३८ शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च । कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा । । ३९ ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः । अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च । । 1.31.४० एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप । खादिरैः सुसमिद्भिस्तु चाज्यदुग्धैर्यवैस्तिलैः । । ४१ भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः । हुत्वाहुतीस्ततो४ वीर देवं संस्थापयेत्क्षितौ । । ४२ सौवर्णं राजतं वापि शक्त्या दारुमयं नृप । देवदारुमयं वापि श्रीखण्डचन्दनैरपि । । ४३ ताम्रे पात्रे रौप्यमये चाज्यकुङ्कुमकेसरैः । अन्यैर्वा लोहितैर्वापि पुष्पैः पत्रैः फलैरपि । । रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्
शिव को, शिवपुत्र को, पृथ्वी की गोद से उत्पन्न हुए को, कुज को, सुंदर अंगों वाले को और लाल रंग वाले को—
४४ यावद्विसृजते वित्तं वित्तवान्वीर भक्तितः । तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम् । । ४५ अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा । पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेशरैः । । पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत् । । ४६ अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा । धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते । । ४७ गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान् ।।। अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा । । ४८ वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप । वित्तशाठ्यं हि कुर्वाणो नामुत्र बलभाग्भवेत् । ।४ ९ शतानीक उवाच अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः । उपोष्या कतिमात्रा तु उताहो सकृदेव तु
ॐकार से आरंभ होने वाले और स्वाहा से युक्त मंत्रों के साथ, वीर, एक सौ आठ बार या आधा-आधा जप करें। अपनी श्रद्धा और सामर्थ्य के अनुसार, खैर की समिधा, घी, दूध, जौ, तिल और विविध प्रकार के पकवानों से हवन करें। फिर, हे वीर, देवता की स्थापना भूमि पर करें। सोने, चाँदी या अपनी शक्ति के अनुसार लकड़ी, देवदारु या चंदन की मूर्ति बनवाएँ। तांबे या चाँदी के पात्र में घी, केसर, अन्य लाल फूल, पत्ते और फल अर्पित करें। विविध प्रकार के लाल फूलों से, अपनी शक्ति के अनुसार, पूजा करें। जब तक श्रद्धा से धन का दान किया जाता है, तब तक पुण्य बढ़ता जाता है। सौ-सौ हजार तक दान करना चाहिए। अन्य लोग तांबे, बाँस या मिट्टी के पात्र में, केसर डालकर, पुरुषाकार पात्र बनाकर, मंत्रों से पूजा करें। 'अग्निर्मूर्धा' मंत्र से, गंध, फूल आदि से, धूप से विधिपूर्वक पूजा करके, ब्राह्मण को दें। गुड़ का चावल, घी, दूध, गेहूँ, चावल आदि अपनी शक्ति के अनुसार दान करें, चाहे निर्धन हो या धनी। धन होते हुए भी कंजूसी नहीं करनी चाहिए, क्योंकि जो धन होते हुए भी दान नहीं करता, उसे परलोक में बल नहीं मिलता। शतानिक ने पूछा— अंगारक के योग वाली चतुर्थी तिथि का उपवास रात्रि में भोजन करके करना चाहिए या एक बार ही करना चाहिए?
ब्राह्मणं भोजयेत्पश्चाद् घृतपायसमोदकैः । ।४ ९ अनन्तो वासुकिः शङ्खः पद्मः कम्बल एव च । तथा कर्कोटको नागो नागो ह्यश्वतरो नृप । । 1.32.५० धृतराष्ट्रः शङ्खपालः कालियस्तक्षकस्तथा । पिङ्गलश्च तथा नागो मासि मासि प्रकीर्तिताः । । ५१ वत्सरान्ते पारणं स्याद्ब्राह्मणान्भोजयेद्बहून् । इतिहासविदे नागं गैरिकेण कृतं नृप । । तथार्चना प्रदातव्या वाचकाय महीपते । । ५२ एष वै नागपञ्चम्या५ विधिः प्रोक्ता बुधैर्नृप । तव पित्रा कृतश्चैव पितुर्मोक्षाय भारत । । ५३ त्वमेकमेकं वै वीर पञ्चम्यां भरतर्षभ । सुवर्णभारनिष्पन्नं नागं दत्त्वा तथा च गाम् । । ५४ व्यासाय कुरुशार्दूल पितुरानृण्यमाप्नुयाः । तव पित्रा कृता ह्येवं पञ्चम्युपासना नृप । । ५५ उत्सृज्य नागतां वीर तव पूर्वपितामहः । पुष्पोत्तरं सदो गत्वा तथा पुष्पसदो नृप । । ५६ सुनासीरसदो गत्वा तदा भर्गसदो गतः । स्वभूसदस्ततो गत्वा कञ्जजस्य सदो गतः । । ५७ अन्येऽपि ये करिष्यन्ति इदं व्रतमनुत्तमम् । दष्टको मोक्ष्यते तेषां शुभं स्थानमवाप्स्यति । । ५८ यश्चेदं शृणुयान्नित्यं नरः१ श्रद्धासमन्वितः । कुले तस्य न नागेभ्यो भयं भवति कुत्रचित् । । ५९ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे नागपञ्चमीव्रतवर्णनं नाम द्वात्रिंशोऽध्यायः
