दीपाग्निः पावको नाम गृह्याग्निर्धरणीपतिः
गृहस्थाच्या घरातील पवित्र अग्नीला दीपाग्नि आणि पावक असे नाव आहे, हे धरतीच्या राजांनो.
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेऽग्निनामवर्णनंनाम सप्तदशोऽध्यायः
अशा प्रकारे श्रीभविष्य महापुराणाच्या मध्यम पर्वातील पहिल्या भागातील 'अग्नीची नावे' या वर्णनाचा सतरावा अध्याय संपला.
श्री गणेशाय नमः । । ऽ नमो भगवते वासुदेवाय नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् । । १ जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति । । २ मूकङ्करोति वाचालं पङ्गु लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् । । ३ पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं, नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा, भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे । । ४ यो गोशतं कनकशृङ्गमयं ददाति, विप्राय वेदविदुषे च बहुश्रुताय । पुण्यां भविष्यसुकथां शृणुयात्समग्रां, पुण्यं समं भवति तस्य च तस्य चैव । । ५ कृत्वा पुराणानि पराशरात्मजः सर्वाण्यनेकानि सुखावहानि । तत्रात्मसौख्याय भविष्यधर्मान् कलौ युगे भावि लिलेख सर्वम् । । ६ तत्रापि सर्वर्षिवरप्रमुख्यैः पराशराद्यैर्मुनिभिः प्रणीतान् । स्मृत्युक्तधर्मागमसंहितार्थान् व्यासः समासादवदद्भविष्यम् । । ७ अल्पायुषो लोकजनान्समीक्ष्य विद्याविहीनान्पशुवत्सुचेष्टान् । तेषां सुखार्थं प्रतिबोधनाय व्यासः पुराणं प्रथितं चकार । । ८ जयति भुवनदीपो भास्करो लोककर्त्ता, जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः । । जयति च शशिमौली रुद्रनामाभिधेयो, जयति च स तु देवो भानुमांश्चित्रभानुः । । १ श्रियावृतं तु राजानं शतानीकं महाबलम् । अभिजग्मुर्महात्मानः सर्वे द्रष्टुं महर्षयः । । २ भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । पराशरस्तथा व्यासः सुमन्तुर्जैमिनिस्तथा । । ३ मुनिः पैलो याज्ञवल्क्यो गौतमस्तु महातपाः । भारद्वाजो मुनिर्धीमांस्तथा नारदपर्वतौ । । ४ वैशम्पायनो महात्मा शौनकश्च महातपाः । दक्षोऽङ्गिरास्तथा गर्गो गालवश्च महातपाः । । ५ तानागतानृषीन्दृष्ट्वा शतानीको महीपतिः । विधिवत्पूजयामास अभिगम्य महामतिः । । ६ पुरोहितं पुरस्कृत्य अर्ध्यं गां स्वागतेन च । पूजयित्वा ततः सर्वान्प्रणम्य शिरसा भृशम् । । ७ सुखासीनांस्ततो राजा निरातङ्कान् गतक्लमान् । उवाच प्रणतो भूत्वा बाहुमुद्धृत्य दक्षिणम् । । ८ इदानीं सफलं जन्म मन्येऽहं भुवि सत्तमाः । आत्मनो द्विजशार्दूला! तथा कीर्तिर्यशो बलम् । । ९ धन्योऽहं पुण्यकर्मा च यतो मां द्रष्टुमागताः । येषां स्मरणमात्रेण युष्माकं पूयते नरः । । 1.1.१० श्रोतुमिच्छाम्यहं किञ्चिद्धर्मशास्त्रमनुत्तमम् । आनृशंस्यं समाश्रित्य कथयध्वम् महाबलाः! । । ११ येनाहं धर्मशास्त्रं तु श्रुत्वा गच्छे परां गतिम् । यथागतो मम पिता श्रुत्वा वै भारतं पुरा । । १२ तथोक्तास्तेन राज्ञा वै ब्राह्मणास्ते समन्ततः । समागम्य मिथस्ते तु विमृश्य च १ भृशम् तदा । । १३ पूजयित्वा ततो व्यासमिदं वचनमब्रुवन् । व्यासं प्रसादय विभो! एष ते कथयिष्यति । । १४ तिष्ठत्यस्मिन्महाबाहो! वयं वक्तुं न शक्नुमः । तिष्ठमाने गुरौ शिष्यः कथं वक्ति महामते! । । १५ २अयं गुरुः सदास्माकं साक्षान्नारायणस्तथा । कृपालुश्च तथा चायं तथा दिव्यविधानवित् । । १६ चतुर्णामपि वर्णानां पावनाय महात्मनाम् । धर्मशास्त्रमनेनोक्तं धर्माद्यैः सुसमन्वितम् । । १७ बिभेति गहनाच्छास्त्राल्लोको व्याधिरिवौषधात् । भारतस्य च विस्तारो मुनिना व्याहृतः स्वयम् । । १८ यथा स्वादु च पथ्यं च दद्यास्त्वं भिषगौषधम् । तथा रम्यं च शास्त्रं च भारतं कृतवान्मुनिः । । १९ आस्तिक्यारोहसोपानमेतद्भारतमुच्यते । तच्छ्रुत्वा स्वर्गनरकौ लोकः साक्षादवेक्षते । । 1.1.२० देवतातीर्थतपसां भारतादेव निश्चयः । न जन्यते नास्तिकता तस्य मीमांसकैरपि । । २१ विष्णौ १ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च । भक्तिर्भवति कल्याणी भारतादेव धीमताम् । । २२ धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि । अजिह्मो भारतः पन्था निर्वाणपदगामिनाम् । । २३ मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः । अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये । । २४ विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् । दुःखावसानाद्राजेन्द्र! पुण्यं च संश्रयेद्बुधः । । २५ एवंविधं भारतं वै प्रोक्तं येन महात्मना । सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः । । २६ स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः । प्रसादयामास मुनिं व्यासं शास्त्रविशारदम् । । २७ शतानीक उवाच अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं पादयोस्तव । ब्रूहि मे धर्मशास्त्रं ५ तु येना पूततां व्रजे । । २८ समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् । यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम् । । २९ व्यास उवाच तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् । एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो! । । 1.1.३० यदिच्छसि महाबाहो! प्रीतिदं चाद्भुतं शुभम् । श्रव्यं भरतशार्दूल! सर्वपापभयापहम् । । ३१ यथा वैशम्पायनेन पुरा प्रोक्तं पितुस्तव । महाभारतव्याख्यानं ब्रह्महत्याव्यपोहनम् । । ३२ अथ तमृषयः सर्वे राजानमिदमब्रुवन् । साधु प्रोक्तं महाबाहो! व्यासेनामितबुद्धिना । । ३३ सुमन्तुं पृच्छ राजर्षे! सर्वशास्त्रविशारदम् । अस्माकमपि राजेन्द्र! श्रवणे जायते मतिः । अथ व्यासो महातेजाः सुमन्तुमृषिमब्रवीत् । । ३४ कथयास्मै कथास्तात! याः श्रुत्वा मोदते नृपः । भारतादिकथानां तु यत्रास्य रमते मनः । । ३५ असावपि महातेजाः श्रुत्वा भावं महामतेः । व्यासस्य द्विजशार्दूल! ऋषीणां चापि सर्वशः । । ३६ चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः । व्यासस्य शासनाद्विप्र! ऋषीणां चैव सर्वशः । । ३७ अथ राजा महातेजा आजमीढो द्विजोत्तमम् । प्रणम्य शिरसात्यर्थं प्रवक्तुमुपचक्रमे । । ३८ शतानीक उवाच पुण्याख्यानं मम ब्रह्मन्! पावनाय प्रकीर्तय । श्रुत्वा यद्ब्राह्मणश्रेष्ठ! मुच्येऽहं सर्वपातकात् । । ३९ सुमन्तुरुवाच नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत । यानि श्रुत्वा नरो राजन्! मुच्यते सर्वकिल्बिषैः । । 1.1.४० किमिच्छसि महाबाहो! श्रोतुं यत्त्वां ब्रवीमि वै । भारतादिकथानां तु यासु धर्मादयः स्थिताः । । ४१ शतानीक उवाच मतानि कानि विप्रेन्द्र १! धर्मशास्त्राणि सुव्रत! । यानि श्रुत्वा नरो विप्र! मुच्यते सर्वकिल्बिषैः । । ४२ सुमन्तुरुवाच श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः । वसिष्ठदक्षसंवर्तशातातपपराशराः । । ४३ आपस्तम्बोऽथ उशना कात्यायनबृहस्पती । गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा । । ४४ एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत! । वृन्दारकपुरं गत्वा मोदते नात्र संशयः । । ४५ शतानीक उवाच यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत! । नेच्छामि श्रोतुं विप्रेन्द्र! ३ श्रुतान्येतानि हि द्विज! । । ४६ त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः । श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु । । ४७ चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत! । भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये । । ४८ विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम! । । ४९ ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः । मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः । । 1.1.५० शूद्राश्चैव भृशं दीनाः प्रतिभान्ति द्विजप्रभो । धर्मार्थकाममोक्षस्य शस्ताः स्युरवने कथम् । । ५१ आगमेन विहीना हि अहो कष्टं मतं मम् । कश्चैषामागमः प्रोक्तः पुरा द्विजमनीषिभिः । । त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे च तथोभयोः । । ५२ सुमन्तुरुवाच साधु साधु महाबाहो! शृणु मे परमं वचः । चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे । । ५३ धर्मशास्त्राणि १ राजेन्द्र! शृणु तानि नृपोत्तम । विशेषतश्च शूद्राणां पावनानि मनीषिभिः । । ५४ अष्टादशपुराणानि चरितं राघवस्य च । रामस्य कुरुशार्दूल! धर्मकामार्थसिद्धये । । ५५ तथोक्तं भारतं वीर! पाराशर्येण धीमता । वेदार्थसकलं योज्य३ धर्मशास्त्राणि च प्रभो! । । ५६ कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे । वर्णानां भवमग्नानां कृतं पोतो ह्यनुत्तमम् । । ५७ अष्टादशपुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् । । ५८ यां श्रुत्वा पुरुषो राजन्! मुच्यते ब्रह्महत्यया । प्रथमं प्रोच्यते ब्राह्मं द्वितीयं चैन्द्रमुच्यते । । ५९ याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा । सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा । । 1.1.६० एतानि व्याकरणानि पुराणानि निबोध मे । ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । । ६१ तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् । आग्नेयमष्टमं वीर भविष्यं नवमं स्मृतम् । । ६२ दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् । वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम् । । ६३ चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । । ६४ एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः । साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा । । ६५ चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत । किमिच्छसि महाबाहो श्रोतुमेषां नृपोत्तम । । ६६ शतानीक उवाच भारतं तु श्रुतं विप्र तातस्याङ्कगतेन तु । रामस्य चरितं चापि श्रुतं ब्रह्मन्समन्ततः । । ६७ पुराणानि च विप्रेन्द्र भविष्यं न तु सुव्रत । पुराणं वद विप्रेन्द्र! भविष्यं कौतुकं हि मे । । ६८ सुमन्तुरुवाच साधु साधु महाबाहो साधु पृष्टोऽस्मि ४ मानद । शृणु मे वदतो राजन् पुराणं नवमं महत् । । ६९ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो नृप । अश्वमेधफलं प्राप्य गच्छेद् भानौ न संशयः । । 1.1.७० इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम् । विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः
७१ शिष्येभ्यश्चैव वक्तव्यं चातुर्वर्ण्येभ्य एव हि । अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । । श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन
हे ग्रंथ फक्त आपल्या शिष्यांना आणि चारही वर्णांतील लोकांना शिकवावे. ब्राह्मण किंवा क्षत्रिय वगळता इतर कुणीही हे अभ्यासू नये. शूद्रांनी हे ऐकावे, मात्र स्वतः अभ्यास करू नये.
१०५ तच्छ्रुत्वा पुरुषो भक्त्या इदं फलमवाप्नुयात् । ऋद्धिर्वृद्धिस्तथा श्रीश्च भवन्ति तस्य निश्चितम् । । १०६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राहमे पर्वणि कथाप्रस्तावने प्रथमोऽध्यायः
जो मनुष्य हे भक्तीने ऐकतो, त्याला हे फळ मिळते — त्याला समृद्धी, वाढ आणि लक्ष्मी निश्चितच प्राप्त होते.
९१ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः
जो ब्राह्मणाच्या जन्माचा कर्ता आहे आणि स्वतःच्या धर्माचे पालन करणारा आहे, तो अगदी लहान असला तरीही, मोठ्या वयाच्या ब्राह्मणाचा धर्माने वडील ठरतो.
१०८ मत्सकाशात्पुनः श्रुत्वा लक्षणं पुरुषस्य च । यथाधुना भवद्भिस्तु श्रुतं मत्तो द्विजोत्तमाः । । १०९ लक्षणेभ्यः प्रशस्तं तु स्त्रीणां सद्वृत्तमुच्यते । सद्वृत्तमुक्त्वा या स्त्री सा प्रशस्ता न च लक्षणैः । । 1.5.११० ईदृग्लक्षणसम्पन्नां सुकन्यामुद्वहेत्तु यः । ऋद्धिर्वृद्धिस्तथा कीर्तिस्तत्र तिष्ठति नित्यशः । । १११ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीलक्षणवर्णनं नाम पञ्चमोऽध्यायः
माझ्याकडून पुन्हा पुरुषांचे गुण ऐकून, जसे तुम्ही आत्ताच ऐकले, तसेच स्त्रियांमध्ये गुणांपेक्षा चांगले वर्तन श्रेष्ठ मानले जाते; जिचे वर्तन चांगले आहे, ती गुण नसली तरीही प्रशंसनीय असते. अशी सद्गुणी कन्या ज्याने वरण केली, तिथे नेहमीच संपत्ती, वाढ आणि कीर्ती टिकून राहते.
स्त्रीलक्षणसद्वृत्तवर्णनम् शतानीकउवाच सद्वृत्तं श्रोतुमिच्छामि देवस्त्रीणां सुविस्तरात् । उत्तमाधममध्यं च सम्बन्धे स्त्रीकृते यथा । । १ सुमन्तुरुवाच शतानीक महाबाहो ब्रह्मलोके पितामहः । उक्त्वा स लक्षणं स्त्रीणां सद्वृत्तं चोक्तवान्पुनः
शतानिक म्हणाले: देव, मला स्त्रियांचे चांगले वर्तन सविस्तर ऐकायचे आहे—विवाहाच्या दृष्टीने उत्तम, मध्यम आणि कनिष्ठ वर्तन कसे असते ते सांगा. सुमंतु म्हणाले: हे महाबाहो शतानिक, ब्रह्मलोकात पितामहाने स्त्रियांचे गुण सांगितल्यावर पुन्हा चांगल्या वर्तनाचेही वर्णन केले.
