाहा । ॐ कृतकृष्णाय स्वाहा । ॐ गजकर्णाय स्वाहा । । ॐ लम्बोदराय स्वाहा । ॐ विकटाय स्वाहा । ॐ धूम्रवर्णाय स्वाहा । ॐ गगनकूजाय स्वाहा । । ॐ विनायकाय स्वाहा । ॐ गणपतये स्वाहा । ॐ हस्तिमुखाय स्वाहा । । ३४ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे गणपतिकल्पवर्णनं नामैकोनत्रिंशोऽध्यायः
विनायकपूजाविधिवर्णनम् सुमन्तरुवाच निम्बमयमङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा नित्यधूपगन्धादिभिरर्चयित्वा प्रच्छन्नं शिरसि बद्ध्वा गच्छेत् । । सर्वजनप्रियो भवति । श्वेतार्कमूलाङ्गुष्ठमात्रं गणपतिं कृत्वा धूपादिभिरर्चयित्वा सर्वान्वर्णान्वशमानयति ।। श्वेतचन्दनमङ्गुष्ठमात्रं गणपतिं कृत्वा पुष्पगन्धादिभिरर्चयित्वा शुक्लचतुर्थ्यामष्टम्यां वा बलिं कुर्यादष्टसहस्रं जुहुयाद्दध्ना पायसेन राजानं वशमानयति । रक्तचन्दनमयं गणपतिमङ्गुष्ठमात्रं कृत्वा भौतिकं बलिं दद्याद्दधिमधुघृताहुतीनां गणपतिमष्टसहस्रं जुहुयादात्मप्रापिकां प्रजां वशमानयति । रक्तकरवीरमूलाङ्गुष्ठपर्वमात्रं गणपतिं कारयेत् । । रक्तपुष्पगन्धोपहारैर्बलिं दद्यात् । तिललवणघृतेनाष्टसहस्रं जुहुयात् । दशग्रामान्वशमानयति । । श्वेतकरवीराङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा तिलपिष्टदधिघृतक्षीरहरिद्रामिश्रेणाष्टसहस्रं जुहुयाद्वेश्यां वशमानयति । । अश्वत्थमूलाङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपबलिं दत्त्वा शतं जुहुयाच्छत्रुं वशमानयति । । अर्कमूलाङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपबलीन् दद्यात् । तिन्दुकाष्टशतं जुहुयाच्छत्रुं वशमानयति । । बिल्वमूलमयमङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपार्चितं कृत्वा त्रिमध्वक्तानामष्टसहस्रं जुहुयाद्राजामात्यान्वशमानयति । । शिरसि धूपान्धृत्वा गच्छेद्राजद्वारं विग्रहे जयो भवति । हस्तिदन्तमृत्तिकामयमङ्गुष्ठपर्वमात्रं गणपतिं कारयेत् । । गन्धपुष्पधूपार्चितं कृत्वा. कृष्णचतुर्थ्यां नग्नो भूत्वाभ्यर्चयेत् । सप्त वाराञ्जपेन्नित्यं १ नारीणां सुभगो भवति । । वृषभशृङ्गमृत्तिकाङ्गुष्ठमात्रं गणपतिं कारयेत् । गन्धपुष्पार्चितं कृत्वा गुग्गुलुधूपं दद्याद्घोषपतिं वशमानयति । । अथ वा वल्मीकमृत्तिकांगुष्ठपर्वमात्रं गणपतिं कारयेत् । कटुकतैलेन प्रतिमां लेपयेत् । । उन्मत्तककाष्ठेनाग्निं प्रज्वाल्याहुतीनामष्टसहस्रं जुहुयात्तिलसर्षपमिश्रेण सर्वधूपं दद्यात्त्रिकटुकेन लेपयेत् । । अगरुधूपं दद्याद्राजानं वशमानयति । परेषां च वल्लभो भवति । रक्तचन्दनेनात्मानं धूपयेत्सुभगो भवति । । ॐ गणपतये वक्रतुण्डाय गजदन्ताय गुलगुलेतिनिनादाय२ चतुर्भुजाय त्रिनेत्राय मुशलपाशवज्रहस्ताय सर्वभूतदमनाय सर्वलोकवशंकराय सर्वदुष्टोपघातजननाय सर्वशत्रुविमर्दनाय सर्वराज्यसमीहनाय राजानमिह वशमानय हन हन पच पच वज्राङ्कुशेन गणेश फट् स्वाहा । ॐ गां गीं गूं गैं गौं गः स्वाहा नमः हदयं मूलमन्त्रस्य । ॐ कः शिरः, ॐ खः शिखा, ॐ गः हदयम्, ॐ गुः वक्त्रं, ॐ गैं नेत्रम् । ॐ घः कवचम्, ॐ ङ आवाहनं हदयस्य आवाहनाङ्गानि भवन्ति ॐ नमः हदयं मूलमन्त्रस्य, ॐ गाः शिरः, ॐ गैः नमः शिखा ॐ गौः नमः कवचम्, ॐ गं नमः नेत्रे, ॐ गः फट् अस्त्रम् । । ॐ अङ्गुष्ठोल्काय स्वाहा आवाहनं हदयस्य स्वाहा विसर्जनं हदयस्य ॐ गन्धोल्काय स्वाहा । । गन्धमन्त्रः । । ॐ धर्मभूतोल्काय स्वाहा । । पुष्पमन्त्रः । । दुर्जयाय १ पूर्वेण । ॐ धूर्जटये दक्षिणेन । ॐ लम्बोदराय पश्चिमतः । ॐ गणपतये उत्तरतः । ॐ गणाधिपतये ऐशान्याम् । ॐ महागणपतये आग्नेय्याम् । ॐ कूश्माण्डाय नैर्ऋत्याम् । ॐ एकदन्तत्रिपुरघातिने२ त्रिनेत्राय वायव्याम् । ॐ महागणपतये विद्महे वक्रतुण्डाय धीमहि । । तन्नो दन्तिः प्रचोदयात् । । गायत्री । । पद्मदंष्ट्रामालाप्रकर्षणीपरश्वंकुशपाशपटहमुद्रा अष्टौ मुद्रा दर्शयित्वा ततः कर्माणि कारयेत् । । कृष्णतिलाहुतीनामष्टसहस्रं जुहुयात् । राजानं वशमानयेत् । । आवाहनाद्येकादशमुद्रा नैवेद्यान्तं क्रमाद्दर्शयेत् । । आराधयेद्येन विधिना त्रिनेत्रं शूलिनं हरम् । तेनैवाराधयेद्देवं विघ्नेशं गणपं नृप । । १ तदेव मण्डलं चास्य अङ्गन्यासस्तथैव च । ऋते मन्त्रपदानीह समानं सर्वमेव हि । । २ पूजयेद्यस्तु विघ्नेशमेकदन्तमुमासुतम् । नश्यन्ति तस्य विघ्नानि न चारिष्टं कदाचन । । ३ यश्चोपवासं कृत्वा तु चतुर्थ्यां पूजयेन्नरः । सर्वे तस्य समारम्भाः सिध्येयुर्नात्र संशयः । ।४ यस्यानुकूलो विघ्नेशः शिवयोः कुलनन्दन । तस्यानुकूलं सर्वं स्याज्जगद्वै सर्वकर्मसु । । ५ तस्मादाराधयेदेनं भक्तिश्रद्धासमन्वितः । कुङ्कुमागुरुधूपेन तथैवोण्डीरकस्रजा । । ३पललोल्लापिकाभिश्च जातिकोन्मत्तकैस्तथा । । ६ शुक्लपक्षे चतुर्थ्यां तु विधिनानेन पूजयेत् । तस्य सिध्यति निर्विघ्नं सर्वकर्म न संशयः । ।७ एकदन्ते जगन्नाथे गणेशे तुष्टिमागते । पितृदेवमनुष्याद्याः सर्वे तुष्यन्ति भारत । । ८ तस्मादाराधयेदेनं सदा भक्तिपुरःसरम् । कर्णलेपैस्तुण्डिकाभिर्मोदकैश्च१ महीपते । । पूजयेत्सततं देवं विघ्नविनाशाय दन्तिनम् । । ९ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे विनायकपूजाविधिनिरूपणं नाम त्रिंशोऽध्यायः
९ विशेषतः स्त्रियो राजन्पूजयन्तो गुरुं नृप । गुडलवणघृतैर्वीर सदा स्युर्भाग्यसंयुताः
राजा, विशेषतः ज्या स्त्रिया गुरुची गूळ, मीठ आणि तुपाने पूजा करतात, त्या नेहमीच भाग्यवती होतात.
प्रतिपत्कल्पसमाप्तिवर्णनम् सुमन्तुरुवाच पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप । अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः । । १ प्रतिपद्यां महाबाहो स गच्छेद्ब्रह्मणः पदम् । ऋग्भिर्विशेषतो १ देवी विरिञ्चेर्वास्तुदेवताः । । २ कार्त्तिके मासि देवस्य रथयात्रा प्रकीर्तिता । यां कृत्वा मानवो भक्त्या याति ब्रह्मसलोकताम् । । ३ कार्तिके मासि राजेन्द्र पौर्णमास्यां चतुर्मुखम् । मार्गेण चर्मणा सार्धं सावित्र्या च परन्तप । । ४ भ्रामयेन्नगरं सर्वं नानावाद्यैः समन्वितम् । स्थापयेद् भ्रामयित्वा तु सलोकं नगरं नृप । । ५ ब्राह्मणं भोजयित्याग्रे शांडिलेयं प्रपूज्य च । आरोपयेद्रथे देवं पुण्यवादित्रनिस्वनैः । । ६ रथाग्रे शांडिलीपुत्रं पूजयित्वा विधानतः । ब्राह्मणान्वाचयित्वा च कृत्वा पुण्याहमंगलम् । । ७ देवमारोपयित्वा तु रथे कुर्यात्प्रजागरम् । नानाविधैः प्रेक्षणकैर्ब्रह्मघोषैश्च पुष्कलैः । । ८ [http://vedastudy.tripod.com/pur_index25/ratha.htm रथोपरि टिप्पणी] कृत्वा प्रजागरं ह्येवं प्रभाते ब्राह्मणं नृप । भोजयित्वा यथाशक्त्या भक्ष्यभोज्यैरनेकशः । । ९ पूजयित्वा जनं२ वीर वज्रेण विधिवन्नृप । बीजेन च महाबाहो पयसा पायसेन च । । 1.18.१० ब्राह्मणान्वाचयित्वा च च्छांदेन विधिना नृप । कृत्वा पुण्याहशब्दं च रथं च भ्रामयेत्पुरे । । ११ चतुर्वेदविदैर्विप्रैर्भ्रामयेद्ब्रह्मणो रथम् । बह्वृचाथर्वणोच्चारैश्छन्दोगाध्वर्युभिस्तथा । । १२ भ्रामयेद्देवदेवस्य सुरज्येष्ठस्य तं रथम् । प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु । । १३ न वोढव्यो रथो वीर शूद्रेण शुभमिच्छता । नारुहेत रथं प्राज्ञो मुक्त्वैकं भोजकं नृप । । १४ ब्रह्मणो दक्षिणे पार्श्वे सावित्रीं स्थापयेन्नृप । भोजको वामपार्श्वे तु पुरतः कञ्जजं न्यसेत् । । १५ एवं तूर्यनिनादैस्तु शंखशब्दैश्च पुष्कलैः । भ्रामयित्वा रथं राजन्पुरं सर्वं प्रदक्षिणम् । । स्वस्थाने स्थापयेद्भूयः कृत्वा नीराजनं बुधः । । १६ य एवं कुरुते यात्रां भक्त्या यश्चापि पश्यति । रथं चाकर्षते यस्तु स गच्छेद्ब्रह्मणः पदम् । । १७ कार्तिके मास्यमावास्यां यस्तु दीपप्रदीपनम् । शालायां ब्रह्मणः कुर्यात्स गच्छेद्ब्रह्मणः पदम् । । १८ प्रतिपदि ब्राह्मणांश्चापि गुडमिश्रैः प्रदीपकैः । वासोभिरहतैश्चापि स गच्छेद्ब्रह्मणः पदम् । । १९ गंधैपुष्पैर्नवैर्वस्त्रैरात्मानं १ पूजयेच्च यः । तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम् । । 1.18.२० महापुण्या तिथिरियं बलिराज्यप्रवर्तिनी । ब्रह्मणः सुप्रिया नित्यं बालेया परिकीर्तिता । । २१ ब्राह्मणान्पूजयित्वास्यामात्मानं च विशेषतः । स याति परमं स्थानं विष्णोरमिततेजसः । । २२ चैत्रे मासि महाबाहो पुण्या प्रतिपदा परा । तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तम । २३ न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप । भवन्ति कुरुशार्दूल तस्मात्स्नानं प्रवर्तयेत् । । २४ दिव्यं नीराजनं तद्धि सर्वरोगविनाशनम् । गोमहिष्यादि यत्किंचित्तत्सर्वं भूषयेन्नृप । । २५ तैलशस्त्रादिभिर्वस्त्रस्तोरणाधस्ततो नयेत् । ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वह । । २६ तिस्रो ह्येताः पराः प्रोक्तास्तिथयः कुरुनन्दन । कार्त्तिकेश्वयुजे मासि चैत्रे मासे च भारत । । २७ स्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप । बलिराज्याप्तिसुखदा पांशुलाशुभनाशिनी । । २८ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पसमाप्तिवर्णनं नामाष्टादशोऽध्यायः
सुमंतू म्हणाले— राजन, पौर्णिमेच्या दिवशी उपवास करून, या विधीने जो मनुष्य भक्तीने ब्रह्मदेवाची पूजा करतो, तो प्रतिपदेच्या दिवशी ब्रह्मलोकाला जातो. विशेषतः ऋग्वेदाच्या स्तोत्रांनी देवी आणि ब्रह्मदेवाच्या वास्तूच्या देवतांची पूजा करावी. कार्तिक महिन्यात देवाची रथयात्रा प्रसिद्ध आहे; ती भक्तीने केली, तर मनुष्य ब्रह्माच्या लोकात पोहोचतो. कार्तिक पौर्णिमेला, राजेंद्र, चार मुखांचा ब्रह्मदेव व सावित्री यांना मार्गावर, चर्मासह, नगरात सर्वत्र वेगवेगळ्या वाद्यांच्या गजरात फिरवावे. सर्व नगरात रथ फिरवून, पुन्हा योग्य स्थळी ठेवावा. प्रथम ब्राह्मणांना भोजन द्यावे, शांडिल्य गोत्राच्या ब्राह्मणाची पूजा करावी, आणि पुण्य वाद्यांच्या निनादात देवाला रथावर विराजमान करावे. रथाच्या पुढे शांडिल्यपुत्राची पूजा करावी, ब्राह्मणांचे वाचन करावे, पुण्याह व मंगल उच्चारावे. देवाला रथावर बसवून, रात्री जागरण करावे, विविध खेळ व ब्रह्मघोष करावेत. सकाळी ब्राह्मणांना आपल्या सामर्थ्यानुसार विविध पक्वान्नांनी भोजन द्यावे, सर्व लोकांची विधिपूर्वक पूजा करावी. बी, दूध, पायस यानेही पूजा करावी. ब्राह्मणांचे वेदपठण करून, पुण्याह शब्द उच्चारावा, व रथ नगरात फिरवावा. चारही वेदांचे जाणकार ब्राह्मण, ऋग्वेदी, अथर्ववेदी, सामवेदी, यजुर्वेदी असे सर्व मिळून ब्रह्मदेवाचा रथ नगरात प्रदक्षिणा घालावा. हे रथ शुभ इच्छिणाऱ्या शूद्राने कधीही ओढू नये, आणि एक भोजक वगळता कोणीही रथावर चढू नये. ब्रह्मदेवाच्या उजव्या बाजूला सावित्रीला, डाव्या बाजूला भोजकाला, आणि पुढे कमळातून जन्मलेल्या देवाला ठेवावे. वाद्यांच्या निनादात, शंखाच्या गजरात, रथ नगरात प्रदक्षिणा घालून, पुन्हा जागेवर ठेवावा व नीट नीराजन करावे. जो भक्तीने अशी यात्रा करतो, किंवा पाहतो, किंवा रथ ओढतो, तो ब्रह्मलोकाला जातो. कार्तिक अमावस्येला जो ब्रह्मदेवाच्या शाळेत दिवा लावतो, तोही ब्रह्मलोकाला जातो. प्रतिपदेच्या दिवशी ब्राह्मणांना गुळमिश्रित दिवे, नवे कपडे देतो, तोही ब्रह्मलोकाला जातो. नवीन सुगंध, फुले, वस्त्रे याने स्वतःची पूजा करतो, तोही प्रतिपदेच्या दिवशी ब्रह्मलोकाला जातो. ही तिथी फार पुण्याची असून, बळीच्या काळात सुरू झालेली आहे, ब्रह्मदेवाला नेहमी प्रिय आहे, म्हणून बाळी तिथी म्हणतात. या दिवशी ब्राह्मणांची व स्वतःची विशेष पूजा केल्यास, तो परम तेजस्वी विष्णूचे स्थान प्राप्त करतो. चैत्र महिन्यातील प्रतिपदा फार पुण्याची आहे; त्या दिवशी जो श्रेष्ठ पुरुष चांडाळाला स्पर्श करून स्नान करतो, त्याला कधीही पाप, दुःख किंवा आजार होत नाहीत, म्हणून स्नान करावे. दिव्य नीराजन सर्व रोगांचा नाश करणारे आहे. गायी, म्हशी वगैरे सर्व जनावरांना सजवावे. तेल, शस्त्र, वस्त्रे, तोरण याने सर्व काही सजवावे. ब्राह्मणांना उत्तम भोजन द्यावे. या तीन तिथी—कार्तिक, अश्विन, आणि चैत्र—फार श्रेष्ठ आहेत. कार्तिकातील तिथीला स्नान व दान शंभरपट पुण्य देते; बळीच्या काळात सुरू झालेली ही तिथी, पाप व दुःख दूर करणारी आहे.