इसके बाद, घी, खीर और मीठे पेयों से ब्राह्मण को भोजन कराना चाहिए।
सर्पभेदम् शतानीक उवाच सर्पाणां कति रूपाणि के वर्णाः किं च लक्षणम् । का जातिस्तु भवेत्तेषां केषु योनिकुलेषु वा । । १ सुमन्तुरुवाच पुरा मेरौ नगवरे कश्यपं तपसां निधिम् । प्रणम्य शिरसा भक्तया गौतमो वाक्यमब्रवीत् । । २ सर्पाणां कति रूपाणि किं चिह्नं किं च लक्षणम् । जातिं कुलं तधा वर्णान्ब्रूहि सर्वं प्रजापते । । ३ कथं वा जायते सर्पः कधं मुञ्चेद्विषं प्रभो । विषवेगाः कति प्रोक्ताः कत्येव विषनाडिकाः । ।४ दंष्ट्राः कतिविधाः प्रोक्ताः किं प्रमाणं विषागमे । गृह्णीते तु कदा गर्भं कथं चेह प्रसूयते । । ५ कीदृशी स्त्री पुमांश्चैव कीदृशश्च नपुंसकः । किं नाम दशनं चैव एतत्कथय सुव्रत । । ६ तस्य१ तद्वचनं श्रुत्वा कश्यपः प्रत्यभाषत । शृणु गौतम तत्त्वेन सर्पाणामिह लक्षणम् । ।७ मास्याषाढे तथा ज्येष्ठे प्रमाद्यन्ति भुजङ्गमाः । ततो नागोऽथ नागी च मैथुने सम्प्रपद्यते । । ८ चतुरो वार्षिकान्मासान्नागी गर्भमधारयत् । ततः कार्त्तिकमासे तु अण्डकानि प्रसूयते । । ९ अण्डकानां तु विज्ञेये द्वेशते द्वे च विंशती । तान्येव भक्षयेत्सा तु भोगैकं घृणया त्यजेत् । । 1.33.१० स्वर्णार्कवर्णाद्वै तस्मात्पुमान्सञ्जायतेऽण्डकात् । तान्येव खादते सर्प अहोरात्राणि विंशतिम् । । ११ स्वर्णकेतकवर्णाभाद्दीर्घराजीवसन्निभात् । तस्मादुत्पद्यते स्त्री वै अण्डाद्ब्राह्मणसत्तम । । १२ शिरीषपुष्पवर्णाभादण्डकात्स्यान्नपुंसकः । ततो भिनत्ति चाण्डानि षण्मासेन तु गौतम । । १३ ततस्ते प्रीतिसम्बन्धात्स्नेहं बध्नन्ति बालकाः । ततोऽसौ सप्तरात्रेण कृष्णो भवति पन्नगः । । १४ आयुःप्रमाणं सर्पाणां शतं विंशोत्तरं स्मृतम् । मृत्युश्चाष्टविधो ज्ञेयः शृणुष्वात्र यथाक्रमम् । । १५ मयूरान्मानुषाद्वापि चकोराद्गोखुरात्तथा
शतानीक ने पूछा—साँपों के कितने रूप होते हैं, उनके रंग कौन-कौन से हैं, और उनकी क्या पहचान है?
बिडालान्नकुलाच्चैव वराहाद्वृश्चिकात्तथा । । एतेषां यदि मुच्येत जीवेद्विंशोत्तरं शतम् । । १६ सप्ताहे तु ततः पूर्णे दंष्ट्राणां चाधिरोहणम् । विषस्यागमनं तत्र निक्षिपेच्च पुनः पुनः । । १७ एवं ज्ञात्वा तु तत्त्वेन विषकर्म्मारभेत वै । एकविंशतिरात्रेण विषदंष्ट्रा सुजायते । । नागीपार्श्वसमावर्ती बालसर्पः स उच्यते । । १८ पञ्चविंशतिरात्रस्तु सद्यः प्राणहरो भवेत् । षण्मासाज्जातमात्रस्तु कञ्चुकं वै प्रमुञ्चति । । १९ पादानां चापि विज्ञेये द्वे शते द्वे च विंशती । गोलोमसदृशाः पादाः प्रविशन्ति क्रमन्ति च । । 1.33.२० सन्धीनां चास्य विज्ञेये द्वेशते विंशती तथा । अंगुल्यश्चापि विज्ञेया द्वे शते विंशती तथा । । २१ अकालजाता ये सर्पा निर्विषास्ते प्रकीर्तिताः । पञ्चसप्ततिवर्षाणि आयुस्तेषां प्रकीर्तितम् । । २२ रक्तपीतशुक्लदन्ता अनीला मन्दवेगिनः । एते अल्पायुषो ज्ञेयो अन्ये च भीरवः स्मृता । । २३ एकं चास्य भवेद्वक्त्रं द्वे जिह्वे च प्रकीर्तिते । द्वात्रिंशद्दशनाः प्रोक्ताः पन्नागानां न संशयः । । २४ तेषां मध्ये चतस्रस्तु दंष्ट्रा याः सुविषावहाः । मकरी कराली कालरात्री यमदूती तथैव च । । २५ सर्वासां चैव दंष्ट्राणां देवताः परिकीर्तिताः । प्रथमा ब्रह्मदेवत्या द्वितीया विष्णुदेवता । । तृतीया रुद्रदेवत्या चतुर्थी यमदेवता । । २६ हीना प्रमाणतः सा तु वामनेत्रं समाश्रिता । नास्यां मन्त्राः प्रयोक्तव्या नौषधं नैव भेषजम् । । २७ वैद्यः पराङ्मुखो याति मृत्युस्तस्या विलेखनात् । चिकित्सा न बुधैः कार्या तदन्तं तस्य जीवितम् । । २८ मकरीं मासिकां विद्यात्कराली च द्विमासिका । कालरात्री भवेत्त्रीणि चतुरो यमदूतिका । । २९ मकरीं गुडौदनं१ दद्यात्कषायान्नं करालिकाम् । कालरात्रीं कटुयुतं दूतीं वै सान्निपातिकम् । । 1.33.