२ यथोक्तं ब्रह्मणां तेषामृषीणां कुरुनन्दन । स प्रेयो वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । । ३ शृणुध्वं द्विजशार्दूलाः स्त्रीणां सद्वृत्तमादितः । वक्ष्ये युष्मानशेषं वै लोकानुग्रहकाम्यया । । ४ त्रिवर्गप्राप्तये वक्ष्ये स्त्रीवृत्तं गृहमेधिनाम् । प्राग्विद्यादीनुपादाय तैरर्थांश्च यथाक्रमम् । । विन्देत सदृशीं भार्यां शास्त्रदृष्टेन कर्मणा । । ५ गृहाश्रमो हि निःस्वानां महत्येषा विडम्बना । तस्मात्पूर्वमुपादेयं वित्तमेव गृहैषिणा । । ६ वरं सोढा मनुष्येण तीव्रा नरकवेदना । न त्वेव च गृहे दृष्टं पुत्रदारक्षुधार्दितम् । । ७ असम्भवे शिशुं दृष्ट्वा रुदन्तं प्रार्थनापरम् । वज्रसारमयं मन्ये हदयं यन्न दीर्यते । । ८ साध्वीं भार्यां प्रियां दृष्ट्वा कुचैलां क्षुत्कृशीकृताम् । अस्य दुःखस्य तन्नास्ति सुखं यत्समतां व्रजेत् । । ९ रूक्षान्विवर्णान्क्षुधितान्भूमिप्रस्तरशायिनः । पुत्रदारान्निजान्दृष्ट्वा किमकार्यं भवेन्नृणाम् । । 1.6.१० बाहूत्तरीयं क्षुत्क्षामं दृष्ट्वा दीनमुखं सुतम् । मृत्युरेवोत्सवः पुंसां व्यसनं जीवितं द्विजाः । । ११ परिसीदत्स्वपत्येषु दृष्ट्वा दीनमुखो प्रियाम् । वज्रकार्यशरीरास्ते ये न यान्ति सहस्रधा । । १२ तस्मादर्थविहीनस्य पुंसो दारपरिग्रहात् । कुतस्त्रिवर्ग संसिद्धिर्यातनैव हि तस्य सा । । १३ अभार्यस्याधिकारोऽस्ति न द्वितीयाश्रमे यथा । तद्वदर्थविहीनानां सर्वत्र नाधिकरिता । । १४ केचित्त्वपत्यमेवाहुस्त्रिवर्गावाप्तिसाधनम् । पुंसामर्थः कलत्रं च येऽन्ये नीतिविदो विदुः । । १५ धर्मोऽपि द्विविधो यस्मादिष्टापूर्तक्रियात्मकः । स च दारात्मकः सर्वं ज्ञेयमर्थैकसाधनम् । । १६ निजेनापि १ दरिद्रेण लोको लज्जति बन्धुना । परोऽपि हि मनुष्याणामैश्वर्यात्स्वजनायते । । १७ न दरिद्रं समीपेऽपि स्थितवन्तं प्रपश्यति । दूरस्थमपि वित्ताढ्यमादराद्भजते जनः । । १८ तस्मात्प्रयत्नतः पूर्वमर्थमेव प्रसाधयेत । स हि मूलं त्रिवर्गस्य गुणानां गौरवस्य च । । १९ सर्वेऽपि हि गुणा विद्याकुलशीलादयो नृणाम् । सन्ति तस्मिन्नसन्तोऽपि सन्ति सन्तोऽपि नासति । । 1.6.२० शास्त्रं शिल्पं कलाः कर्म यच्चान्यदपि चेष्टितम् । साधनं सर्वमर्थानामर्था धर्मादिसाधनाः । । २१ साधनानां त्रिवर्गोऽस्ति तं विना केवलं नृणाम् । अजागलस्तनस्येव निधनायैव संभवः । । २२ प्राक्पुण्यैर्विपुला सम्पद्धर्मकामादिहेतुजा । भूयो धर्मेण सामुत्र तया३ ताविति ४ च क्रमः. । । २३ एकचक्रकमेतद्धि प्रोक्तमन्योन्यहेतुकम् । पूर्वपश्चिमबाहुभ्यामुत्तराधरमध्यमाः । । २४ विज्ञाय मतिमानेवं यस्त्रिवर्गं निषेवते । संख्याशतसमायुक्तैरवाप्नोत्युत्तरोत्तरम् । । २५ नाभार्यस्याधिकारोऽस्ति त्रिवर्गे निर्धनस्य वा । ना भार्यायामतः पूर्वमर्थमैव प्रसाधयेत् । । २६ तस्मात्क्रमागतैरर्थेः स्वयं वाधिगतैर्युतः । क्रियायोग्यैः समर्थश्च कुर्याद्दारपरिग्रहम् । । २७ अनुरूपे कुले जातां श्रुतवित्तक्रियादिभिः । लभेतानिन्दितां कन्यां मनोज्ञां धर्मसाधनाम् । । २८ पुमानर्धपुमांस्तावद्यावद्भार्यां न विदन्ति । तस्माद्यथाक्रमं काले कुर्याद्दारपरिग्रहम् । । २९ एकचक्रो रथो यद्वदेकपक्षो यथा खगः । अभार्योऽपि १नरस्तद्वदयोग्यः सर्वकर्मसु । । 1.6.३० पत्नीपरिग्रहाद्धर्मस्तथार्थो बहुलाभतः । सत्प्रीतियोगात्कामोऽपि त्रयमस्यां विदुर्बुधाः । । ३१ त्रिधा विवाहसम्बन्धो हीनतुल्याधिकैः सह । तुल्यैः सह समस्तेषामितरौ नीचमध्यमौ । । ३२ असमैर्निन्द्यते सद्भिरुत्तमैः परिभूयते । तुल्यैः प्रशस्यते यस्मात्तस्मात्साधुतमो मतः । । ३३ कृत्वैवाधिकसम्बन्धमपमानं समश्नुते । न चैषामानतिं गच्छेन्नैव नीचैः सहेष्यते
४४ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीलक्षणसद्वृत्तवर्णनं नाम षष्ठोऽध्यायः
माणसाने नरकात कितीही तीव्र यातना सहन केल्या, तरी आपल्या घरात मुलं आणि पत्नी उपाशीपोटी वेदना सहन करताना पाहण्यापेक्षा तेच अधिक सहन करावं.
विवाह-धर्मवर्णनम् ब्रह्मोवाच३ असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने । । १ सहजो न भवेद्यस्या न च विज्ञायते पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया । । २ ब्राह्मणानां प्रशस्ता स्यात्सवर्णा दारकर्मणि । कामशस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः । । ३ क्षत्रस्यापि सवर्णा स्यात्प्रथमा द्विजसत्तमाः । द्वे चावरे तथा प्रोक्ते कामतस्तु न धर्मतः । ।४ वैश्यस्यैका वरा प्रोक्ता सवर्णा चैव धर्मतः । तथावरा कामतस्तु द्वितीया न तु धर्मतः । । ५ शूद्रैव भार्या शूद्रस्य धर्मतो मनुरब्रवीत् । चतुर्णामपि वर्णानां परिणेता द्विजोत्तमः । । ६ न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः । कस्मिंश्चिदपि वृतान्ते शूद्रा भार्योपदिश्यते । । ७ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् । । ८ शूद्रमारोप्य वेद्यां तु पतितोत्रिर्बभूव ह । उतथ्यः पुत्रजननात्पतितत्वमवाप्तवान् । । ९ शूद्रस्य पुत्रमासाद्य शौनकः शूद्रतां गतः । भृग्वादयोप्येवमेव पतितत्वमवाप्नुयुः । । 1.7.१० शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते । । ११ देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । नादन्ति पितरो देवाः स च स्वर्गं न गच्छति । । १२ वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते । । १३ चतुर्णामपि विप्रेन्द्राः प्रेत्येह च हिताहितम् । समासतो ब्रवीम्येष विवाहाष्टकमुत्तमम् । । १४ कालो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः । । १५ ये यस्य धर्मा वर्णस्य गुणदोषौ च यस्य यौ । शृणुध्वं तद्द्विजश्रेष्ठाः प्रसवे च गुणागुणम् । । १६ विप्रस्य १ चतुरः पूर्वान्क्षत्रस्य चतुरोऽवरान् । विट्शूद्रयोस्तु त्रीनेव विद्याद्धर्मानराक्षसान् । । १७ चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः । राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः । । १८ क्षत्रियाणां त्रयो धर्म्या द्वावधर्म्यौ२ स्मृताविह । पैशाचश्चासुरश्चैव न कर्त्तव्यौ कथञ्चन । । १९ पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ । गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ । । 1.7.२० आच्छाद्य चार्चयित्वा तु श्रुतशीलवते स्वयम् । आहूय दानं कन्याया बाह्यो धर्मः प्रकीर्तितः । । २१ वितते चापि यज्ञे तु कर्म कुर्वति चार्त्विजि । अलङ्कृत्य सुतादानं दैवो धर्म उदाहृतः । । २२ एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्षीयो धर्म उच्यते । । २३ सहोभौ चरतं धर्ममिति वाचानुभाष्य तु । कन्याप्रदानमभ्यर्च प्राजापत्यविधिः स्मृतः । । २४ ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायाश्चैव शक्तितः । कन्याप्रदानं स्वच्छन्दादासुरो धर्म उच्यते । । २५ इच्छयान्योऽन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स विधिर्ज्ञेयो मैथुन्यः कामसम्भवः । । २६ हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते । । २७ सुप्तां मत्तां प्रमत्तां च रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचः कथितोऽष्टमः । । २८ जलपूर्वं द्विजाग्र्याणां कन्यादानं प्रशस्यते । इतरेषां तु वर्णानामितरेतरकाम्यया । । २९ यो यस्यैषां विवाहानां विभूनां कीर्तितो गुणः । तं निबोधत वै विप्राः सम्यक्तकीर्तयतो मम । । 1.7.३० कुलानि दश पूर्वाणि तथान्यानि दशैव तु । स हि तान्यात्मना चैवं मोचयत्येनसो ध्रुवम् । । ३१ ब्राह्मीपुत्रः सुकृतकृद्दैवोढाजं सुतं शृणु । दैवोढाजः सुतो विप्राः सप्त सप्त परावरान् । । आर्षोढाजः सुतः स्त्रीणां पुरुषांस्तारयेद्द्विजाः । । ३२ ब्रह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः । ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः । । ३३ रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः । पुत्रवन्तोऽथ धर्मिष्ठा जीवन्ति च शतं समाः । । ३४ इतरेषु निबोधध्वं नृशंसानृतवादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः १ सुताः । । ३५ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निंदिता नृणां तस्मान्निद्यान्विवर्जयेत् । । ३६ करग्रहणसंस्काराः सवर्णासु भवन्ति वै । असवर्णास्वयं ज्ञेया विधिरुद्वाहकर्मणि । । ३७ बाणः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने । । ३८ न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि । गृह्णन्हि शुल्कं लोभेन स्यान्नरोऽपत्यविक्रयी । । ३९ स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः । नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् । । 1.7.४० आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव १ तत् । अल्पो वापि महान्वापि विक्रयस्तावदेव सः । । ४१ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणामानृशंस्यं च केवलम् । । ४२ इत्थं दारान्समासाद्य देशमग्र्यं समावसेत् । ब्राह्मणो द्विजशार्दूल य इच्छेद्विपुलं यशः । । ४३ ऋषय ऊचुः को देशः परमो ब्रह्मन्कश्च पुण्यो मतस्तव । प्रवसन्यत्र विप्रेन्द्र यशः प्राप्नोति कञ्जज । । ४४ ब्रह्मोवाच न हीयते यत्र धर्मश्चतुष्पात्स कलो द्विजाः । स देशः परमो विप्राः स च पुण्यो मतो मम । । ४५ विद्वद्भिः सेवितो धर्मो यस्मिन्देशे प्रवर्तते । शास्त्रोक्तश्चापि विप्रेन्द्राः स देशः परमो मतः । । ४६ ऋषय ऊचू विद्वद्भिः सेवितं धर्मं शास्त्रोक्तं च सुरोत्तम । वदास्मासु सुरश्रेष्ठ कौतुकं परमं हि नः । । ४७ ब्रह्मोवाच विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत । । ४८ कामात्मता न प्रशस्ता न वेहास्याप्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः । । ४९ सङ्कल्पाज्जायते कामो यज्ञाद्यानि च सर्वशः । व्रताः नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः । । 1.7.५० कामादृते क्रियाकारी दृश्यते नेह कर्हिचित् । यद्यद्धि कुरुते कश्चित्तत्तत्कामस्य चेष्टितम् । । ५१ निगमो १ धर्ममूलं स्यात्स्मृतिशीले तथैव च । तथाचारश्च साधूनामात्मनस्तुष्टिरेव च । । ५२ सर्वं तु समवेक्षेत निश्चयं ज्ञानचक्षुषा । श्रुतिप्राधान्यतो विद्वान्स्वधर्मे निवसेत वै । । ५३ श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्सदा नरः । प्राप्य चेह परां कीर्तिं याति शक्रसलोकताम् । । ५४ श्रुतिस्तु वेदो ४ विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेषु मीमांस्ये ताभ्यां धर्मो हि निर्बभौ । । ५५ योऽवमन्येत ते चोभे हेतुशास्त्राश्रयाद्द्विजः । स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः । । ५६ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं विप्राः साक्षाद्धर्मस्य लक्षणम् । । ५७ धर्मज्ञानं भवेद्विप्रा अर्थकामेष्वसज्जताम् । धर्मं जिज्ञासमानानां प्रमाणान्नैगमं परम् । । ५८ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । अधिकारो भवेत्तस्य वेदेषु च जपेषु च । । ५९ सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्
तदेव निर्मितं देशं ब्रह्मावर्तं प्रचक्षते । । 1.7.६० यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते । । ६१ कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनयः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरम् । । ६२ एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षन्ति पृथिव्यां सर्वमानवाः । । ६३ हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः । । ६४ आ समुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्त्तं विदुर्बुधाः । । ६५ अटते यत्र कृष्णा गौर्मृगो नित्यं स्वभावतः । स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्त्वतः परः । । ६६ एतान्नित्यं शुभान्देशान्संश्रयेत द्विजोत्तमः । यस्मिन्कस्मिंश्च निवसेत्पादजो२ वृत्तिकर्शितः । । ६७ प्रकीर्तितेयं धर्मस्य बुधैर्योनिर्द्विजोत्तमाः । सम्भवश्चास्य सर्वस्य समासान्न तु विस्तरात् । । ६८ इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मवर्णनं नाम सप्तमोऽध्यायः
ज्या प्रदेशात चारही वर्णांची परंपरा आणि उत्तम वर्तन पाळली जातात, त्या भूमीला 'ब्रह्मावर्त' असं म्हणतात. ती भूमी पुण्यवान आणि आदर्श समजली जाते.
