इति ते कथितं विप्र सुरांशाश्च यथाभवन्
हे विप्र, मैंने तुम्हें बताया कि देवताओं के अंश किस प्रकार उत्पन्न हुए।
जगन्नाथमाहात्म्यवर्णनम् सूत उवाच भट्टोजिस्स च शुद्धात्मा शिवभक्तिपरायणः । कृष्णचैतन्यमागम्य नमस्कृत्य वचोऽब्रवीत् । । १ महादेवो गुरुः स वै शिव आत्मा शरीरिणाम् । विष्णुर्ब्रह्मा च तद्दासौ तर्हि तत्पूजनेन किम् । । २ इति श्रुत्वा स यज्ञांशो विंशदब्दवयोवृतः । विहस्याह स भट्टोजिं नायं शम्भुर्महेश्वरः । । ३ समर्थो भगवाञ्छम्भुः कर्ता किन्न शरीरिणाम् । न भर्ता च विना विष्णुं संहर्तायं सदा शिवः । । ४ एकमूर्तिस्त्रिधा जाता ब्रह्मा विष्णुर्महेश्वरः । शाक्तमार्गेण भगवान्ब्रह्मा मोक्षप्रदायकः । । ५ विष्णुर्वैष्णवमार्गेण जीवानां मोक्षदायकः । शम्भुर्वै शैवमार्गेण मोक्षदाता शरीरिणाम् । । ६ शाक्तः सदाश्रमो गेही यज्ञभुक्पितृदेवगः । वानप्रस्थाश्रमी यो वै वैष्णवः कन्दमूलभुक् । । ७ यत्याश्रमः सदा रौद्रौ निर्गुणः शुद्धविग्रहः । ब्रह्मचर्याश्रमस्तेषामनुगामी महाश्रमः । । ८ इति श्रुत्वा गुरोर्वाक्यं शिष्यो भूत्वा स वै द्विजः । तृतीयाङ्गं च वेदानां व्याचख्यौ पाणिनिकृतम् । । ९ तदाज्ञया च सिद्धान्तकौमुद्यास्स चकार ह । तत्रोष्य दीक्षितो धीमान्कृष्णचैतन्यसेवकः । । 3.4.20.१० सूत उवाच वराहमिहिरो धीमान्स च सूर्यपरायणः । द्वाविंशाब्दे च यज्ञांशे तमागत्य वचोऽब्रवीत् । । ११ सूर्योऽयं भगवात्साक्षात्त्रयो देवा यतोऽभवन् । प्रातर्ब्रह्मा च मध्याह्ने विष्णुः सायं सदाशिवः । । १२ अतो रवेः शुभा पूजा त्रिदेवयजनेन किम् । इति श्रुत्वा स यज्ञांशो विहस्याह शुभं वचः । । १३ द्विधा बभूव प्रकृतिरपरा च परा तथा । नाममात्रा तथा पुष्पमात्रा तन्मात्रिका तथा । । १४ शब्दमात्रा स्पर्शमात्रा रूपमात्रा रसा तथा । गंधमात्रा तथा ज्ञेया परा प्रकृतिरष्टधा । । १५ अपरायां जीवभूता नित्यशुद्धा जगन्मयी । भूमिरापोऽनलो वायुः खं मनोबुद्धिरेव च । । अहङ्कार इति ज्ञेया प्रकृतिश्चापराष्टधा । । १६ विष्णुर्ब्रह्मा महादेवो गणेशो यमराड् गुहः । कुबेरो विश्वकर्मा च परा प्रकृतिदेवता । । १७ सुमेरुर्वरुणो वह्निर्वायुश्चैव ध्रुवस्तथा । सोमो रविस्तथा शेषोऽपरा प्रकृतिदेवता । । १८ अतः सोमपती रुद्रो रविः स्वामी विधिः स्वयम् । शेषस्वामी हरिः साक्षान्नमस्तेभ्यो नमो नमः । । १९ इति श्रुत्वा तदा विप्रः शिष्यो भूत्वा च तद्गुरोः । तदाज्ञया चतुर्थाङ्गं ज्योतिःशास्त्रं चकार ह । । 3.4.20.२० वराहसंहिता नाम बृहज्जातकमेव हि । क्षुद्रतन्त्रांस्तथान्यान्वै कृत्वा तत्र स चावसत् । । २१ सूत उवाच वाणीभूषण एवापि शिवभक्तिपरायणः । कृष्णचैतन्यमागम्य वचः प्राह विनम्रधीः । । २२ विष्णुमाया जगद्धात्री सैका प्रकृतिरुत्कृता । तया जातमिदं विश्वं विश्वाद्देवसमुद्भवः । । २३ विश्वेदेवस्स पुरुषश्शक्तिजो बहुधाभवत् । ब्रह्मा विष्णुर्हरश्चैव देवाः प्रकृतिसम्भवाः । । अतो भगवती पूज्या तर्हि तत्पूजनेन किम् । । २४ इति श्रुत्वा स यज्ञांशो विहस्याह द्विजोत्तमम् । न वै भगवती श्रेष्ठा जडरूपा गुणात्मिका । । २५ एका सा प्रकृतिर्माया रचितुर्जगतां क्षमा । पुरुषस्य सहायेन योषितेव नरस्य च । । २६ देवीभागवते शास्त्रे प्रसिद्धेयं कथा द्विज । कदाचित्प्रकृतिर्देवी स्वेच्छयेदं जगत्खलु । । २७ निर्मितं जडभूतं तद्बहुधा बोधितं तदा । न चैतन्यमभूद्विप्रा विस्मिता प्रकृतिस्तदा । । २८ शून्यभूतं च पुरुषं चैतन्यं समतोषयत् । प्रविष्टो भगवान्देवीमायाजनितगोलके । । २९ स्वप्नवद्वा स्वयं जातश्चैतन्यमभवज्जगत् । अतः श्रेष्ठः स भगवान्पुरुषो निर्गुणः परः । । 3.4.20.