३० मकरी शस्त्रकं विद्यात्कराली काकपादिका । कराकृतिः कालरात्रिर्याम्या कूर्माकृतिः स्मृता । । ३१ मकरी वातुला ज्ञेया कराली पैत्तिकी स्मृता । कफात्मिका कालरात्री यमदूती सान्निपातकी । । ३२ शुक्ला तु मकरी ज्ञेया कराली रक्तसन्निभा । कालरात्री भवेत्पीता कृष्णा च यमदूतिका । । ३३ वामा शुक्ला च कृष्णा च रक्ता पीता च दक्षिणा । समासेन तु वक्ष्यामि यथैता वर्णतः स्मृताः । । ३४ शुक्ला तु ब्राह्मणी ज्ञेया रक्ता तु क्षत्रिया स्मृता । वैश्या तु पीतिका ज्ञेया कृष्णा शूद्रा तु कथ्यते । । अतः परं प्रवक्ष्यामि दंष्ट्राणां विषलक्षणम् । । ३५ दंष्ट्राणां तु विषं नास्ति नित्यमेव भुजङ्गमे । दक्षिणं नेत्रमासाद्य विषं सर्पस्य तिष्ठति । । ३६ सङ्कुद्धस्येह सर्पस्य विषं गच्छति मस्तके । मस्तकाद्धमनीं याति ततो नाडीषु गच्छति । । ३७ नाडीभ्यः पद्यते दंष्ट्रां विषं तत्र प्रवर्तते । तत्सर्वं कथयिष्यामि यथावदनुपूर्वशः । । ३८ अष्टभिः कारणैः सर्पो दशते नात्र संशयः । आक्रान्तो दशते पूर्वं द्वितीयं पूर्ववैरिणम् । । ३९ तृतीयं दशते भीतश्चतुर्थं मददर्पितः । पञ्चमं तु क्षुधाविष्टः षष्ठं चेह विषोल्बणः । । सप्तमं पुररक्षार्थमष्टमं कालचोदितः । । 1.33.४० यस्तु सर्पो दशित्वा३ तु उदरं परिवर्तयेत् । बलभुग्नाकृतिं दंष्ट्रामाक्रान्तं तं विनिर्दिशेत् । ।४ १ यस्य सर्पेण दष्टस्य गभीरं दृश्यते व्रणम् । वैरदष्टं विजानीयात्कश्यपस्य वचो यथा । ।४ २ एकं दंष्ट्रापदं यस्य अव्यक्तं न च कल्पितम् । भीतदष्टं विजानीयाद्यथोवाच प्रजापतिः । । ४३ यस्य सर्पेण दष्टस्य रेखा दन्तस्य जायते । मददष्टं विजानीयात्कश्यपस्य वचो यथा । । ४४ द्वे च दंष्ट्रापदे यस्य दृश्यन्ते च महाक्षतम् । क्षुधाविष्टं विजानीयाद्यथोवाच प्रजापतिः । । ४५ द्वे दंष्ट्रे यस्य दृश्येते क्वचिद्रुधिरसङ्कुले । विषोल्बणं विजानीयाद्दंशं तं नात्र संशयः । । ४६ अपत्यरक्षणार्थाय जानीयात्तं न संशयः । यत्तु काकपदाकारं त्रिभिर्दन्तैस्तु लक्षितम् । । ४७ महानाग इति प्रोक्तं कालदण्डं विनिर्दिशेत् । त्रिविधं दष्टजातैस्तु लक्षणं समुदाहृतम् । ।४८ दष्टानुपीतं विज्ञेयं कश्यपस्य वचो यथा । विषभागात्तु सर्पस्य त्रिभागस्तत्र संक्रमेत् । । ४९ उदरं दर्शयेद्यस्तु उद्धतं तं विनिर्दिशेत् । छर्दितं विषवेगेन निर्विषः पन्नगो भवेत् । । 1.33.५० असाध्यश्चापि विज्ञेयश्चतुर्दंष्ट्राभिपीडितः । ग्रीवाभङ्गो भवेत्किञ्चित्सन्दष्टो विषयोगतः । । इतो दंशस्ततः शुद्धो व्यन्तरः परिकीर्तितः । । ५१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे सर्पदंष्ट्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः
काललक्षणम् कश्यप उवाच अतः परं प्रवक्ष्यामि कालदष्टस्य लक्षणम् । शृणु गौतम तत्त्वेन यादृशो भवते नरः । । १ जिह्राभङ्गोऽथ हृच्छूलं चक्षुर्भ्यां च न पश्यति । दंशं च दग्धसंकाशं पक्वजम्बूफलोपमम् । । २ वैवर्ण्यं चैव दन्तानां श्यावो भवति वर्णतः । सर्वेष्वङ्गेषु शैथिल्यं पुरीषस्य च भेदनम् । । ३ भग्नस्कन्धकटिग्रीव ऊर्ध्वदृष्टिरधोमुखः । दह्यते वेपते चैव स्वपते च मुहुर्मुहुः । । ४ शस्त्रेण च्छिद्यमानस्य रुधिरं न प्रवर्तते । दण्डेन ताड्यमानस्य दण्डराजी न जायते । । ५ दंशे काकपदं सुनीलमसकृज्जम्बूफलाभं घनमुच्छूनं रुधिरार्द्रसेकबहुलं कृच्छ्रान्निरोधो भवेत् । हिक्काश्वासगलग्रहश्च सुमहान्पाण्डुस्त्वचा दृश्यते शुष्काङ्गः प्रवदन्ति शास्त्रनिपुणास्तत्कालदष्टं विदुः । । ६ दंशे यस्याथ शोथः प्रचलितवलितं मण्डलं वा सुनीलं प्रस्वेदो गात्र भेदः स्रवति च रुधिरं सानुनासं च जल्पेत् । दन्तोष्ठाभ्यां वियोगो भ्रमति च हृदयं सन्निरोधश्च तीव्रो दिव्यानामेष दंशः स्थलविपुलमयो विद्धि तं कालदष्टम् । । ७ दन्तैर्दन्तान्स्पृशति बहुशो दृष्टिरायासखिन्ना स्थूलो दंशः स्रवति रुधिरं केकरं चक्षुरेकम् । । प्रत्यादिष्टः श्वसिति सततं सानुनासं च भाषेत्पापं ब्रूते सकलगदितं कालदण्डं तमाहुः । । ८ वेपते वेदना तीव्रा रक्तनेत्रश्च जायते । ग्रीवाभङ्गश्चला नाभिः कालदष्टं विनिर्दिशेत् । । ९ दर्पणे सलिले वापि आत्मच्छायां न पश्यति । मन्दरश्मिं तथा तीव्रं तेजोहीनं दिवाकरम्
कश्यप बोले—अब मैं मृत्यु के डसे हुए व्यक्ति के लक्षण बताता हूँ, गौतम! ध्यान से सुनो, उस मनुष्य की कैसी दशा होती है।