विवाहधर्मेषु स्त्रीविषये नरवृत्तवर्णनम् ब्रह्मोवाच कर्तव्यं यद्गृहस्थेन तदिदानीं निबोधत । गदतो द्विजशार्दूल विस्तराच्छास्त्रतस्तथा । । १ वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि । शुभदेशाश्रयश्चैव पत्नी वैवाहिकी गृहे । । २ स्वाश्रयेण विना शक्यं न यस्माद्रक्षणादिकम् । वित्तानामिव दाराणामतस्तद्विधिरुच्यते । । ३ हेतवो हि त्रिवर्गस्य विपरीतास्तु१ मानद । अरक्षणाद्भवन्त्यस्मादमीषां रक्षणं मतम् । । ४ निसर्गात्पुंस्यसन्तोषाद्गुणदोषविमर्षतः । दुष्टानां चापि संसर्गाद्रक्ष्या एव च योषितः । । ५ पुरुषस्थानवेश्मानि त्रिविधं प्राहुराश्रयम् । वित्तानां रक्षणाद्यर्थमपूर्वाधिगमाय च । । ६ कुलीनो नीतिमान्प्राज्ञः सत्यसन्धो दृढव्रतः । विनीतो धार्मिकस्त्यागी२ विज्ञेयः पुरुषाश्रयः । । ७ नगरे खर्वटे खेटे ग्रामे चापि क्रमागते । यात्रावशाद्वा निवसेद्धार्मिकाद्यजनान्विते । । ८ गुरुणानुमतस्तत्र ग्रामण्यादिजनेन वा । प्रतिवेश्माद्यबाधेन शुद्धं कुर्यान्निवेशनम् । । ९ द्वारचत्वरशालानां १ सर्वकारुकवेश्मनाम् । द्यूतसूनासुरावेशनटराजानुजीविनाम् । । 1.8.१० पाखण्डदेववीथीनां राजमार्गकुलस्य च । दूरात्सुगुप्तं कर्तव्या जीविका विभवोचिता । । ११ सापिधानैकनिष्काशं शुद्धपृष्टं समन्ततः । सद्वृत्ताप्तजनाकीर्णमदुष्टप्रातिवेशिकम् । । १२ प्रागुदक्प्रवणे देशे वास्तुविद्याविधानतः । प्रविभक्तक्रियाकाञ्क्षं सर्वर्तुकमनोहरम् । । १३ अर्चास्नानोदकागारगोष्ठागारमहानसैः । युक्तं गोवाजिशालाभिः सदासीभृत्यकाश्रयैः । । १४ बहिरन्तः पुरस्त्रीकं सर्वोपकरणैर्युतम् । विभक्तशयनोद्देशमाप्तवृद्धैरधिष्ठितम् । । १५ अरक्षणाद्धि दाराणां वर्णसङ्करजादयः । दृष्टा हि बहवो दोषास्तस्माद्रक्ष्याः सदा स्त्रियः । । १६ न ह्यासां प्रमदं दद्यान्न स्वातन्त्र्यं न विश्वसेत् । विश्वस्तवच्च चेष्टेत न्याय्यं भर्त्सनमाचरेत् । । १७ नाधिकारं क्वचिद्दद्यादृते पाकादिकर्मणः । स्त्रीणां ग्रामीणवत्ता हि भोगायालं सुशासिता । । १८ नित्यं तत्कर्मयोगेन ताः कर्तव्या निरन्तराः । इत्येवं सर्वदा व्याप्तेः स्यादविद्यनिराश्रया । । १९ दौर्गत्यमतिरूपं१ चाप्यसत्सङ्गः स्वतन्त्रता । पानाशनकथागोष्ठीप्रियत्वाकर्मशीलता
1.8.२० कुहकेक्षणिकामुण्डाभिक्षुकीसूतिकादिभिः । गोप्रसङ्गैस्तथा३ सद्भिर्लिङ्गियाचकशिल्पिभिः । । २१ संवाहोद्यानयात्रासूद्यानेष्वामन्त्रणादिषु । प्रसङ्गस्तीर्थयात्रार्थं धर्मेषु प्रकटेषु च । । २२ विप्रयोगः सदा भर्त्रा तज्ज्ञातिकुलनिःस्वता । अमाधुर्यकदर्यत्वे भृशं पुंसां च वाच्यता । । २३ अतिक्रौर्यमतिक्षान्तिरत्यन्ताभीतिपातनम् । स्त्रीभिर्जितत्वमत्यर्थं सत्यं तास्ताः सदोषताः । । २४ स्त्रीणां४ पत्युरधीनत्वात्पुमानेव हि निन्द्यते । भर्तुरेव हि तज्जाड्यं यद्भृत्यानामयोग्यता । । २५ तस्माद्यथोदितास्वेता रक्ष्याः शासनताडनैः । ताडनैश्च यथाकालं यथावत्समुपाचरेत् । । २६ परिगृह्य बहून्दारानुपचारैः समो भवेत् । यथाक्रमोचितैः कर्म दानसत्कारवासनैः । । २७ प्रथमोऽभिजनो धर्मो योग्यत्वं च सुपुत्रता । पक्षे वित्तं विशेत्स्त्रीणां मानस्तत्कारणं तथा । । २८ तस्मान्मानो न कर्तव्यो हेयश्चापि न तत्कृतः । गुरुत्वे लाघवे वापि सतां कार्यं निबन्धनम् । । २९ आकस्मिके प्रयुञ्जानः प्रेक्षावान्मानलाघवे । स यत्किञ्चनकारित्वाच्चायमेवैति लाघवम् । । 1.8.३० यथा मानापमानौ हि प्रयुज्येतानिमित्ततः । तन्निमित्ता जनत्यागे प्रयतन्ते तदाश्रिताः । । ३१ एतदेव ह्यपत्यानां१ ज्ञेयं माननकारणम् । यत्स्वापत्यनिमित्तेषु२ प्रधाने कुलयोग्यते । । ३२ तत्संयोगात्सुखं पुंसां महद्दुःखं वियोगतः । तत्प्राप्तिः प्रति हातव्या स्वार्थायैव प्रियाण्यपि । । ३३ अतः स्वार्थैकनिष्ठोऽयं लोकः सर्वोऽवसीयते । तत्प्रसिद्धिर्भवेदस्तमानाद् भ्रान्तिविधायकः । । ३४ ततो दारादिका भृत्या नियन्तव्यास्तथा द्विजाः । यथेहामुत्र वा श्रेयः प्राप्नुयादुत्तरोत्तरम् । । ३५ स्त्रीणां धर्मार्थकामेषु नातिसन्धानमाचरेत् । तासां तेष्वभिसन्धानाद्भवेदात्माभिसंहितः । । ३६ जाया त्वर्धं शरीरस्य नृणां धर्मादिसाधने । नातस्तासु व्यथां काञ्चित्प्रतिकूलं समाचरेत् । । ३७ यज्ञोत्सवादौ नाकस्मात्काञ्चिदासां विशेषयेत् । वस्त्रताम्बूलदानादौ प्रतिपत्तौ समो भवेत् । । ३८ प्रियाप्रियत्वं भेदो हि कामतस्तु रहोगतः । उपचारैः पुनर्वाक्यैस्तुल्यवृत्तिः प्रशस्यते । । ३९ आर्तवे तु पुनः सर्वा उपगम्याः प्रिया इव । पूर्वाभिजातधर्मार्था पुत्रिणी चोत्तरोत्तरम् । । 1.8.४० उदग्गच्छेदनेनैव विधिना नित्यमार्तवे । तुल्यवृत्तिर्यथाकालं स्वं स्वं वासमखण्डयन् । । ४१ नित्यपर्यायवासानामपादानमसून्विदुः । ऋतुदुःखं प्रमोदश्च तथा पूर्वं समागतः । । ४२ अन्यया सह यद्दुःखं सदसद्वा रहोगतम् । उत्कण्ठितं वा यत्किञ्चित्सपत्नीषु न तद्वसेत् । । ४३ यत्किञ्चिदन्यसम्बद्धमन्यथा कथितं मिथः । तस्य कुर्यादनिर्वेदमात्मनैव विचिन्तयेत् । । ४४ अन्योऽन्यमत्सराख्यानैर्न ता वाचापि भर्त्सयेत् । गुणदोषौ च विज्ञाय स्वयं कुर्यान्न निष्कलौ । । ४५ वस्त्रालङ्कारभोज्यादौ तदपत्येष्वनुक्रमात् । मातृदोषाननादृत्य तुल्यदृष्टिः पिता भवेत् । । ४६ अन्यस्यान्यगतैर्दोषैर्दूषणं न हि नीतिमत् । यत्तु तेषामपत्यं तु तत्तुल्यमुभयोरपि । । ४७ प्रीतिं द्वेषमभिप्रायं शौचाशौचगतागमान् । बहिरन्तश्च जानीयाद्दास गूढचरैः सदा । । ४८ आत्मानमपि विज्ञाय चित्तवृत्तेरनीश्वरम् । विश्वसेत कथं स्त्रीषु सर्वाविनयधामसु । । ४९ वृद्धदास्यः क्रमायाता धात्र्यश्च परिचारिकाः । तन्मातृपितृकाद्याश्च षण्डवृद्धाश्चरा मताः । । 1.8.५० विविधैस्तत्कथाख्यानैस्तुल्यशीलदयान्वितैः । प्रविश्यान्तरभिप्रायं विद्यात्काले प्रयोजितैः । । ५१ तेषु तेषु कथार्थेषु कथ्यमानेषु लक्षयेत् । मुखाकारादिभिर्लिङ्गैरभिप्रायं मनोगतम् । । ५२ सीतारुन्धतिसम्बन्धैस्तथा शाकुन्तलादिभिः । सदसच्चरिताख्यानैर्भावं विद्यात्प्रवृत्तितः । । ५३ तद्दुष्टानामदुष्टेषु साधूनामितरेषु च । प्रीतिः कथाप्रबन्धेषु स्यात्सख्यं पुरुषेष्वितः । । ५४ एवमागमदुष्टाभ्यामनुमित्या च तत्त्वतः । स्त्रीणां विदित्वाभिप्रायं वर्तेताशु यथोचितम् । । ५५ स्त्रीभ्यो विप्रतिपन्नाभ्यः प्राणैरपि वियोजनम् । दृष्टं हि च यथा १ राज्ञामतो रक्षेत्प्रयत्नतः । । ५६ वेण्या गूढेन शस्त्रेण हतो राजा शुभध्वजः । मेखलामणिना देव्या सौवीरश्च नराधिपः । । ५७ भ्रात्रा देवीप्रयुक्तेन भद्रसेनो निपातितः । तथा पुत्रेण कारूषो घातितो दर्पणासिना । । ५८ द्वौ काशिराजौ वै वन्द्यौ चानन्दापुरयोषिता । विषं प्रयुज्य पञ्चत्वमानीतौ पूजितात्मकौ । । ५९ एवमादि महाभागा राजानो ब्राह्मणाश्च ह । स्त्रीभिर्यत्र निपात्यन्ते तत्रान्येष्विह का कथा । । 1.8.६० तस्मान्नित्याप्रमत्तेन जाया रक्ष्याश्च नित्यशः । यथावदुपचर्याश्च गुणदोषानुरूपतः । । ६१ वैषम्यादुपचाराणां विकारैश्चानिमित्तजैः । विशेषेण सपत्नीकैरकस्माच्चापि वेदनैः । । ६२ असम्भागे च वाग्दण्डपारुष्यादप्रसङ्गतः । प्रद्वेषो भर्तरि स्त्रीणां प्रकोपश्चापि जायते । । ६३ ततश्चायाति वार्धक्यमुद्वोढुश्चापि शत्रुताम् । तस्मान्न तान्प्रयुञ्जीत दोषान्दारविनाशकान् । । ६४ न चैताः स्वकुलाचारमधर्मं वापि चाञ्जसा । न गुणांश्चाप्युपेक्षन्ते प्रकृत्या किमु पीडिताः । । ६५ सतीत्वे प्रायशः स्त्रीणां प्रदृष्टं कारणत्रयम् । परपुंसामसम्प्रीतिः प्रिये प्रीतिः स्वरक्षणे । । ६६ तस्मात्सुरक्षिता नित्यमुपचारैर्यथोचितैः । सुभृता१ नित्यकर्माणः कर्तव्या योषितः सदा । । ६७ उत्तमां सामदानाभ्यां मध्यमाभ्यां तु मध्यमाम् । पश्चिमाभ्यामुभाम्यां च अधमां सम्प्रसाधयेत् । । ६८ भेददण्डौ प्रयुज्यापि प्रागपत्याद्यपेक्षया । तच्छिष्टानां तदा पश्चात्सामदानप्रसाधने । । ६९ यास्तु विध्वस्तचारित्रा भर्तुश्चाहितकारिकाः । त्याज्या एवं स्त्रियः सद्भिः२ कालकूटविषोपमाः । । ७० इष्टाः ३ कुलोद्गताः साध्व्यो विनीता भर्तृवत्सलाः । सर्वदा साधनीयास्ताः सम्प्रदायोत्तरोत्तरैः
७१ एवमेव यथोद्दिष्टं स्त्रीवृत्तं योऽनुतिष्ठति । प्राप्नोत्येव स सम्पूर्णं त्रिवर्गं ५ लोकसम्भवम् । । ७२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मेषु स्त्रीविषये नरवृत्तवर्णनं नामाष्टमोऽध्यायः
जो पुरुष स्त्रियांच्या योग्य वर्तनाचे पालन करतो, त्याला त्रिवर्ग आणि पाचही लोकांचा पूर्ण लाभ मिळतो.
आगमप्रशंसावर्णनम् ब्रह्मोवाच एवं स्त्रीषु मनुष्याणां वृत्तिरुक्ता समासतः । साम्प्रतं च मनुष्येषु स्त्रीणां समुपदिश्यते । । १ सम्यगाराधनात्पुंसां रतिर्वृत्तिश्च योषितः । पुत्राः स्वर्गाद्यदृष्टं च तस्मादिष्टो हि तद्विधिः । । २ कर्तव्यं नाम यत्किञ्चित्सर्वं १ विधिमपेक्षते । व्यक्तिमायाति वैफल्यं तदेवारब्धमन्यथा । । ३ विध्यपेक्षीणि सर्वाणि कार्याण्यविफलान्यपि । हेतुभूतास्त्रिवर्गस्य महारम्भा विशेषतः । ।४ सर्वसाध्याविधिज्ञानमागमैकनिबन्धनम् । साध्यं दृष्टमदृष्टं च द्वयं विधिनिषेधयोः । । ५ शास्त्राधिकारो न स्त्रीणां न ग्रन्थानां च धारणे । तस्मादिहान्ये मन्यन्ते तच्छासनमनर्थकम् । । ६ आगमैकक्रियायोगे स्त्रीणामध्यधिकारिता । मृते भर्तरि साध्वी स्यादित्यादौ स्मृतिभाषितम् । । ७ तस्मात्कार्यमकार्यं वा विज्ञाय प्रभुरागमात् । गुणदोषेषु ताः सम्यक्छास्ति राजा प्रजा इव । । ८ सत्येव प्रमदाः काश्चिद्विशेषाधिगतागमाः । यत्तु शास्त्राधिकारित्वं वचनं स्यान्निरर्थकम् । । ९ केचिद्वेदविदो विप्राः कृत्यैर्वेषक्रियापराः । तथापि ४ जातिमात्रेण त एवात्राधिकारिणः । । 1.9.१० क्रियन्ते वेदशास्त्रज्ञैः प्रयोगाः शास्त्रलौकिकाः । स्थितमेषामदूरेऽपि शास्त्रमेव निबन्धनम् । । ११ व्याधधीवरगोपालप्रभृतीनां च दृश्यते । विष्ट्यं गारकसौर्यादिदिनानां परिवर्जनम् । । १२ गम्यागम्यादिकार्येयं नियताचारसंस्थितिः । लोकानां शास्त्रवाक्यानां प्राणाः स्वेष्टनिबन्धनाः ।। १३ तस्माच्चतुर्णां वर्णानामाश्रमाणां च सर्वशः । मुख्यगौणादिभेदानां ज्ञेया शास्त्राधिकारिता । । १४ पौर्वापर्यं तु विज्ञातुमशक्यं लोकशास्त्रयोः । तच्छास्त्रमेव मन्तव्यं यथा कर्मशरीरवत् । । १५ आगमे च पुराणे च द्विधैव नास्तिकग्रहम् । मार्गं महद्भिराचीर्णं प्रपद्येताविकल्पधीः । । १६ मूलं गृहस्थधर्माणां यस्मान्नार्यः पतिव्रताः । तस्मादासां प्रवक्ष्यामि भर्तुराराधने विधिम् । । १७ इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि आगमनप्रशंसानाम नवमोऽध्यायः
स्त्रीदुराचारवर्णनम् ब्रह्मोवाच आराध्यानां हि सर्वेषामयमाराधने विधिः । चित्त१ ज्ञानानुवृत्तिश्च हितैषित्वं च सर्वदा । । १ कन्या पुनर्भूर्वेश्या च त्रिविधा एव योषितः । प्रिया मध्याप्रिया चैव योग्या मध्येतरा तथा । । २ समा श्रेष्ठा च नीचा च भूयोपि त्रिविधाः पुनः । पूर्ववत्परयोर्वृत्तिरिष्टानुक्त्या १ प्रियाप्रिये । । ३ अधमाप्रिययोरत्र पतिपत्न्यादिका मता । निषिद्धानां तु भक्ष्यादि तद्धि यत्नाद्विधीयते । । ४ एकद्वित्वबहुत्वाद्या२ ये भेदाः समुदाहृताः । ज्येष्ठादिवृत्ते वक्ष्यामस्तानशेषान्द्विजोत्तमाः । । ५ वृत्तं च द्विविधं स्त्रीणां बाह्यमाभ्यन्तरं तथा । भर्तुरन्यजने बाह्यं तस्याः शारीरमान्तरम् । । ६ ज्ञातीतरविभागेन तद्बाह्यं द्विविधं पुनः । पूज्यं तुल्यं कनिष्ठं च तत्प्रत्येकं पुनस्त्रिधा । । ७ रहोरतं प्रकाशं च शारीरमपि तत्त्रिधा । भर्तुश्चित्तानुकूल्येन प्रयोक्तव्यं यथोचितम् । । ८ माता पिता स्वसा भ्राता पितृव्याचार्यमातुलाः । सभार्या ३ भगिनी भर्ता भर्तृमातृपितृष्वसा । । ९ धात्री वृद्धाङ्गनादिश्च यस्तत्रास्ता समो जनः । प्रथमोढा सपत्नी च स्त्रीणां मान्यतमो गणः
ब्रह्मदेव म्हणाले — सर्वांनी पूज्य असलेल्या व्यक्तींच्या पूजेत मन, ज्ञान आणि नेहमीच हिताची भावना ठेवावी. कन्या, विधवा आणि वेश्या — स्त्रियांच्या या तीन प्रकारांशी योग्य वर्तन करावे.