३० प्रकृत्यां स्वेच्छया जातो लिङ्गरूपस्तदाऽभवत् । पुँल्लिङ्गप्रकृतौ जातः पुँल्लिङ्गोऽयं सनातनः । । ३१ स्त्रील्लिङ्गप्रकृतौ जातः स्त्रील्लिङ्गोऽयं सनातनः । नपुंस्कप्रकृतौ जातः क्लीबरूपः स वै प्रभुः । । ३२ अव्ययप्रकृतौ जातौ निर्गुणोऽयमधोक्षजः । नमस्तस्मै भगवते शून्यरूपाय साक्षिणे । । ३३ इति श्रुत्वा तु तद्वाक्यं शिष्यो भूत्वा स वै द्विजः । त्रिविंशाब्दे च यज्ञांशे तत्र वासमकारयत् । । ३ ४ छन्दोग्रन्थं तु वेदाङ्गं स्वनाम्ना तेन निर्मितम् । राधाकृष्णपरं नाम जप्त्वा हर्षमवाप्तवान् । । ३५ सूत उवाच धन्वन्तरिर्द्विजो नाम ब्रह्मभक्तिपरायणः । कृष्णचैतन्यमागम्य नत्वा वचनमब्रवीत् । । ३६ भवांस्तु पुरुषः श्रेष्ठो नित्यशुद्धस्सनातनः । जडभूता च तन्माया समर्थो भगवान्स्वयम् । । ३७ नित्योऽव्यक्तः परः सूक्ष्मस्तस्मात्प्रकृतिरुद्भवः । अतः पूज्यस्स भगवान्प्रकृत्याः पूजनेन किम् । । ३८ इति श्रुत्वा विहस्याह यज्ञांशस्सर्वशास्त्रगः । नायं श्रेष्ठस्स पुरुषो न क्षमः प्रकृतिं विना । । ३९ पुराणे चैव वाराहे प्रसिद्धेयं कथा शुभा । कदाचित्पुरुषो नित्यो नाममात्रः स्वकेच्छया । । बभूव बहुधा तत्र यथा प्रेतस्तथा स्वयम् । । 3.4.20.४० असमर्थो विरचितुं जगन्ति पुरुषः परः । तुष्टाव प्रकृतिं देवीं चिरकालं सनातनीम् । । ४१ तदा देवी च तं प्राप्य महत्तत्वं चकार ह । सोऽहङ्कारश्च महतो जातस्तन्मात्रिकास्ततः । । ४२ महाभूतान्यतोऽप्यासंस्तैः सञ्जातमिदं जगत् । । ४३ अतस्सनातनौ चोभौ पुरुषात्प्रकृतिः परा । प्रकृतेः पुरुषश्चैव तस्मात्ताभ्यां नमो नमः । । ४४ इति धन्वन्तरिः श्रुत्वा शिष्यो भूत्वा च तद्गुरोः । तत्रोष्य चैव वेदाङ्गं कल्पवेदं चकार ह । । सुश्रुतादपरे चापि शिष्या धन्वन्तरेः स्मृतः । । ४५ सूत उवाच जयदेवस्स वै विप्रो बौद्धमार्गपरायणः । कृष्णचैतन्यमागम्य पञ्चविंशवयोवृतम् । । नत्वोवाच वचो रम्यं स च श्रेष्ठ उषापतिः । । ४६ यस्य नाभेरभूत्पद्मं ब्रह्मणा सह निर्गतम् । अतस्स ब्रह्मसूर्नाम सामवेदेषु गीयते । । ४७ विश्वो नारायणस्साक्षाद्यस्य केतौ समास्थितः । विश्व केतुरतो नाम न निरुद्धोऽनिरुद्धकः । । ४८ ब्रह्मवेला च तत्पत्नी नित्या चोषा महोत्तमा । स वै लोकहितार्थाय स्वयमर्चावतारकः । । ४९ इति श्रुत्वा विहस्याह यज्ञांशस्तं द्विजोत्तमम् । वेदो नारायणः साक्षात्पूजनीयो नरः सदा । । 3.4.20.५० ततः कालस्ततः कर्म ततो धर्मः प्रवर्तते । धर्मात्मकामः समुद्भूतः कामपत्नी रतिः स्वयम् । । ५१ रत्यां कामात्समुद्भूतोऽनिरुद्धो नामदेवता । उषा सा तस्य भगिनी तेन सार्द्धं समुद्भवा । । ५२ कालो नाम स वै कृष्णो राधा तस्य सहोदरा । कर्मरूपः स वै ब्रह्मा नियतिस्तत्सहोदरा । । ५३ धर्मरूपो महादेवः श्रद्धा तस्य सहोदरा । अनिरुद्धः कथं चेशो भवतोक्तः सनातनः । । ५४ त्रिधा सृष्टिश्च ब्रह्माण्डे स्थूला सूक्ष्मा च कारणा । स्थूलसृष्ट्यै समुद्भूतो देवो नारायणः स्वयम् । । ५५ नारायणी च तच्छक्तिस्तयोर्जलसमुद्भवः । जलाज्जातस्स वै शेषस्तस्योपरि समास्थितौ । । ५६ सुप्ते नारायणे देवे नाभेः पङ्कजमुत्तमम् । अनन्तयोजनायाममुदभूच्च ततो विधिः । । ५७ विधेः स्थूलमयी सृष्टिर्देवतिर्य्यङ्नरादिका । सूक्ष्मसृष्ट्यै समुद्भूतः सोऽनिरुद्ध उषापतिः । । ५८ ततो वीर्यमयं तोयं जातं ब्रह्माण्डमस्तके । वीर्याज्जातस्स वै शेषस्तस्योपरि स चास्थितः । । ५९ तस्य नाभेस्समुद्भूतो ब्रह्मा लोकपितामहः । सूक्ष्मसृष्टिस्ततो जाता यथा स्वप्नेऽपि दृश्यते । । 3.4.20.६० हेतुसृष्ट्यै समुद्भूतो वेदा नारायणः स्वयम् । वेदात्कालस्ततः कर्म ततो धर्मादयः स्मृताः । । ६१ त्वद्गुरुश्च जगन्नाथ उड्रदेशनिवासकः । मया तत्रैव गन्तव्यं सशिष्येणाद्य भो द्विजाः । । ६२ इति श्रुत्वा तु वचनं कृष्णचैतन्यकिङ्कराः । स्वान्स्वाञ्छिष्यान्समाहूय तत्पश्चात्प्रययुश्च ते । । ६३ शाङ्करा द्वादशगणा रामानुजमुपाययुः । नामदेवादयस्तत्र गणास्सप्त समागताः । । ६४ रामानन्दं नमस्कृत्य संस्थितास्तस्य सेवका । रोपणश्च तदागत्य स्वशिष्यैर्बहुभिर्वृतः । । ६५ कृष्णचैतन्यमागम्य नमस्कृत्य स्थितः स्वयम् । जगन्नाथपुरीं ते वै प्रययुर्भक्तितत्पराः । । ६६ निधयः सिद्धयस्तत्र तेषां सेवार्थमागताः । सर्वे च दशसाहस्रा वैष्णवाः शैवशाक्तकैः । । ६७ यज्ञांशं च पुरस्कृत्य जगन्नाथपुरीं ययुः । अर्चावतारो भगवाननिरुद्ध उषापतिः । । ६८ तदागमनमालोक्य द्विजरूपधरो मुनिः । जगन्नाथः स्वयं प्राप्तो यत्र यज्ञांशकादयः । । ६९ यज्ञांशस्तं समालोक्य नत्वा वचनमब्रवीत् । किं मतं भवता ज्ञातं कलौ प्राप्ते भयानके । । 3.4.20.