1.34.१० वेपते वेदनात्रस्तो रक्तनेत्रश्च जायते । स याति निधनं जन्तुः कालदण्डं विनिर्दिशेत् । । ११ अष्टम्यां च नवम्यां च कृष्णपक्षे चतुर्दशीम् । नागपञ्चमीदष्टानां जीवितस्य च संशयः । । १२ आर्द्राश्लेषामघाभरणीकृत्तिकासु विशेषतः । विशाखां त्रिषु पूर्वासु मूलस्वातीशतात्मके । । सर्पदष्टा न जीवन्ति विषं पीतं च यैस्तथा । । १३ शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च । न जीवन्ति नरा दष्टा नक्षत्रे तिथिसंयुते । । १४ अष्टोत्तरं मर्म शतं प्राणिनां समुदाहृतम् । तेषां मध्ये तु मर्माणि दश द्वे चापि कीर्तिते । । १५ शङ्खे नेत्रे भ्रुवोर्मध्ये बस्तिभ्यां वृषणोत्तरे । कक्षे स्कन्धे हदि मध्ये तालुके चिबुके गुदे । । १६ एषु द्वादशमर्मेषु२ दंशैः शस्त्रेण वा हतः । न जीवति नरो लोके कालदण्डं विनिर्दिशेत् । । १७ अकचटतपयशां वदन्ति प्रोक्ता जीवन्ति न तत्र हि । गतं ब्रूयाद्यदि स्खलति शिरस्तस्य सम्प्राप्तकालः । । १८ भवति च यदि दूतो ह्युत्तमस्याधमो वा यदि भवति च दूत उत्तमो वाधमस्य । आदौ दष्टस्य नाम यदि वदति क्वचिद्वक्ति तस्याथ पश्चात्तं वर्णभेदो यदि भवति समः प्राप्त कालस्य दूतः । । १९ दूतो वा दण्डहस्तो भवति च युगलं पाशहस्तस्तथा वा रक्तवस्त्रं च कृष्णं मुखशिरसि गतमेकवस्त्रश्च दूतः । । तैलाभ्यक्तश्च तद्वद्यदि त्वरितगतिर्मुक्तकेशश्च याति यः कुर्याद्घोरशब्दं करचरणयुगैः प्राप्तकालस्य दूतः । । 1.34.२० नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम् । ब्रह्मणा तु पुरा सृष्टा ग्रहा नागास्त्वनेकशः । । २१ अनन्तं भास्करं विद्यात्सोमं विद्यात्तु वासुकिम् । तक्षकं भूमिपुत्रं तु कर्कोटं च बुधं विदुः । । २२ पद्मं बृहस्पतिं विद्यान्महापद्मं च भार्गवम् । कुलिकः शंखपालश्च द्वावेतौ तु शनैश्चरः । । २३ पूर्वपादः शंखपालो द्वितीयः कुलिकस्तथा । नित्यं भागे यथोद्दिष्टे दिनरात्री तथैव च । । २४ शुक्रसोमौ च मध्याह्ने उदये तु क्षमासुतः । शनिः प्रागष्टमे भागे दिवारात्रे त्विहोच्यते । । २५ ग्रहाश्च भुञ्जते चैव शेषं भागस्य लक्षणम् । रविवारे सदा ज्ञेयौ पादौ दश चतुर्दश । । २६ अष्ट द्वादश वै चन्द्रे दश षष्ठे कुजे तथा । बुधस्य नवमे पादे राहौ च दिवसस्य च । । २७ गुरोर्द्वितीयः षष्ठश्च षोडशस्य तु वर्जयेत् । भास्करस्य दिने प्रोक्ते चतुर्थे दशमेष्टमे । । २८ शनैश्चरदिने पादं त्यजेच्चैव सुदारुणम् । द्वितीयं द्वादशं चैव षोडशस्य तु वर्जयेत् । । २९ मुहूर्तघटिकादूर्द्ध्वं घटिका चतुर्थं भागं विंशतिश्च । कुहूसुतं बुद्बुदं निमेषमेतत्कालस्य लक्षणम् । । 1.34.३० इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे दंशदष्टकदूतलक्षणं नाम चतुस्त्रिंशोऽध्यायः
यमदूतीलक्षणम् कश्यप उवाच सविषा दंष्ट्रयोर्मध्ये यमदूती तु वै भवेत् । न चिकित्सा बुधैः कार्या तं गतासुं विर्निदशेत् । । १ प्रहरार्धं दिवारात्रावेकैकं भुञ्जते बहिः । एकस्य च समानं च द्वितीयं षोडशं तथा । । २ नागोदयो यमुद्दिश्य हतो विद्धो विदारितः । कालदष्टं विजानीयात्कश्यपस्य वचो यथा । । ३ यन्मात्रं पतते बिन्दुर्वालाग्रं सलिलोद्धृतम् । तन्मात्रं स्रवते दंष्ट्रा विषं सर्पस्य दारुणम् । । ४ नाडीशते तु सम्पूर्णे देहे सङ्क्रमते विषम् । यावत्सङ्क्रामयेद्बाहुं कुञ्चितं वा प्रसारयेत् । । ५ अनेन क्षणमात्रेण विषं गच्छति मस्तके । वेपते विषवेगे तु शतशोऽथ सहस्रशः । । ६ वर्धते रक्तमासाद्य ततो वातैः शिखी यथा । तैलबिन्दुर्जलं प्राप्य यथा वेगेन वर्धते । । ७ शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः । ततः स्थानशतं प्राप्य त्वचास्थानं विचेष्टितम् । । ८ त्वचासु द्विगुणं विद्याच्छोणितेषु चतुर्गुणम् । पित्ते तु त्रिगुणं याति श्लेष्मे वै षोडशं भवेत् । । ९ वायौ त्रिंशद्गुणं चैव मज्जाषष्टिगुणं तथा । प्राणे चैकार्णवीभूते सर्वगात्राणि सन्धयेत्
कश्यप बोले—दोनों विषैली दाँतों के बीच जो डसता है, वह यमदूती कहलाता है। ऐसे डसे हुए व्यक्ति का उपचार बुद्धिमान लोग नहीं करते, क्योंकि उसमें जीवन नहीं बचता।