1.10.१० एषामेव त्वपत्यादिभगिनीभ्रातरस्तथा । कनिष्ठा भर्तुरित्यादिभार्याश्चाप्तसमो मतः । । ११ हीनोऽन्यः शासनीयस्तु तत्र तावन्न विद्यते । योग्यता सुतसौभाग्यैर्न यावत्स्यात्प्रतिष्ठिता । । १२ यत्रापि गुरु भर्तॄणामानुकूल्येन सर्वदा । वृत्तिः प्रशस्यते स्त्रीणां पूजाचाराविरोधिनी
या सर्व नात्यांमध्ये, कनिष्ठ भावंडे, पत्नी आणि इतर स्त्रिया त्यांच्या कुटुंबातील स्थानानुसार मानाव्यात. त्यांच्या पात्रतेनुसार त्यांना योग्य आदर द्यावा.
१३ देवरैः पतिमित्रैश्च परिहासक्रियोचितैः । विविक्तदेशावस्थानं वर्जयेदिति नर्म च । । १४ प्रायशो हि कुलस्त्रीणां शीलविध्वंसहेतवः । दुष्टयोगो रहो नित्यं स्वातन्त्र्यमतिनर्मता । । १५ दुष्टसङ्गे त्वरा स्त्रीणां युवभिर्नर्म नोचितम् । निर्भेषता स्वतन्त्राणां साफल्यं रहसि यजेत् । । १६ पुंसो दुष्टेङ्गिताकारान्दुष्टभावप्रयोजितान् । भ्रातृवत्पितृवच्चैतान्पश्यती परिवर्जयेत् । । १७ पुंसोऽ न्याग्रहमालापस्मितविप्रेक्षितानि च । करान्तरेण १ द्रव्याणां निबन्धं ग्रहणार्पणम् । । १८ द्वारप्रदेशावस्थानं राजमार्गावलोकनम् । प्रेक्षोद्यानादिशीलत्वं निरुष्याद्देशमालयम् । । १९ बहूनां दर्शने स्थानं दृष्टिवाक्कायचापलम् । ष्ठीवनत्वं ससीत्कारमुच्चैर्हसितजल्पितम् । । 1.10.२० साङ्गत्यं लिङ्गिदुष्टस्त्रीभिघृणीक्षणिकादिभिः । मन्त्रमण्डलदीक्षायां सक्तिः संवसनेषु च । । २१ इत्येवमादिदुर्वृत्तं प्रायोदुष्टजनोचितम् । वर्जयेत्परिरक्षन्ती कुलत्रितयवाच्यताम् । । २२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीदुर्वृत्तवर्णनंनाम दशमोऽध्यायः
ब्रह्मदेव म्हणाले — देवर, पतीचे मित्र आणि इतर पुरुषांशी एकांतात किंवा विनाकारण हसतखेळत वागताना टाळावे. स्त्रियांनी नेहमी आपली मर्यादा पाळावी.
स्त्रीणां गृहस्थधर्मवर्णनम् ब्रह्मोवाच या पतिं दैवतं पश्येन्मनोवाक्कायकर्मभिः । तच्छरीरार्धजातेव सर्वदा हितमाचरेत् । । १ तत्प्रियां प्रियवत्पश्येत्तद्द्वेष्या द्वेष्यवत्सदा । अधर्मानर्थयुक्तेभ्योऽयुक्ता चास्य निवर्तते । । २ प्रियं किमस्य किं पथ्यं साम्यं चास्य कथं भवेत् । ज्ञात्वैवं सर्वभृत्येषु न प्रमाद्येत वै द्विजाः । । ३ देवतापितृकार्येषु भर्तुः स्नानाशनादिषु । सत्कारेऽभ्यागतानां च यथौचित्यं न हापयेत् । । ४ वेश्मात्मा च शरीरं हि गृहिणीनां द्विधा कृतम् । संस्कर्तव्यं प्रयत्नेन प्रथमं पश्चिमादपि । । ५ कृत्वा वेश्म सुसंमृष्टं त्रिकालविहितार्चनम् । वृत्तकर्मोपभोगानां संस्कर्तव्यं यथोचितम् । । ६ प्रातर्मध्यापराह्णेषु बहिर्मध्यान्तरेषु च । गृहसम्मार्जनं कृत्वा निष्कारान्न निशि क्षिपेत् । । ७ गोमहिष्यादिशालानां तत्पुरीषादिमात्रकम् । व्यपनेयं तु यत्नेन सम्मार्जन्या प्रसाधनम् । । ८ दासकर्मकरादीनां बाह्याभ्यन्तरचारिणाम् । पोषणादिविधिं विद्यादनुष्ठानं च कर्मसु । । ९ शाकमूलफलादीनां वल्लीनामौषधस्य च । सङ्ग्रहः सर्वबीजानां यथाकालं यथाबलम् । । 1.11.१० ताम्रकांस्यायसादीनां काष्ठवेणुमयस्य १ च । मृन्मयानां च भाण्डानां विविधानां च सङ्ग्रहम् । । ११ कुण्डकादिजलद्रोण्या कलशोदञ्चतालुकाः । शाकपात्राण्यनेकानि स्नेहानां गोरसस्य च । । १२ मुसलं कुण्डनीयं तु यन्त्रकं२ चूर्णचालनी । दोहन्यो नेत्रकं मन्था मण्डन्यः शृङ्खलानि च । । १३ संदंशः कुण्डिका शूलाः पट्टपिप्पलको दृषत् । डाविका हस्तको दर्वी भ्राष्टस्फुटलकानि च । । १४ तुलाप्रस्थादिमानानि मार्जन्यः पिटकानि च । सर्वमेतत्प्रकुर्वीत प्रयत्नेन च सर्वदा । । १५ हिंग्वादिकमथो जाजी पिपल्यो मारिचानि च । राजिका धान्यकं शुण्ठी त्रिचतुर्जातकानि च । । १६ लवणं क्षारवर्गाश्च सौवीरकपरूषकौ । द्विदलामलकं चिंचा सर्वाश्च स्नेहजातयः । । १७ शुष्ककाष्ठानि वल्लूरमरिष्टा पिष्टमाषयोः । विकाराः पयसश्चापि विविधाः कन्दजातयः । । १८ नित्यनैमित्तिकानां हि कार्याणामुपयोगतः । सर्वमित्यादि संग्राह्यं यथावद्विभवोचितम् । । १९ यत्कार्याणां समुत्पत्तावुपाहर्तुं न दृश्यते । तत्प्रागेव यथायोगं सङ्गृह्णीयात्प्रयत्नतः । । 1.11.२० धान्यानां घृष्टपिष्टानां क्षुण्णोपहतयोरपि । भृशं शुष्कार्द्रसिद्धानां क्षयवृद्धी निरूपयेत् । । २१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि गृहधर्मवर्णनं नामैकादशोऽध्यायः
पराशरांचे पुत्र व्यास यांनी सर्व पुराणे पूर्ण केल्यानंतर, कलियुगातील सर्व लोकांच्या कल्याणासाठी, स्वतःच्या आणि इतरांच्या सुखासाठी, भविष्यातील धर्माचे वर्णन करणारे हे भविष्यमहापुराण रचले.
७२ देवार्चां पुरतः १ कृत्वा ब्राह्मणैश्च नृपोत्तम । श्रोतव्यमेव शूद्रैश्च तथान्यैश्च द्विजातिभिः । । ७३ श्रौतं स्मार्तं हि वै धर्मं प्रोक्तमस्मिन्नृपोत्तम । तस्माच्छूद्रैर्विना विप्रान्न श्रोतव्यं कथञ्चन । ७४ इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः । मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिम्पते । । ७५ शृण्वन्ति चापि ये राजन् भक्त्या वै ब्राह्मणादयः । मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च दिवं प्रभो । । ७६ श्रावयेच्चापि यो विप्रः सर्वान्वर्णान्नृपोत्तम । स गुरुः प्रोच्यते तात वर्णानामिह सर्वशः । । ७७ स पूज्यः सर्वकालेषु सर्वैर्वर्णैर्नराधिप । पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि सोऽर्हति । । ७८ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । इदं यशस्यं सततमिदं निःश्रेयसं परम् । । ७९ अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चापि शाश्वतः । । 1.1.८० आचारः प्रथमो धर्मः श्रुत्युक्तश्च नरोत्तम । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः । । ८१ आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण च संयुक्तः सम्पूर्णफलभाक्स्मृतः । । ८२ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम् । । ८३ अन्ये च मानवा राजन्नाचारं संश्रिता सदा । एवमस्मिन्पुराणे तु आचारस्य तु कीर्तनम् । । ८४ वृत्तान्तानि च राजेन्द्र तथा चोक्तानि पण्डितैः । त्रिलोक्यास्तु समुत्पत्तिः संस्कारविधिरुत्तमः । । श्रवणं चेतिहासस्य विधानं कथ्यते नृप । । ८५ तथास्मिन्कथ्यते राजन्माहात्म्यं वाचकस्य तु । व्रतचर्याश्रमाचाराः स्नातकस्य परो विधिः । । ८६ दारादिगमनं चैव विवाहानां च लक्षणम् । पुंसां च लक्षणं राजन्योषितां चात्र कथ्यते । । ८७ महायज्ञविधानं च शास्त्रकल्पं च शाश्वतम् । पृथिव्या लक्षणं तात देवार्चायाः सुलक्षणम् । । ८८ वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिरेव च । । ८९ स्त्रीधर्मयोगस्तापस्यं मोक्षः संन्यास एव च । राज्ञश्च धर्मो ह्यखिलः कार्याणां च विनिर्णयः । । 1.1.९० माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते । नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते । । ९१ महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च । दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते । । ९२ संक्षिप्तं १ संविधानं च धर्मं स्त्रीपुंसयोरपि । विभागं धर्मद्यूतं च कथकानां च शोधनम् । । ९३ वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा । । ९४ संध्याविधिं प्रेतशुद्धिं स्नानतर्पणयोर्विधिम् । वैश्वदेवविधिं चापि तथा भोज्यविधिं नृप । । ९५ लक्षणं दन्तकाष्ठस्य चरणव्यूहमुत्तमम् । संसारगमनं चैव त्रिविधं कर्मसम्भवम् । । ९६ नैःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । दाराणां लक्षणं प्रोक्तं तथा पात्रपरीक्षणम् । । ९७ प्रसूतिं चापि गर्भस्य तथा कर्मफलं नृप । जातिधर्मान्कुलधर्मान्वेदधर्मांश्च १ पार्थिव । । ९८ वैतानव्रतिकानां च तथासौ प्रोक्तवान्विभुः । ब्रह्मा कुरुकुलश्रेष्ठ शंकराय महात्मने । । ९९ शंकरेण तथा विष्णोः कथितं कुरुनन्दन । विष्णुनापि पुनः प्रोक्तं नारदाय महीपते । । 1.1.१०० नारदात्प्राप्तवाञ्छक्रः शक्रादपि पराशरः । पराशरात्ततो व्यासो व्यासादपि मया विभो । । १०१ एवं परम्पराप्राप्तं पुराणमिदमुत्तमम् । शृणु त्वमपि राजेन्द्र मत्सकाशात्परं हितम् । । १०२ सर्वाण्येव पुराणानि संज्ञेयानि नरर्षभ । द्वादशैव सहस्राणि प्रोक्तानीह मनीषिभिः । । १०३ पुनर्वृद्धिं गतानीह आख्यानैर्विविधैर्वृष । यथा स्कान्दं तथा चेदं भविष्यं कुरुनन्दन । । १०४ स्कान्दं शतसहस्रं तु लोकानां ज्ञातमेव हि । भविष्यमेतदृषिणा लक्षार्द्धं संख्यया कृतम्
राजन, देवतेची पूजा करून, ब्राह्मणांसह इतर द्विजांनी आणि शूद्रांनीही हे ऐकावे. या ग्रंथात श्रौत आणि स्मार्त धर्म सांगितला आहे. म्हणून, शूद्रांशिवाय इतरांनीच हे ऐकावे. जो ब्राह्मण नित्य व्रतस्थ राहून हे शास्त्र शिकतो, त्याला मन, वाणी आणि शरीराने होणारे पाप लागत नाही. जे ब्राह्मण आणि इतर भक्तीने ऐकतात, ते सर्व पापांतून मुक्त होतात आणि स्वर्गात जातात. जो ब्राह्मण सर्व वर्णांना हे ऐकवतो, तो सर्वांचा गुरु मानला जातो. सर्व वर्णांनी त्याचा सर्वकाळ सन्मान करावा, तो एकटाच संपूर्ण पृथ्वीचा अधिकारी ठरतो. हे श्रेष्ठ मंगलकार्य आहे, बुद्धी वाढवणारे आहे, यश देणारे आहे आणि सर्वोच्च कल्याणकारी आहे. या ग्रंथात धर्म, कर्माचे गुणदोष आणि चारही वर्णांचा शाश्वत आचार सांगितला आहे. आचार हा धर्माचा पाया आहे, असे श्रुतीत सांगितले आहे. म्हणून, जो द्विज आचारयुक्त असतो, तो आत्मसंयमी मानला जातो. जो ब्राह्मण आचार सोडतो, त्याला वेदाचे फळ मिळत नाही; आचारयुक्त असणाऱ्याला पूर्ण फळ मिळते. म्हणून, ऋषींनी सर्व तपस्येचा मूळ आचार मानला आहे. इतर लोकांनीही नेहमी आचारावर भर दिला आहे. या पुराणात आचाराचे महत्त्व सांगितले आहे. राजन, विविध कथा, त्रिलोकांची उत्पत्ती, उत्तम संस्कारविधी, इतिहास ऐकण्याची पद्धत येथे वर्णन केली आहे. तसेच, वाचकाचे महात्म्य, व्रत, आश्रमातील आचार, स्नातकाचा श्रेष्ठ नियम, विवाहाची लक्षणे, पुरुष आणि राजकन्यांचे गुण, महायज्ञविधी, शाश्वत शास्त्रकल्प, पृथ्वीचे आणि देवपूजेचे गुण, उपजीविकेचे प्रकार, स्नातकाचे व्रत, भक्ष्याभक्ष्य, शुद्धता, द्रव्यांची शुद्धी, स्त्रीधर्म, तप, मोक्ष, संन्यास, राजधर्म, कार्यनिश्चिती, सावित्रीचे आणि तीर्थांचे महात्म्य, नारायण आणि रुद्राचे महात्म्य, ब्राह्मणांचे भाग्य, ग्रंथाचे महात्म्य, दुर्गादेवीचे आणि सत्याचे महात्म्य, स्त्री-पुरुष धर्म, धर्माचे विभाग, जुगार, कथाकारांचे शुद्धीकरण, वैश्य-शूद्रांची सेवा, मिश्रवर्णांची उत्पत्ती, आपत्तीतील धर्म, प्रायश्चित्त, संध्याविधी, प्रेतशुद्धी, स्नान-तर्पण, वैश्वदेव, भोजनविधी, दंतकाष्ठाचे गुण, पायांची रचना, संसारातील प्रवास, कर्माची तीन कारणे, कर्माचे गुणदोष, पत्न्यांचे गुण, पात्रांची परीक्षा, गर्भधारणा, कर्माचे फळ, जातिधर्म, कुलधर्म, वेदधर्म, वैतानव्रतींचे नियम, ब्रह्मदेवाने शंकराला, शंकराने विष्णूला, विष्णूने नारदाला, नारदाने इंद्राला, इंद्राने पराशराला, पराशराने व्यासाला, व्यासाने मला सांगितले. अशा परंपरेने हे उत्तम पुराण मिळाले आहे. राजन, माझ्याकडून तू हे ऐक. सर्व पुराणे ओळखावीत, बाराशे श्लोक येथे सांगितले आहेत. विविध कथांनी त्यात वाढ झाली आहे. जसे स्कांदपुराण, तसेच हे भविष्यमहापुराण आहे. स्कांदपुराण एक लाख श्लोकांचे आहे, हे भविष्यमहापुराण पन्नास हजार श्लोकांचे आहे.