७० तत्सर्वं कृपया ब्रूहि श्रोतुमिच्छामि तत्त्वतः । इति श्रुत्वा तु वचनं जगन्नाथो हरिः स्वयम् । । उवाच वचनं रम्यं लोकमङ्गलहेतवे । । ७१ मिश्रदेशोद्भवा म्लेच्छाः काश्यपेनैव शासिताः । संस्कृता शूद्रवर्णेन ब्रह्मवर्णमुपागताः । । ७२ शिखासूत्रं समाधाय पठित्वा वेदमुत्तमम् । यज्ञैश्च पूजयामासुर्देवदेवं शचीपतिम् । । ७३ दुःखितो भगवानिन्द्रः श्वेतद्वीपमुपागतः । स्तुत्या मां बोधयामास देवमङ्गलहेतवे । । ७४ प्रबुद्धं मां वचः प्राह शृणु देव दयानिधे । शूद्रसंस्कृतमन्नं च खादितुं न द्विजोऽर्हति । । ७५ तथा च शूद्रजनितैर्यज्ञैस्तृप्तिं न चाप्नुयाम् । काश्यपे स्वर्गते प्राप्ते मागधे राज्ञि शासति । । ७६ मम शत्रुर्बलिर्दैत्यः कलिपक्षमुपागतः । निस्तेजाश्च यथाऽहं स्यां तथा वै कर्तुमुद्यतः । । ७७ मिश्रदेशोद्भवे म्लेच्छे सांस्कृती तेन संस्कृता । भाषा देवविनाशाय दैत्यानां वर्द्धनाय च । । ७८ आर्य्येषु प्राकृती भाषा दूषिता तेन वै कृता । अतो मां रक्ष भगवन्भवन्तं शरणागतम् । । ७९ इति श्रुत्वा तदाहं वै देवराजमुवाच ह । भवन्तो द्वादशादित्या गन्तुमर्हन्ति भूतले । । 3.4.20.८० अहं लोकहितार्थाय जनिष्यामि कलौ युगे । प्रवीणो निपुणोऽभिज्ञः कुशलश्च कृती सुखी । । ८१ निष्णातः शिक्षितश्चैव सर्वज्ञः सुगतस्तथा । प्रबुद्धश्च तथा बुद्ध आदित्याः क्रमतो भवाः
जगन्नाथ की महिमा का वर्णन सूत बोले— भट्टोजि, जो शुद्ध आत्मा और शिवभक्ति में लीन था, कृष्णचैतन्य के पास जाकर प्रणाम करके बोला— महादेव ही गुरु हैं, वही सभी प्राणियों के आत्मा रूप शिव हैं। विष्णु और ब्रह्मा भी उनके सेवक हैं, फिर उनके पूजन से क्या लाभ? यह सुनकर, यज्ञांश नामक बीस वर्ष का युवक हँसकर भट्टोजि से बोला—यह शंभु महेश्वर नहीं है। भगवान शंभु शरीरधारियों के कर्ता तो हैं, परंतु विष्णु के बिना वे पालनकर्ता नहीं हैं, शिव सदा संहारक हैं। एक ही मूर्ति तीन रूपों में प्रकट हुई—ब्रह्मा, विष्णु और महेश्वर। शक्ति मार्ग से ब्रह्मा मोक्ष देने वाले हैं। विष्णु वैष्णव मार्ग से जीवों को मोक्ष देते हैं। शंभु शैव मार्ग से शरीरधारियों को मोक्ष देते हैं। शाक्त सदा गृहस्थाश्रम में, यज्ञभुक पितृदेवता में, वानप्रस्थ वैष्णव मार्ग में कंद-मूल खाने वाला, यति सदा रौद्र मार्ग में, निर्गुण और शुद्ध स्वरूप वाला है। ब्रह्मचर्याश्रम इन सबका अनुसरण करता है, वही महान आश्रम है। गुरु का यह वचन सुनकर वह द्विज शिष्य बन गया और पाणिनि द्वारा रचित वेदों के तीसरे अंग का विस्तार किया। गुरु की आज्ञा से सिद्धांत कौमुदी की रचना की और वहीं रहकर दीक्षित होकर कृष्णचैतन्य की सेवा करने लगा।
कलियुगीयेतिहाससमुच्चयवर्णनम् सूत उवाच वैक्रमे राज्यविगते चतुष्षष्ट्युत्तरं मुने । द्वाविंशदब्दशतकं भूतनन्दिस्तदा नृपः । । १ कुबेरयक्षकान्मौनान्धनधान्यसमन्वितान् । सार्द्धलक्षान्कलैर्घोरैर्जित्वा तान्युद्धकारिणः । । २ किल्किलायां स्वयं राज्यं नागवंशैश्चकार ह । आग्नेय्यां दिशि विख्याता पुण्डरीकेण निर्मिता । । ३ पुरी किलकिला नाम तत्र राजा बभूव ह । पुण्डरीकादयो नागास्तस्मिन्राज्यं प्रशासति । । ४ गेहे गेहे जनैस्सर्वैः पूजनीया बभूविरे । स्वाहा स्वधा वषट्कारो देवपूजा महीतले । । ५ त्यक्त्वा देवानुपागम्य संस्थिता मेरुमूर्द्धनि । शक्राज्ञया कुबेरस्तु शूकधान्यं समन्ततः । । ६ यक्षैः षडंशानादाय देवेभ्यः प्रददौ प्रभुः । मणिस्वर्णादिवस्तूनि मौनराज्येषु यानि वै । । ७ दत्तानि तानि कोशेषु पुनर्देवश्चकार ह । मण्डलीकं पदं तेन सत्कृतं भूतनन्दिना । । ८ शतार्द्धं तु ततो राजा शिशुनन्दिर्बभूव ह । नागपूजां पुरस्कृत्य तिरस्कृत्य सुरान्भुवि । । ९ चकार राज्यं विशाब्दं यशोनन्दिस्ततोऽनुजः । भ्रात्रासनं स्वयं प्राप्तो नागपूजापरायणः । । 3.4.23.१० पञ्चविंशतिवर्षाणि स च राज्यमचीकरत् । ततस्तत्तनयो राजा स बभूव प्रवीरकः । । ११ एकादशाब्दं तद्राज्यं कर्मभूम्यां प्रकीर्तितम् । कदाचित्स च बाह्लीके सेनया सार्द्धमागतः । । १२ तत्र तैरभवद्युद्धं पैशाचैर्म्लेच्छदारुणैः । मासमात्रान्तरे म्लेच्छा लक्षसंख्या मृतिं गताः । । १३ तथा षष्टिसहस्राश्च नागभक्ता लयं गताः । बादलो नाम तद्राजा रोमजस्थो महाबलः । । १४ यशोनन्दिनमाहूय ददौ जालवतीं सुताम् । गृहीत्वा म्लेच्छराजस्य सुतां गेहमुपागतः । । १५ गर्भो जातस्ततस्तस्यां बभूव तनयो बली । बाह्लीको नाम विख्यातो नागपूजनतत्परः । । १६ तदन्वये नृपा जाता बाह्लीकाश्च त्रयोदश । चतुश्शतानि वर्षाणि कृत्वा राज्यं मृतिं गताः । । १७ अयोमुखे च बाह्लीके राज्यमत्र प्रशासति । तदा पितृगणास्सर्वे कृष्णचैतन्यमाययुः । । १८ नत्वोचुर्वचनं तत्र भगवञ्छृणु मे वचः । वयं पितृगणा भूपैर्नागवंश्यैर्निराकृताः । । १९ श्राद्धतर्पणकर्माणि तैर्वयं वर्द्धितास्सदा । पितृवृद्धात्सोमवृद्धिस्ततो देवाश्च वर्द्धनाः । । 