1.35.१० श्रोत्रे निरुध्यमाने च याति दष्टस्त्वसाध्यताम् । ततोऽसौ म्रियते जन्तुर्निःश्वासोच्छ्वासवर्जितः । । ११ निष्क्रान्ते तु ततो जीवे भूते पञ्चत्वमागते । तानि भूतानि गच्छन्ति यस्य यस्य यथातथम् । । १२ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । इत्येषामेव सङ्घातः शरीरमभिधीयते । । १३ पृथिवी पृथिवीं याति तोयं तोयेषु लीयते । तेजो गच्छति चादित्यं मारुतो मारुतं व्रजेत् । । १४ आकाशं चैवमाकाशे सह तेनैव गच्छति । स्वस्थानं ते प्रपद्यन्ते परस्परनियोजिताः । । १५ न जीवेदागतः कश्चिदिह जन्मनि सुव्रत । विषार्तं न उपेक्षेत त्वरितं तु चिकित्सयेत् । । १६ एकमस्ति विषं लोके द्वितीयं चोपपद्यते । यथा नानाविधं चैव स्थावरं तु तथैव च । । १७ प्रथमे विषवेगे तु रोमहर्षोऽभिजायते । द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते । । १८ तृतीये विषवेगे तु कम्पो गात्रेषु जायते । चतुर्थे विषवेगे तु श्रोत्रान्तरनिरोधकृत् । । १९ पञ्चमे विषवेगे तु हिक्का गात्रेषु जायते । षष्ठे च विषवेगे तु प्राणेभ्योऽपि प्रमुच्यते । । सप्तधातुवहा ह्येते वैनतेयेन भाषिताः । । 1.35.२० त्वचः स्थाने विषे प्राप्ते तस्य रूपाणि मे शृणु । अङ्गानि तिमिरायन्ते तपन्ते च मुहुर्मुहुः । । २१ एतानि यस्य चिह्नानि तस्य त्वचि गतं विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २२ अर्कमूलमपामार्गं प्रियङ्गुं तगरं२ तथा । एतदालोड्य दातव्यं ततः सम्पद्यते सुखम् । । २३ ततस्तस्मित्कृते विप्र न निवर्तेत चेद्विषम् । त्वचः स्थानं ततो भित्त्वा रक्तस्थानं प्रधावति । । २४ विषे च रक्तं संप्राप्ते तस्य रूपाणि मे शृणु । दह्यते मुह्यते१ चैव शीतलं बहु मन्यते । । २५ एतानि यस्य रूपाणि तस्य रक्तगतं विषम् । तत्रागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २६ उशीरं चन्दनं कुष्ठमुत्पलं तगरं तथा । महाकालस्य मूलानि सिन्दुवारनगस्य च । । हिङ्गुलं मरिचं चैव पूर्ववेगे तु दापेयत् । । २७ बृहती वृश्चिका काली इन्द्र वारुणिमूलकम्
जब डसे हुए व्यक्ति के कानों से सुनाई देना बंद हो जाता है, तो वह असाध्य हो जाता है। फिर वह जीव प्राण और श्वास के बिना मर जाता है।
सप्तगन्धघृतं चैव द्वितीये परिकीर्तितम् । । २८ सिन्दुवारं तथा हिङ्गुं तृतीये कारयेद्बुधः । तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा । । २९ एतेनैवोपचारेण ततः सम्पद्यते सुखम् । रक्तस्थानं ततो गत्वा पित्तस्थानं प्रधावति । । 1.35.३० पित्तस्थानगते विप्र विषरूपाणि मे शृणु । उत्तिष्ठते निपतते दह्यते मुह्यते तथा । । ३१ गात्रतः पीतकः स्याद्वै दिशः पश्यति पीतिका । प्रबला च भवन्मूर्च्छा न चात्मानं विजानते । । विषक्रियां तस्य कुर्याद्यथा सम्पद्यते सुखम् । । ३२ पित्तस्थानमतिक्रम्य श्लेष्मस्थानं च गच्छति । । ३३ पिप्पल्यो मधुकं चैव मधु खण्डं घृतं तथा । मधुसारमलाबूं च जातिं शङ्करवालुकाम् । । इन्द्रवारुणिकामूलं गवां मूत्रेण पेषयेत् । । ३४ नस्यं तस्य प्रयुञ्जीत पानमालेपनाञ्जनम् । एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३५ श्लेष्मस्थानं ततः प्राप्ते तस्य रूपाणि मे शृणु । गात्राणि१ तस्य रुध्यन्ते निःश्वासश्च न जायते । । लाला च स्रवते तस्य कण्ठो घुरुघुरायते । । ३६ एतानि यस्य रूपाणि तस्य श्लेष्मगतं विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ३७ त्रिकुटकी श्लेष्मातको लोध्रञ्च मधुसारकम् । एतानि समभागानि गवां मूत्रेण पेषयेत् । । ३८ तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा । एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३९ श्लेष्मस्थानमतिक्रम्य वायुस्थानं च गच्छति । तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे । । 1.35.४० आध्मायते च जठरं बान्धवांश्च न पश्यति । ईदृशं कुरुते रूपं वृष्टिभङ्गश्च जायते । । ४१ एतानि यस्य रूपाणि तस्य वायुगतं विषम् । तस्यागदं प्रक्ष्यामि येन सम्पद्यते सुखम् । ।४ २ शोणामूलं प्रियालं च रक्तं च गजपिप्पलीम् । भार्ङ्गीं वचां पिप्पलीं च देवदारुं मधूककम् । । ४३ मधूकसारं सहसिन्दुवारं हिङ्गुं च पिष्टा गुटिकां च कुर्यात् । दद्याच्च तस्याञ्जनलेपनादि एषोऽगदः सर्पविषाणि हन्यात् । । ४४ अञ्जनं चैव नस्यं च क्षिप्रं दद्याद्विषान्विते । वायुस्थानं ततो मुक्त्वा मज्जास्थानं प्रधावति । ।४५ विषे मज्जागते विप्र तस्य रूपाणि मे शृणु । दृष्टिश्च हीयते तस्य भृशमङ्गानि मुञ्चति । ।४ ६ एतानि यस्य रूपाणि तस्य मज्जागतं विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ४७ घृतमधुशर्करान्वितमुशीरं चंदनं तथा
ततः प्रणश्यते दुःखं ततः संपद्यते सुखम्
फिर दुख मिट जाता है और सुख की प्राप्ति होती है।
मज्जास्थानं ततो गत्वा मर्मस्थानं प्रधावति 1.35.