शर्यात्याख्याने पुष्पद्वितीया वर्णनम् सुमन्तुरुवाच द्वितीयायां तु राजेन्द्र अश्विनौ सोमपीतिनौ । च्यवनेन कृतौ यज्ञे मिषतो मघवस्य१ च । । १ शतानीक उवाच कथमिन्द्रस्य मिषतः कृतौ तौ सोमपीतिनौ । च्यवनेन हि देवानां पश्यतां तद्वदस्व मे । । २ अहो महत्तपस्तस्य च्यवनस्य महात्मनः । यदिन्द्रस्य बलादेव देवत्वं प्रापितावुभौ । । ३ सुमन्तुरुवाच पुरातनयुगे सन्धौ पश्चिमेऽथ नराधिप । च्यवनो योगमास्थाय गंगाकूलेऽवसच्चिरम् । । ४ तत्र शर्यातिरायातः स्नातुमन्तः१ पुरैः सह । स्नात्वाभ्यर्च्य२ पितॄन्देवान्गमनायोपचक्रमे । । ५ तत्र मूढं जनपदमपश्यत्पथि चेष्टनम् । विण्मूत्रोत्सर्गसंरुद्धं ज्योतिराक्षिप्तनिष्क्रियम् । । भ्रमन्तं तत्रतत्रैव समीक्ष्य स बलं नृपः । । ६ उवाच३ दुर्मना राजा अमात्यान्स्वान्पुरोगमान् । च्यवनस्याश्रमोऽयं हि नापराद्धं तु केनचित् । । ७ न चोवाच यदा कश्चित्तस्य राज्ञस्तु पृच्छतः । तदा सुता सुकन्यास्य प्रोवाच पितरं वचः । । ८ मया दृष्टं तु यत्तात सखिभिः सह कौतुकम् । तत्ते वच्मि निबोध त्वं शृणु तात महाद्भुतम् । । ९ शिञ्जितारावबहुलाः काञ्चीनूपुरमेखलाः । गायन्त्यो विलपन्त्यश्च कीडन्त्यश्चात्र कानने । । 1.19.१० कोकिलध्वनिमश्रौषं व्यक्ताव्यक्ताक्षरं कृशम् । सुकन्ये ह्येहिह्येहीति वल्मीकाद्वचमुद्गिरन् । । ११ तत्र गत्वाद्भुतं तात पश्यामः किल पावकौ । दीपाविवाचलशिखौ भूयः कन्या उवाच ह । । १२ मया च कौतुकात्तात किमेतदित्यबुद्धितः । सूदितौ दर्भसूच्यग्रैस्तत्तेजः समुपारमत् । । १३ तच्छ्रुत्वा नृपतिस्त्रस्तस्तूर्णं तद्वनमागमत् । यत्रास्ते भार्गवः कष्टं वल्मीकान्तर्गतो मुनिः । । १४ गत्वा स तत्र प्रोवाच प्रणिपत्य द्विजोत्तमम् । अपराद्धं मया १ देव तत्क्षमस्व नमोऽस्तु ते । । १५ स तं प्रोवाच नृपतिं मया ज्ञातं नराधिप । सुकन्यां मे प्रयच्छस्व निवेशार्थी२ ह्यहं नृप । । अनुक्रमन्सुकन्यां तु दत्त्वा राजन्सुखी भव । । १६ इत्युक्तः प्रददौ राजा सुकन्यामविचारयन् । ततः स्वपुरमागम्य अवसत्सुचिरं सुखी । । १७ सुकन्यापि पतिं लब्ध्वा सुप्रीताराधयत्तदा । राज्यश्रियं परित्यज्य वल्कलाजिनधारिणी । । १८ गते बहुतिथे काले वसन्ते समुपस्थिते । तपोद्योतितसर्वाङ्गीं रूपोदार्यगुणान्विताम् । । स्नातां स्वभार्यां च्यवन उवाच मधुराक्षरम् । । १९ एह्येहि भद्रे भद्रं ते शयनीयं समाश्रय । अपत्यं जनयस्याद्य कुलद्वयविवर्धनम् । । 1.19.२० एवमुक्ता तु सा कन्या प्राञ्जलिः पतिमब्रवीत् । ३नार्हस्यद्य सुकल्याण सङ्गमं स्थण्डिलेऽसमे । । २१ मम प्रियं कुरुष्वाद्य ततो मामाह्वयस्व च । पितृगेहे यथातिष्ठं शयनीये सुसंस्कृते । । २२ बहुगैरिकवर्णाद्यैः श्वेतपीतारुणाकुले । वस्त्रालङ्कारगन्धाद्यैस्तथा त्वमपि तत्कुरु । । २३ आत्मानं वयसोपेतं रूपवन्तं सुवर्चसम् । वस्त्रालङ्कारगन्धाढ्यं पश्येयं येन सादरम् । । २४ सुकन्याया वचः श्रुत्वा च्यवनः प्राह दुर्मनाः । न मेऽस्ति वित्तं कल्याणि पितुस्तेऽस्ति यथा वने । । २५ स कथं भूषयाम्यद्य सुरूपश्च कथं वद । प्रोवाच सा पतिं भूयः प्रहसन्ती कृताञ्जलिः । । वित्तं ददावैलविलो रूपं वैरोचनोऽददत् । । २६ च्यवनः प्राह भार्यां तां न करिष्ये तपोव्ययम् । एवमुक्त्वा तपश्चोग्रं तताप सुचिरं तदा । । २७ अथ तत्रागतौ वीरावश्विनौ कालपर्ययात् । दृष्टवन्तौ सुकन्यां तौ दीप्त्या वै देवतामिव । । २८ उपगम्योचतुस्तां तौ का त्वं सुन्दरि रूपिणी । किमर्थमिह एका त्वं तिष्ठसे कस्तवाश्रयः । । २९ सा तावुवाच तन्वङ्गी शर्यातिदुहिता ह्यहम् । भर्ता च च्यवनो मह्यं कौ च वां मे तथोच्यताम् । । 1.19.३० ऊचतुश्चाश्विनौ देवावावां विद्धि नृपात्मजे । किं करिष्यसि तेन त्वं जीर्णेन च कृशेन च । । आवयोर्वृणु भर्तारमेकमेव यमिच्छसि । । ३१ सा त्वब्रवीच्च मा मैवं वक्तुमर्हौ दिवौकसौ । भर्तारमनुरक्ताङ्गी यथा स्वाहा विभावसोः । । ३२ अश्विनावूचतुः आयातु च विशत्वद्य च्यवनो वैष्णवीजलम् । ततो नौ मध्यगं ह्येकं वृणीष्वान्यं यमिच्छति । । ३३ तावब्रूतां सुकन्यां तु गत्वा पृच्छ स्वकं पतिम् । तं च पृष्ट्वा पुनश्चात्रागच्छ नौ सन्निधौ पुनः । । ३४. आवामत्रैव तिष्ठावो यावदागमनं तव । सा गत्वा प्राह भर्तारमश्विनावेवसूचतुः
शर्याति या कथेत पुष्पद्वितीयाचा वर्णन आहे. सुमंतु म्हणाले— राजेंद्र, दुसऱ्या द्वितीयेला अश्विनी कुमारांनी सोमपान केले, तेव्हा च्यवन ऋषींनी यज्ञ केला आणि इंद्र पाहत असतानाच हे घडले. शतानिक म्हणाला— इंद्र पाहत असतानाही अश्विनी कुमारांनी सोमपान कसे केले? च्यवन ऋषींनी देवतांसमोर काय केले, ते मला सांग. च्यवन ऋषींचे तप किती मोठे होते! त्यांच्या तपाच्या बळावर इंद्राच्या सामर्थ्याला हरवून, दोन्ही अश्विनी कुमारांना देवपद मिळवून दिले. सुमंतु म्हणाले— पूर्वीच्या काळात, युगांच्या संधिकाळात, गंगेच्या काठी च्यवन ऋषी दीर्घकाळ योगसाधना करत होते. तेव्हा शर्याति राजा आपल्या नगरवासीयांसह स्नानासाठी आला. स्नान करून पितरांची आणि देवांची पूजा केली आणि नंतर परत जायला निघाला. मात्र, वाटेत त्याने एक गोंधळलेला प्रदेश पाहिला—जिथे लोकांची हालचाल थांबली होती, मलमूत्राने रस्ता अडला होता, आणि कुठेही हालचाल नव्हती. राजा हे पाहून अस्वस्थ झाला. राजा दुःखी मनाने आपल्या मंत्र्यांना म्हणाला—"हे च्यवन ऋषींचे आश्रम आहे, इथे कुणीही काही चुक केलेले नाही." राजा विचारत असतानाही कुणीच काही बोलले नाही. तेव्हा त्याची मुलगी सुकन्या पुढे आली आणि वडिलांना म्हणाली— "वडील, मी आणि माझ्या मैत्रिणींनी एक अद्भुत गोष्ट पाहिली. मी ती तुम्हाला सांगते, ऐका— कांचेनुपूर, कमरपट्टे यांच्या आवाजात आम्ही गात, बोलत, खेळत होतो. तेव्हा मला कोकिळेचा अस्पष्ट, पण मधुर आवाज ऐकू आला—'सुकन्ये, इथे ये, इथे ये' असे जणू वालुकुटीतून कुणीतरी बोलत होते. आम्ही तिथे गेलो आणि दोन तेजस्वी ज्वाळा पाहिल्या, जणू दिव्याच्या ज्योतीसारख्या. मग मी कुतूहलाने, 'हे काय आहे?' असे म्हणून, कुशाच्या काट्याने त्या तेजाला टोचले आणि ते तेज मंद झाले. हे ऐकून राजा घाबरला आणि लगेच त्या वनात गेला, जिथे भृगु वंशातील च्यवन ऋषी वालुकुटीत बसले होते. राजा तिथे जाऊन, त्या श्रेष्ठ ब्राह्मणाला नमस्कार करून म्हणाला—"माझ्याकडून चुकी झाली आहे, कृपया मला माफ करा." मग ऋषी म्हणाले—"हे राजन, मला सर्व माहीत आहे. तू सुकन्येला मला पत्नी म्हणून दे, मी इथेच वास्तव्य करणार आहे." राजाने विचार न करता सुकन्येला च्यवन ऋषींना दिले आणि नंतर आपल्या नगरात परत गेला. तो दीर्घकाळ सुखाने राहिला. सुकन्याही पती मिळाल्यावर अत्यंत आनंदाने त्यांची सेवा करू लागली. तिने राजवैभव सोडून, झाडाची साल आणि मृगचर्म परिधान केले. अनेक दिवस गेले. वसंत ऋतु आला. तपस्येने उजळलेली, सौंदर्य आणि गुणांनी युक्त, स्नान केलेली पत्नी पाहून च्यवन ऋषींनी तिला मधुर शब्दांत बोलावले— "या, या, शुभे, तुला शुभ होवो. या शय्येवर ये. आज आपण संतान प्राप्त करू, जे दोन्ही कुलांचे वाढ करेल." पतीचे हे बोलणे ऐकून सुकन्या हात जोडून म्हणाली— "आज या मातीवर, साध्या शय्येवर आपला संग योग्य नाही. माझे आवडते काही कर, मग मला बोलाव. जसे वडिलांच्या घरी सुंदर शय्येवर मी झोपायचे, तसेच इथेही कर." "अनेक रंगांची वस्त्रे, दागिने, सुवासिक पदार्थ, तसेच तूही तेच कर. मी तुला तरुण, सुंदर, तेजस्वी, वस्त्रालंकारांनी सजलेला पाहू इच्छिते." सुकन्येचे बोलणे ऐकून च्यवन ऋषी दुःखी होऊन म्हणाले—"माझ्याकडे काही संपत्ती नाही, जशी तुझ्या वडिलांकडे आहे. मग मी कसा स्वतःला सजवू?" ती पुन्हा हसत म्हणाली—"वित्त ऐलविलो देईल, रूप वैरोजन देईल." च्यवन ऋषी म्हणाले—"मी तप सोडणार नाही." असे म्हणून त्यांनी कठोर तप सुरू केले. काळानुसार तिथे वीर्यशाली अश्विनी कुमार आले. त्यांनी सुकन्येला पाहिले, जणू एखादी देवता. दोघे तिच्याजवळ जाऊन म्हणाले—"सुंदर स्त्री, तू कोण? इथे एकटी का उभी आहेस? तुझा आश्रय कोण?" ती म्हणाली—"मी शर्याति राजाची कन्या आहे. माझे पती च्यवन ऋषी आहेत. तुम्ही कोण आहात?" ते म्हणाले—"राजकन्ये, आम्ही अश्विनी कुमार आहोत. तू त्या वृद्ध, कृश पतीला का धरतेस? आमच्यातून एकाला पती म्हणून निवड." ती म्हणाली—"देवतांनो, असे बोलू नका. मी पतीप्रेमी आहे, जशी स्वाहा अग्नीला." अश्विनी कुमार म्हणाले—"च्यवन ऋषींना आज विष्णुजलात आण. मग आम्ही तिघे एकसारखे दिसू. त्यात एकाला पती म्हणून निवड." ते म्हणाले—"पतीला विचारून ये. आम्ही इथेच थांबतो." ती जाऊन पतीला सांगते—