3.4.23.२० देववृद्धाल्लोकवृद्धिस्तस्माद्ब्रह्मा प्रजापतिः । ब्रह्मवृद्धात्परं हर्षं गेहे गेहे जने जने । । २१ अतोऽस्मान्रक्ष भगवन्प्रजाः पाहि सनातनीः । इति श्रुत्वा वचस्तेषां यज्ञांशो भगवान्हरिः । । २२ पुष्यमित्रं धर्मपरमार्यवशविवर्द्धनम् । । २३ जातमात्रः स वै बालः षोडशार्द्धवयोऽभवत् । अयोनिर्योनिभूतांस्तानयोमुख पुरस्सरान् । । २४ जित्वा देशान्निराकृत्य स्वयं राज्यं गृहीतवान् । यथा शिवांशतो जातो विक्रमो नाम भूपतिः । । २५ शकान्गन्धर्वपक्षीयाञ्जित्वा पूज्यो बभूव ह । नागपक्षांस्तथा भूपान्गोलकास्यान्भयङ्करान् । । २६ पुष्यमित्रस्तदा जित्वा सर्वपूज्योऽभवद्भुवि । सप्तविंशच्छतं वर्षं द्विसप्तत्युत्तरं तथा । । २७ राज्यं विक्रमतो जातं समाप्तिमगमत्तदा । पुष्यमित्रे राज्यपदं प्राप्ते समभवत्तदा । । २८ शतवर्षं राज्यपदं तेन धर्मात्मना धृतम् । अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । । २९ पुरी द्वारवती तेन राज्ञा च पुनरुद्धृताः । कुरुसूकरपद्मानि क्षेत्राणि विविधानि च । । 3.4.23.३० नैमिषोत्पलवृन्दानां वनक्षेत्राणि भूतले । नानातीर्थानि तेनैव स्थापितानि समन्ततः । । ३१ तदा कलिः स गन्धर्वो देवतापितृदूषकः । ब्राह्मणं वपुरास्थाय पुष्यमित्रमुपागमत् । । ३२ नत्वोवाच प्रियं वाक्यं शृणु भूप दयापर । आर्यदेशे पितृगणाः पूजार्हाः श्राद्धतर्पणैः । । ३३ अज्ञानमिति तज्ज्ञेय भुवि यत्पितृपूजनम् । मृता ये तु नरा भूमौ पूर्वकर्मवशानुगाः । । ३४ भवन्ति देहवन्तस्ते चतुराशीतिलक्षधा । छद्मना मयदेवेन पितृपूजा विनिर्मिता । । ३५ वृथा श्रमं वृथा कर्म नृणां च पितृपूजनम् । इति श्रुत्वा वचो घोरं विहस्याह महीपतिः । । ३६ भवान्मूर्खो महामूढो न जानीष परं फलम् । भुवर्लोके न ये दृष्टाः शून्यभूताश्च भास्वराः । । ३७ ये तु ते वै पितृगणाः पिण्डरूपविमानगाः । सत्पुत्रैश्च विधानेन पिण्डदानं च यत्कृतम् । । ३८ तद्विमानं नभोजातं सर्वानन्दप्रदायकम् । अब्दमात्रं स्थितिस्तेषां पिण्डपायसरूपिणाम् । । ३९ गीताष्टादशकाध्यायैः सप्तशत्याश्चरित्रकैः । पावितं यत्तु वै पिण्डं त्रिशताब्दं च तत्स्थितिः । । 3.4.23.४० श्राद्धतर्पणहीना ये दृश्यन्ते मानवा भुवि । ते सर्वे नारका ज्ञेयाः कुलमेकोत्तरं शतम् । । ४१ श्राद्धकर्म महान्धर्मः श्राद्धोऽयं सर्वकारणम् । इति श्रुत्वा स गन्धर्वः कलीराजोऽत्र देहिनाम् । । ४२ नत्वोवाच नृपश्रेष्ठं प्रसन्नवदनो हि सः । सदा भव ममाशु त्वं तवाहं नृप किङ्करः । । ४३ कलिमित्रः पुष्यमित्रो भवान्भुवि भवेत्सदा । यथा विक्रमराजस्य वैतालस्य च वै सखा ।।४४ सर्वकार्यकरोऽहं वै तथा तव न संशयः । इत्युक्त्या च नृपं धीरं समादाय स वै कलिः ।।४५ सप्तद्वीपांस्तथा खण्डान्नभोमार्गाननेकशः । स्वपृष्ठस्थाय राज्ञे च दर्शयामास वीर्यवान् ।।४६ आर्यधर्मं कलौ स्थाप्य नष्टभूतं स वै नृपः । त्यक्त्वा प्राणांश्च यज्ञांशे तेजस्तस्य समागमत् ।।४७ आन्ध्रदेशोद्भवो राजा सुगदो नाम वीर्यवान् । विना भूपं च तं देशं दृष्ट्वा राज्यमचीकरत् ।।४८ विंशदब्दं पदं तेन कर्मभूम्यां च सत्कृतम् । तदन्वये षष्टिनृपा बभूवुर्बहुमार्गिणः ।।४९ पुष्यमित्रगते राज्ये दशोत्तरशतत्रयम् । तस्मिन्काले लयं जग्मुश्चान्ध्रदेशनिवासिनः ।।3.4.23.५० शतार्द्धाब्दं ततो भूमिर्विना राज्ञा बभूव ह । तदा क्षुद्रा नरा लुब्धा लुण्ठिताश्चौरदारुणैः ।।५ १ दारिद्रमगमन्घोरं विना स्वर्णं च भूरभूत् । पुनर्देवश्च भगवान्प्रार्थितस्तानुवाच ह ।।५२ देशे कौशलके जातः सूर्य्यांशाच्य महीपतिः । राक्षसारिरिति ख्यातो देवमार्गपरायणः ।।५३ ममाज्ञया स वै राजा भविष्यति महीतले । इत्युक्त्वान्तर्दधे विष्णुर्देवलोकानुपागमत् ।।५४ राक्षसारिमयोध्यायां स्थापयामासुरेव तम् । आन्ध्रराष्ट्रे च यद्द्रव्यं राक्षसैश्च समाहृतम् ।।