अथ द्वितीयोऽध्यायः सृष्टिवर्णनं पुराणानां ब्रह्मपञ्चमास्यादुत्पत्तिवर्णनञ्च सुमन्तुरुवाच शृणुष्वेदं महाबाहो पुराणं पञ्चलक्षणम् । यच्छ्रुत्वा मुच्यते राजन्पुरुषो ब्रह्महत्यया । । १ पर्वाणि चात्र वै पञ्च कीर्तितानि स्वयम्भुवा । प्रथमं कथ्यते ब्राह्मं द्वितीयं वैष्णवं स्मृतम् । । २ तृतीयं शैवमाख्यातं चतुर्थं त्वाष्ट्रमुच्यते । पञ्चमं प्रतिसर्गाख्यं सर्वलोकैः सुपूजितम् । । ३ एतानि तात पर्वाणि लक्षणानि निबोध मे । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । । ४ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन । । ५ अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । । ६ आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः । । ७ प्रथमं कथ्यते सर्गो भूतानामिह सर्वशः । यच्छ्रुत्वा पापनिर्मुक्तो याति शान्तिमनुत्तमाम् । । ८ जगदासीत्पुरा तात तमोभूतमलक्षणम् । अविज्ञेयमतर्क्यं च प्रसुप्तमिव सर्वशः । । ९ ततः स भगवानीशो ह्यव्यक्तो व्यञ्जयन्निदम् । महाभूतानि वृत्तौजाः प्रोत्थितस्तमनाशनः
आता दुसरा अध्याय — सृष्टीचे आणि पुराणांचे वर्णन, तसेच ब्रह्मदेवाच्या पाचव्या तोंडातून उत्पत्ती कशी झाली याचे सांगणे. सुमंतु म्हणाले: हे महाबाहो, हे पांडित्याने युक्त राजा, हे पंचलक्षण असलेले पुराण ऐक. हे ऐकल्यावर मनुष्य ब्रह्महत्या या मोठ्या पापातून मुक्त होतो. येथे स्वयंभूने पाच विभाग सांगितले आहेत — पहिले ब्राह्म, दुसरे वैष्णव, तिसरे शैव, चौथे त्वाष्ट्र, आणि पाचवे प्रतिसर्ग असे सर्व लोकांनी पूजिलेले आहे. हे पाच विभाग आणि त्यांचे गुणधर्म नीट समजून घे. सृष्टी, प्रतिसृष्टी, वंश, मन्वंतर आणि वंशानुचरित — हीच पंचलक्षणे आहेत. हे पुराण चौदा विद्या-शाखांनी सुशोभित आहे, हे कुरुनंदना. चार वेद, मीमांसा, न्यायशास्त्र, पुराण आणि धर्मशास्त्र — या चौदा विद्या आहेत. आयुर्वेद, धनुर्वेद, गंधर्वविद्या ही तीन आणि अर्थशास्त्र हे चौथे — अशा एकूण अठरा विद्या सांगितल्या आहेत. प्रथम सर्व भूतांची सृष्टी कशी झाली हे सांगितले जाते; हे ऐकून पापातून मुक्त होऊन मनुष्य श्रेष्ठ शांतीला पोहोचतो. पूर्वी, हे तात, हे जग पूर्ण अंधाराने वेढलेले, गुणरहित, समजण्यापलीकडचे, विचाराच्या पलीकडचे आणि जणू काही झोपेतच असलेले होते. त्यानंतर, तो भगवंत, जो अव्यक्त आहे, त्याने हे जग प्रकट केले आणि मोठ्या तेजाने अंधार नाहीसा केला.
1.2.१० योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुत्थितः । । ११ योऽसौ षड्विंशको लोके तथा यः पुरुषोत्तमः । भास्करश्च महाबाहो परं ब्रह्म च कथ्यते । । १२ सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अत एव ससर्जादौ तासु वीर्यमवासृजत् । । १३ यस्मादुत्पद्यते सर्वं सदेवासुरमानुषम् । बीजं शुक्रं तथा रेत उग्रं वीर्यं च कथ्यते । । १४ वीर्यस्यैतानि नामानि कथितानि स्वयम्भुवा । तदण्डमभवद्धैमं ज्वालामालाकुलं विभो । । १५ यस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । सुरज्येष्ठश्चतुर्वक्त्रः परमेष्ठी पितामहः । । १६ क्षेत्रज्ञः पुरुषो वेधाः शम्भुर्नारायणस्तथा । पर्यायवाचकैः शब्दैरेव ब्रह्मा प्रकीर्त्यते । । १७ सदा मनीषिभिस्तात विरञ्चिः कञ्जजस्तथा
जो सर्व इंद्रियांच्या पलीकडचा, अगम्य, अत्यंत सूक्ष्म, अव्यक्त, सनातन, सर्व भूतांत व्यापून असलेला आणि विचारानेही न समजणारा आहे, तोच स्वतः प्रकट झाला. जो या जगातील सव्वीसावा तत्त्व आहे, जो पुरुषोत्तम, तेजस्वी, आणि परम ब्रह्म म्हणून ओळखला जातो, तोच हे महाबाहो, सर्व सृष्टी करायची इच्छा करून ध्यानस्थ झाला आणि आपल्या शरीरातून विविध प्रजांचा बीज सोडले. त्याच्यापासून सर्व देव, दैत्य, मानव, बीज, शुक्र, रेत, आणि प्रचंड वीर्य निर्माण झाले. या वीर्याची ही नावे स्वयंभूने सांगितली आहेत. मग एक सुवर्ण अंड तयार झाले, ज्या भोवती ज्वाळांची माळ होती. त्यातच स्वयंभू ब्रह्मा, सर्व लोकांचे पितामह, देवांमध्ये ज्येष्ठ, चार मुखांचा, श्रेष्ठ पितामह उत्पन्न झाला. क्षेत्रज्ञ, पुरुष, वेध, शंभू, नारायण — या सर्व समानार्थी शब्दांनी ब्रह्मा संबोधला जातो. नेहमीच ज्ञानी लोक त्याला विरिंची आणि कंजज असेही म्हणतात, हे तात.
अथ तृतीयोऽध्यायः गर्भाधानादारभ्य समासात्सर्वसंस्कारवर्णनमाचमनादिविधिवर्णनञ्च शतानीक उवाच जातकर्मादिसंस्कारान्वर्णानामनुपूर्वशः । आश्रमाणां च मे धर्मं कथयस्व द्विजोत्तम । । १ सुमन्तुरुवाच गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा । जातकर्मान्नप्राशश्च चूडामौञ्जीनिबन्धनम् । । २ बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते । स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया श्रुतैः । । ३ महायज्ञैश्च ब्राह्मीयं यज्ञैश्च क्रियते तनुः । शृणुष्वैकमना राजन्यथा सा क्रियते तनुः । । ४ प्राङ्नाभिकर्तनात्पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् । । ५ नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव । द्वादश्यामपरे राजन्मासि पूर्णे तथा परे । । ६ अष्टादशेऽहनि तथाऽन्ये वदन्ति मनीषिणः । पुण्ये तिथौ मुहूर्ते च नक्षत्रे च गुणान्विते । । ७ मङ्गल्यं तात विप्रस्य शिवशर्मेति पार्थिव । राजन्यस्य विशिष्टं १ तु इन्दुवर्मेति कथ्यते
तिसरा अध्याय — गर्भाधानापासून सुरू होणाऱ्या सर्व संस्कारांचा संक्षिप्त आढावा आणि आचमनादी विधींचे वर्णन. शतानिक म्हणाले: जन्मसंस्कारापासून सुरू होणारे सर्व संस्कार आणि चार वर्णांच्या आश्रमधर्मांची कृती मला सांग, हे श्रेष्ठ द्विजा. सुमंतु म्हणाले: गर्भाधान, पुंसवन, सीमंतोन्नयन, जन्मसंस्कार, अन्नप्राशन, चूडाकर्म आणि मौंजीबंधन — हे सर्व संस्कार सांगितले आहेत. बैजिक आणि गार्भिक असे दोन संस्कारही द्विजांसाठी आहेत. हे सर्व संस्कार स्वाध्याय, व्रत, होम, त्रैविद्य, यज्ञ आणि श्रुती यांच्या शुद्धतेने पवित्र होतात. महायज्ञ आणि ब्राह्मी यज्ञांनी शरीर पवित्र होते. हे राजन, एकाग्र मनाने ऐक, शरीर कसे पवित्र करावे ते सांगतो. मुलाचा नाळ कापल्यावर त्याचा जन्मसंस्कार करावा. त्याला सुवर्ण, मध आणि तुप मंत्रासह चाखवावे. काहीजण नावकरण दहाव्या दिवशी करतात, काही बाराव्या दिवशी, तर काही पूर्ण महिन्यानंतर करतात. काही विद्वान अठराव्या दिवशी, शुभ तिथी, शुभ मुहूर्त आणि उत्तम नक्षत्रावर नाव ठेवतात. ब्राह्मणासाठी शुभ नाव 'शिवशर्मा', क्षत्रियासाठी 'इंदुवर्मा' असे ठेवावे.
वैश्यस्य धनसंयुक्तं शूद्रस्य च जुगुप्सितम् । धनवर्धनेति वैश्यस्य सर्वदासेति हीनजे । । ९ मनुना च तथा प्रोक्तं नाम्नो लक्षणमुत्तमम् । शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । । 1.3.१० वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् । स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थमनोरमम् । । ११ मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् । द्वादशेऽहनि राजेन्द्र शिशोर्निष्कमणं गृहात् । । १२ चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो । षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं कुले । । १३ चूडाकर्म द्विजातीनां सर्वेषामनुपूर्वशः । प्रथमेऽब्दे तृतीये वा कर्तव्यं कुरुनन्दन । । १४ गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राजन्क्षत्रियस्य विनिर्दिशेत् । । १५ द्वादशेऽब्देऽपि गर्भात्तु वैश्यस्य व्रतमादिशेत् । ब्रह्मवर्चसकामेन कार्यं विप्रस्य पञ्चमे । । १६ बलार्थिना तथा राज्ञः षष्ठे ऽब्दे कार्यमेव हि । अर्थकामेन वैश्यस्य अष्टमे कुरुनन्दन । । १७ आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते । द्वाविंशतेः क्षत्रबन्धोराचतुर्विंशतेर्विशः । । १८ अत ऊर्ध्वं तु ये राजन्यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते ३ क्रतोः । । १९ न चाप्येभिरपूतैस्तु आपद्यपि हि कर्हिचित् । ब्राह्मं यौनं च सम्बन्धमाचरेद्ब्राह्मणैः सह । । 1.3.२० भवन्ति राजंश्चर्माणि व्रतिनां त्रिविधानि च । कार्ष्णरौरववास्तानि ब्रह्मक्षत्रविशां नृप । । २१ वशीरंश्चानुपूर्व्येण वस्त्राणि विविधानि तु । ब्रह्मक्षत्रविशो राजञ्छाणक्षौमादिकानि च । । २२ मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य च मौर्वीज्या वैश्यस्य शणतान्तवी । । २३ मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्वजैः । त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव च । । २४ कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २५ पुष्कराणि तथा चैषां भवन्ति त्रिविधानि तु । ब्रह्मणो बैल्वपालाशौ तृतीयं प्लक्षजं नृप । । २६ वाटखादिरौ क्षत्रियस्तु तथान्यं वेतसोद्भवम् । पैलवोदुम्बरौ वैश्यस्तथाश्वत्थजमेव हि । । २७ दण्डानेतान्महाबाहो धर्मतोऽर्हन्ति धारितुम् । केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । । २८ ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः । ऋजवस्ते तू सर्वे स्युर्ब्राह्मणाः सौम्यदर्शनाः । । २९ अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः । प्रगृह्य चेप्सितं दण्डमुपस्थाय च भास्करम् । । 1.3.३० सम्यग्गुरुं तथा पूज्य चरेद्भैक्ष्यं यथाविधि । भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः । । ३१ भवन्मध्यं तु राजन्यो वैश्यस्य भवदुत्तरम् । मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । । ३२ भिक्षेत भैक्ष्यं प्रथमं या चैनं नावमानयेत् । सुवर्णं रजतं चान्नं सा पात्रेऽस्य विनिर्दिशेत् । । ३३ समाहृत्य ततो भैक्ष्यं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः । । ३४ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं १ भुङ्क्ते उदङ्मुखः । । ३५ उपस्पृश्य द्विजो राजन्नन्नमद्यात्समाहितः । भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् । । ३६ तथान्नं पूजयेन्नित्यमद्याच्चैतदकुत्सयन् । दर्शनात्तस्य हष्येद्वै प्रसीदेच्चापि भारत। । ३७ अभिनन्द्य ततोऽश्नीयादित्येवं मनुरब्रवीत् । पूजितं त्वशनं नित्यं बलमोजश्च यच्छति। । ३८ अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम्
वैश्यासाठी धनाशी संबंधित नाव ठेवावे, शूद्रासाठी तुच्छ मानले जाणारे नाव ठेवावे. 'धनवर्धन' हे वैश्याचे, 'सर्वदास' हे कनिष्ठ जातीसाठी नेहमी ठेवतात. मनूनेही नावाची उत्तम लक्षणे सांगितली आहेत — ब्राह्मणाचे नाव 'शर्मन्' ने समाप्त व्हावे, राजाचे नाव रक्षण सूचित करणारे, वैश्याचे नाव समृद्धी दर्शवणारे, शूद्राचे नाव सेवकत्व दर्शवणारे असावे. स्त्रियांचे नाव गोड, कोमल, स्पष्ट अर्थाचे, मनोहर, दीर्घ स्वराने संपणारे आणि आशीर्वादासारखे असावे. बाराव्या दिवशी, हे राजेंद्र, बाळाला घराबाहेर काढावे; काहींच्या मते चौथ्या महिन्यात हे करावे. सहाव्या महिन्यात अन्नप्राशन करावे, घरात जसे रीत आहे तसे. चूडाकर्म सर्व द्विजांसाठी पहिल्या किंवा तिसऱ्या वर्षी करावे, हे कुरुनंदना. ब्राह्मणाचे उपनयन गर्भाच्या आठव्या वर्षी, क्षत्रियाचे अकराव्या, वैश्याचे बाराव्या वर्षी करावे. ब्राह्मणाला वेदाध्ययनाची इच्छा असल्यास पाचव्या वर्षी, राजाला बळ हवे असल्यास सहाव्या, वैश्याला संपत्ती हवी असल्यास आठव्या वर्षी उपनयन करावे. सोळाव्या वर्षानंतर ब्राह्मणाचे, बाविसाव्या वर्षानंतर क्षत्रियाचे, चोवीसाव्या वर्षानंतर वैश्याचे उपनयन करू नये. त्यानंतर योग्य वेळी संस्कार न झाल्यास ते सावत्रीपासून पतित समजले जातात, व्रात्य म्हणतात, व्रात्यस्तोम यज्ञ केल्याशिवाय त्यांना पुन्हा प्रवेश नाही. हे संस्कार न झालेल्यांनी, अगदी अडचणीतही, ब्राह्मणांशी विवाह किंवा संबंध करू नयेत. व्रतींच्या कमरपट्ट्या तीन प्रकारच्या असतात — ब्राह्मणाची काळ्या मृगाची, क्षत्रियाची रुरू मृगाची, वैश्याची मेंढीच्या कातडीची. त्यांच्या वस्त्रांमध्येही भेद असतो — ब्राह्मण, क्षत्रिय, वैश्य यांच्या वस्त्रांसाठी अनुक्रमे कापूस, भेंड, इत्यादी वापरावे. ब्राह्मणाची मेखला तीन मुंजाच्या गाठीची, क्षत्रियाची मौरवी, वैश्याची शणाची असावी. मुंज न मिळाल्यास कुश, अश्मंतक किंवा बल्वज या गवतांनी करावी, तीन, एक, तीन किंवा पाच गाठी असाव्यात. ब्राह्मणाचे उपवितं कापसाचे, डाव्या खांद्यावरून घातलेले, तीन धाग्यांचे असावे; क्षत्रियाचे शणाचे, वैश्याचे मेंढीच्या किंवा मेंढ्याच्या लोकरीचे असावे. त्यांच्या दंडही तीन प्रकारचे असतात — ब्राह्मणाचा बेल किंवा पळसाचा, तिसरा प्लक्षाचा; क्षत्रियाचा वड, खैर किंवा वेताचा; वैश्याचा पिंपळ, उंबर किंवा अश्वत्थाचा. हे दंड धर्माप्रमाणे धारण करावेत. ब्राह्मणाचा दंड केशांतिकापर्यंत, क्षत्रियाचा कपाळापर्यंत, वैश्याचा नासिकेपर्यंत असावा. सर्व दंड सरळ, सौम्य, लोकांना न घाबरवणारे, गुळगुळीत आणि अग्नीद्वारे जळलेले नसावेत. इच्छित दंड घेऊन सूर्याला नमस्कार करून, गुरूचे पूजन करून, विधिप्रमाणे भिक्षा मागावी. उपनयन झाल्यावर द्विज प्रथम आपल्या घरी, क्षत्रिय मधल्या घरात, वैश्य मागच्या बाजूला भिक्षा मागतो. तो प्रथम आई, बहीण किंवा मावशी, किंवा स्वतःच्या मावस बहिणीकडून भिक्षा मागतो — जी त्याचा अपमान करत नाही. ती त्याला सुवर्ण, चांदी किंवा अन्न देते, ते त्याचे पात्र समजावे. आवश्यकतेनुसार भिक्षा गोळा करून, कपट न करता, ती गुरूला अर्पण करावी, नंतर पूर्वेकडे तोंड करून, शुद्ध होऊन अन्न घ्यावे. पूर्वेकडे तोंड करून अन्न घेतल्याने दीर्घायुष्य, दक्षिणेकडे तोंड केल्याने कीर्ती, पश्चिमेकडे तोंड केल्याने लक्ष्मी, उत्तरेकडे तोंड केल्याने सत्य मिळते. द्विजाने आचमन करून, एकाग्रतेने अन्न घ्यावे; जेवल्यावर पुन्हा आचमन करावे आणि सर्व इंद्रियांना पाण्याने स्पर्श करावा. अन्न नेहमी पूज्य मानावे आणि कधीही तुच्छ मानू नये; त्याचे दर्शन केल्याने आनंद मिळतो आणि समाधान येते, हे भारत. नमस्कार करून मग अन्न घ्यावे — असे मनूने सांगितले आहे. पूज्य अन्न नेहमी बळ आणि तेज देते. पण अन्नाचा मान केला नाही, तर बळ आणि तेज दोन्ही नष्ट होते.
नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैतत्तथान्तरा । । ३९ यस्त्वन्नमन्तरा कृत्वा लोभादत्ति नृपोत्तम । विनाशं याति स नर इह लोके परत्र च । । यथाभवत्पुरा वैश्यो धनवर्द्धनसंज्ञितः । । 1.3.४० शतानीक उवाच स कथमन्तरं पूर्वमन्नस्य द्विजसत्तम । किमन्तरं तथान्नस्य कथं वा तत्कृतं भवेत् । । ४१ सुमन्तुरुवाच पुरा कृतयुगे राजन्वैश्यो वसति पुष्करे । धनवर्धननामा वै समृद्धौ धनधान्यतः । । ४२ निदाघकाले राजेन्द्र स कृत्वा वैश्वदेविकम् । सपुत्रभ्रातृभिः सार्धं तथा वै मित्रबन्धुभिः । । आहारं कुरुते राजन्भक्ष्यभोज्यसमन्वितम्
कधीही उष्टं अन्न कुणालाही देऊ नये, किंवा स्वतःही खाऊ नये. राजाधिराज, जो कोणी लोभापोटी मध्येच (समारंभ किंवा वेळ न पाळता) अन्न खातो, तो या जगात आणि पुढच्या जन्मातही नष्ट होतो. पूर्वी धनवर्धन नावाचा एक वैश्य होता— शतानिक म्हणाले: तो पूर्वी मध्येच अन्न कसे खात असे? 'मध्ये' म्हणजे नेमके काय? आणि ते कसे घडते? सुमंतु म्हणाले: कृतयुगात, राजन, पुष्कर या ठिकाणी धनवर्धन नावाचा वैश्य मोठ्या संपत्ती आणि धान्याने समृद्ध होता. उन्हाळ्यात, राजेंद्र, वैश्याने वैश्वदेव विधी करून, आपल्या मुला-भावंडांसह, मित्र-नातेवाईकांसह, विविध प्रकारच्या पदार्थांसह जेवण घेत असे.
सुसमौ चरणौ कृत्वा तथा बद्धशिखो नृप । । ५८ न तिष्ठन्न च संजल्पंस्तथा चानवलोकयन् । न त्वरन्कुपितो वापि त्यक्त्वा राजन्सुदूरतः । । ५९ प्रसन्नाभिस्तथाद्भिस्तु आचान्तः शुचितामियात् । नोष्णाभिर्न सफेनाभिर्युक्ताभिः कलुषेण च । । 1.3.६० वर्णेन रसगन्धाभ्यां हीनाभिर्न च भारत । सबुद्बुदाभिश्च तथा नाचामेत्पण्डितो नृप । । ६१ पञ्चतीर्थानि विप्रस्य श्रूयन्ते दक्षिणे करे । देवतीर्थं पितृतीर्थं ब्रह्मतीर्थं च मानद । । ६२ प्राजापत्यं तथा चान्यत्तथान्यत्सौम्यमुच्यते । अङ्गुष्ठमूलोत्तरतो येयं रेखा महीपते । । ६३ ब्राह्मं तीर्थं वदन्त्येतद्वसिष्ठाद्या द्विजोत्तमाः । कायं कनिष्ठिकामूले अङ्गुल्यग्रे तु दैवतम् । । ६४ तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् । करमध्ये स्थितं सौम्यं प्रशस्तं देवकर्मणि । । ६५ देवार्चाबलिहरणं प्रविक्षपणमेव च । एतानि देवतीर्थेन कुर्यात्कुरुकुलोद्वह । । ६६ अन्ननिर्वपणं राजंस्तथा सपवनं १ नृप । लाजाहोमं तथा सौम्यं प्राजापत्येन कारयेत् । । ६७ कमण्डलूपस्पर्शनं दधिप्राशनमेव च । सौम्यतीर्थेन राजेन्द्र सदा कुर्याद्विचक्षणः । । ६८ पितॄणां तर्पणं कार्यं पितृतीर्थेन धीमता । ब्राह्मेण चापि तीर्थेन सदोषस्पर्शनं परम् । । ६९ २घनाङ्गुलिकरं कृत्वा एकाग्रः सुमना द्विजः । त्रिः कृत्वा यः पिबेदापो मुखशब्दविवर्जितः । । 1.3.७० शृणु यत्फलमाप्नोति प्रीणाति च यथा सुरान् । प्रथमं यत्पिबेदाप ऋग्वेदस्तेन तृप्यति । । ७१ यद्द्वितीयं यजुर्वेदस्तेन प्रीणाति भारत । यत्तृतीयं सामवेदस्तेन प्रीणाति भारत । । ७२ प्रथमं यन्मृजेदास्यं दक्षिणाङ्गुष्ठमूलतः । अथर्ववेदः प्रीणाति तेन राजन्नसंशयः । । ७३ इतिहासपुराणानि यद्द्वितीयं प्रमार्जति । यन्मूर्धानं हि राजेन्द्र अभिषिञ्चति वै द्विजः । । ७४ तेन प्रीणाति वै रुद्रं शिखामालभ्य वै ऋषीन् । यदक्षिणी चालभते रविः प्रीणाति तेन वै । । ७५ नासिकालम्भनाद्वायुं प्रीणात्येव न संशयः । यच्छ्रोत्रमालभेद्विप्रो दिशः प्रीणाति तेन वै । । ७६ यमं कुबेरं वरुणं वासवं चाग्निमेव च । यद्बाहुमन्वालभते एतान्प्रीणाति तेन १ वै । । ७७ यन्नाभिमन्वालभते प्राणानां ग्रन्थिमेव च । तेन प्रीणाति राजेन्द्र इतीयं वैदिकी श्रुतिः । । ७८ अभिषिञ्चति यत्पादौ विष्णुं प्रीणाति तेन वै । यद्भूम्याच्छादकं वारि विसर्जयति मानद । । ७९ वासुकिप्रमुखान्नागांस्तेन प्रीणाति भारत । यद्बिन्दवोऽन्तरे भूमौ पतन्तीह नराधिप । । 1.3.८० भूतग्रामं ततस्तस्तु प्रीणन्तीह चतुर्विधम् । अङ्गुष्ठेन प्रदेशिन्या लभेत चाक्षिणी नृप । । ८१ अनामिकाङ्गुष्ठिकाभ्यां नासिकामालभेन्नृप । मध्यमाङ्गुष्ठाभ्यां मुखं संस्पृशेद्भरतर्षभ । । ८२ कनिष्ठिकाङ्गुष्ठकाभ्यां कर्णमालभते नृप । अङ्गुलीभिस्तथा बाहुमङ्गुष्ठेन तु मङ्गलम् । । ८३ thumb|300px|अङ्गुलयः thumb|300px|पुराणेषु अङ्गुलिविन्यासः thumb|300px|सामवेदे अङ्गुलिविन्यासः नाभिं कुरुकुलश्रेष्ठ शिरः सर्वाभिरेव च । अङ्गुष्ठोग्निर्महाबाहो प्रोक्तो वायुः प्रदेशिनी । । ८४ अनामिका तथा सूर्यः कनिष्ठा माघवा विभो । प्रजापतिर्मध्यमा ज्ञेया तस्माद्भरतसत्तम । । ८५ एवमाचम्य विप्रस्तु प्रीणाति सततं जगत् । सर्वाश्च देवतास्तात लोकांश्चापि न संशयः । । ८६ तस्मात्पूज्यः सदा विप्रः सर्वदेवमयो हि सः । ब्राह्मेण विप्रतीर्थेन नित्यकालमुपस्पृशेत् । । ८७ कायत्रैदेशिकाभ्यां वा न पित्र्येण कदाचन । हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । । ८८ वैश्योद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः । उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधः । । ८९ सव्येन प्राचीनावीती निवीती कण्ठसंज्ञिते । मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । । 1.3.९० अस्तु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवित् । उपवीत्याचमेन्नित्यमन्तर्जानु महीपते । । ९१ एवं तु विप्रो ह्याचान्तः शुचितां याति भारत । यास्त्वेताः करमध्ये तु रेखा विप्रस्य भारत । । ९२ गङ्गाद्याः सरितः सर्वा ज्ञेया भारतसत्तम । यान्यङ्गुलिषु पर्वाणि गिरयस्तानि विद्धि वै । । ९३ सर्वदेवमयो राजन्करो विप्रस्य दक्षिणः । हस्तोपस्पर्शनविधिस्तवाख्यातो महीपते । । ९४ एषु सर्वेषु लोकेषु येनाचान्तो दिवं व्रजेत् । । ९५ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वण्युपस्पर्शनविधिवर्णनं नाम तृतीयोऽध्यायः
राजा, दोन्ही पाय समांतर ठेवून, केस गाठीमध्ये बांधून, उभा न राहता, कुणाशीही बोलत न, इकडे-तिकडे न पाहता, घाई किंवा राग न धरता, सर्व गोष्टी बाजूला ठेवून— शांत, स्वच्छ पाणी तोंडात घेऊन शुद्धता साधावी; गरम, फेसाळलेले, घाण, रंगहीन, वासहीन किंवा वाईट वासाचे पाणी, तसेच बुडबुडे असलेले पाणी कधीही प्यावे नाही. पंडित माणसाने असे पाणी कधीही प्यावे नये. ब्राह्मणाच्या उजव्या हातात पाच तीर्थे सांगितली आहेत: देवतीर्थ, पितृतीर्थ, ब्रह्मतीर्थ, प्रजापत्य आणि सौम्यतीर्थ. राजा, अंगठ्याच्या मुळावर जी रेघ आहे, तिला ब्राह्मतीर्थ म्हणतात. लहान बोटाच्या मुळाशी काया (शरीरासाठीचे तीर्थ), बोटांच्या टोकावर देवतीर्थ, तर्जनी व अंगठ्याच्या मध्ये पितृतीर्थ, हाताच्या मध्यभागी सौम्यतीर्थ—हे सर्व देवकार्यांसाठी योग्य मानले आहे. देवतांची पूजा, नैवेद्य, तूप-धान्याचा नैवेद्य, हे सर्व देवतीर्थाने करावे. अन्नाचा नैवेद्य, लाह्यांचा होम, हे सौम्यतीर्थाने करावे. कमंडलू किंवा दही प्यावे तेव्हा नेहमी सौम्यतीर्थाचा वापर करावा. पितरांसाठी पितृतीर्थ, दोषयुक्त वस्तूंसाठी ब्राह्मतीर्थ वापरावे. गायीच्या कानासारखा हात करून, एकाग्रतेने, शांत मनाने, जो द्विज पाणी तोंडात तीनदा घेतो आणि काहीही न बोलता घेतो— त्याला काय फळ मिळते ते ऐक: तो देवतांना कसे तृप्त करतो तेही सांगतो. पहिल्यांदा पाणी घेतल्याने ऋग्वेद तृप्त होतो; दुसऱ्यांदा यजुर्वेद; तिसऱ्यांदा सामवेद तृप्त होतो. म्हणजे, तोंड पहिल्यांदा उजव्या अंगठ्याच्या मुळाशी पुसल्याने अथर्ववेद तृप्त होतो. दुसऱ्यांदा पुसल्याने इतिहास-पुराणे तृप्त होतात. डोक्याला स्पर्श केल्याने ऋषी तृप्त होतात. केसांना स्पर्श केल्याने ऋषी, डोळ्यांना स्पर्श केल्याने सूर्य, नाकाला स्पर्श केल्याने वायू, कानांना स्पर्श केल्याने दिशा, हातांना स्पर्श केल्याने यम, कुबेर, वरुण, इंद्र, अग्नी तृप्त होतात. नाभीला स्पर्श केल्याने प्राण तृप्त होतात. पायांना पाणी शिंपडल्याने विष्णू तृप्त होतो. पाणी जमिनीवर सोडल्याने वासुकीसह नाग तृप्त होतात. पाण्याचे थेंब जमिनीवर पडल्याने चार प्रकारच्या भूतांना तृप्ती मिळते. अंगठा व तर्जनीने डोळ्यांना, अंगठा व अनामिकेने नाकाला, अंगठा व मध्यमेने तोंडाला, अंगठा व लहान बोटाने कानांना, सर्व बोटांनी हातांना, अंगठ्याने शुभ चिन्हाला, सर्व बोटांनी नाभी व डोक्याला स्पर्श करावा. अंगठा म्हणजे अग्नी, तर्जनी वायू, अनामिका सूर्य, लहान बोट इंद्र, मध्यम प्रजापती असे समजावे. अशा प्रकारे आचमन केल्याने ब्राह्मण सदा सर्व जग व सर्व देवता तृप्त करतो. म्हणून ब्राह्मण सदा पूज्य आहे, कारण तो सर्व देवांचा मूळ आहे. ब्राह्मतीर्थाने नेहमी आचमन करावे. कधीही काया किंवा पितृतीर्थाने आचमन करू नये. हृदयरेषेने ब्राह्मण, कंठरेषेने राजा, वैश्यरेषेने वैश्य, शूद्ररेषेने शूद्र शुद्ध होतो. उजवा हात वर घेतल्यास उपवीत, डावा घेतल्यास प्राचीनावीत, गळ्यात घेतल्यास निवीत म्हणतात. मेखला, मृगाजिन, दंड, उपवित, कमंडलू—हे हरवले तर मंत्रज्ञ नवीन घ्यावा. उपवीत ठेवून, गुडघे एकत्र करून बसून नेहमी आचमन करावे. अशा प्रकारे आचमन केल्याने ब्राह्मण शुद्ध होतो. हाताच्या मध्यभागी असलेल्या रेषा गंगा व इतर नद्यांसारख्या आहेत, बोटांच्या सांध्यांमध्ये पर्वत आहेत. राजा, ब्राह्मणाचा उजवा हात सर्व देवांचा मूळ आहे. जलस्पर्शाचा विधी असा सांगितला. या सर्व लोकांमध्ये जो अशा प्रकारे आचमन करतो, तो स्वर्गात जातो.