फिर वह मज्जा से निकलकर शरीर के मुख्य स्थानों में पहुँचता है।
निश्चेष्टः पतते भूमौ कर्णाभ्यां बधिरो भवेत्
वह बिना हिले-डुले ज़मीन पर गिर जाता है और दोनों कानों से बहिरा हो जाता है।
दंडेन हन्यमानस्य दंडराजी न जायते
डंडे से मार खाने पर डंडा राजा नहीं बन जाता।
केशेषु लुच्यमानेषु नैव केशान्प्रवेदते शिथिलानि भवंतीह स गतासुरिति श्रुतिः
जब बाल उखाड़े जाते हैं, तब उसे बालों का कोई अहसास नहीं होता; यहाँ उसके अंग ढीले पड़ जाते हैं, और परंपरा कहती है कि उसकी प्राण-शक्ति जा चुकी है।
एतानि यस्य रूपाणि विपरीतानि गौतम
गौतम, ये वे रूप हैं जिनके लक्षण उलटे हो जाते हैं।
वैद्यास्तस्य न पश्यंति ये भवंति कुशिक्षिताः
जो वैद्य अच्छी तरह से सीखे हुए होते हैं, वे भी इन लक्षणों को नहीं पहचान पाते।
तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम्
अब मैं वह औषधि बताऊँगा, जिसे स्वयं रुद्र ने कहा है।
कुंकुमं तगरं कुष्ठं कासमर्दत्वचं तथा
कुंकुम, तगर, कुष्ठ और कासमर्द की छाल—
एतानि समभागानि गोमूत्रेण तु पेषयेत् कालाहिनापि दष्टेन क्षिप्रं भवति निर्विषः
इन सबको बराबर मात्रा में लेकर, गोमूत्र के साथ पीसना चाहिए; काले साँप के काटे हुए को भी यह जल्दी विषमुक्त कर देता है।
क्षिप्रमेव प्रदा तव्यं मृतसंजीवनौषधम्
जीवनदायिनी औषधि तुरंत देनी चाहिए।
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे धातुगतविषक्रियावर्णनं नाम पंचत्रिंशोऽध्यायः
इस प्रकार, श्रीभविष्य महापुराण के ब्राह्म पर्व में, पाँचवें कल्प में, डेढ़ लाख श्लोकों वाली संहिता के अंतर्गत, 'धातु में विष की क्रिया का वर्णन' नामक यह पैंतीसवाँ अध्याय समाप्त हुआ।
कुमारदष्टः कीदृक्स्यात्सूतिकादंशितस्य च
बालक के काटे जाने पर और प्रसूता के काटे जाने पर क्या लक्षण होते हैं?
रूपं नपुंसकेनेह व्यंतरेण च कीदृशम्
नपुंसक या भीतर के साँप के काटने पर क्या रूप होता है?