३५ रूपवन्तं च भर्तारं करिष्यावो यमिच्छसि । अथ मध्यगतं ह्येकं भर्तृत्वेन वरिष्यसि । । ३६ एवमस्त्विति तां प्राह भार्यां च्यवनस्त्वरन् । सा तं गृह्य जगामाशु यत्र तौ भिषजावुभौ । । ३७ सा तावुवाच च्यवनो यथोक्तं भवतोर्वचः । कुरुतं ह्यश्विनौ क्षिप्रं सुकन्या चेप्सितं२ वृणोत् । । ३८ तौ तं सङ्गृह्य गङ्गायां प्रविष्टौ मुनिना सह । मुहूर्तात्तु समुत्तिष्ठन्रूपतश्च श्रिया वृताः । । ३९ शोभन्ते स्म महाबाहौ कमुद्भिद्य तपोयुताः । कल्पादौ कलशे यद्वत्कञ्जाक्ष व्योम वेधसः । । उदकादुत्थितास्तस्मात्सर्वे ते समरूपकाः ।।1.19.४० सुकन्या तु ततो दृष्ट्वा भर्त्तारं देवरूपिणम् । हर्षेण महताविष्टा न च तं वेद भारत ।।४१ समकायाः समवयः समरूपाः समश्रियः । वस्त्रालङ्कारसदृशान्दृष्ट्वा चिन्तां गता चिरम् ।।४२ सा चिन्तयित्वा सुचिरं वैद्यदेवावुवाच ह । बीभत्सोऽपि मया भर्ता परित्यक्तो न कर्हिचित् ।।४३ भवद्भिरात्मसंदृशं कथं१ त्यक्त्वा वृणे परम् । तस्मात्तमेव भर्तारं प्रयच्छध्वं दिवौकसः ।।४४ तया सबहुमानं तौ प्राञ्जल्या प्रार्थितौ तदा । देवचिह्नानि स्वान्येव धारयन्तौ सुपूजितौ ।।४५ सुकन्या निपुणं तौ तु सुनिरीक्ष्य च विह्वला । न रजो न निमेषो वै न स्पृशेते धरां पदे ।।४६ अयं च सरजा म्लानो भूमिमाश्रित्य तिष्ठति । निमेषं चैव तस्यैवं ज्ञात्वा वै च्यवनो वृतः ।।४७ च्यवने वृते सुकन्यया पुष्पवृष्टिः पपात ह । देवदुन्दुभयश्चैव प्रावाद्यन्त अनेकशः ।।४८ ततस्तु च्यवनस्तुष्टो दिव्यरूपधरस्तदा । उवाच तौ तु सुप्रीत अश्विनौ किं करोमि वाम् ।।४९ भार्या दत्ता कृतं रूपं देवानामपि दुर्लभम् । उपकारं वरिष्ठं यो न करोत्युपकारिणः ।।1.19.५० एकविंशत्स गच्छेच्च नरकाणि क्रमेण वै । तस्मादहं वरिष्ठं वै करिष्येऽहममानुषम् । । ५१ उपकारं भवद्भ्यां तु प्रीतः कुर्यां सुनिश्चितम् । यज्ञभागफलं दद्यां यद्देवेष्वपि दुर्लभम् । । ५२ एवमुक्त्वा तु देवेशौ विससर्ज महामुनिः । आजगामाश्रमं पुण्यं सहभार्यो मुदान्वितः । । ५३ अथ शुश्राव शर्यातिश्च्यवनं देवरूपिणम् । जगाम च महातेजा द्रष्टुं मुनिवरं वशी । । ५४ तं दृष्ट्वा प्रणिपत्यादौ प्रतिपूज्य यथार्हतः । सुकन्यां तु ततो दृष्ट्वा प्रणिपत्याभिनन्द्य च । । ५५ सस्वजे मूर्ध्नि आघ्राय ततोत्सङ्गं १ समानयत् । सा तस्याः सस्वजे प्रेम्णा आनन्दाश्रुपरिप्लुता । । संस्थाप्य तां मुदा युक्तो नृपतिः सह भार्यया । । ५६ भूयोऽब्रवीत्सुसंतुष्टं च्यवनस्तं नराधिपम् । संभारं कुरु यज्ञार्थं याजयिष्ये नराधिप । । ५७ एवमुक्तः स नृपतिः प्रणिपत्य महामुनिम् । जगाम स्वपुरं हृष्टो यज्ञार्थं यत्नमाचरत् । । ५८ सप्रेष्यान्प्रेषयन्क्षिप्रं यज्ञार्थे द्रव्यमाहरत् । मंत्रिपुरोहिताचार्यानानयामास सत्वरम् । । ५९ समानीतेषु सर्वेषु तेषु द्रव्येषु भारत । आजगाम विशुद्धात्मा च्यवनः सह भार्यया । । 1.19.६० सम्पूजितश्च शुश्राव महान्तं त्यागमौजसम् । अन्यैश्च बहुभिः सार्द्धमत्र्यङ्गिरसभार्गवैः । । ६१ प्रवर्तिते महायज्ञे यजमाने नृपोत्तमे । ऋत्विक्त्वकर्मनिरते हूयमाने हुताशने । । आहूताः स्वागताः सर्वे भागार्थं त्रिदिवालयाः । । ६२ यज्ञभागे प्रवृत्ते तु शास्त्रोक्तेन विधानतः । आगतावश्विनौ तत्र आहूतो च्यवनेन तु । । ६३ आह्वाने क्रियमाणे तु अश्विभ्यां तु तदा नृप । प्रोवाचेन्द्रोऽथ च्यवनं नैतौ भागान्वितौ कुरु । । देवानां भिषजावेतौ न भागार्हौ न दैवतौ । । ६४ च्यवनस्त्विंद्रमाहेदं देवौ ह्येतावुभावपि । ममोपकारिणावेतौ दद्मि भागं न संशयः । । ६५ ततो ह्युवाच सक्रोधः स शक्रश्च्यवनं रुषा । विप्रर्षे प्रहरिष्यामि यदि भागं प्रयच्छसि । । ६६ एवमुक्तस्तु विप्रर्षिर्न चोवाचापि किञ्चन । भागौ ददौ च सोऽश्विभ्यां स्रुवमुद्यम्य मन्त्रतः । । ६७ अथ उद्यम्य भिदुरं मोक्तुकामो दिवस्पतिः । स्तम्भितश्च्यवनेनाथ सवज्रः स नराधिप । । ६८ स स्तम्भयित्वात्विन्द्रं तु भागं दत्त्वाश्विनोर्वशी । समापयामास तदा यज्ञकर्म यथार्थवत् । । ६९ कञ्जजोऽथाजगामाशु आह च च्यवनं तदा । उत्तंभ्यतामयं लेखो भागश्चास्त्वश्विनोरिह ।।1.19.७० तथेन्द्रस्तमुवाचेदं च्यवनं प्रीतमानसः । जानामि शक्तिं तपसश्च्यवनेह तवोत्तमाम् ।।७ १ ख्यापनार्थं हि तपसस्तव एतत्कृतं मया । अद्यप्रभृति भागोऽस्तु देवत्वं चाश्विनोस्तथा ।।७२ यस्त्विमां तपसः ख्यातिं त्वदीयां वै पठिष्यति । शृणुयाद्वापि शुद्धात्मा तस्य पुण्यफलं शृणु ।।७३ विरोचनसदो गत्वा गत्वा पुष्पसदस्तथा । कालेऽथ वामदेवस्य मुञ्जकेशसदस्तथा ७४ एवमुक्त्वा जगामाशु देवः स्वभवनं वशी । च्यवनोऽपि सभार्यो वै शयार्तिश्चाश्रमं गतः ।।७५ अथापश्यद्विमानाभं भवनं देवनिर्मितम् । शय्यासनवरैर्जुष्टं सर्वकामसमृद्धिमत् ।।७६ १उद्यानवापिभिर्जुष्टं देवेन्द्रेण समाहृतम् । २गोखण्डसन्निभं रेजे गृहं तद्भुवि दुर्लभम् ।।७७ सुभूषणानि दिव्यानि रत्नवन्ति महान्ति च । अरजान्सि च वस्त्राणि दिव्यप्रावरणानि च । ।७८ तत्सर्वमखिलं सह पत्न्या महामुनिः । मुदं परमिकां लेभे शक्रं च प्रशशंस ह ।।७९ एवमिष्टा तिथिरियं द्वितीया अश्विनोर्नृप । देवत्वं यज्ञभागं च सम्प्राप्ताविह भारत ।।1.19.८० उपोष्या विधिना येन तं शृणुष्व नराधिप । रूपं सुरूपं यो वाञ्छेद्द्वितीयायां नराधिप । । ८१ कार्तिके शुक्लपक्षस्य द्वितीयायां नराधिप । पुष्पाहारो वर्षमेकं भवेत्स नियतात्मवान् । । ८२ कालप्राप्तानि यानि स्युर्हविष्यं कुसुमानि तु । भुञ्जीयात्तानि दत्त्वा तु ब्राह्मणेभ्यो नराधिप । । ८३ सौवर्णरौप्यपुष्पाणि अथ वा जलजानि १ च । व्रतान्ते तस्य सन्तुष्टौ देवौ त्रिभुवनेऽश्विनौ । । ८४ ददतुः कामगं दिव्यं विमानमतितेजसम् । सुचिरं दिवि नारीभिर्लोकेऽसौ रमतेऽश्विनोः । । ८५ इह चागत्य कल्पान्ते जातो विप्रः पुरस्कृतः । वेदवेदांगविदुषः सप्तजन्मान्तराण्यसौ । । ८६ जातो जातो भवेद्विद्वान्ब्राह्मणोऽसौ कृते युगे । दाता यज्ञपतिर्वाग्मी आधिव्याधिविवर्जितः । । ८७ पुत्रपौत्रैः परिवृतः सह पन्त्याऽवसच्चिरम् । मध्यदेशे सुनगरे २ धर्मिष्ठो राज्यभाग्भवेत् । । ८८ इत्येषा कथिता तुभ्यं द्वितीया पुष्पसंज्ञिता । फलसंज्ञा तथान्या स्यात्सुते वै मुञ्जकेशिनि । । ८९ सुष्ठु पुण्या पापहरा विष्टरश्रवसः प्रिया । अशून्यशयना लोके प्रख्याता कुरुनन्दन । । 1.19.९० तामुपोष्य नरो राजञ्छ्रद्धाभक्तिपुरस्कृतः । ऋद्धिं वृद्धिं श्रियं वाथ भार्यया सह मोदते । । ९१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयाकल्पे शर्यात्याख्याने पुष्पद्वितीयावर्णनं नामैकोनविंशोऽध्यायः
"आम्ही तुला सुंदर पती करू, मग त्या तिघांतून एकाला निवड." च्यवन ऋषीने पत्नीला "ठीक आहे" असे म्हणत तिला घेऊन अश्विनी कुमारांकडे नेले. तिने त्यांना च्यवन ऋषीचे म्हणणे सांगितले—"लवकर करा, मी जसे सांगितले तसे करा." ते तिघे गंगेच्या पाण्यात उतरले. काही वेळातच ते तिघेही एकसारखे, तेजस्वी, सुंदर दिसू लागले—जणू कमळातून उमटलेले तेजस्वी पुरुष. सुकन्येने पतीला पाहिले, तो देवासारखा दिसत होता. तिला ओळखता आले नाही. तिघेही एकसारखे, एकाच वयाचे, एकाच रूपाचे, एकाच वस्त्रालंकारात होते. ती गोंधळली. खूप विचार करून तिने अश्विनी कुमारांना म्हणाले—"माझा पती जरी पूर्वी कृश, वृद्ध, अप्रिय होता, तरी मी त्याला कधीच सोडले नाही. मी तुमच्यातून माझ्या पतीला कसे ओळखू? तुम्ही कृपया माझा पतीच मला द्या." ती हात जोडून विनंती करू लागली. अश्विनी कुमारांनी आपली देवचिन्हे ठेवली. सुकन्या बारकाईने पाहू लागली—ज्याच्या पायाला धूळ लागते, डोळे मिचकतात, तोच माझा पती, असे तिने ओळखले. सुकन्येने च्यवन ऋषीची निवड केली. लगेच पुष्पवृष्टी झाली, देवदुंदुभी वाजल्या. च्यवन ऋषी आनंदी होऊन अश्विनी कुमारांना म्हणाले—"तुम्ही माझ्या उपकारकर्ते. मी तुम्हाला यज्ञातील भाग देईन, जो देवांनाही मिळत नाही." मग च्यवन ऋषीने अश्विनी कुमारांना यज्ञभाग दिला. इंद्र रागावून म्हणाला—"तू त्यांना भाग दिलास तर मी तुला शिक्षा करीन." च्यवन ऋषी काहीच न बोलता, मंत्राने अश्विनी कुमारांना भाग दिला. इंद्र वज्र उचलून त्यांना रोखू लागला, पण च्यवन ऋषींनी त्याला स्थिर केले. मग यज्ञ पूर्ण झाला. कमळातून ब्रह्मदेव प्रकट झाला. त्याने सांगितले—"अश्विनी कुमारांना यज्ञभाग मिळावा, असे ठरले." इंद्रही प्रसन्न होऊन म्हणाला—"च्यवन ऋषी, तुझे तप मोठे आहे. आजपासून अश्विनी कुमारांना यज्ञभाग मिळेल." जो कोणी तुझे तप ऐकेल किंवा वाचेल, त्याला पुण्य मिळेल." मग च्यवन ऋषी आपल्या पत्नीसमवेत आश्रमात गेले. तिथे त्यांना देवांनी दिलेले सुंदर, सर्व सुखांनी परिपूर्ण घर मिळाले. राजा शर्याति च्यवन ऋषींना भेटायला आला. त्याने सुकन्येला प्रेमाने भेटले. राजा आणि त्याची पत्नी आनंदाने राहू लागले. मग च्यवन ऋषी म्हणाले—"राजन, यज्ञाची तयारी कर. मी यज्ञ घडवून आणीन." राजा आनंदाने परत गेला आणि यज्ञाची तयारी करू लागला. सर्व साहित्य गोळा करून, मंत्र्यांना, पुरोहितांना बोलावले. च्यवन ऋषी पत्नीसमवेत आले. यज्ञ सुरू झाला. सर्व देवता आले. यज्ञभाग वाटताना च्यवन ऋषींनी अश्विनी कुमारांना भाग दिला. इंद्राने विरोध केला, पण च्यवन ऋषींनी त्याला थांबवले. यज्ञ पूर्ण झाला. देवांनी च्यवन ऋषींचे स्तवन केले. ही द्वितीया तिथी—पुष्पद्वितीया—अश्विनी कुमारांना देवपद आणि यज्ञभाग मिळवून देणारी आहे. जो कोणी कार्तिक शुद्ध द्वितीला पुष्पाहार व्रत करतो, तो वर्षभर पुष्पाहार करतो, ब्राह्मणांना फुले देतो, सुवर्ण, चांदी, जलज फुले दान करतो, त्याला अश्विनी कुमार प्रसन्न होतात आणि दिव्य विमान देतात. तो स्वर्गात रमतो. पुढे पृथ्वीवर जन्म घेतो, विद्वान, ब्राह्मण, दानशूर, आजारी न होणारा, पुत्रपौत्रांनी वेढलेला, धर्मनिष्ठ राजा होतो. ही पुष्पद्वितीया तिथी पुण्यदायी, पापहारी, प्रसिद्ध आहे. जो श्रद्धेने उपवास करतो, तो पत्नीसमवेत सुख, संपत्ती, वाढ अनुभवतो.