५५ तद्द्रव्यं राक्षसाञ्जित्वा ग्रामे ग्रामे चकार सः । तारधातोरष्टमूल्यं सुवर्णं भुवि तत्कृतम् ।।५६ आरधा(ध?)तोः शतं मूल्यं राजतं तेन वै कृतम् । ताम्रधातोः पञ्चमूल्यमारधातोश्च तत्कृतम् ।।५७ नागधातोः पञ्चमूल्यं भुवि तेनैव निर्मितम् । ताम्रं पवित्रमधिकं नागो वङ्गस्तथोत्तमः । । ५८ लौहधातोः शतं मूल्यं वङ्गोऽसौ तेन सत्कृतः । शतार्द्धाब्दं महीं भुक्त्वा सूर्यलोकमुपाययौ । । ५९ तदन्वये षष्टिनृपा जाता वेदपरायणाः । पुष्यमित्रगते राज्ये चाब्दे सप्तशते गते । । 3.4.23.६० कौशलान्वयसम्भूता भूपाः स्वर्गमुपाययुः । शतार्द्धाब्दं ततो भूमिर्मण्डलीकं नृपं विना । । ६१ क्षुद्रभूपाश्च बुभुजे देशे देशे च भार्गवः । ततो बैदरदेशीयो नाम्ना भूपो विशारदः । । ६२ आर्यदेशमुपागम्य लक्षसैन्यसमन्वितः । क्षुद्रभूपान्वशीकृत्य मण्डलीको बभूव ह । । ६३ नानाकलैश्च कर्माणि विचित्राणि महीतले । ग्रामे ग्रामे नराश्चकुर्वर्णसङ्करकारकाः । । ६४ ब्रह्मक्षत्रमयो वर्णो नाममात्रेण दृश्यते । वैश्यप्राया नरा आर्याः शूद्रप्रायाश्च कारिणः । । ६५ तद्राष्ट्रे मनुजाश्चासन्नाममात्रं सुरार्चकाः । षष्टिवर्षं पदं तेन कर्मभूम्यां च सत्कृतम् । । ६६ ततो नृपा महीं प्राप्ताः षट्सङ्ख्यास्तु तदन्वयाः । पुष्यमित्रगते राष्ट्रे शतषोडशहायनी । । ६७ वैदूरा निधनं जग्मुः कलिकाले भयानके । चतुश्शतानि वर्षाणि क्षुद्ररूपा च भूरभूत् । । ६८ तत्पश्चान्नैषधे राष्ट्रं कालमाली नृपोऽभवत् । क्षुद्रभूपान्वशीकृत्य स्वयं राजा बभूव वै । । ६९ यमाभूया भुवि त्वष्ट्रा नगरी यमुनातटे । निर्मिता योजनायातु कालकालेति विश्रुता । । 3.4.23.७० तत्रार्यदेश भूपानां पूज्यो राजा स चाभवत् । देवान्पितॄंस्तिरस्कृत्य प्रेतपूजां जने जने । । ७१ कालमाली च कृतवान्देशनैषधसंस्थितः । द्वात्रिंशद्वर्षराज्यं तद्बभूव जनपीडनम् । । ७२ तदन्वये षष्टिनृपा बभूवुः प्रेतपूजकाः । शताब्दांतमभूद्राज्यं तेषां नैषधदेशिनाम् । । ७३ सहस्राब्दं तु तत्पश्चात्क्षुद्रभूपा मही ह्यभूत् । सुरार्चनं वेदमार्गः श्रुतमात्रश्च दृश्यते । । ७४ पुष्यमित्रगते राज्ये चैकत्रिंशच्छते कलौ । द्वात्रिंशदुत्तरे चैव तदा देवाश्च दुःखिताः । । ७५ कृष्णचैतन्यमागम्य नत्वोचुर्वचनं प्रियम् । भगवन्कलिकालेऽद्य वर्णाश्चत्वारिभूतले
स्वायंभुवांतरे यद्वै जांतंजातं चतुर्युगम्
स्वायंभुव मन्वंतर में, जो भी जन्मा, वह चारों युगों में जन्मा।
लक्षाब्दं वै सत्ययुगे त्रेतायामयुताब्दकम्
सत्ययुग में मनुष्यों की आयु एक लाख वर्ष थी, त्रेतायुग में दस हज़ार वर्ष।
स्वारोचिषेऽन्तरे ऐव जातंजातं चतुर्युगम्
स्वारोचिष मन्वंतर में भी, जो भी जन्मा, वह चारों युगों में जन्मा।
त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम्
त्रेता में आयु उसका आधा रही, द्वापर में फिर उसका आधा।
औत्तमस्यान्तरे चैव सत्ये षष्टिसहस्रकम् 3.4.25.
उत्तम मन्वंतर में, सत्ययुग में मनुष्यों की आयु साठ हज़ार वर्ष थी।
कलौ सार्द्धसहस्राब्दं नृणामायुः प्रकीर्तितम्
कलियुग में मनुष्यों की आयु डेढ़ हज़ार वर्ष कही गई है।
नृणामायुः सत्ययुगे त्रेतायां च तदर्द्धकम्
सत्ययुग में मनुष्यों की आयु जितनी थी, त्रेता में उसका आधा रही।
रैवतान्तरके चैव सत्ये त्रिंशत्सहस्रकम्
रैवत मन्वंतर में, सत्ययुग में मनुष्यों की आयु तीस हज़ार वर्ष थी।
कलौ चाष्टशताब्दायुर्नृणां वेदैः प्रकीर्तितम्
कलियुग में मनुष्यों की आयु आठ सौ वर्ष वेदों में बताई गई है।
त्रेतायां त्रिसहस्राब्दं द्वापरे द्विसहस्रकम्
त्रेतायुग में तीन हज़ार वर्ष, द्वापर में दो हज़ार वर्ष आयु थी।
वैवस्वतेन्तरे चैव सत्ये तुर्यसहस्रकम्
वैवस्वत मन्वंतर में, सत्ययुग में मनुष्यों की आयु चार हज़ार वर्ष थी।
कलौ शताब्दकं प्रोक्तमायुर्वेदैस्तथा नृणाम्
कलियुग में मनुष्यों की आयु वेदों के अनुसार सौ वर्ष कही गई है।
आयुः सत्ये तदर्द्धं तु त्रेतायां च प्रकीर्तितम्
सत्ययुग में आयु उसका आधा रही, त्रेतायुग में भी यही कहा गया है।
ब्रह्मसावर्णिके चैव सत्ये दशसहस्रकम्
ब्रह्मसावर्णि मन्वंतर में, सत्ययुग में मनुष्यों की आयु दस हज़ार वर्ष थी।
कलौ चैव तदर्द्धाब्दं नृणामायुः प्रकीर्तितम् 3.4.25.