कश्यप उवाच अतः परं प्रवक्ष्यामि नागानां रूपलक्षणम्
कश्यप बोले—अब मैं साँपों के रूप और लक्षण बताऊँगा।
अथ सर्पेण दष्टस्य ऊर्ध्व दृष्टिः प्रजायते
साँप के काटने पर दृष्टि ऊपर की ओर हो जाती है।
1.31.५० सुमन्तुरुवाच चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता । उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः । । ५१ उपोष्य नक्तेन विभो चतस्रः कुजसंयुता । चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम् । । ५२ सौवर्णं तु कुजं कृत्वा सविनायकमादरात् । दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च । ।५ ३ सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा । विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा । । ५४ विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा । रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च । । ५५ शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु । प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम् । । विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम् । । ५६ ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप । वाचकाय महाबाहो गुणिने श्रेयसे नृप । । ५७ इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः । यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत । । ५८ कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम् । प्रभया रविकल्पं च समीरबलसंश्रितम् । । ५९ ईदृग्रूपं समाप्येह याति भौमसदो नृप । प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप । । 1.31.६० पठतां शृण्वतां राजन्कुर्वतां च विशेषतः । ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः । । ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः । । । ६१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायः
सुमन्तु ने कहा — चौथ का व्रत जब मंगल के योग में हो, तब उस दिन विधिपूर्वक उपवास करके गुड़ का दान करना चाहिए। उसी दिन रात्रि में उपवास करके, मंगल के योग वाली चार चौथों में भी, जैसा विधान है, वह सुनो। सोने का मंगल बनाकर, उसमें गणपति के साथ विनयपूर्वक, दस सोने की मात्रा का मुख्य भाग और उसका आधा-आधा भाग भी, सोने या चाँदी के पात्र में, या फिर श्रद्धा से ताँबे के पात्र में भी, बीस पल या बीस आधे पल या बीस करष या उसके आधे-आधे भाग में, चाँदी के बराबर पल या उसका आधा-आधा भाग, अपनी सामर्थ्य और श्रद्धा के अनुसार ताँबे के पात्र में स्थापित करके, ग्रह के स्वामी को वस्त्रों से लपेटकर, तरह-तरह के लाल फूलों से सजाकर, ब्राह्मण को दक्षिणा सहित दान देना चाहिए। हे राजन्, यह दान सदैव गुणी और वेदपाठी ब्राह्मण को देना चाहिए। इस प्रकार मैंने तुम्हें पुण्यदायक उत्तम चौथ का विधान बताया है, जिसे उपवास करके मनुष्य दिव्य रूप, तेज और सूर्य के समान प्रभा प्राप्त करता है। ऐसा रूप पाकर वह मंगललोक को जाता है, गणपति की कृपा से उसे विघ्नों से मुक्ति मिलती है। जो इसे पढ़ता, सुनता और विशेष रूप से करता है, उसके ब्रह्महत्या आदि पाप नष्ट हो जाते हैं, इसमें कोई संदेह नहीं। उसे समृद्धि, वृद्धि और लक्ष्मी की प्राप्ति होती है, इसमें भी कोई संदेह नहीं।
thumb|400px|अग्निचयने अश्वपरिक्रमणम् thumb|400px| उच्चैःश्रवा नागपञ्चमीपूजनम् सुमन्तुरुवाच पञ्चमी दयिता राजन्नागानां नन्दिवर्धिनी । पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् । । १ वासुकिस्तक्षकश्चैव कालियो मणिभद्रकः । ऐरावतो धृतराष्ट्रः१ कर्कोटकधनञ्जयौ । । एते प्रयच्छन्त्यभयं प्राणिनां प्राणजीविताम् । । २ पञ्चम्यां स्नपयन्तीह नागान्क्षीरेण ये नराः । तेषां कुले प्रयच्छन्ति तेऽभयप्राणदक्षिणाम् । । ३ शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् । निर्वापयन्ति स्नपनैर्गवां३ क्षीरेण मिश्रितैः । । ४ ये स्नपयन्ति वै नागान्भक्त्या श्रद्धासमन्विता । तेषां कुले सर्पभयं न भवेदिति निश्चयः । । ५ शतानीक उवाच मात्रा शप्ताः कथं नागाः किं समुद्दिश्य कारणम् । कथं चानन्दकरणं कस्य वा सम्प्रसादजम् । । ६ सुमन्तुरुवाच [http://puranastudy.freeoda.com/pur_index3/uchchaish.htm उच्चैःश्रवा] अश्वरत्नं श्वेतो जातोऽमृतोद्भवः । तं दृष्ट्वा चाब्रवीत्कद्रूर्नागानां जननी स्वसाम् । । ७ अश्वरत्नमिदं श्वेतं सम्प्रेक्षेऽमृतसम्भवम् । कृष्णांश्च वीक्षसे बालान्सर्वं श्वेतमुताम्बरे । । ८ विनतोवाच सर्वश्वेतो हयवरो नास्य कृष्णो न लोहितः । कथं पश्यसि कृष्णं त्वं विनतोवाच तां स्वसाम्
सुमन्तु ने कहा — हे राजन्, पंचमी तिथि नागों को बहुत प्रिय है और उनके आनंद को बढ़ाने वाली है। इसी पंचमी के दिन नागों का बड़ा उत्सव मनाया जाता है। वासुकि, तक्षक, कालिय, मणिभद्र, ऐरावत, धृतराष्ट्र, कर्कोटक और धनंजय — ये सभी प्राणियों को निर्भयता और जीवनदान देते हैं। जो लोग पंचमी के दिन नागों को दूध से स्नान कराते हैं, उनके कुल में नाग उन्हें निर्भयता और प्राणदायिनी दक्षिणा देते हैं। जब नाग माता के श्राप से दिन-रात जलते रहते हैं, तब गाय के दूध से स्नान कराने पर वे शांति पाते हैं। जो लोग श्रद्धा और भक्ति से नागों को स्नान कराते हैं, उनके कुल में कभी सर्प भय नहीं रहता — यह निश्चित है।