अशून्यशयना नाम्न्याः द्वितीयातिथेर्महत्त्वम् शतानीक उवाच ब्रूहि मे द्विजशार्दूल द्वितीयां फलसंज्ञिताम् । यामुपोष्य नरो योषिद्वियोगं नेह गच्छति । । १ पत्न्या नरो मुनिश्रेष्ठ भार्या च पतिना १ सह । तामहं श्रोतुमिच्छामि विधवा स्त्री न जायते । । उपोषितेन येनार्य पत्न्या च सहितो नरः । । २ तन्मे ब्रूहि द्विजश्रेष्ठ श्रेयोऽर्थं नरयोषिताम् । येन मे कौतुकं ब्रह्मञ्छ्रुत्वापूर्वं प्रसर्पति । । ३ सुमन्तुरुवाच अशून्यशयनां नाम द्वितीयां शृणु भारत । यामुपोष्य न वैधव्यं स्त्री प्रयाति नराधिप । । पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते । ।४ शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा नृप । अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः । । ५ कृष्णपक्षे द्वितीयायां श्रावणे मासि भारत । इदमुच्चारयेत्स्नातः प्रणम्य जगतः पतिम् । । श्रीवत्सधारिणं देवं भक्त्याभ्यर्च्य श्रिया सह । । ६ श्रीवत्सधारिञ्छ्रीकान्त श्रीवत्स श्रीपतेऽव्यय । गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् । । ७ गावश्च मा प्रणश्यन्तु मा प्रणश्यन्तु मे जनाः । । ८ जामयो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः । लक्ष्म्या वियुज्येऽहं देव न कदाचिद्यथा भवान् । । ९ तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम् । लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा । । 1.20.१० शय्या ममाप्यशून्यास्तु तथा तु मधुसूदन । एवं प्रमाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः । । ११ फलानि दद्याच्छायायामभीष्टानि जगत्पतिम् । नक्तं १ प्रणम्यायतने हविर्भुञ्जीत वाग्यतः । । १२ ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् । । १३ शतानीक उवाच कानि तानि अभीष्टानि केशवस्य फलानि तु । योज्यानि शयने विप्र देवदेवस्य कथ्यताम् । । १४ किं च दानं द्वितीयेऽह्नि दातव्यं ब्राह्मणस्य तु । भक्तैर्नरैर्द्विजश्रेष्ठ देवदेवस्य शक्तितः । । १५ सुमन्तुरुवाच यानि तत्र महाबाहो काले सन्ति फलानि तु। मधुराणि सुतीव्राणि न चापि कटुकानि तु । । १६ दातव्यानि नृपश्रेष्ठ स्वशक्त्या शयने नृप । मधुराणि प्रदत्तानि नरो वल्लभतां यजेत् । । १७ योषिच्च कुरुशार्दूल भर्तुर्वल्लभतामियात् । तस्मात्कटुकतीव्राणि स्त्रीलिङ्गानि विवर्जयेत् । । १८ खर्जूरमातुलिङ्गानि श्वेतेन शिरसा सह । फलानि शयने राजन्यज्ञभागहरस्य तु । । १९ देयानि कुरुशार्दूल स्वशक्त्या मुञ्जकेशिने । एतान्येव तु विप्रस्य गाङ्गेयसहितानि तु । । 1.20.२० द्वितीयेऽह्नि प्रदेयानि भक्त्या शक्त्या च भारत । वासोदानं तथा धान्यफलदानसमन्वितम् । । गाङ्गेयस्य विशेषेण धान्यदानं प्रचक्षते । । २१ एवं करोति यः सम्यङ्नरो मासचतुष्टयम् । ततो जन्मत्रयं वीर गृहभङ्गो न जायते । । २२ अशून्यशयनश्चासौ धर्मकामार्थसाधनः । भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः । । २३ १नारी च राजन्धर्मज्ञा व्रतमेतद्यथाविधि । या करोति न सा शोच्या बन्धुवर्गस्य जायते । । २४ वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम । नाप्नोति जन्म त्रियतमेतच्चीर्त्वा२ महाव्रतम् । । २५ अदत्त्वा कटुकानीह फलानि कुरुनन्दन । खर्जूरमातुलिङ्गानि बृहत्फलशिरांसि च । । २६ दत्त्वा द्विजेभ्यो राजेन्द्र मधुराणि पराणि च । तस्मात्स्वशक्त्या यत्तेन देयानि मधुराणि च । । २७ इत्येषा कथिता कृष्णद्वितीया तिथिरुत्तमा । यामुपोष्य नरो राजन्नृद्धिं वृद्धिं तथा व्रजेत् । । २८ शतानीक उवाच भवता कथितेयं वै द्वितीया तिथिरुत्तमा । अश्विभ्यां द्विजशार्दूल कथमस्यां जनार्दनः । । २९ सम्पूज्यः फलसंज्ञायां कथितः पद्मया सह । तदत्र कौतुकं मह्यं सुमहज्जायते द्विज । । 1.20.३० सुमन्तुरुवाच एवमेतन्न सन्देहो तथा वदसि भारत । अश्विनोर्वै तिथिरियं किं तु वाक्यं निबोध मे । । ३१ अशून्यशयना दत्ता १विष्णोरमिततेजसः । अश्विभ्यां कुरु शार्दूल प्रीतये मुञ्जकेशिनः । । ३२ तावेव कुरुशार्दूल पूज्येतेऽत्र महीपते । नासत्यौ भगवान्विष्णुर्दत्तश्च श्रीर्विभाव्यते । । ३३ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयाकल्पसमाप्तौ विंशोऽध्यायः
शतानिक म्हणाला— हे श्रेष्ठ ब्राह्मण, मला अशी द्वितीया सांग, जी पाळल्यावर पुरुष आणि स्त्री कधीही एकमेकांपासून वेगळे होत नाहीत. अशी कोणती द्वितीया आहे, जी पाळल्यावर विधवा स्त्री होत नाही? सुमंतु म्हणाले— अशून्यशयना नावाची द्वितीया आहे. जी पाळल्यावर स्त्री कधीही विधवा होत नाही आणि पुरुष पत्नीपासून कधीही दूर राहत नाही. या दिवशी भगवान कृष्ण लक्ष्मीसमवेत शयन करतात, म्हणून ही तिथी स्वीकारावी. श्रावण महिन्यात कृष्णपक्षातील द्वितीयेला, स्नान करून, भगवान श्रीवत्सधारी विष्णू आणि लक्ष्मीची भक्तीने पूजा करावी. हे म्हणावे— "श्रीवत्सधारी, श्रीकांत, श्रीपती, अविनाशी, माझे गृहस्थाश्रम कधीही नष्ट होऊ नये. माझ्या गायी, लोक, जावई, हे सर्व सुरक्षित राहो. लक्ष्मीप्रमाणे मीही कधी तुझ्यापासून वेगळी होऊ नये. माझे शयन नेहमी अशून्य राहो." लक्ष्मी आणि हरिची पूजा करून, झाडाखाली किंवा मंदिरात, भगवान विष्णूला हविष्य, फळे अर्पण करावी. रात्री उपवास करून, दुसऱ्या दिवशी ब्राह्मणाला दान द्यावे. शतानिक म्हणाला— "कुठली फळे अर्पण करावीत? कुठले दान द्यावे?" सुमंतु म्हणाले— "त्या काळात जी गोड, रसाळ फळे मिळतील, ती शय्येवर ठेवावीत. ती फळे दान केल्याने स्त्रीला पतीचे प्रेम मिळते, पुरुषाला पत्नीचे प्रेम मिळते. म्हणून तिखट, कडू, खारट फळे टाळावीत. खजूर, मातुलुंग, पांढऱ्या रंगाची मोठी फळे, ही ब्राह्मणांना द्यावीत. वस्त्र, धान्य, फळे द्यावीत. गंगेच्या पात्रातील धान्य विशेष द्यावे. जो चार महिने हे व्रत करतो, त्याचे तीन जन्मात कधीही घर उद्ध्वस्त होत नाही. तो धर्म, अर्थ, काम साधणारा, संपन्न, सुखी होतो. स्त्रीही हे व्रत केल्यावर कधीही विधवा होत नाही. तिला कधीही वाईट काळ येत नाही. कडू, तिखट, खारट फळे न देता, गोड फळे ब्राह्मणांना द्यावीत. ही कृष्णद्वितीया तिथी श्रेष्ठ आहे. जो पाळतो, त्याला समृद्धी मिळते. शतानिक म्हणाला— "हे द्वितीया व्रत उत्तम आहे. पण अश्विनी कुमारांनी हे व्रत विष्णूला का अर्पण केले?" सुमंतु म्हणाले— "हे व्रत अश्विनी कुमारांनी विष्णूच्या प्रीतीसाठी अर्पण केले. या दिवशी अश्विनी कुमार आणि लक्ष्मी-विष्णू यांची पूजा करावी."
तृतीयातिथिव्रतमाहात्म्यम् सुमन्तरुवाच पतिव्रता पतिप्राणा पतिशुश्रूषणे रता । एवंविधापि या प्रोक्ता शुचिः संशोभना सती । । १ सोपवासा तृतीयां तु लवणं परिवर्जयेत् । सा गृह्णाति च वै भक्त्या व्रतमामरणान्तिकम् । । २ गौरी ददाति सन्तुष्टा रूपं सौभाग्यमेव च । लावण्यं ललितं हृद्यं श्लाघ्यं पुंसां मनोरमम् । । ३ पुंसो मनोरमा नारी भर्त्ता नार्या मनोरमः । गौरीव्रतेन भवति राजँल्लवणवर्जनात् । । ४ इदं व्रतं प्रति विभो धर्मराजस्य शृण्वतः । उमया च पुरा प्रोक्तं यद्वाक्यं तन्निबोध मे । । ५ मया व्रतमिदं सृष्टं सौभाग्यकरणं नृणाम् । मर्त्ये तु नियता नारी व्रतमेतच्चरिष्यति । । सह भर्त्रा स मोदेत यथा भर्ता हरो मम । । ६ या च कन्या न भर्तारं विन्दते शोभना सती । सा त्विदं व्रतमुद्दिश्य भवेदक्षारभोजना । । मच्चित्ता मन्मनाः कुर्यान्मद्भक्ता मत्परिग्रहा । । ७ गौरीं संस्थाप्य सौवर्णीं गन्धालङ्कारभूषिताम् । वस्त्रालङ्कारसंवीतां पुष्पमण्डलमण्डिताम् । । ८ लवणं गुडं घृतं तैलं देव्यै शक्त्या निवेदयेत् । १ कटुखण्डं जीरकं च पत्रशाकं च भारत । । ९ गुडघृष्टांस्तथापूपान्खडवेष्टांस्तथा नृप । ब्राह्मणे व्रतसम्पन्ने प्रदद्यात्सुबहुश्रुते । । 1.21.१० शुक्लपक्षे सदा देया यथा शक्त्या हिरण्मयी । धनहीने तु भक्त्या२ च मधुवृक्षमयी नृप । । ११ अर्च्या नित्यं संनिधानात्तत्र गौरी न संशयः । अक्षारलवणं रात्रौ भुंक्ते चैव सुवाग्यता । । १२ गौरी सन्निहिता नित्यं भूमौ प्रस्तरशायिनी
सुमंतु म्हणाले— पतिव्रता, पतीवर प्राण ठेवणारी, पतीची सेवा करणारी, अशी शुद्ध आणि सद्गुणी स्त्री, तृतीयेला उपवास करताना मीठ टाळते आणि भक्तीने हे व्रत आयुष्यभर पाळते. गौरी प्रसन्न होऊन तिला रूप, सौभाग्य, आकर्षकता, आणि सर्वांना प्रिय असणारे सौंदर्य देते. पतीला पत्नी प्रिय होते, पत्नीला पती प्रिय होतो—हे सर्व गौरीव्रत आणि मीठ टाळल्यामुळे मिळते. हे व्रत पूर्वी धर्मराजाच्या विचारावर, उमादेवीने सांगितले होते. ती म्हणाली— "हे व्रत मी निर्माण केले, जे स्त्रियांसाठी सौभाग्यदायक आहे. पृथ्वीवर प्रत्येक स्त्री हे व्रत पाळेल आणि पतीसह सुखी राहील, जशी मी शंकरासोबत आहे. ज्या कन्येला पती मिळत नाही, तिनेही हे व्रत करावे आणि क्षारयुक्त अन्न खावे. माझ्यावर श्रद्धा ठेवून, माझी भक्ती करून, मला पतिरूपात मानावे. गौरीची सुवर्णमूर्ती, गंध, अलंकार, वस्त्र, फुले याने सजवावी. मीठ, गूळ, तूप, तेल, कडू, जिरे, पालेभाज्या, गूळ-तुपाचे अपूप, खांडवेष्ट अपूप, हे सर्व सामर्थ्यानुसार देवीला अर्पण करावे. व्रतसंपन्न ब्राह्मणाला हे पदार्थ द्यावेत. शुक्लपक्षात नेहमी सुवर्णाची, नाहीतर मधाच्या लाकडाची मूर्ती द्यावी. पूजा केल्याने गौरी नेहमी उपस्थित राहते. रात्री क्षार व मीठ टाळून जेवावे, म्हणजे सौभाग्य मिळते. गौरी नेहमी पृथ्वीवर, प्रास्तरावर शयन करते.