कलियुग में मनुष्यों की आयु पहले बताई गई आयु की आधी कही गई है।
रुद्रसावर्णिके चैव सत्ये चाष्टसहस्रकम्
रुद्रसावरिणि और सत्य युग में मनुष्यों की आयु आठ हज़ार वर्ष मानी गई है।
कलौ तदर्द्धकं ज्ञेयं नृणामायुः पुरातने
कलियुग में प्राचीन मनुष्यों की आयु भी उसी का आधा समझना चाहिए।
भौम मन्वंतरे चैव सत्ये तुर्यसहस्रकम्
भौम मन्वंतर और सत्य युग में मनुष्यों की आयु चार हज़ार वर्ष थी।
कलौ तदर्द्धकं ज्ञेयं नरायुश्चार्षसम्मतम्
कलियुग में, जैसा ऋषियों ने स्वीकार किया है, मनुष्य की आयु उसका आधा मानी जाती है।
त्रेतायां त्रिशताब्दं च द्वापरे तु तदर्द्धकम्
त्रेता युग में मनुष्य की आयु तीन सौ वर्ष थी और द्वापर में उसका आधा।
मन्वंतरे तु यन्नाम्ना भूपाश्चासंश्चतुर्युगे
हर मन्वंतर में, जिन राजाओं के नाम प्रसिद्ध हुए, वे चारों युगों में हुए।
एवमन्यत्र वै ज्ञेयं युगे तुर्ये मनौ मनौ
इसी प्रकार, हर चौथे युग में, हर मनु के समय में भी यही समझना चाहिए।
युगांते कर्मभूमेश्च लयः कल्पः स वै स्मृतः
युग के अंत में, कर्मभूमि का जो संहार होता है, वही कल्प कहलाता है।
पुराण पुरुषस्यैव दिनान्ते प्रलयो हि यः
पुरातन पुरुष के दिन के अंत में जो प्रलय होता है, वही प्रलय माना गया है।
षड्विंशत्कल्पसाहस्रैर्महाकल्पो हि यः स्मृतः 3.4.25.
छब्बीस हज़ार कल्पों से जो महाकल्प बनता है, वही महाकल्प कहा गया है।
तदा ब्रह्मा सुरैः सार्द्धं भूपं स्वायंभुवं गतः
तब ब्रह्मा देवताओं के साथ राजा स्वायंभुव के पास गए।
सूत बोले— राज्य के पतन के समय, भूतनन्दि नामक राजा ने पच्चीस वर्ष तक राज्य किया।
कलियुगीयेतिहाससमुच्चयवर्णनम् व्यास उवाच चतुर्थचरणे जातैर्मनुजैरेकविंशतिः । अजीर्णभूता नरका यास्यन्ति च यमालयम् । । १ नमस्ते धर्मराजाय नश्च तृप्तिकराय च । वचनं शृणु सर्वज्ञ नश्च जातमजीर्णकम् । । २ यथा भजाम प्रकृतिं तथा कुरु सुरोत्तम । इति श्रुत्वा धर्मराजश्चित्रगुप्तेन संयुतः । । ३ ब्रह्माणं च गमिष्यन्ति सन्ध्यायां च कलौ युगे । चतुरश्च यमान्दृष्ट्वा परमेष्ठी पितामहः । । ४ तदीरितं स्वयं ज्ञात्वा क्षीराब्धिं प्रति यास्यति । पूजयित्या जगन्नाथं देवदेवं वृषाकपिम् । । ५ साङ्ख्यशास्त्रमयैः स्तोत्रैः संस्तोष्यति परम् प्रभुम् । । ६ जय जय जय निर्गुण गुणधारिन्रगजगजीवतत्त्वशुभकारिन् । सारभूतसद्गुणमय तत्त्वैर्देवान्रचयति पाति गुणसत्त्वैः । । तस्मै नमो नमो गुणराशे देववृन्दहृदि कृष्णविकाशे । । ७ रजोभूततत्त्वेभ्य उताशु विरचति भुवि च नरान्स्वयमाशु । पाति हन्ति यो देव उदारस्तस्य शिरसि संस्थितजगभारः । । पाहि नाथ नो दैत्यविनाशिन्कालजनितलीलागुणभासिन् । । ८ तेषामिति वचनं प्रभुः श्रुत्वा ह्यवनिमिवाशु । यथा जनिष्यति स प्रभुस्तच्छृणु वै मन आशु । । ९ ? नम्रीभूतान्तुरान्विष्णुर्नमोवाक्येन तान्प्रति । वदिष्यति वचो रम्यं लोकमङ्गलहेतवे । । 3.4.25.१० भोः सुराः सम्भलग्रामे कश्यपोऽयं जनिष्यति । नाम्ना विष्णुयशाः ख्यातो विष्णुकीर्तिस्तु तत्प्रिया । । ११ कृष्णलीलामयं ग्रन्थं नरांस्ताञ्छ्रावयिष्यति । तदा ते नन्दिनो भूत्वा चैकीभूय समन्ततः । । १२ तं द्विजं विष्णुयशसं गृहीत्वा निगडैर्दृढैः । बद्ध्वा सर्वे सपत्नीकं कारागारे दृढायसे । । १३ करिष्यन्ति महाधूर्ता नारका इव दारुणाः । विष्णुकीर्त्या स भगवान्पूर्णो नारायणो हरिः । । १४ जनिष्यति महाविष्णुः सर्वलोकशिवङ्करः । निशीथे तमसोद्भूते मार्गकृष्णाष्टमीदिने । । १५ ब्रह्माण्डं मङ्गलं कुर्वन्सुराः प्रादुर्भविष्यति । ब्रह्म विष्णुर्हरश्चैव गणेशो वासवो गुरुः । । १६ वह्निः पितृपतिः पक्षो वरुणः सविभीषणः । चित्रो वायु्र्ध्रुवो विश्वे रविः सोमः कुजो बुधः । । १७ गुरुः शुक्रः शनिः राहुः केतुस्तत्र गमिष्यति । पद्यैकैकेन ते देवाः स्तोष्यन्ति परमेश्वरम् । । १८ महत्तमा मूर्तिमयी तवाजा तदास्य पूर्वाज्जनितोहऽमादौ । मया ततं विश्वमिदं सदैव यतो नमस्तत्पुरुषोत्तमाय । । १९ अजस्य याम्याज्जनितोऽहमादौ विष्णुर्महाकल्पकरोऽधिकारी । स्वकीयनाम्ना तु मया ततं तद्विश्वे सदैवं च नमो नमस्ते । । 