प्रणवार्थसावित्रीमाहात्म्योपनयनविधिवर्णनञ्च सुमन्तुरुवाच केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य त्र्यधिके ततः । । १ अमन्त्रिका सदा कार्या स्त्रीणां चूडा महीपते । संस्कारहेतोः कायस्य यथाकालं विभागशः । । २ वैवाहिको विधिः स्त्रीणां संस्कारो नैगमः स्मृतः । निवसेद्वा गुरोर्वापि गृहे वाग्निपरिक्रिया । । ३ एष ते कथितो राजन्नौपनायनिको विधिः । द्विजातीनां महाबाहो उत्पत्तिव्यञ्जकः परः । । ४ कर्मयोगमिदानीं ते कथयामि महाबल । उपनीय गुरुः शिष्यं प्रथमं शौचमादिशेत् । । ५ आचारमग्निकार्यं च सन्ध्योपासनमेव च । अध्यापयेत्तु सच्छिष्यान्सदाचान्त उदङ्मुखः । । ६ ब्रह्माञ्जलिकरो नित्यमध्याप्यो विजितेन्द्रियः । लघुवासास्तथैकाग्रः सुमना सुप्रतिष्ठितः । । ७ ब्रह्मारम्भेऽवसाने च पादौ पूज्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । । ८ व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । । ९ अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति वारयेत् । । 1.4.१० ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते । । ११ श्रूयतां चापि राजेन्द्र यथोङ्कारं द्विजोऽर्हति । प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । । १२ प्राणायामैस्त्रिभिः पूतस्ततस्त्वोङ्कारमर्हति । ॐकारलक्षणं चापि शृणुष्व कुरुनन्दन । । १३ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयात्तु निर्गृह्य भूर्भुवः स्वरितीति च । । १४ त्रिभ्य एव तु वेदेभ्यः पादंपादमदूदुहत् । तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः । । १५ एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् । सन्ध्ययोरुभयोर्विप्रो वेद पुण्येन युज्यते । । १६ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते । । १७ एतयर्चा विसंयुक्तः काले च क्रियया स्वया । विप्रक्षत्रियविड्योनिर्गर्हणां याति साधुषु । । १८ शृणुष्वैकमना राजन्परमं ब्रह्मणो मुखम् । ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । । १९ त्रिपदा चैव सावित्री विज्ञेया ब्रह्मणो मुखम् । योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । । 1.4.२० स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् । एकाक्षरं परं ब्रह्म प्राणायामः परन्तप । । २१ सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते । तपः किया होमक्रिया तथा दानक्रिया नृप । । २२ अक्षयान्ताः सदा राजन्यथाह भगवान्मनुः । अवरं स्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः । । २३ विधियज्ञात्सदा राजञ्जपयज्ञो विशिष्यते । नानाविधैर्गुणोद्देशैः सूक्ष्माख्यातैर्नृपोत्तम । । २४ पांशुः स्याल्लक्षगुणः सहस्रो मानसः स्मृतः । ये पाकयज्ञाश्चत्वारो विधियज्ञेन चान्विताः । । २५ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् । जपादेव तु संसिध्येद्द्ब्राह्मणो नात्र संशयः । । २६ कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते । पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । । २७ पश्चिमां तु समासीनः सम्यगृक्षविभावनात् । दिनस्यादौ भवेत्पूर्वा शर्वर्यादौ तथा परा । । २८ सनक्षत्रा परा ज्ञेया अपरा सदिवाकरा । जपंस्तिष्ठन्परां सन्ध्यां नैशमेनो व्यपोहति । । २९ अपरां तु समासीनो मलं हन्ति दिवाकृतम् । नोपतिष्ठति यः पूर्वां नोपास्ते पश्चिमां नृप । । 1.4.३० स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः । अपां समीपे नियतो नैत्यकं विधिमास्थितः । । ३१ सावित्रीमप्यधीयीत गत्याऽरण्यं समाहितः । वेदोपकरणे राजन्स्वाध्याये चैव नैत्यके । । ३२ नात्र दोषोस्त्यनध्याये होममन्त्रेषु वा विभो । नैत्यके नास्त्वनध्यायो ब्रह्मसत्रं हि तत्कृतम् । । ३३ ब्रह्माहुतिहुतं पुष्यमनध्यायवषट्कृतम् । ऋगेकां यस्त्वधीयीत विधिना नियतो द्विजः । । ३४ तस्य नित्यं क्षरत्येषा पयो मेध्यं घृतं मधु । अग्निशुश्रूषणं भैक्षमधः शय्यां गुरोर्हितम् । । ३५ आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः । आचार्यपुत्रशुश्रूषां ज्ञानदो धार्मिकः शुचिः । । ३६ आप्तः शक्तोन्नदः साधुः स्वाध्याप्या दश धर्मतः । नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः । । ३७ जानन्नपि हि मेधावी जडवल्लोक आचरेत् । अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । । ३८ तयोरन्यतरः प्रैति विद्वेषं वा निगच्छति । धर्मार्थौ यत्र न स्यातां शुश्रूषा चापि तद्विधा । । न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे । । ३९ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनामीरिणे वपेत् । ।1.4.४ ० विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मा प्रादास्तथा स्यां वीर्यवत्तमा । ।४ १ शेवं सुखमुशन्तीह केचिज्ज्ञानं प्रचक्षते । तौ धारयति वै यस्माच्छेवधिस्तेन सोच्यते । ।४२ यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने । ।४ ३ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । । ४४ लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । स याति नरकं घोरं रौरवं भीमदर्शनम् । । ४५ अणुमात्रात्मकं देहं षोडशार्धमिति स्मृतम् । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् । । ४६ सावित्रीसारमात्रोऽपि वरो विप्रः सुयन्त्रितः । नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी । । ४७ शय्यासनेध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् । । ४८ ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते । । ४९ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि सम्यग्वर्धन्ते आयुः प्रज्ञा यशो बलम् । । 1.4.५० अभिवादपरो विप्रो ज्यायांसमभिवादयेत् । असौ नामाहमस्मीति स्वनाम परिकीर्तयेत् । । ५१ नामधेयस्य ये केचिदभिवादं न जानते । तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च । । ५२ भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोभिवादने । नाम्नः स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः । । ५३ आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । । ५४ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः । । ५५ अभिवादे कृते यस्तु न करोत्यभिवादनम् । आशीर्वा कुरुशार्दूल स याति नरकं ध्रुवम् । । ५६ अभीति भगवान्विष्णुार्वादयामीति शङ्करः । द्वावेव पूजितौ तेन यः करोत्यभिवादनम् । । ५७ ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु । । ५८ न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९ परपत्नी तु या राजन्नसम्बद्धा तु योनितः । वक्तव्या भवतीत्येवं सुभगे भगनीति च । । 1.4.६० पितृव्यान्मातुलान्राजञ्छ्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयात्प्रत्युत्थाय जघन्यजः । । ६१ मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा । सम्पूज्या गुरुपत्नी च समास्ता गुरुभार्यया । । ६२ ज्येष्ठस्य भ्रातुर्या भार्या सवर्णाहन्यहन्यपि । २पूजयन्प्रयतो विप्रो याति विष्णुसदो नृप । । ६३ प्रवासादेत्य सम्पूज्या ज्ञातिसम्बन्धियोषितः । पितुर्या भगिनी राजन्मातुश्चापि विशाम्पते । । ६४ आत्मनो भगिनी या च ज्येष्ठा कुरुकुलोद्वह । सदा स्वमातृवद्धृत्तिमातिष्ठेद्भारतोत्तम । । ६५ गरीयसी ततस्ताभ्यो माता ज्ञेया नराधिप । पुत्रमित्रभागिनेया द्रष्टव्या ह्यात्मना समाः । । ६६ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । अब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु । । ६७ ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् । पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता । । ६८ इत्येवं क्षत्रियपिता वैश्यस्यापि पितामहः । प्रपितामहश्च शूद्रस्य प्रोक्तो विप्रो मनीषिभिः । । ६९ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् । । 1.4.७० पञ्चानां त्रिषु वर्गेषु भूयांसि गुणवन्ति च । यस्य स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः । । ७१ चक्रिणो दशमीस्थस्य रोगिणो भारिणः १ स्त्रियाः । स्नातकस्य तु राज्ञश्च पन्था देयो वरस्य च । । ७२ एषां समागमे तात पूज्यौ स्नातकपार्थिवौ । आभ्यां समागमे राजन्स्नातको नृपमानभाक् । । ७३ अध्यापयेद्यस्तु शिष्यं कृत्वोपनयनं द्विजः । सरहस्यं सकल्पं च वेदं भरतसत्तम । । तमाचार्यं महाबाहो प्रवदन्ति मनीषिणः । । ७४ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते । । ७५ निषेकादीनि कार्याणि यः करोति नृपोत्तम । अध्यापयति चान्येन स विप्रो गुरुरुच्यते । । ७६ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते । । ७७ य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । स माता स पिता ज्ञेयस्तं न द्रुह्येत्कथञ्चन
सुमंतु म्हणाले: ब्राह्मणासाठी सोळाव्या वर्षी केशसंस्कार करायचा आहे. क्षत्रियासाठी बाविसाव्या वर्षी, वैश्यासाठी त्यानंतर तीन वर्षांनी. राजन, स्त्रियांसाठी मात्र केशसंस्कार नेहमी मंत्राशिवाय, शरीरशुद्धीसाठी, योग्य वेळी आणि विभागाप्रमाणे करावा. विवाहसंस्कार हा स्त्रियांसाठी मुख्य संस्कार मानला जातो, उपनयन नव्हे. ती गुरूच्या घरी किंवा स्वतःच्या घरी राहून अग्निसंस्कार करू शकते. राजन, मी तुला उपनयन विधी सांगितला. हा द्विजांचा खरा जन्म दर्शवणारा आहे. आता मी तुला कर्मयोग सांगतो: गुरूने शिष्याला उपनयन करून प्रथम शुद्धतेचे शिक्षण द्यावे. आचार, अग्निकर्म, संध्योपासना शिकवावी. उत्तम शिष्यांना, संयमी, उत्तराभिमुख बसून, सदैव शिकवावे. शिकणारा नेहमी ब्रह्मांजली करून, इंद्रियांवर विजय मिळवून, साधी वस्त्रे घालून, एकाग्र, प्रसन्न आणि स्थिर असावा. पठणाच्या सुरुवातीला आणि शेवटी गुरूचे पाय नेहमी पूजावेत. दोन्ही हात एकत्र करून ब्रह्मांजली करावी. गुरूचे पाय धरताना उजवा हात उजव्या पायाला, डावा डाव्या पायाला लावावा. दोन्ही हात उलटे करून गुरूला आलिंगन द्यावे. गुरूने शिष्याला नेहमी, योग्य वेळी, 'अधीयस्व' किंवा 'विराम' असे सांगून शिकवावे. पठणाच्या सुरुवातीला आणि शेवटी नेहमी 'ॐ' उच्चारावे. सुरुवातीला ॐ न घेतल्यास पठण व्यर्थ जाते, शेवटी न घेतल्यास विखुरले जाते. राजन, द्विजाने ॐ कसा उच्चारावा ते ऐक: पूर्वाभिमुख बसून, पवित्र वस्तूंनी शुद्ध होऊन, तीन प्राणायामांनी शुद्ध होऊन मग ॐ उच्चारावा. पृथ्वी, अंतरिक्ष, स्वर्ग—ही तीन व्याहृती, ॐपूर्वक, ब्रह्माचा मुख मानाव्यात. सवितृ गायत्री तीन पादांची आहे, ती ब्रह्माचा मुख आहे. जो तीन वर्षे दररोज ही गायत्री म्हणतो, तो वायूसारखा, आकाशमूर्ती होऊन, परब्रह्म प्राप्त करतो. एकाक्षरी ॐ हेच परब्रह्म आहे, प्राणायामही तेच आहे. सवित्रीपेक्षा श्रेष्ठ काही नाही; मौन सत्याहून श्रेष्ठ आहे; तप, होम, दान हेही नेहमी अक्षय आहेत, असे मनू म्हणतो. सर्व यज्ञांमध्ये जपयज्ञ श्रेष्ठ आहे. विविध गुणांनी, सूक्ष्म अर्थांनी तो युक्त आहे. मृदुपिंडाचा यज्ञ लक्षपट श्रेष्ठ, मानसिक यज्ञ हजारपट श्रेष्ठ. चार पक्के यज्ञ आणि विधीयज्ञ मिळूनही जपयज्ञाच्या सोळाव्या भागासही पोहोचत नाहीत. ब्राह्मण जपानेच सिद्ध होतो, यात शंका नाही. तो इतर काही करतो किंवा नाही, तरीही तो मैत्र ब्राह्मण समजावा. सकाळी उभा राहून सवित्रीचा जप करावा; सायंकाळी बसून, योग्य नक्षत्र पाहून जप करावा. सकाळचा जप दिवसाच्या आरंभी, सायंकाळचा रात्रीच्या सुरुवातीला करावा. सायंकाळचा जप नक्षत्रांसह, सकाळचा सूर्यसह मानावा. उभा राहून सायंकाळचा जप केल्याने रात्रीचे पाप नष्ट होते; बसून केल्याने दिवसा केलेले पाप नष्ट होते. जो सकाळचा किंवा सायंकाळचा जप करत नाही, तो सर्व द्विजकर्मातून शूद्रासारखा बहिष्कृत होतो. पाण्याजवळ, नियमाने, नित्यकर्मात स्थित राहून, सवित्रीचा जप करावा; चालताना, अरण्यात किंवा वेदाध्ययनाच्या वेळीही जप करावा. अनध्यायाच्या काळात किंवा होममंत्रात दोष नाही. नित्यकर्मात अनध्याय नाही, कारण ते ब्रह्मसत्र आहे. ब्रह्माहुती अनध्यायात केली तरी फलदायी आहे. जो द्विज नियमाने दररोज एक ऋचाही म्हणतो, त्याला नेहमी दूध, तूप, मध मिळते. अग्निसेवा, भिक्षाटन, जमिनीवर झोपणे—हे गुरूच्या घरी योग्य आहे. अध्ययन पूर्ण झाल्यावर द्विजाने गुरुपुत्राची सेवा करावी, ज्ञान देणारा, धर्मनिष्ठ, शुद्ध असावा. दहा जणांना शिकवता येते: जो विश्वासू, समर्थ, लोभी नसलेला, सच्चा, स्वाध्यायासाठी योग्य आहे. विचारले नाही तर बोलू नये, अन्यायाने विचारल्यास उत्तर देऊ नये. ज्ञानी असूनही जगात अज्ञासारखे वागावे. जो अधर्माने बोलतो किंवा विचारतो, त्यांना द्वेष किंवा नाश प्राप्त होतो. जिथे धर्म, अर्थ किंवा योग्य सेवा नाही, तिथे विद्या देऊ नये, जशी सुपीक बीज वाळवंटात न पेरावी. विद्येसोबतच ब्रह्मवेत्त्याने मरण पत्करावे, ती कधीही दुर्जनाला देऊ नये, अगदी संकटातही नाही. विद्या ब्राह्मणाला सांगते: 'मी तुझा खजिना आहे, मला जप. मला द्वेष करणाऱ्याला देऊ नकोस, म्हणजे मी बलवान राहीन.' काहीजण ज्ञानाला सुख देणारे खजिना म्हणतात; जो ते धारण करतो, तो खजिनावान समजला जातो. जो शुद्ध, संयमी ब्रह्मचारी आहे, त्याला ज्ञान सांगावे, जो जपतो त्याला द्यावे. जो ब्राह्मण परवानगीशिवाय अध्ययन करतो, तो लौकिक, वैदिक किंवा आध्यात्मिक ज्ञान असो, तो रौरव या भयंकर नरकात जातो. शरीर सोळा अर्ध भागांचे बनले आहे असे मानतात; ज्या कडून ज्ञान घेतले त्याला प्रथम वंदन करावे. जो ब्राह्मण फक्त सवित्रीचा सारांश जाणतो, पण संयमी आहे, तो त्रिवेदज्ञ, पण असंयमी, लोभी यापेक्षा श्रेष्ठ आहे. श्रेष्ठाच्या आसनावर किंवा शय्येवर जाऊ नये. जर तिथे बसले असाल तर तो आला की उठून वंदन करावे. वयोवृद्ध आला की, तरुणाचा प्राण वर जातो; उठून वंदन केल्याने तो पुन्हा स्थिर होतो. जो नेहमी वंदन करतो, वयोवृद्धांची सेवा करतो, त्याचे आयुष्य, बुद्धी, कीर्ती, बळ—ही चारही गोष्टी वाढतात. ब्राह्मणाने वयाने मोठ्याला वंदन करावे, 'मी अमुक आहे' असे आपले नाव सांगावे. जे नावाने वंदन कसे करावे हे जाणत नाहीत, त्यांनी 'मी पंडित आहे' असे सांगावे; स्त्रियांनीही तसेच करावे. वंदनाच्या शेवटी 'भोः' शब्द उच्चारावा आणि मग आपले नाव सांगावे. 'भोः' हा नावाचा अर्थ दर्शवतो, असे ऋषींनी सांगितले आहे. वंदन करताना 'सोम्य, तुझे आयुष्य वाढो' असे म्हणावे. नावाच्या शेवटी 'अ' आणि पहिला अक्षर दीर्घ उच्चारावा. जो ब्राह्मण वंदनास उत्तर देत नाही, त्याला विद्वानांनी वंदन करू नये; तो शूद्रासारखा आहे. जो वंदन केल्यावर उत्तर देत नाही, तो नक्की नरकात जातो. विष्णू 'अभीति', शंकर 'वंदन करतो' असे म्हणतात; म्हणून जो वंदन करतो, त्याने दोघांनाही पूजले. ब्राह्मणाला कुशल विचारावे, क्षत्रियाला आरोग्य, वैश्याला कल्याण, शूद्राला आरोग्य विचारावे. दीक्षित, जरी लहान असला तरी, त्याला नावाने हाक मारू नये; 'भो भवत्' असे म्हणावे, असे स्वयंभूने सांगितले आहे. परस्त्री, जी रक्तसंबंधाने नातेवाईक नाही, तिला 'भवती', 'सुभगे', 'भगिनी' असे संबोधावे. पितृव्य, मामा, सासरे, ऋत्विज, गुरू—यांना सर्वात लहानाने उठून 'मी अमुक आहे' असे सांगावे. आईची बहीण, मामाची बायको, सासू, वडिलांची बहीण, गुरुपत्नी—या सर्वांना गुरुपत्नीप्रमाणेच मान द्यावा. मोठ्या भावाची पत्नी, जर ती समवर्णाची असेल, तिला ब्राह्मणाने रोज भक्तीने पूजावे; त्यामुळे तो विष्णुलोकाला जातो. परदेशातून आलेल्या स्त्रिया, वडिलांची किंवा आईची बहीण, स्वतःची मोठी बहीण—या सर्वांना नेहमी आईसारखा मान द्यावा. या सर्वांमध्ये आई सर्वात श्रेष्ठ आहे; पुत्र, मित्र, भाचा—हे स्वतःसमान मानावेत. नगरातील मैत्री दहा वर्षांची, कलावंतांची पाच वर्षांची, श्रोत्रियांची एक वर्षाचीही पुरेशी आहे. दहा वर्षांचा ब्राह्मण आणि शंभर वर्षांचा राजा—त्यांना वडील आणि मुलगा समजावे; पण ब्राह्मणच त्यांचा वडील आहे. त्याप्रमाणे क्षत्रिय वैश्याचा वडील, ब्राह्मण शूद्राचा प्रपितामह आहे, असे विद्वान म्हणतात. संपत्ती, नाते, वय, कर्म, विद्या—ही पाच मान्यतेची ठिकाणे आहेत; यापैकी जे जास्त, ते अधिक मान्य. या पाचांमध्ये, तिन्ही वर्णात, ज्या जास्त गुण असतील, तोच मान्य; शूद्र जरी दहाव्या स्थानी पोहोचला तरी. दहाव्या स्थानी असलेला ब्राह्मण, आजारी, ओझ्याने दमलेला, स्त्री, स्नातक, राजा, वर—यांना वाट द्यावी. यांच्यात भेट झाली तर स्नातक व राजा पूज्य; दोघे भेटले तर स्नातक राजाला मान द्यावा. जो द्विज उपनयनानंतर शिष्याला वेद, त्याची गुप्तता व विधी शिकवतो, त्याला आचार्य म्हणतात. जो वेदाचा एक भाग किंवा वेदांग शिकवतो, तो उपाध्याय म्हणतो. जो निषेकादी संस्कार करतो आणि दुसऱ्याला शिकवतो, तो गुरू म्हणतो. जो अग्निस्थापना, पाकयज्ञ, अग्निष्टोम यांसारखे यज्ञ दुसऱ्यासाठी करतो, तो ऋत्विज म्हणतो. जो खरेच ब्रह्मज्ञान देतो, तो आई-वडिलांसारखा मानावा; त्याला कधीही दुखावू नये.