एवं नियमयुक्तस्य४ देव्या यत्समुदाहृतम् । । १३ तच्छृणुष्व महाबाहो कथ्यमानं महाफलम् । भर्तारं तु लभेत्कन्या यं वाच्छति मनोऽनुगम् । । १४ सुचिरं सह वै भर्त्रा क्रीडयित्वा५ इहैव सा । सन्ततिं च प्रतिष्ठाप्य सह तेनैव गच्छति । । १५ हेलिलोकं चन्द्रलोकं लोकं चित्रशिखण्डिनः । गत्वा याति सदो राजन्वामदेवस्य भारत । । १६ विधवा तु यदा राजन्देव्या व्रतपरायणा
हे महाबाहो, देवीने सांगितलेल्या या नियमाचे फळ मी तुला सांगतो, ते लक्षपूर्वक ऐक. जी कन्या आपल्या मनाप्रमाणे पती निवडते, ती या जगात पतीसोबत दीर्घकाळ आनंदाने राहते, संतती निर्माण करते आणि नंतर त्याच्यासोबत पुढे जाते. ती चंद्रलोक, चित्रशिखंडी यांचे लोक, वामदेवांचे स्थान अशा विविध लोकांत जाते आणि अखेरीस सदा वामदेवांच्या सान्निध्यात राहते. पण जी विधवा देवीच्या व्रताला समर्पित असते...
भर्त्तारं नियता नित्यं सदार्चनपरायणा । । १७ इह चोत्सृज्य देहं स्वं दृष्ट्वा हरिपुरे प्रियम् । आक्षिप्य यमदूतेभ्यः सह भर्त्रा रमेद्दिवि । । १८ वर्षकोटिं दशगुणां रमित्वा सा इहागता । भर्त्रा सहैव पूर्वोक्तं लभते फलमीप्सितम् । । १९ इन्द्राण्यापि व्रतमिदं पुत्रार्थिन्या नराधिप । लब्धः पुत्रो व्रतस्यान्ते जयन्तो नाम नामतः । । 1.21.२० अरुन्धत्या तथा चीर्णं वशिष्ठं प्रति कामतः । दृश्यते दिवि चाद्यापि वशिष्ठस्य समीपतः । । २१ रोहिण्या लवणत्यागात्सपन्नीगणमर्दनम् । लब्धं देव्याः प्रसादेन सौभाग्यमचलं दिवि । । २२ इत्येषा तिथिरित्येव तृतीया लोकपूजिता । सदा विशेषतः पुण्या वैशाखे मासि या भवेत् । । २३ पुण्या भाद्रपदे मासि माघेप्येवं न संशयः । माघे भाद्रपदे चापि स्त्रीणां धन्या१ प्रचक्षते । । २४ साधारणी तु वैशाखे सर्वलोकस्य भारत । माघमासे तृतीयायां गुडस्य लवणस्य च । । दानं श्रेयस्करं राजन्स्त्रीणां२ च पुरुषस्य च । । २५ गुडेन तुष्यते दत्तो लवणेन तु विश्वभूः । गुडपूपास्तु दातव्या मासि भाद्रपदे तथा । । २६ तृतीयायां तु माघस्य वामदेवस्य प्रीतये । वारिदानं प्रशस्तं स्यान्मोदकानां च भारत । । २७ वैशाखे मासि राजेन्द्र तृतीया चन्दनस्य च । वारिणा तुष्यते वेधा मोदकैर्भीम एव हि । । दानात्तु चन्दनस्येह कञ्जजो नात्र संशयः । । २८ यात्वेषा कुरुशार्दूल वैशाखे मासि वै तिथिः । तृतीया साऽक्षया लोके गीर्वाणैरभिनन्दिता । । २९ आगतेयं महाबाहो भूरि चन्द्रं वसुव्रता । कलधौतं तथान्नं च घृतं चापि विशेषतः । । यद्यद्दत्तं त्वक्षयं स्यात्तेनेयमक्षया स्मृता । । 1.21.३० यत्किञ्चिद्दीयते दानं स्वल्पं वा यदि वा बहु । तत्सर्वमक्षयं स्याद्वै तेनेयमक्षया स्मृता । । ३१ योऽस्यां ददाति करकन्वारिबीजसमन्वितान् । स याति पुरुषो वीर लोकं वै हेममालिनः । । ३२ इत्येषा कथिता वीर तृतीया तिथिरुत्तमा । यामुपोष्य नरो राजन्नृद्धिं वृद्धिं श्रियं भजेत् । । ३३ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां ब्राह्मे पर्वणि तृतीयाकल्पविधिवर्णनं नामैकविंशोऽध्यायः
जी स्त्री नेहमी पतीला निष्ठेने पूजते आणि या जगात देह सोडून हरिपुरीत आपल्या प्रिय पतीला पाहते, ती यमदूतांकडून वाचून पतीसोबत दिव्यात रमते. दहा कोटी वर्षे आनंद उपभोगून पुन्हा या जगात आली, तरी तिला पूर्वी सांगितलेले इच्छित फळ पतीसोबत मिळते. हे राजन, पुत्रप्राप्तीसाठी इंद्राणीनेही हे व्रत केले आणि व्रताच्या शेवटी तिला जयंत नावाचा पुत्र मिळाला. अरुंधतीनेही हे व्रत वसिष्ठासाठी केले होते, म्हणून आजही ती वसिष्ठाजवळ दिव्यात दिसते. रोहिणीने मीठाचा त्याग करून आणि पानांच्या गटाचा नाश करून देवीच्या कृपेने दिव्यात अचल सौभाग्य मिळवले. म्हणून ही तृतीया तिथी सर्व लोकांनी पूजली जाते, विशेषतः वैशाख महिन्यात ती फार पुण्याची असते. भाद्रपद आणि माघ महिन्यातही ती पुण्यदायी आहे, यात शंका नाही. माघ आणि भाद्रपद महिन्यात स्त्रियांना ही तृतीया फारच शुभ मानली जाते. वैशाख महिन्यात ही तिथी सर्वांसाठी सामान्य आहे. माघ महिन्यात तृतीयेला गूळ आणि मीठ दान करणे स्त्रियांना आणि पुरुषांनाही उत्तम आहे. गूळ दिल्यास विश्वभू देवता प्रसन्न होतात, मीठ दिल्यासही तसेच. भाद्रपद महिन्यात गूळाचे पिठले द्यावे. माघ महिन्यात तृतीयेला वामदेवांच्या प्रसन्नतेसाठी पाण्याचे दान आणि मोदक द्यावेत. वैशाख महिन्यात तृतीयेला चंदन द्यावे; पाण्याने वेध देवता प्रसन्न होतात, तर मोदकाने भीमदेव. चंदन दान केल्याने कंज नावाचा लोक मिळतो, यात शंका नाही. हे कुरुश्रेष्ठ, वैशाख महिन्यात ही तृतीया अक्षय तिथी म्हणून देवांनीही आनंदाने मान्य केली आहे. या दिवशी जो काही गहू, चंद्र, अन्न, तूप इत्यादी दान केले जाते, ते कधीच कमी होत नाही, म्हणून तिला अक्षय तृतीया म्हणतात. या दिवशी थोडे किंवा जास्त जे काही दान दिले, ते सर्व अक्षय राहते. जो पुरुष या दिवशी करकंद, पाणी, बी युक्त दान देतो, तो सोन्याच्या हारासारख्या लोकात जातो. हे वीर, अशी ही तृतीया तिथी सांगितली, जी उपोषण करून जो पाळतो, तो राजन, संपत्ती, वृद्धी आणि श्री मिळवतो.
इथे अगदी कठीण गोष्टीही क्षणात साध्य होतात, मोठ्या अडचणीही दूर होतात. घोडे आणि रथ असलेले शत्रू, सहकारी, पुत्र यांच्या मदतीने तो राजा दीर्घायुषी होतो आणि सात जन्म राजेपद मिळवतो—हे सर्व विघ्नहर्ता विनायक प्रसन्न झाल्यावर देतो.
विघ्नविनायकाची कथा: शतानीक म्हणाला—भिमाचा पुत्र, प्रमथांचा स्वामी, हा कोणाच्या कृतीने निर्माण झाला? आणि तो विघ्नांचा अधिपती कसा झाला?
चतुर्थीकल्पे पुरुषलक्षणवर्णनम् शतानीक उवाच नराणां योषितां चैव लक्षणानि महामते । प्रोक्तानि यानि विप्रेन्द्र व्योमकेशस्य सूनुना । । १ क्रुद्धेन यानि क्षिप्तानि ईश्वरेण महोदधौ । कृष्णस्य वचनाद् भूयः समुद्रेणार्पितानि वै । । २ अर्पितानि ततस्तस्य तेन प्राप्तानि वै कथन् । बाहुलेयेन विप्रेन्द्र तानि मे वद सुव्रत । । ३ सुमन्तुरुवाच यथा गुहेन राजेन्द्र स्त्रीपुंसां लक्षणानि वै । प्रोक्तानि कुरुशार्दूल तथा ते कथयामि वै । । ४ शक्तिपाताद्धते क्रौञ्चे व्योमकेशस्य सूनुना । ब्रह्मा तुष्टोऽब्रवीदेनं वरं वरय मेऽनघ । । ५ असावपि महातेजाः प्रणम्य शिरसा विभुम् । पितामहं बभाषेदं लक्षणं ब्रूहि मे विभो । । ६ नराणां युवतीनां च कौतुकं परमं मम । यन्मयोक्तं पुरा देव प्रक्षिप्तं लवणार्णवे । । ७ मत्पित्रा देवदेवेश सक्रोधेन पुरा तथा । प्राप्तं च विस्मृतं भूयस्तन्मे ब्रूहि ह्यशेषतः । । ८ ब्रह्मोवाच साधु पृष्टोऽस्मि देवेश भीमस्यानन्दवर्धन । लक्षणानि निबोध त्वं पुरुषाणामशेषतः । । अधमोत्तममध्यानि यानि प्राप पयोनिधिः । । ९ शिवेऽहनि सुनक्षत्रे ग्रहे सौम्ये शुभे रवौ । पूर्वाह्णे मङ्गलैर्युक्ते परीक्षेत विचक्षणः । । 1.24.१० प्रमाणं संहतिं छायां गतिं सर्वाङ्गलक्षणम् । दन्तकेशनखश्मश्रु एतत्सर्वं विचक्षणः । । ११ पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् । क्षीणे ह्यायुषि मर्त्यानां लक्षणैः किं प्रयोजनम् । । १२ जघन्यो नवतिः प्रोक्तो मध्यमस्तु शताड्गुलः । अष्टोत्तरशतं यस्य उत्तमं तस्य लक्षणम् । । १३ प्रमाणलक्षणं प्रोक्तं समुद्रेण शुभाशुभम् । यन्मे पुरा देववर मया वै कथितं तव । । अतः परं प्रवक्ष्यामि देहावयवलक्षणम् । । १४ पादैः समांसकैः २ स्निग्धै रक्तं सौम्यैः सुशोभनैः । उन्नतैः स्वेदरहितैः शिराहीनैश्च पार्थिवः । । १५ यस्य पादतले रेखा सांकुशेव प्रकाशते । सततं हि सुखं तस्य पुरुषस्य न संशयः । । १६ अस्वेदनौ मृदुतलौ कमलोदरसन्निभौ । श्लिष्टाङ्गुली १ ताम्रनखौ सुपार्ष्णी व्योमकेशज । । १७ उष्णौ शिराविरहितौ गूढगुल्फौ च भीमज । कूर्मोन्नतौ च चरणौ प्रख्यातौ पार्थिवस्य तु । १८ शूर्पाकृती महाबाहो रूक्षौ श्वेतनखौ तथा । वक्रौ शिरासन्ततौ च संशुष्कौ विरलाङ्गुली । । १९ दारिद्र्यदुःखदौ ज्ञेयौ चरणौ भीमनन्दन । ब्रह्मघ्नौ देवशार्दूल ३ पक्वमृत्सदृशौ पदौ । । 1.24.२० पीतावगम्यानिरतौ कृष्णौ पानरतौ सदा । अभक्ष्यभक्षणे श्वेतौ ज्ञेयौ सेनाधिपोत्तम । । २१ अङ्गुष्ठौ पृथुलौ येषां ते नरा भाग्यवर्जिताः । क्लिश्यन्ते विकृताङ्गुष्ठास्ते नराः पादगामिनः । । २२ चिपिटैर्विकृतैर्भग्नैरङ्गुष्ठैरतिनिन्दिताः । वक्रैर्भग्नैस्तथा ह्रस्वैरङ्गुष्ठैः क्लेशभागिनः । । २३ शूर्पाकारैश्च विकृतैर्भग्नर्वक्रैः शिराततैः । सस्वेदैः पाण्डुरूक्षैश्च चरणैरतिनिन्दिताः । । २४ यस्य प्रदेशिनी दीर्घा अङ्गुष्ठं या अतिक्रमेत् । स्त्रीभोगं लभते नित्यं पुरुषो नात्र संशयः । । कनिष्ठायां तु दीर्घायां सुवर्णस्य तु भागिनः । । २५ चिपिटा विरलाः शुष्का यस्याङ्गुल्यो भवन्ति वै । स भवेद्दुःखितो नित्यं धनहीनश्च वै ४ गुह । । २६ श्वेतैर्नखैर्विरूक्षैश्च पुरुषा दुःखजीविनः । कुशीलाः कुनखैर्ज्ञेयाः कामभोगविवर्जिताः । । विकृतैः स्फुटितैरूक्षैर्नखैर्दारिद्र्यभागिनः । । २७ ब्रह्महत्यां च कुर्वन्ति पुरुषा हरितैर्नखैः । बन्धुभिश्च वियुज्यन्ते कुलक्षयकराश्च ते । । २८ इन्द्रगोपकसंकाशैर्नखैर्नृपतयः स्मृताः । शङ्खावर्तप्रतीकाशैर्नखैर्भवति पार्थिवः । । २९ ताम्रैर्नखैस्तथैश्वर्यं धन्याः पद्मनखा नराः । रक्तैर्नखैस्तथैश्वर्यं पुष्पितैः सुभगो भवेत् । । सूक्ष्मैरुपचितैस्ताम्रैर्नखैर्नृपतयः स्मृताः । । 