3.4.25.२० अव्यक्तपाश्चात्यमुखात्सुजन्मा शिवोऽहमादौ सुरतत्त्वकारी । मया महाकल्पकरस्तृतीया त्वदाज्ञया देव नमो नमस्ते । । २१ प्रधानवक्त्रोत्तरतोऽहमादौ जातो गणेशः किल कल्पकर्ता । मया ततं विश्वमिदं सदैव तस्मै नमः कारुणिकोत्तमाय । । २२ अजार्द्धवक्त्राज्जनितोऽहमादौ मरुन्महाकल्पकरो महेन्द्रः । मया ततं विश्वमिदं स्वकल्पे यदाज्ञया देव नमो नमस्ते । । २३ प्रथानभालाक्षिसमुद्भवोऽहं वह्नेर्महाकल्पकरो गुहाख्यः । विनिर्मितं विश्वमिदं मया तद्यदाज्ञया नाथ नमो नमस्ते । । २४ अजामुखात्पूर्वगताच्च जातश्चादौ महाकल्पकरोऽहमग्निः । ब्रह्माण्डमेतच्च मया ततं वै ब्रह्माण्डकल्पाय नमो नमस्ते । । २५ अजाभुजाद्दक्षिणतोऽहमादौ जातो महाकल्पककरः सधर्मः । मया सदेवै रचितं समग्रं लिङ्गाख्यकल्पाय नमो नमस्ते । । २६ अजाभुजात्पश्चिमतोऽहमादौ जातो महाकल्पकरः स यज्ञः । मया ततं विश्वमिदं समग्रं मत्स्याख्यकल्पाय नमो नमस्ते । । २७ प्रधानबाहूत्तरतोऽहमादौ जातो महाकल्पकरः प्रचेताः । मया ततं नाथ तवाज्ञयेदं कर्माख्यकल्पाय नमो नमस्ते । । २८ ब्रह्माण्डतमसो जातस्त्वद्दासोऽहं विभीषणः । मया ततं त्रिलोकं च नमस्ते मनुरूपिणे । । २९ ब्रह्माण्डसद्गुणाज्जातश्चित्तोऽहं मनुकारकः । मया ततं च त्रैलोक्यं स्वायम्भुव नमोऽस्तु ते । । 3.4.25.३० ब्रह्माण्डरजसो जातो वायुर्मन्वन्तरं ततम् । मया स्वारोचिषं स्वामिन्नमस्ते मनुरूपिणे । । ३१ ब्रह्माण्डमनसो जातो ध्रुवोऽहं मनुकारकः । मयोत्तमं च रचितं नमस्तेऽस्तु तवाज्ञया । । ३२ ब्रह्माण्डश्रवणाज्जातो विश्वकर्माहमीश्वरः । मया ततं रैवतं च नमो देव तवाज्ञया । । ३३ ब्रह्माण्डदेहतो जातस्सूर्योऽहं चाक्षुषप्रदः । तवाज्ञया ततं विश्वं मनुरूपाय ते नमः । । ३४ ब्रह्माण्डनेत्रतो जातः सोमोऽहं तु मया ततम् । वैवस्वतान्तरं रम्यं नमस्ते मनुरूपिणे । । ३५ ब्रह्माण्डरसनाज्जातो मोहोऽहं मनुकारकः । नमस्ते मनुरूपाय मया सावर्णिकं ततम् । । ३६ ब्रह्माण्डघ्राणतो जातो बुधोऽहं नाथ किङ्करः । निर्मितं ब्रह्मसावर्णं मया तात नमो नमः । । ३७ ब्रह्माण्डवक्त्रतो जातो जीवोऽहं मनुकारकः । मया वै दक्षसावर्णं ततं तत्ते नमो नमः । । ३८ ब्रह्माण्डकरतो जातः शुक्रोहं तव किङ्करः । निर्मितं रुद्रसावर्णं मया तुभ्यं नमो नमः । । ३९ ब्रह्माण्डपदतो जातोमन्दोऽहं नाथ तेऽनुगः । ततं वै धर्मसावर्णं प्रभातेस्मै नमो नमः । । 3.4.25.४० ब्रह्माण्डलिङ्गतो जातो राहुश्चाहं तव प्रियः । मया भौमं कृतं नाथ नमस्ते मनुरूपिणे । । ४१ ब्रह्माण्डगुह्यतो जातः केतुश्चाहं तवानुगः । भौतं मन्वतरं सृष्टं तस्मै देवाय ते नमः । । ४२ व्यास उवाच इति तेषां स्तवान्स्वामी श्रुत्वा देवान्वदिष्यति । वरं ब्रूहीति वचनं ततं प्रति मनुः क्रमात् । ।४ ३ इति कृत्वा तु ते देवा बालरूपं हरिं स्वयम् । नमस्कृत्य वदिष्यन्ति वाञ्छितं लोकहेतवे । । केयं भवान्ब्रूहि लोकानां कल्पे कल्पे तमुद्भवम् । तथा मन्वन्तरे चैव श्रोतुमिच्छामहे वयम् । ।४५ कल्क्युवाच अष्टादश महाकल्पाः प्रकृतेश्च तनौ स्थिताः । आद्यो ब्रह्ममहाकल्पस्तत्र ब्रह्मा परः पुमान् । ।४६ तत्पूर्वार्द्धात्समुद्भूतास्त्रयस्त्रिंशच्च देवताः । परार्द्धाद्भगवान्ब्रह्मा योगिध्येयो निरञ्जनः । ।४७ तस्मिन्कल्पे तु या लीला ब्रह्मपौराणिकैः स्मृता । शतकोटिप्रविस्तारो ब्रह्मपौराणिकस्य वै । ।४८ पुराणपुरुषस्यान्ते महाकल्पः स्मृतो बुधैः । ब्रह्माण्डप्रलये कल्पो युगदैवसहस्रकः । ।४ ९ कल्पाश्चाष्टादश ख्यातास्तेषां नामानि मे शृणु । कूर्मकल्पो मत्स्य कल्पः श्वेतवाराहकल्पकः । । 3.4.25.५० नृसिंहकल्पश्च तथा तथा वामनकल्पकः । स्कन्दकल्पो रामकल्पः कल्पो भागवतस्तथा । । ५१ तथा मार्कण्डकल्पश्च तथा भविष्यकल्पकः । लिङ्गकल्पस्तथा ज्ञेयस्तथा ब्रह्माण्डकल्पकः । । ५२ अग्निकल्पो वायुकल्पः पद्मकल्पस्तथैव च । शिवकल्पो विष्णुकल्पो ब्रह्मकल्पस्तथा क्रमात् । । ५३ द्विसहस्रमितावर्तैरेषां कल्पो महान्स्मृतः । सहस्रयुगपर्यन्तं ब्रह्माण्डायुः प्रकीर्तितम् । । ५४ यन्नाम्ना च स्मृतः कल्पस्तस्माज्जातो विराडयम्