७८ उपाध्यायान्दशाचार्यं आचार्याणां शतं पिता । सहस्रेण पितुर्माता गौरवेणातिरिच्यते । । ७९ उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् । । 1.4.८० कामान्माता पिता चैनं यदुत्पादयतो मिथः । सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते । । ८१ आचार्यस्तस्य तां जातिं विधिद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साऽजरामरा । । ८२ उपाध्यायमादितः कृत्वा ये पूज्याः कथितास्तव । महागुरुर्महाबाहो सर्वेषामधिकः स्मृतः । । ८३ सहस्रशतसंख्योऽसावाचार्याणामिदं मतम् । चतुर्णामपि वर्णानां स महागुरुरुच्यते । । ८४ शतानीक उवाच य एते भवता प्रोक्ता उपाध्यायमुखा द्विजाः । विदिता एव मे सर्वे न महागुरुरेव हि । । ८५ सुमन्तुरुवाच जयोपजीवी यो विप्रः स महागुरुरुच्यते । अष्टादशपुराणानि रामस्य चरितं तथा । । ८६ विष्णुधर्मादयो धर्माः शिवधर्माश्च भारत । कार्ष्णं वेदं पञ्चमं तु यन्महाभारतं स्मृतम् । । ८७ श्रौता १ धर्माश्च राजेन्द्र नारदोक्ता महीपते । जयेति नाम एतेषां प्रवदन्ति मनीषिणः । । ८८ एवं विप्रकदम्बस्य धारकः२ प्रवरः स्मृतः । यस्त्वेतानि समस्तानि पुराणानीह विन्दति । । ८९ भारतं च महाबाहो स सर्वज्ञो मतो नृणाम् । तस्मात्स पूज्यो राजेन्द्र वर्णैर्विप्रादिभिः सदा । । 1.4.९० किं त्वया न श्रुतं वाक्यं यदाह भगवान्विभुः । अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । । तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया
दहा उपाध्यायांचा एक आचार्य, शंभर आचार्यांचा एक वडील, आणि वडिलांपेक्षा आई हजारपट अधिक मान्य आहे. जन्म देणारा आणि ब्रह्मज्ञान देणारा—यामध्ये ब्रह्मज्ञान देणारा वडिलांपेक्षा श्रेष्ठ आहे, कारण ब्राह्मणाचा खरा जन्म हा विद्या देणाऱ्यामुळे होतो, जो या जन्मात आणि मृत्यूनंतरही शाश्वत असतो. आई-वडीलांनी इच्छेने मूल जन्माला घातले, ती त्यांची शारीरिक निर्मिती; पण वेद व सवित्री जाणणारा आचार्य त्याला खरी, अमर जन्म देतो. मी सांगितलेल्या उपाध्यायांनंतर, महागुरू सर्वांत श्रेष्ठ मानला जातो. तो आचार्यांपेक्षा हजारो-शेकडो पटीने श्रेष्ठ आहे, आणि सर्व वर्णांमध्ये त्याला महागुरू म्हणतात. शतानिक म्हणाले: हे द्विज, उपाध्यायापासून जे सांगितलेस, ते सर्व मला माहीत आहेत; पण महागुरू कोण? सुमंतु म्हणाले: जो विप्र जयग्रंथांवर उपजीविका करतो, तो महागुरू म्हणतो. अठरा पुराणे, रामकथा, विष्णुधर्म, शिवधर्म, कृष्णवेद म्हणजे महाभारत, श्रौतधर्म व नारद सांगितलेले धर्म—हे सर्व 'जय' नावाने ओळखले जातात. जो या सर्व ब्राह्मण ग्रंथांचा आधार घेतो, तो श्रेष्ठ मानला जातो. जो हे सर्व पुराणे आणि भारत जाणतो, तो सर्वज्ञ मानला जातो. म्हणून, राजेंद्र, त्याला सर्व वर्णांनी, विशेषतः ब्राह्मणांनी नेहमी पूजावे. भगवंताचे वचन तुला माहीत नाही का? 'कोणी थोडे किंवा जास्त ज्ञान देतो, त्याने मदत केली म्हणून त्याला गुरू मानावे.'
स्त्रीणां शुभाशुभलक्षणवर्णनम् सुमन्तुरुवाच षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकमेव च । । १ वेदानधीत्य वेदौ वा वेदं वापि नृपोत्तम । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् । । २ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प १ आसीनमर्हयेत्प्रथमं गवा । । ३ गुरुणा समनुज्ञातः समावृत्तौ यथाविधि । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् । । ४ शतानीक उवाच लक्षणं द्विजशार्दूल स्त्रीणां वद महामुने । कीदृग्लक्षणसंयुक्ता १ कन्या स्यात्सुखदा नृप । । ५ सुमन्तुरुवाच यदुक्तं ब्राह्मणा पूर्वं स्त्रीलक्षणमनुत्तमम् । श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् । । ६ तत्ते वच्मि महाबाहो शृणुष्वैकमना नृप । श्रुतेन येन जानीषे कन्यां शोभनलक्षणाम् । । ७ सुखासीनं सुरश्रेष्ठमभिगम्य महर्षयः । पप्रच्छुर्लक्षणं स्त्रीणां यत्पृष्टोऽहं त्वयाधुना । । ८ प्रणम्य शिरसा देवमिदं वचनमब्रुवन् । भगवन्ब्रूहि नः सर्वं स्त्रीणां लक्षणमुत्तमम् । । ९ श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् । प्रशस्तामप्रशास्तां च जानीमो येन कन्यकाम् । । 1.5.१० तेषां तद्वचनं श्रुत्वा विरिञ्चो वाक्यमब्रवीत् । शृणुध्वं द्विजशार्दूला वच्मि युष्मास्वशेषतः । । ११ प्रतिष्ठिततलौ सम्यग्रताम्भोजसमप्रभौ । ईदृशौ चरणौ धन्यौ योषितां भोगवर्धनौ । । १२ करालैरतिनिर्मासै रूक्षैरर्धशिरान्वितैः । दारिद्र्यं दुर्भगत्वं च प्राप्नुवन्ति न संशयः । । १३ अङ्गुल्यः संहता वृत्ताः स्निग्(?)धाः सूक्ष्मनखास्तथा । कुर्वन्त्यत्यन्तमैश्वर्यं राजभावं च योषितः । । १४ ह्रस्वाः सुजीवितं ह्रस्वा विरला वित्तहानये । दारिद्र्यं मूलमग्नासु प्रेष्यं च पृथुलासु च । । १५ परस्परसमारूढैस्तनुभिर्वृत्तपर्वभिः । बहूनपि पतीन्हत्वा दासी भवति वै द्विजाः । । १६ अङ्गुष्ठोन्नतपर्वाणस्तुङ्गाग्राः कोमलान्विताः । रत्नकाञ्चनलाभाय विपरीता विपत्तये । । १७ सुभगत्वं नखैः स्निग्धैराताम्रैश्च धनाद् यता । पुत्राः स्युरुन्नतैरेभिः सुसूक्ष्मैश्चापि राजता । । १८ पाण्डुरैः स्फुटितै रूक्षैर्नीलैर्धूम्रैस्तथा खरैः
सुमंतु म्हणाले: गुरूकडे छत्तीस वर्षे त्रैवेदिक व्रत पाळावे, किंवा त्याच्या निम्मे, किंवा चौथ्या भागाएवढे, किंवा शिक्षण पूर्ण होईपर्यंत. वेदांचे सर्व किंवा दोन किंवा एक किंवा थोडेसेही अध्ययन केल्यावर, आणि ब्रह्मचर्य न मोडता, गृहस्थाश्रमात प्रवेश करावा. जो आपल्या धर्मात स्थिर राहतो आणि पित्याने दिलेले ब्रह्मज्ञान स्वीकारतो, तो पुष्पमाळ घालून आसनावर बसल्यावर त्याचा प्रथम गायीने सन्मान करावा. गुरूने परवानगी दिल्यावर, योग्य वेळी, द्विजाने आपल्या जातीतील आणि योग्य गुण असलेल्या स्त्रीशी विवाह करावा. शतानिक म्हणाले: द्विजश्रेष्ठा, स्त्रियांचे गुण मला सांगा. कोणत्या गुणांनी युक्त कन्या सुखदायी होते, हे सांगा. सुमंतु म्हणाले: पूर्वी ब्राह्मणांनी स्त्रियांचे जे श्रेष्ठ गुण सांगितले, जे सर्व लोकांसाठी शुभ-अशुभ फळ देणारे आहेत, ते मी तुला सांगतो. हे राजन, एकाग्रतेने ऐक, म्हणजे तू शुभ गुण असलेली कन्या ओळखू शकशील. देवश्रेष्ठाच्या जवळ जाऊन, महर्षींनी त्याला विचारले, जसे तू मला विचारलेस, की स्त्रियांचे गुण कसे असावेत. त्यांनी देवाला नम्रपणे वाकून विचारले: 'भगवान, आम्हाला स्त्रियांचे सर्वश्रेष्ठ गुण सांग, जे सर्व लोकांसाठी शुभ-अशुभ फळ देणारे आहेत, म्हणजे आम्ही कोणती कन्या प्रशंसेस पात्र आहे हे जाणू शकू.' त्यांचे बोल ऐकून ब्रह्मदेव म्हणाले: 'द्विजश्रेष्ठांनो, सर्व गुण मी पूर्णपणे सांगतो, नीट ऐका. ज्या स्त्रियांचे पाय नीट बसलेले आणि कमळासारखे मऊ असतात, त्या धन्य असतात आणि सुखवृद्धी करतात. ज्या स्त्रियांचे पाय खडबडीत, कोरडे, अर्धवट किंवा उंच-नीच असतात, त्या निर्धन आणि दुर्दैवी होतात. ज्या स्त्रियांच्या बोटा एकत्र, गोल, मऊ आणि नख सुंदर असतात, त्या मोठ्या ऐश्वर्याला आणि राजसत्तेला पोहोचतात. ज्या स्त्रियांच्या बोटा लहान असतात, त्यांचे आयुष्य लहान असते; विरळ बोटांनी संपत्ती जाते; जाड बोटांनी दारिद्र्य आणि गुलामी येते. एकमेकांवर चढलेल्या, बारीक आणि गोल सांध्यांच्या बोटांनी, अनेक पती असूनही ती स्त्री दासी होते. ज्या अंगठ्यांचे सांधे उंच, टोक उंच आणि मऊ असतात, त्या सोन्या-माणिक्याचे संपत्ती मिळवतात; उलट गुणांनी विपत्ती येते. ज्या नख चमकदार, मऊ आणि तांबूस असतात, त्या स्त्रियांना सौभाग्य मिळते; उंच, बारीक आणि रुपेरी नख असतील तर पुत्रप्राप्ती होते. पण ज्या नख फिकट, तडेलेली, कोरडी, निळसर, धुरकट किंवा खरबूच असतात—'
ब्रह्मदेवांनी त्या ऋषींना जसं सांगितलं, तसं त्यांनी ऐकून, कुरुवंशज, ब्रह्मदेवांनी हे उत्तर दिलं.
ब्रह्मदेव म्हणाले — जी स्त्री आईच्या किंवा वडिलांच्या कुळाची नसते, ती विवाहासाठी योग्य मानली जाते. पण तिचा स्वभाव नीट समजून न घेता, कुणीही तिला देऊ नये.
ब्रह्मदेव म्हणाले — गृहस्थाने कोणती कर्तव्ये पार पाडावी, हे मी आता सांगतो. घरातील सर्व कामे नीटपणे आणि योग्य रीतीने करावीत, म्हणजे घरात सुख आणि सौख्य नांदते.
ब्रह्मदेव म्हणाले — स्त्रियांसोबत वागताना नेहमी आदर, योग्य वर्तन आणि समजूतदारपणा ठेवावा. घरातील सर्व नातेसंबंध सन्मानाने आणि योग्य रीतीने सांभाळावेत.
ब्रह्मदेव म्हणाले — स्त्रियांचे वर्तन पुरुषांमध्ये कसे असावे, हे सांगितले गेले. आता पुरुषांनी स्त्रियांशी कसे वागावे, हे सांगतो.
ब्रह्मदेव म्हणाले — जी स्त्री आपल्या पतीला देवासमान मानते आणि मन, वाणी, कृत्याने नेहमी त्याचं हित साधते, तीच खरी पतिव्रता आहे.