1.24.३० रोमशाभ्यां च जङ्घाभ्यां दुःखदारिद्र्यभागिनः । बन्धनं ह्रस्वजङ्घानामैश्वर्यं चैव निर्दिशेत् । । ३१ १मृगजङ्घाश्च राजानो जायन्ते नात्र संशयः । दीर्घजङ्घाः स्थूलजङ्घा नित्यं भाग्यविवर्जिताः । । ३२ शृगालजङ्घाः पुरुषा नित्यं भाग्यविवर्जिताः । काकजंघा नरा ये तु भवेयुर्दुःखभागिनः । । ३३ २पीनजङ्घास्तथैश्वर्यं प्राप्नुवन्ति न संशयः । सिंहव्याघ्रसमा जङ्घा धनिनः परिकीर्तिताः । । ३४ पार्थिवानां भवेद्रोम चैकैकं रोमकूपके । पंडितश्रोत्रियाणां च द्वेद्वे ज्ञेये महामते । । ३५ त्रिभिस्त्रिभिस्तथा निःस्वा मानवा दुःखभागिनः । केशाश्चैव महाबाहो निन्दिता पूजितास्तथा । । ३६ निर्मांसजानुर्म्रियते प्रवासे शिवनन्दन
शतानीक म्हणाला—हे महात्म्या, पुरुष आणि स्त्रियांची जी चिन्हे व्योमकेशाच्या पुत्राने सांगितली, ती कोणती? प्रभूने रागाने जी चिन्हे महासागरात टाकली आणि कृष्णाने पुन्हा समुद्राकडे दिली, ती कशी मिळाली? बाहुलेयाने ती कशी मिळवली, हे मला सांग. सुमंतुर म्हणतो—गुहाने जशी स्त्री-पुरुषांची चिन्हे सांगितली, तशी मी तुला सांगतो. व्योमकेशाच्या पुत्राने क्रौंचाचा वध केल्यावर ब्रह्मदेव प्रसन्न होऊन म्हणाला—वर माग. त्याने वंदन करून, 'मला पुरुष आणि युवतींची चिन्हे सांग,' असे विचारले. पूर्वी मी जी चिन्हे सांगितली ती देवदेवेश्वराने रागाने समुद्रात टाकली होती, ती मला पुन्हा मिळाली, ती पूर्णपणे सांग. ब्रह्मदेव म्हणतो—हे देवेश, भिमाचा आनंद वाढवणारा, तू चांगला प्रश्न विचारलास. पुरुषांची सर्व चिन्हे ऐक. नीच, मध्यम आणि श्रेष्ठ जी चिन्हे समुद्राने मिळवली, ती सांगतो. शुभ दिवशी, शुभ नक्षत्रात, शुभ ग्रह, शुभ सूर्य असताना, सकाळी मंगलकारक वेळी जाणकाराने माणसाची उंची, देहाची जाडी, सावली, चाल, सर्व अंगांची चिन्हे, दात, केस, नख, दाढी—हे सर्व नीट पाहावे. आधी आयुष्य तपासावे, मग चिन्हे सांगावीत. आयुष्य कमी असेल तर चिन्हांचा काही उपयोग नाही. सर्वात कमी नव्वद अंगुळे, मध्यम शंभर अंगुळे, आणि ज्याचे शरीर एकशे आठ अंगुळे असेल, त्याचे चिन्ह श्रेष्ठ मानावे. समुद्राने जी उंचीची चिन्हे सांगितली, ती शुभ किंवा अशुभ असू शकतात. आता मी शरीराच्या अवयवांची चिन्हे सांगतो. ज्याचे पाय मांसल, गुळगुळीत, लाल, सुंदर, उंच, घाम नसलेले, शिरा नसलेले असतात, त्याला नेहमी सुख मिळते. ज्याच्या पायाच्या तळव्यावर अंकुशासारखी रेषा असते, त्याला नेहमी सुख मिळते. ज्याचे पाय मऊ, कमळाच्या आतासारखे, बोटे जुळलेली, तांबडी नखे, टाच मजबूत, उष्ण, शिरा नसलेले, घोटे लपलेले, कासवासारखे उंच पाय—हे सर्व राजाच्या पायांची चिन्हे. ज्याचे पाय सुपासारखे, खरबूच, पांढरी नखे, वाकडी बोटे, शिरा दिसणारे, कोरडे, विरळ बोटे—त्याला दरिद्रता आणि दुःख मिळते. ब्रह्महत्येसारखे पाप करणारे, पक्वमातीसारखे पाय असणारे, पिवळे, काळे, पांढरे, किंवा विकृत अंगठे असणारे—हे सर्व अशुभ मानले जातात. ज्याची बोटे सपाट, विरळ, कोरडी असतात, तो नेहमी दुःखी आणि धनहीन असतो. पांढरी किंवा कोरडी नखे असणारे पुरुष दुःखी असतात. तुटकी, फुटकी, कोरडी नखे असणारे दरिद्री असतात. हिरवी नखे असणारे पुरुष ब्रह्महत्येचे पाप करतात आणि कुटुंबाचा नाश करतात. इंद्रगोपासारखी किंवा शंखासारखी नखे असणारे राजे मानले जातात. तांबडी नखे असणारे ऐश्वर्यशाली, कमळासारखी नखे असणारे धन्य, लाल नखे असणारे ऐश्वर्यशाली, सुंदर नखे असणारे भाग्यवान असतात. पायावर एकेक केस असणारे राजे, दोन दोन केस असणारे पंडित, तीन तीन केस असणारे दरिद्री मानले जातात. ज्याचे गुडघे मांसहीन असतात, तो प्रवासात मरण पावतो.
३७ सौभाग्यमल्पै कथितं दारिद्र्यं विकटैस्तथा । निम्नैः स्वस्त्रीजिता ज्ञेयाः समांसै राज्यभागिनः । । ३८ ४हंसभासशुकानां च तुल्या यस्य गतिर्भवेत् । स भवेत्पार्थिवः पूज्यः समुद्रवचनं यथा । । ३९ अन्येषामपि शस्तानां पक्षिणां च शुभा गतिः । वृषसिंहगजेन्द्राणां ६गतिर्भोगविवर्धिनी । । 1.24.४० जलोर्मिसदृशी या च काकोलूकसमा च या । गतिर्द्रव्यविहीनानां दुःखशोकभयङ्करा । । ४१ श्वानोष्ट्महिषाणां १खरसूकरयोस्तथा । गतिर्मेषसमा येषां ते नरा भाग्यवर्जिताः । । ४२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम चतुर्विंशोध्यायः
थोडक्यात सांगायचे तर, सौभाग्य साध्या आणि सरळ चिन्हांत असते, तर विकृत चिन्हांत दरिद्रता असते. ज्यांच्या मांडी खाली बसलेल्या असतात, त्यांना त्यांच्या स्त्रिया जिंकतात; ज्यांच्या मांडी मांसल असतात, त्यांना राज्य मिळते. ज्याची चाल हंस, बगळा किंवा पोपटासारखी असते, तो राजा आणि पूज्य होतो, असे समुद्राने सांगितले. इतर शुभ पक्ष्यांची चालही शुभ असते. वृषभ, सिंह, हत्ती यांची चाल भोग वाढवणारी असते. पाण्याच्या लाटेसारखी, कावळा किंवा घुबडासारखी चाल असणाऱ्यांना दुःख, शोक आणि भीती मिळते. कुत्रा, उंट, म्हैस, गाढव, डुक्कर किंवा मेंढ्यासारखी चाल असणारे पुरुष भाग्यहीन असतात.
पुरुषलक्षणवर्णनम् ब्रह्मोवाच दक्षिणावर्तलिङ्गश्च नरो वै पुत्रमान्भवेत् । वामावर्ते तथा लिङ्गे नरः कन्यां प्रसूयते । । १ स्थूलैः शिरालैर्विषमैर्लिङ्गैर्दारिद्र्यमादिशेत् । ऋजुभिर्वर्तुलाकारैः पुरुषा पुत्रभागिनः । । २ निम्नपादोपविष्टस्य भूमिं स्पृशति मेहनः । दुःखितं तं विजानीयात्पुरुषं नात्र संशयः । । ३ भूमौ पादोपविष्टस्य गुल्फौ स्पृशति मेहनः । ईश्वरं तं विजानीयात्प्रमदानां च वल्लभम्
ब्रह्मा म्हणाले— ज्याच्या लिंगाचा वळण उजवीकडे आहे, त्याला पुत्र होतो; डावीकडे वळण असलेल्या पुरुषाला कन्या होते. ज्याचे लिंग जाड, शिरांनी भरलेले किंवा वाकडे आहे, त्याला दारिद्र्य येते. सरळ आणि गोलाकार लिंग असलेल्या पुरुषांना पुत्रप्राप्ती होते. ज्याचा लिंग बसताना जमिनीला लागतो, तो पुरुष नेहमी दुःखी असतो, यात शंका नाही. बसताना ज्याचे टाचे लिंगाला लागतात, तो पुरुष स्त्रियांमध्ये प्रिय आणि सर्वांचा स्वामी असतो.
पुरुषलक्षणवर्णनम् ब्रह्मोवाच समकुक्षिर्भवेद्भोगी निम्नकुक्षिर्धनापहः । मायावी विषमा १ कुक्षिस्तथा कुहककृत्सदा । । १ राजा स्यान्निम्नकुक्षिस्तु सार्वभौमो महाबलः । सर्पोदरा दरिद्राः स्युर्बहुभक्षाश्च सुव्रत । । २ विस्तीर्णाभिर्मण्डलाभिरुन्नताभिश्च नाभिभिः । भवन्ति सुखिनो वीरा धनधान्यसमन्विताः । । ३ निम्नाभिरथ स्वल्पाभिः क्लेशभाजो भवन्ति हि । वलिर्मध्यङ्गता वीरा विषमा च विशेषतः । । धनहानिं तथा शूलं नित्यं जनयते विभो । । ४ वामावार्ता सदा शान्तिं करोतीति विदुर्बुधाः । करोति मेधां दक्षिणेन संप्रवृत्ता दिवस्पते । । ५ पार्श्वायता दीर्घमायुरैश्वर्यमूर्ध्वतः स्मृतम् । गवाढ्यतामधस्तात्तु करोतीति विदुर्बुधाः । । ६ शतपत्रकर्णिकाभा नाभिर्यस्य महामते । भूपत्वं कुरुते सा तु पुरुषस्य न संशयः । । ७ समोदरो भवेद्भोगी निस्वः स्याद्विषमोदरः । सूक्ष्मोदरो भवेद्वाग्मी बहुसम्पत्समन्वितः । । ८ शस्त्रेणान्तं व्रजेद्वीर स्त्रीभोगं चाप्नुयात्तथा । आचार्यो बहुपुत्रश्च यथासङ्ख्यं विनिर्दिशेत् । । ९ वलिभिर्देवशार्दूल इत्याह स पयोनिधिः । अगम्यागामिनो ज्ञेया विषमाभिर्न संशयः । । 1.26.१० ऋजुभिर्वसुभोगी स्यात्परदारविनिन्दकः । मांसलैर्मृदुभिः पार्श्वै राजा स्यान्नात्र संशयः । । ११ अनूर्ध्वचिबुका ये तु सुभगास्ते भवन्ति वै । निर्धना विषमैर्दीर्घैर्भवन्तीह सुवीरज । । १२ पीनैश्चोपचितैर्निम्नैः १ स्कन्धैर्भीमाङ्गसम्भव । राजानः सुखिनश्चापि भवन्तीह न संशयः । । १३ समोन्नतं तु हृदयं समं च पृथु चैव हि । अवेपनं मांसलं च पार्थिवानां न संशयः । । १४ खररोमचितं वीरशिरालं च विशेषतः । अधनानां भवेदेव हृदयं ऋभवोत्तम । । समवक्षसोऽर्थयुताः पीनैः शूराः स्मृता बुधैः । । १५ तनुभिर्द्रव्यहीनाः स्युरसमैश्चाप्यकिञ्चनाः । वध्यन्ते चापि शस्त्रेण नात्र कार्या विचारणा । । १६ हनुभिर्विषमैर्वीर जन्महीनो भवेन्नरः । यस्योन्नतो भवेद्धनुः स भोगी स्यान्न संशयः । । १७ निर्मांसैर्विषमैर्वीर निःस्वो निम्नैः प्रचक्ष्यते । धनवांश्च भवेत्पीनैः सुखभोगसमन्वितः । । विषमैरर्थहीनः स्याद्दुःखभागी सदा नरः । । १८ चिपिटग्रीवको दुष्टो मतो लोके स वै गुह । शूरः स्यान्महिषग्रीवो मृगग्रीवो भयातुरः । । १९ कम्बुग्रीवो भवेद्राजा लम्बकण्ठोऽग्रलक्षणः । ह्रस्वग्रीवस्तु धनवान्सुसुखी भोगवांस्तथा । । 