९ कद्रूरुवाच वीक्षेऽहमेकनयना कृष्णबालसमन्वितम् । द्विनेत्रा त्वं तु विनते न पश्यसि पणं कुरु । । 1.32.१० विनतोवाच अहं दासी भवित्री ते कृष्णे केशे प्रदर्शिते । न चेद्दर्शयसे कद्रु मम दासी भविष्यसि । । ११ एवं ते विपणं कृत्वा गते क्रोधसमन्विते । विनता शयने सुप्ता कद्रूर्जिह्ममचिन्तयत् । । १२ आहूय पुत्रान्प्रोवाच बाला भूत्वा हयोत्तमे । तिष्ठध्वं विपणे जेष्ये विनतां जयगर्द्धिनीम् । । १३ प्रोचुस्ते जिह्मबुद्धिं तां नागा मातां१ विगृह्य तु । अधर्म्यमेतन्मातस्ते न करिष्याम ते वचः । । १४ ताञ्शशाप रुषा कद्रूः पावको वः प्रधक्ष्यति । गते बहुतिथे काले पाण्डवो जनमेजयः । । १५ सर्पसत्रं स कर्ता वै भुवि ह्यन्यैः सुदुष्करम् । तस्मिन्सत्रे स तिग्मांशुः पावको वः प्रधक्ष्यति । । १६ एवं शप्त्वा रुषा कद्रूः किञ्चिन्नोक्तवती तु सा । मात्रा शप्तास्तथा नागाः कर्तव्यं नान्वपत्सत । । १७ वासुकिं दुःखितं ज्ञात्वा ब्रह्मा प्रोवाच सान्त्वयन् । मा शुचो वासुकेऽत्यर्थं शृणु मद्वचन परम् । । १८ यायावरकुले जातो जरत्कारूरिति द्विजः । भविष्यति महातेजास्तस्मिन्काले तपोनिधिः
कद्रू ने कहा — मैं अपनी एक आँख से देख रही हूँ कि उसमें काले बाल हैं, लेकिन तुम, विनता, अपनी दोनों आँखों से नहीं देख पा रही हो। चलो, हम शर्त लगाते हैं। विनता ने कहा — अगर तुम काले केश दिखा दोगी तो मैं तुम्हारी दासी बन जाऊँगी, और अगर नहीं दिखा पाई तो तुम मेरी दासी बनोगी। इस प्रकार दोनों ने शर्त लगाई और क्रोध में भरकर चली गईं। विनता सो गई, तब कद्रू ने कपट से सोचा और अपने पुत्रों को बुलाकर कहा — तुम सब बालक बनकर उस श्रेष्ठ घोड़े की पूँछ में ठहरो, मैं शर्त जीतूँगी और विनता को हराऊँगी। लेकिन नागों ने कपट बुद्धि वाली अपनी माता से कहा — माता, यह अधर्म है, हम तुम्हारी बात नहीं मानेंगे। इस पर कद्रू ने क्रोध में उन्हें श्राप दिया — बहुत समय बाद पांडव जनमेजय पृथ्वी पर सर्पयज्ञ करेगा, उसमें अग्नि तुम सबको भस्म कर देगी। ऐसा कहकर कद्रू चुप हो गई। माता के श्राप से नाग दुखी हुए, तब वासुकि को दुखी देखकर ब्रह्मा ने उसे सांत्वना दी — वासुकि, चिंता मत करो, मेरी बात ध्यान से सुनो। यायावर कुल में 'जरत्कारु' नामक एक तेजस्वी ब्राह्मण जन्म लेगा, वह उस समय महान तपस्वी होगा।
( १९ भगिनीं च जरत्कारुं तस्मै त्वं प्रतिदास्यसि । भविता तस्य पुत्रोऽसावास्तीक इति विश्रुतः । । 1.32.२० स तत्सत्रं प्रवृद्धं वै नागानां भयदं महत् । निषेधेत्सुमतिर्वाग्भिरग्र्याभिस्तं नविष्यति । । २१ तदिमां भगिनीं राजंस्तस्य त्वं प्रतिदास्यसि । जरत्कारुं जरत्कारोः प्रदद्या अविचारयन् । । २२ यदासौ प्रार्थतेऽरण्ये यत्किञ्चिद्धि वदिष्यति । तत्कर्तव्यमशङ्केन यदीच्छेः श्रेय आत्मनः । । २३ पितामहवचः श्रुत्वा वासुकिः प्रणिपत्य च । तथाकरोद्यथा चोक्तं यत्नं च परमास्थितः । । २४ तच्छ्रुत्वा पन्नगाः सर्वे प्रहर्षोत्फुल्ललोचनाः । पुनर्जातमिवात्मानं मेनिरे भुजगोत्तमाः । । २५ तत्र सत्रं महाबाहो१ तव पित्रा प्रवर्तितम् । ऋत्विग्भिः स हि तेनेह सर्वलोकेषु दुष्करम् । । २६ प्रोक्तं च विष्णुना पूर्वं धर्मपुत्रस्य धीमतः । अवश्यं तस्य भविता नागानां भयकारकम्
उस ब्राह्मण को अपनी बहन 'जरत्कारु' का विवाह देना होगा, और उससे उत्पन्न पुत्र 'आस्तीक' नाम से प्रसिद्ध होगा। वह बड़ा सर्पयज्ञ, जो नागों के लिए अत्यंत भयकारी होगा, उसे अपनी बुद्धि और वाणी से रोक देगा। इसलिए, हे राजन्, अपनी बहन जरत्कारु का विवाह उसी ब्राह्मण से कर देना, और जो कुछ वह वन में मांगे, उसे बिना संकोच पूरा करना, यदि अपने कल्याण की इच्छा हो। ब्रह्मा के वचन सुनकर वासुकि ने प्रणाम किया और जैसा कहा गया, वैसा ही किया। यह सुनकर सभी नाग बहुत प्रसन्न हुए और अपने को जैसे पुनः जन्मा हुआ मानने लगे। हे महाबाहु, तुम्हारे पितामह ने जो सर्पयज्ञ आरंभ किया था, वह ऋत्विजों के द्वारा संपन्न हुआ और सभी लोकों में कठिन माना गया। यह भी पहले विष्णु ने धर्मराज युधिष्ठिर से कहा था कि वह यज्ञ नागों के लिए भयकारक अवश्य होगा।
बिल्ली, नेवला, सूअर और बिच्छू—इन सबसे यदि साँप बच जाए, तो वह एक सौ बीस वर्ष तक जीवित रहता है।
जब किसी को साँप डसता है, तो उसका शरीर काँपने लगता है, उसे तीव्र पीड़ा होती है और उसकी आँखें लाल हो जाती हैं। ऐसे जीव की मृत्यु निश्चित होती है—इसे ही समय का दंड कहा गया है।
दूसरे चरण में सात सुगंधों से युक्त घी का सेवन करना चाहिए। तीसरे चरण में सिंदुवार और हींग का प्रयोग करना चाहिए। इसका पान, अंजन और लेप करना चाहिए। इसी उपचार से सुख मिलता है। रक्त में विष पहुँचने के बाद वह पित्त में दौड़ता है।