व्यास बोले— चौथे चरण में जन्मे मनुष्यों में से इक्कीस ऐसे होंगे, जो अपवित्र होकर नरक में, यम के घर चले जाएंगे। धर्मराज को नमस्कार है, जो हमें तृप्ति देने वाले हैं। हे सर्वज्ञ, हमारा जो अपवित्र जन्म हुआ है, वह सुनिए। जैसे हम प्रकृति की पूजा करते हैं, वैसे ही आप भी करें, हे श्रेष्ठ देवता। यह सुनकर धर्मराज चित्रगुप्त के साथ ब्रह्मा के पास जाएंगे और कलियुग की संध्या में चारों यमों को देखकर स्वयं परमेष्ठी पितामह ब्रह्मा यह जानकर क्षीरसागर की ओर जाएंगे। वे जगन्नाथ, देवों के देव वृषाकपि की पूजा करेंगे और सांख्यशास्त्र के स्तोत्रों से परम प्रभु की स्तुति करेंगे— जय जय जय, हे निर्गुण, गुणों के धारक, नर, गज, जीव और तत्वों के कल्याणकर्ता! आप ही सच्चे गुणों के सारभूत हैं, तत्वों से देवताओं की रचना करते हैं, गुणों से पालन करते हैं। आपको बार-बार नमस्कार, हे गुणों के भंडार, देवसमूह के हृदय में कृष्ण रूप से प्रकट होने वाले! रजोगुण से तत्वों की रचना कर, शीघ्र ही पृथ्वी पर मनुष्यों को उत्पन्न करते हैं, पालन करते हैं, संहार करते हैं, वही देवता हैं, जिनके सिर पर जगत का भार है। हे नाथ, दैत्यों का नाश करने वाले, कालजनित लीला के गुणों से प्रकाशित, हमारी रक्षा कीजिए। उनका यह वचन सुनकर प्रभु बोले—जैसे वह प्रभु जन्म लेंगे, वह सुनो। विष्णु, नम्र होकर, उन्हें नमस्कार कर सुंदर वचन कहेंगे, जो लोकमंगल के लिए होगा— हे देवताओं, संभल ग्राम में कश्यप नामक पुरुष जन्म लेंगे, जिनका नाम विष्णुयश होगा और उनकी पत्नी विष्णुकीर्ति होगी। वह कृष्णलीला से भरा ग्रंथ लोगों को सुनाएंगे। तब वे सब नंदी बनकर, एक होकर चारों ओर फैल जाएंगे। उस द्विज विष्णुयश को पकड़कर, उसकी पत्नी सहित, सब लोग लोहे की मजबूत बेड़ियों में बांधकर कारागार में डाल देंगे। वे महाधूर्त, दुष्ट नरकों के समान, ऐसा करेंगे। विष्णुकीर्ति से भगवान पूर्ण नारायण हरि जन्म लेंगे, जो महाविष्णु, सभी लोकों का कल्याण करने वाले होंगे। अमावस्या की रात, मार्गशीर्ष कृष्ण अष्टमी को, जब अंधकार छाया होगा, तब वे देवताओं के मंगल के लिए प्रकट होंगे। ब्रह्मा, विष्णु, हर, गणेश, इंद्र, गुरु, अग्नि, पितृपति, कार्तिकेय, वरुण, विभीषण, चित्रगुप्त, वायु, ध्रुव, विश्वेदेव, रवि, सोम, मंगल, बुध, गुरु, शुक्र, शनि, राहु, केतु—ये सब एक-एक पद्य से परमेश्वर की स्तुति करेंगे। (इसके बाद देवताओं के स्तुति-पद हैं, जो हर एक अपने-अपने रूप, कार्य और कल्प के अनुसार प्रभु को नमस्कार करते हैं।) इन सबकी स्तुतियाँ सुनकर स्वामी देवताओं से कहेंगे—वर माँगो। तब मनु क्रमशः प्रभु से वर माँगेंगे। फिर वे देवता, बालरूप में स्वयं हरि को प्रणाम कर, लोक के कल्याण के लिए अपनी इच्छा प्रकट करेंगे— 'आप कौन हैं, कृपया बताइए। हर कल्प और मन्वंतर में आपका जन्म कैसे होता है, हम सुनना चाहते हैं।' कल्कि बोले— अठारह महाकल्प प्रकृति के शरीर में स्थित हैं। पहला ब्रह्मा महाकल्प है, जिसमें ब्रह्मा ही परम पुरुष हैं। उसके पूर्वार्ध से तैंतीस देवता उत्पन्न हुए। परार्ध से भगवान ब्रह्मा, जो योगियों द्वारा ध्यान किए जाते हैं, प्रकट होते हैं। उस कल्प में जो लीला ब्रह्मपुराणों में कही गई है, वह सौ करोड़ योजन तक फैली है। पुराणपुरुष के अंत में महाकल्प कहा गया है। ब्रह्मांड के प्रलय में कल्प, युग, देवताओं के हजारों वर्षों के बराबर होता है। अठारह कल्प प्रसिद्ध हैं, उनके नाम सुनो—कूर्मकल्प, मत्स्यकल्प, श्वेतवाराहकल्प, नरसिंहकल्प, वामनकल्प, स्कंदकल्प, रामकल्प, भागवतकल्प, मार्कंडेयकल्प, भविष्यकल्प, लिंगकल्प, ब्रह्मांडकल्प, अग्निकल्प, वायुकल्प, पद्मकल्प, शिवकल्प, विष्णुकल्प, ब्रह्मकल्प। इन सब कल्पों का काल दो हजार आवर्तनों का है। एक कल्प में हजार युग होते हैं, उतना ही ब्रह्मांड का आयुष्य कहा गया है। जिस नाम से कल्प प्रसिद्ध है, उसी से विराट पुरुष की उत्पत्ति होती है।