1.26.२० निमांसौ रोमशौ भग्नावल्पौ वापि विशेषतः । निर्धनस्येदृशावंसौ प्रख्यातौ व्योमकेशज । । २१ भवेदरोमशं पृष्ठं धनिनां भीमसम्भव । सलोमशं तथा वक्रं निर्धनानां बलाधिप । । २२ अस्वेदनावुन्नतौ च तथा पीनौ षडानन । समरोमसुगन्धौ च कक्षौ ज्ञेयौ धनान्वितौ । । २३ अव्युच्छिन्नौ तथा श्लिष्टौ विपुलौ च सुराधिप । शूराणामीदृशावंसौ नगजानन्दवर्धन । । २४ उद्वृद्धबाहुको यस्तु वधबन्धनमाप्नुयात् । दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा । । २५ प्रलम्बबाहुर्विज्ञेयो नरः सर्वगुणान्वितः । ह्रस्वबाहुर्भवेद्दासः परप्रेष्यकरोऽपि वा । । २६ वामावर्तभुजा ये तु दीर्घायतभुजाश्च ये । सम्पूर्णबाहू राजा स्यादित्याह स पयोनिधिः । । २७ ग्रीवा च १वर्तुलाकारा कम्बुरेखासमावृता । स भवेत्पार्थिवो भूमौ सर्वदुष्टनिबर्हणः । । २८ दीर्घग्रीवा बकग्रीवा शुकग्रीवाश्च ये नराः । उष्ट्रग्रीवाः करिग्रीवाः सर्वे ते निर्धनाः स्मृताः । । २९ इभाङ्गसदृशौ२ वृत्तौ समौ पीनौ च सुव्रत । आजानुलम्बिनौ बाहू पार्थिवानां न संशयः । । 1.26.३० दरिद्राणां लोमशौ ह्रस्वौ बाहू ज्ञेयौ सुरोत्तम । तस्कराणां च विषमौ स्थूलौ सूक्ष्मौ च सुव्रत । । ३१ निम्नं करतलं यस्य पितृवित्तं न तस्य वै । भवेदार्भवशार्दूल तथा भीरुश्च मानवः । । ३२ सुवृत्ततनुनिम्नेन धनवान्करतलेन तु । उत्तानकरतलो दाता भवतीति न संशयः । । ३३ विषमा भवन्ति विषमैर्निम्नाश्चापि विशेषतः । करतलैर्देवशार्दूल लाक्षाभैरीश्वराः स्मृताः । । ३४ अगम्यागमनं पीतै रूक्षैर्निर्धनता स्मृता । अपेयपानं कुर्वन्ति नीलकृष्णैः सदैव हि । । ३५ निम्नाः स्निग्धा भवेन्नृणां रेखा करतले गुह । धनिनां न दरिद्राणामित्याह स पयोनिधिः । । ३६ विरलाङ्गुलयो ये तु ते दरिद्राः प्रचक्षते । धनिनस्तु महाबाहो ये घनाङ्गुलयो नराः । । ३७ वदनं मण्डलं यस्य धर्मशीलं तमादिशेत् । शुण्डवक्त्रा नरा ये तु दुर्भगास्ते न संशयः । । ३८ हरिवक्त्रा जिह्मवक्त्रा विकृतास्यास्तथा नराः । भग्नवत्राः करालास्या सर्वे ते तस्कराः स्मृताः । । ३९ सम्पूर्णवक्त्रा राजानो गजसिंहाननास्तथा । छागवानरवक्त्राश्च धनिनः परिकीर्तिताः । । 1.26.४० यस्य गण्डौ सुसम्पूर्णौ पद्मपत्रसमप्रभौ । कृषिभागी भवेन्नित्यं बहुवित्तश्च मानवः । । ४१ सिंहव्याघ्रगजेन्द्राणां कपोलः सदृशो यदि । महाभोगी स विज्ञेयः सेनायाश्चैव नायकः । । ४२ वदनं तु समं श्लक्ष्णं सौम्यं संवृतमेव हि । पार्थिवानां महाबाहो विपरीतन्तु दुःखदम् । । ४३ महामुखं तु देवेश दुर्भगत्वं प्रयच्छति । स्त्रीमुखं पुत्रनाशाय मण्डलं सुखितां व्रजेत् । । ४४ द्रव्यनाशाय वै दीर्घं पापदं भयदं तथा । धूर्तानां चतुरस्रं स्यात्पुत्रहानिकरं शृणु । । ४५ निम्नवक्त्रं च देवेन्द्र पुत्रहानिकरं भवेत् । ह्रस्वं भतति कीनाशे पूर्णकान्तं च भोगिनाम् । । ४६ रक्ताधरो नरपतिर्धनवान्कमलाधरः । स्थूलोष्ठा हनुमूलाश्च शुष्कैस्तीक्ष्णैश्च दुःखिताः । ।४७ अस्फोटिताग्रं स्निग्धं च नतं मृदु तथा गुह । सम्पूर्णं च सदा शस्तं श्मश्रु भूमिपतेर्गुह । । ४८ रक्तैश्चाल्पैस्तथा रूक्षैः श्मश्रुभिर्भीमनन्दन । नराश्चौरा भवन्त्येव परदाररतास्तथा । ।४९ निर्मांसौ यस्य वै कर्णौ संग्रामान्नाशमृच्छति
ब्रह्मा म्हणाले— ज्याचे पोट सम आहे, तो उपभोग घेणारा असतो; ज्याचे पोट आत गेलेले आहे, त्याचे धन नष्ट होते; ज्याचे पोट वाकडे आहे, तो नेहमी फसवणूक करणारा असतो. ज्याचे पोट खाली गेलेले आहे, तो राजा आणि बलवान सार्वभौम होतो. सापासारखे पोट असलेले गरीब आणि नेहमी खाणारे असतात. ज्याची नाभी मोठी, गोल आणि उंच आहे, ते वीर, सुखी, धन-धान्याने समृद्ध असतात. लहान किंवा खाली गेलेल्या नाभी असलेले दुःख भोगतात. नाभीच्या मध्यभागी रेषा असलेले, विशेषतः वाकड्या रेषा असलेले, नेहमी धनहानी आणि वेदना सहन करतात. डावीकडे वळण असलेल्या नाभीने शांतता मिळते, उजवीकडे वळण असलेली नाभी बुध्दिमत्ता देते. बाजूला लांब नाभी असलेल्यांना दीर्घायुष्य आणि ऐश्वर्य मिळते; खाली वळलेली नाभी गायींच्या संपत्तीचे लक्षण समजले जाते. ज्याची नाभी कमळाच्या मध्यभागासारखी आहे, तो नक्कीच राजा होतो. ज्याचे पोट सम आहे, तो उपभोगी असतो; वाकडे पोट असलेला गरीब असतो; ज्याचे पोट बारीक आहे, तो वक्तृत्ववान आणि संपन्न असतो. शस्त्राने मृत्यू येणारे वीर, स्त्रीसुख मिळवणारे, आणि अनेक पुत्र असलेले आचार्य, हे सर्व त्यांच्या पोटाच्या प्रकारावरून ओळखता येतात. वाकड्या रेषा असलेले पुरुष परस्त्रीकडे वळणारे असतात; सरळ रेषा असलेले धनसंपन्न असतात. मांसल आणि मऊ बाजू असलेला राजा असतो. ज्याची हनू वर गेलेली नाही, तो भाग्यवान असतो; वाकडी आणि लांब हनू असलेले गरीब असतात. जाड, उंच खांदे असलेले राजे सुखी असतात. ज्याचे हृदय सम, मोठे, मांसल आणि थरथरणारे आहे, ते राजांचे लक्षण आहे. खरखरीत केस असलेले, शिरांनी भरलेले हृदय असलेले गरीब असतात. जाड छाती असलेले शूर, तर बारीक छाती असलेले गरीब असतात. वाकडी हनू असलेला पुरुष कमी आयुष्याचा असतो; उंच हनू असलेला उपभोगी असतो. बारीक, वाकडी हनू असलेला गरीब असतो; जाड हनू असलेला धनवान आणि सुखी असतो. वाकडी हनू असलेला नेहमी दुःखी असतो. सपाट मान असलेला दुष्ट असतो; महिषासारखी मान असलेला शूर, मृगासारखी मान असलेला घाबरट असतो. शंखासारखी मान असलेला राजा, लांब मान असलेला धनवान आणि सुखी असतो. बारीक, केसाळ, तुटलेली किंवा लहान मान असलेली व्यक्ती गरीब असते. केसाळ पाठ असलेला धनवान असतो; वाकडी आणि केसाळ पाठ असलेला गरीब असतो. घाम न येणारे, उंच, जाड, केसाळ आणि सुगंधी बगले असलेले धनवान असतात. मोठ्या, जुळलेल्या आणि केसाळ बगले असलेले शूर असतात. लांब बाहू असलेला राजा होतो; खूप मोठ्या बाहू असलेला सर्व गुणांनी युक्त असतो; लहान बाहू असलेला दास किंवा दुसऱ्याचा सेवक असतो. डावीकडे वळण असलेल्या किंवा लांब बाहू असलेला राजा होतो. गोल, शंखरेषा असलेली मान असलेला सर्व दोषांचा नाश करणारा राजा असतो. लांब, बक, शुक, उंट किंवा हत्तीच्या मानासारखी मान असलेले गरीब असतात. हत्तीच्या पायासारखे, गोल, जाड आणि गुडघ्यापर्यंत लांब बाहू असलेले राजे असतात. केसाळ, लहान बाहू असलेले गरीब असतात; वाकडे, जाड किंवा बारीक बाहू असलेले चोर असतात. ज्याचे करताल खाली गेलेले आहे, त्याला पितृसंपत्ती मिळत नाही आणि तो भित्रा असतो. गोल, बारीक, खाली गेलेले करताल असलेला धनवान असतो; वरच्या बाजूने उघडे करताल असलेला दाता असतो. वाकडे, खाली गेलेले करताल असलेले राजे असतात. पिवळे, खरखरीत करताल असलेले गरीब असतात; निळे किंवा काळे करताल असलेले नेहमी मद्यपान करणारे असतात. गुळगुळीत, खाली गेलेल्या रेषा असलेले धनवान असतात; विरळ बोटे असलेले गरीब असतात; जाड बोटे असलेले धनवान असतात. गोल चेहरा असलेला धर्मशील असतो; सोंडेप्रमाणे चेहरा असलेले दुर्दैवी असतात. हरिणासारखा, वाकडा, विकृत किंवा तुटलेला चेहरा असलेले चोर असतात. पूर्ण चेहरा असलेले, हत्ती-सिंहासारखा चेहरा असलेले राजे असतात; शेळी किंवा माकडासारखा चेहरा असलेले धनवान असतात. ज्याचे गाल कमळाच्या पानासारखे सुंदर आहेत, तो नेहमी शेतकरी आणि धनवान असतो. सिंह, वाघ, हत्ती यांच्यासारखे गाल असलेला मोठा उपभोगी आणि सेनापती असतो. सम, गुळगुळीत, सुंदर आणि झाकलेला चेहरा असलेला राजा असतो; उलट चेहरा दुःखदायक असतो. मोठा तोंड असलेला दुर्दैवी असतो; स्त्रीसारखा तोंड असलेला पुत्रनाश करणारा असतो; गोल चेहरा असलेला सुखी असतो. लांब तोंड असलेला धननाश करणारा, पापी आणि भयप्रद असतो; चौकोनी तोंड असलेला धूर्त आणि पुत्रनाश करणारा असतो. खाली गेलेला तोंड पुत्रनाश करणारा असतो; लहान तोंड असलेला गरीब असतो; पूर्ण आणि सुंदर तोंड असलेला उपभोगी असतो. लाल ओठ असलेला राजा, कमळासारखे ओठ असलेला धनवान असतो; जाड ओठ, हनुमानासारखे ओठ किंवा कोरडे, तीक्ष्ण ओठ असलेले दुःखी असतात. न फाटलेले, गुळगुळीत, वाकडे, मऊ आणि पूर्ण दाढी असलेली राजासाठी उत्तम असते. लाल, कमी किंवा खरखरीत दाढी असलेले चोर आणि परस्त्रीप्रेमी असतात. ज्याचे कान मांसहीन असतात, तो युद्धात नष्ट होतो.
चिपिटाभ्यां भवेद्रोगी ह्रस्वौ च कृपणस्य च । । 1.26.५० शङ्कुकर्णश्च भूनाथः सर्वशत्रुभयङ्करः । दीर्घायू रोमशाभ्यां तु विपुलाभ्यां नराधिपः । । भोगी च स भवेन्नित्यं देवब्राह्मणपूजकः । । ५१ शिरावबद्धौ क्रूरस्य व्यालम्बौ च विशेषतः । मांसलौ सुखदौ ज्ञेयौ श्रवणौ व्योमकेशज । । ५२ भोगी स्यान्निगण्डो वै मन्त्री सम्पूर्णगण्डकः । शुभभाक्छुकनासस्तु चिरजीवी शुष्कनासिकः । । ५३ कुन्दकुण्डलसङ्काशैः प्रकाशैर्दशनैर्नृपः । ऋक्षवानरदन्ताश्च नित्यं क्षुत्परिपीडिताः । । ५४ हस्तिदन्ताः खरदन्ताः स्निग्धदन्ता गुणान्विताः । करालैर्विरलै रूक्षैर्दशनैर्दुःखजीविनः । । ५५ द्वात्रिंशद्दन्ता राजान एकत्रिंशच्च भोगवान् । त्रिंशद्दन्ता नरा नित्यं सुखदुःखित्वभागिन । । ऊनत्रिंशच्य दशनैः पुरुषाः दुःखभागिनः । । ५६ कृष्णजिह्वो भवेत्प्रेष्यः सवलया तु जिह्वया । भवेत्कोपस्य कर्ता वै स्थूलरूक्षश्च जिह्वया । । ५७ श्वेतजिह्वा नरा ज्ञेयाः शौचाचारसमन्विताः । पद्मपत्रसमा जिह्वा सूक्ष्मा दीर्घा सुशोभना । । स्थूला च न च विस्तीर्णा येषां ते मनुजाधिपाः । । ५८ निम्ना स्निग्धा च ह्रस्वा च रक्ताग्रा रसना यदि । सर्वविद्याप्रवक्तारस्ते भवन्ति न संशयः । । ५९ कृष्णतालुर्नरो यस्तु स भवेत्कुलनाशनः । सुखभागी दुःखभागी पीततालुर्नराधिपः । । 1.26.६० विकृतं स्फुटितं रूक्षं तालुकं न प्रशस्यते । सिंहतालुर्नरपतिर्गजतालुस्तथैव च । । पद्मतालुर्भवेद्राजा श्वेततालुर्धनेश्वरः । । ६१ हंसस्वरा नरा धन्या मेघगम्भीरनिःस्वनाः । क्रौंचस्वनाश्च राजानो भोगवन्तो महाधनाः । । ६२ चक्रवाकस्वना धन्या राजानो धर्मवत्सलाः । कुम्भस्वनो नरपतिर्दुन्दुभिस्वन एव च । । रूक्षदीर्घस्वराः क्रूराः पशूनां सदृशा न तु । । ६३ २गुर्गुरस्वरसंयुक्ताः पुरुषाः क्लेशभागिनः । चाषस्वना भाग्ययुता भिन्नकांस्यस्वराश्च ये । । क्षीणभिन्नस्वरा ये स्युरधमास्ते प्रकीर्तिताः । । ६४ पार्थिवास्तनुनासाश्च दीर्घनासाश्च भोगिनः । ह्रस्वनासा नरा ये तु धर्मशीलास्तु ते मताः । । ६५ हस्त्यश्वसिंहनासाश्च सूचीनासाश्च ये नराः । तेषां सिध्यति वाणिज्यं हयानां चैव विक्रयः । । ६६ विकृता नासिका यस्य ३स्थूलाग्रा रूपवर्जिता । पापकर्मा स विज्ञेयः सामुद्रवचनं यथा । । ६७ दाडिमीपुष्पसंकाशे भवेतां यस्य लोचने । ४ भूपतिः स तु विज्ञेयः सप्तद्वीपाधिपो गुह । । ६८ व्याघ्राक्षाः कोपना ज्ञेयाः क५र्कटाक्षाः कलिप्रियाः । बिडालहंसनेत्राश्च भवन्ति पुरुषाधमाः । । ६९ मपूरनकुलाक्षाश्च नरास्ते मध्यमाः स्मृताः । न १श्रीस्त्यजति सर्वज्ञ पुरुषं मधुपिङ्गलम् । । 1.26.७० आपिङ्गलाक्षा राजानः सर्वभोगसमन्विताः । रोचना हरितालाक्षा गुञ्जापिङ्गा धनेश्वराः । । बलसत्त्वगुणोपेताः पृथिवीचक्रवर्तिनः । । ७१ द्विमात्रावीक्षणा नित्यं जीवन्ति परमाश्रिताः । त्रिमात्रास्यन्दिनो ज्ञेयाः पुरुषाः सुखभागिनः । । ७२ चतुर्मात्रानिमेषैश्च नयनैरीश्वराः स्मृताः । दीर्घायुषो धर्मरताः पञ्चमात्रानिमेषिणः । । ७३ ह्रस्वकर्णा महाभागा महाकर्णाश्च ये नराः । आवर्तकर्णा धनिनः स्निग्धकर्णास्तथैव च । । ७४ दीर्घायुषः शुक्तिकर्णाः शङ्खकर्णा महाधनाः । दीर्घायुषो दीर्घकर्णा लम्बकर्णास्तपस्विनः । । ७५ ललाटेनार्धचन्द्रेण भवन्ति पृथिवीश्वराः । विपुलेन ललाटेन महाधनपतिः स्मृतः । । स्वल्पेन तु ललाटेन नरो धर्मरतः स्मृतः । । ७६ रेखा पञ्च ललाटे तु स्त्रिया वा पुरुषस्य वा । शतं जीवति वर्षाणामैश्वर्यं चाधिगच्छति । । ७७ चतूरेखामशीतिं तु त्रिभिः सप्ततिमेव च । द्वाभ्यां षष्टिं तु रेखाभ्यां चत्वारिंशत्तथैकया । । अरेखेन ललाटेन विज्ञेया पञ्चविंशतिः । । ७८ रेखाच्छेदैस्तु विज्ञेया हीनमध्योत्तमा नराः । अल्पायुषस्तथाल्पाभिर्व्याधिभिः परिपीडिताः । । ७९ त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते । ईश्वरं तं विजानीयाद्भोगिनं कीर्तिमाश्रितम् । । 1.26.८० उत्क्रान्तनिम्नं तु शिरः स्वल्पोपहतमेव च । चन्द्राकारं१ नरेन्द्राणां गवाढ्यं मङ्गलं स्मृतम् । । ८१ विषमं तु दरिद्राणां शिरो दीर्घं तु दुःखिनाम् । नागकुम्भनिभं राज्ञः समं सर्वत्र भोगिनः । । ८२ कपिलः स्फुटितै रूक्षैः स्थूलैश्व शिखरेशयैः । दुःखिता पुरुषा ज्ञेया रोमश्मश्रुभिरेव च । । ८३ रूक्षा विवर्णा निस्तेजाः खराः स्थूलाश्च मूर्धजाः । नातिस्तोका न बहुशो मूर्धजा दुःखभागिनः । । ८४ विरलाश्च मृदुस्निग्धा भ्रमराञ्जनसप्रभाः । कचा यस्य तु दृश्यन्ते स भवेत्पृथिवीपतिः । । ८५ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम षड्विंशोऽध्यायः
सपाट कान असलेला पुरुष नेहमी आजारी असतो; लहान कान असलेला दु:खी असतो. शंखासारखा कान असलेला पृथ्वीचा स्वामी होतो आणि सर्व शत्रूंना भयप्रद असतो. केसाळ कान असलेला दीर्घायुषी असतो; मोठे कान असलेला राजा, नेहमी सुखी आणि देव- ब्राह्मणांची पूजा करणारा असतो. शिरांनी बांधलेले कान क्रूर असतात; लोंबते कान विशेषतः अशुभ असतात; मांसल कान सुखदायक असतात. गाल नसलेला उपभोगी असतो; पूर्ण गाल असलेला मंत्री असतो. शुभदायक, पोपटासारखी नाक असलेला दीर्घायुषी असतो; कोरडी नाक असलेला दीर्घायुषी असतो. कुंदफुलासारखे, चमकदार दात असलेला राजा असतो; वानर किंवा अस्वलासारखे दात असलेला नेहमी उपाशी असतो. हत्ती, गाढव किंवा मऊ दात असलेला गुणी असतो; करडे, विरळ किंवा खरखरीत दात असलेला दुःखी असतो. बत्तीस दात असलेला राजा असतो; एकतीस दात असलेला उपभोगी असतो; तीस दात असलेला सुख-दुःख भोगतो; त्यापेक्षा कमी दात असलेला नेहमी दुःखी असतो. काळी जीभ असलेला सेवक असतो; वळण असलेली जीभ असलेला रागी असतो; जाड किंवा खरखरीत जीभ असलेला रागी असतो. पांढरी जीभ असलेले शुद्ध आणि आचारशील असतात; कमळाच्या पानासारखी, बारीक, लांब आणि सुंदर जीभ असलेले राजे असतात. खाली वळलेली, गुळगुळीत, लहान आणि लाल टोक असलेली जीभ असलेले सर्व विद्या सांगणारे असतात. काळा ताळू असलेला कुलनाशक असतो; पिवळा ताळू असलेला सुखी किंवा दुःखी असतो. विकृत, फाटलेला किंवा कोरडा ताळू अप्रशंसनीय असतो; सिंहासारखा ताळू असलेला राजा, हत्ती किंवा कमळासारखा ताळू असलेला राजा, पांढरा ताळू असलेला धनवान असतो. हंसासारखा आवाज असलेले पुरुष भाग्यवान असतात; मेघासारखा गंभीर आवाज असलेले राजे उपभोगी आणि धनवान असतात; चक्रवाकासारखा आवाज असलेले राजे धर्मप्रिय असतात; कुंभ किंवा दुंदुभी आवाज असलेला राजा असतो. कोरडा, लांब आवाज असलेले क्रूर असतात; गुरगुर आवाज असलेले पुरुष दुःखी असतात; चाषासारखा आवाज असलेले भाग्यवान असतात; फुटके कास्यासारखा किंवा क्षीण आवाज असलेले अधम असतात. राजांचे नाक बारीक किंवा लांब असते; लहान नाक असलेले धर्मशील असतात. हत्ती, घोडा, सिंह किंवा सुईसारखे नाक असलेल्यांना व्यापार आणि घोड्यांचा व्यवसाय यशस्वी होतो. विकृत, जाड टोक असलेले नाक असलेला पापी असतो. डाळिंबाच्या फुलासारखी डोळे असलेला राजा आणि सात द्वीपांचा अधिपती असतो. वाघासारखे डोळे असलेले रागी असतात; कर्कटकासारखे डोळे असलेले कलियुगाला प्रिय असतात; मांजर किंवा हंसासारखे डोळे असलेले अधम असतात; मंगूस किंवा नखुलासारखे डोळे असलेले मध्यम असतात; मधुपिंगल डोळे असलेल्याला लक्ष्मी कधीच सोडत नाही. पिंगट डोळे असलेले राजे सर्व सुखांनी युक्त असतात; पिवळे, हिरवे किंवा गुंजासारखे डोळे असलेले धनवान असतात, आणि बल, सात्त्विक गुणांनी युक्त, पृथ्वीचे चक्रवर्ती असतात. दोन मापांनी डोळे उघडे ठेवणारे दीर्घायुषी असतात; तीन मापांनी डोळे उघडे ठेवणारे सुखी असतात; चार मापांनी डोळे उघडे ठेवणारे राजे असतात; पाच मापांनी डोळे उघडे ठेवणारे दीर्घायुषी आणि धर्मनिष्ठ असतात. लहान कान असलेले भाग्यवान असतात; मोठे कान असलेले धनवान असतात; वळण असलेले किंवा गुळगुळीत कान असलेले धनवान असतात. शंखासारखे किंवा मोठे कान असलेले दीर्घायुषी आणि धनवान असतात; लांब किंवा लोंबते कान असलेले तपस्वी असतात. अर्धचंद्रासारखे कपाळ असलेले पृथ्वीचे स्वामी असतात; मोठे कपाळ असलेला महाधनवान असतो; लहान कपाळ असलेला धर्मनिष्ठ असतो. कपाळावर पाच रेषा असलेल्या स्त्री किंवा पुरुष शंभर वर्षे जगतात आणि ऐश्वर्य मिळवतात; चार रेषा असलेल्या ऐंशी, तीन रेषा असलेल्या सत्तर, दोन रेषा असलेल्या साठ, एक रेषा असलेल्या चाळीस, आणि रेषा नसलेल्या पंचवीस वर्षे जगतात. कपाळावरील रेषांच्या छेदावरून कमी, मध्यम किंवा उत्तम पुरुष ओळखता येतात; कमी रेषा असलेले अल्पायुषी आणि आजारी असतात. त्रिशूळ किंवा पट्ट्याचा चिन्ह कपाळावर असलेला राजा, उपभोगी आणि कीर्तिवान असतो. वर गेलेले, खाली गेलेले किंवा लहान डोके असलेले अशुभ असते; चंद्रासारखे डोके राजांचे, गायींच्या संपत्तीचे आणि मंगलाचे लक्षण असते. वाकडे डोके गरीबांचे, लांब डोके दुःखींचे, नागकुंभासारखे डोके राजांचे, सम डोके सर्वत्र उपभोग्यांचे लक्षण असते. पांढरे, फाटलेले, खरखरीत किंवा जाड केस असलेले दुःखी असतात; विरळ, मऊ, गुळगुळीत, मधमाशीच्या रंगासारखे केस असलेला पृथ्वीचा स्वामी असतो.
पुरुषांच्या चिन्हांचे वर्णन: कार्तिकेय म्हणाले—हे प्रभो, राजाच्या शुभ शरीरिक चिन्हांचे तू मला संक्षिप्तपणे सांग. ब्रह्मा म्हणाले—ऐक, मी राजाच्या शरीरिक चिन्हे आणि त्यांची शुभता सांगतो.
स्त्रियांच्या चिन्हांचे वर्णन: ब्रह्मा म्हणाले—हे महाबाहो, आता स्त्रियांची श्रेष्ठ चिन्हे ऐक, जी मी पूर्वी महात्मा नारदाला सांगितली होती.
गणपति विधीचे वर्णन: शतानिक म्हणाले—महान गणेशासाठी, दिव्य 'ग' अक्षरासाठी, मंत्रांसह संपूर्ण पूजेची पद्धत मला सांग.
विनायक पूजेची पद्धतीचे वर्णन: सुमंतु म्हणाले—नीमच्या लाकडापासून अंगठ्याच्या गाठीएवढी गणपतीची मूर्ती तयार करून, तिला दररोज धूप आणि सुगंधाने पूजावे, ती गुप्तपणे डोक्यावर बांधावी आणि बाहेर जावे—मग सर्व लोकांना प्रिय होतो.
शिवाचतुर्थी पूजनम् सुमन्तुरुवाच शिवा शान्ता सुखा राजंश्चतुर्थी त्रिविधा स्मृता । मासि भाद्रपदे शुक्ला शिवा लोकेषु पूजिता । । १ तस्यां स्नानं तथा दानमुपवासो जपस्तथा । क्रियमाणं शतगुणं प्रसादाद्दन्तिनो नृप । । २ गुडलवणघृतानां तु दानं शुभकरं स्मृतम् । गुडापूपैस्तथा वीर पुण्यं ब्राह्मणभोजनम् । । ३ यास्तस्यां नरशार्दूल पूजयन्ति सदा स्त्रियः । गुडलवणपूपैश्च श्वश्रूं श्वसुरमेव च । ।४ ताः सर्वाः सुभगाः स्युर्वे१ विघ्रेशस्यानुमोदनात् । कन्यका तु विशेषेण विधिनानेन पूजयेत् । । ५ ( इति शिवाकल्पः) सुमन्तुरुवाच माघे मासि तथा शुक्ला या चतुर्थी महीपते । सा शान्ता शान्तिदा नित्यं शान्तिं कुर्यात्सदैव हि । । ६ स्नानदानादिकं कर्म सर्वमस्यां कृतं विभो । भवेत्सहस्रगुणितं प्रसादात्तस्य२ दन्तिनः । । ७ कृतोपवासो यस्तस्यां पूजयेद्वि घ्ननायकम् । तस्य होमादिकं कर्म भवेत्साहस्रिकं नृप । । ८ लवणं च गुडं शाकं गुडपूपांश्च भारत । दत्त्वा भक्त्या तु विप्रेभ्यः फलं साहस्रिकं भजेत्
सुमन्तु म्हणाले — शिवा ही शांत, सुखदायक आणि लोकांमध्ये पूजली जाणारी चतुर्थी आहे. भाद्रपद महिन्याच्या शुक्ल पक्षातील ही शिवा चतुर्थी विशेष मानली जाते. या दिवशी स्नान, दान, उपवास आणि जप केल्यास, दंतिवर प्रसन्न झाल्यामुळे त्याचे फळ शंभरपट मिळते. गूळ, मीठ आणि तुपाचे दान करणे शुभ मानले जाते. तसेच गूळाचे पुऱ्या आणि ब्राह्मणांना जेवण घालणे पुण्यकारक आहे. या दिवशी ज्या स्त्रिया नेहमी गूळ, मीठ आणि पुऱ्यांनी आपल्या सासू-सासऱ्यांची पूजा करतात, त्या सर्व स्त्रिया विघ्नेश्वराच्या कृपेने सौभाग्यवती होतात. विशेषतः कन्यांनी या विधीने पूजा करावी. (शिवाकल्प समाप्त) सुमन्तु म्हणाले — राजन, माघ महिन्यातील शुक्ल पक्षातील चतुर्थी ही शांतिदायक आहे. या दिवशी केलेले स्नान, दान वगैरे सर्व कर्म दंतिवर प्रसन्न झाल्यामुळे हजारपट फळ देते. जो या दिवशी उपवास करून विघ्ननायकाची पूजा करतो, त्याच्या होमादी सर्व कर्मांना हजारपट फळ मिळते. गूळ, मीठ, शाक, गूळाच्या पुऱ्या भक्तिभावाने ब्राह्मणांना दिल्यास हजारपट पुण्य मिळते.