गुडोदकेन नैवेद्यं निवेद्यं प्रीतये रवेः जपन्भौमं परं जाप्यं विनिद्रः सततं बुधः।।४ शतानीक उवाच किं तत्परं भगवतः प्रियं जाप्यमनुत्तमम् । । ५ जप्तव्यो यत्परैर्भक्त्या भानुस्तस्याग्रतो नरैः । तन्मे ब्रूहि तथा मन्त्रान्धूपदीपान्विशेषतः । । येनाहं तं जपञ्जप्यं पूजयामि दिवाकरम् । । ६ सुमन्तुरुवाच वच्मि ते भरतश्रेष्ठ समासान्न तु विस्तरात् । । ७ षडक्षरेण मन्त्रेण कुर्यात्सर्वं समाहितः । जपं होमं तथा पूजां शतजप्तेन सर्वदा । । ८ सावित्र्या च जपं पूर्वं कृत्वा शतसहस्रशः । पश्चात्सर्वं प्रकुर्वीत जपादिकमनाकुलम् । । ९ ॐ भोः सावित्रि भास्कराय सहस्ररश्मि धीमहि । तेन सूर्यः प्रचोदयात् । । 1.210.१० जप एव परः प्रोक्तः सप्तम्यां भानुना स्वयम् । जप्त्वा सकृद्भवेत्पूतो मानवो नात्र संशयः । । ११ प्रभाते त्वथ सप्तम्यां जपन्नियतमानसः । पूजयेद्भान्करं भक्त्या पूर्वोक्तविधिना नृप । । १२ श्रद्धया भोजयेच्चापि ब्राह्मणाञ्छक्तितो नृप । दिव्यान्भोगांश्च विधिवद्भक्ष्यभोज्यैरनेकशः । । १३ वित्तशाठ्यं न कुर्वीत भोजकांश्च प्रभोजयेत् । न भोजयेत्तथाऽसौरान्सौरान्यत्नेन भोजयेत् । । १४ शतानीक उवाच के भोज्या के न वा भोज्या ब्राह्मणा ब्रह्मवित्तम । केषु चित्तेषु सप्तम्यां देवदेवो दिवाकरः । । १५ घटीभोज्यो भवेद्विप्रः सप्तमीं कुरुते च यः । सौरभिन्नेष्वभोज्यो यो यश्च भुक्तो दिवाकरे । । १६ एते भोज्या द्विजा राजन्नादित्येन समासतः । प्रोक्ताः कुरुकुलश्रेष्ठ तथाऽभोज्याञ्छृणुष्व वै । । १७ सभार्यः सपतिर्यस्तु कुष्ठरोगैर्हतश्च यः । यश्चान्यदेवताभक्तस्तथा नक्षत्रसूचकः । । १८ परापवादनिरतो यश्च देवलकस्तथा । एतेऽभोज्याः सवित्रा तु स्वयं देवेन चिन्तिताः । । १९ शतानीक उवाच ये भोज्या ब्राह्मणाः प्रोक्ता ये चाभोज्या द्विजोत्तमाः । एतेषां लक्षणं ब्रूहि सर्वेषां वै समाहितः । । 1.210.२० सुमन्तुरुवाच साधु पृष्ठोऽस्मि राजेन्द्र कीर्तयाम्येव कृत्स्नशः । पठतां तु त्रयी विद्यां ब्राह्मणानां कदम्बकः । । २१ घटेत्युक्ता तु सा राजन्स्वयं देवेन भानुना । सा घटा विद्यते यस्य स घटीत्युच्यते द्विजैः । । २२ ब्रह्मक्षत्रविशां वीर शूद्राणां च कदम्बकः । शृण्वतां विधिवत्पुण्यं भक्त्या पुस्तकवाचनम् । । २३ इति मासे निबद्धस्य होमस्येति च भानुना । कथितं कुरुशार्दूल स्वयमाकाशगामिना । । २४ यस्याः कर्ता भवेद्यस्तु मम स्यात्करको मतः । स विप्रो राजशार्दूल सदेष्टो भास्करस्य तु । । २५ जयोपजीवी व्यासश्च समः स्याज्जीवकस्तथा । यान्येतानि पुराणानि सेतिहासानि भारत । । जयेति कथितानीह स्वयं देवेन भास्वता । । २६ एकं निवासयन्यस्तु ब्राह्मणं तूपजीवति । जयोपजीवी स ज्ञेयो वाचकश्च तथा नृप । । २७ आरुणेयादिशास्त्राणि सप्ताश्वतिलकं तथा । यश्च जानाति सौराणि विप्रः सौरस्स तत्त्ववित् । । २८ पूजयेत्सततं यस्तु भास्करं नृपसत्तम । भोजकांश्च तथा राजन्यथा देवं दिवाकरम् । । २९ स ज्ञेयो भास्करे भक्तो भोजनीयः प्रयत्नतः 1.210.
Offering food made with jaggery water as oblation for the delight of the Sun, the wise should recite the supreme prayer for Mars, remaining ever wakeful.
वृषली यस्य वै भार्या ब्राह्मणस्य विशेषतः
A brāhmaṇa whose wife is a vṛṣalī, especially,
दैवेन निहतः कुष्ठी ब्राह्मणो ब्रह्मघातकः
A brāhmaṇa afflicted by leprosy due to fate, or a killer of a brāhmaṇa,
ज्ञेयोन्यदेवभक्तोसौ स विप्रः कुरुनंदन
Know that brāhmaṇa who is devoted to other deities, O descendant of Kuru,
नादित्यं पूजयेद्यस्तु स भोज्यो न कदाचन
He who does not worship Āditya should never be given food.
यस्य याति गृहे राजन्भोजको मानवस्य तु
O King, when a person receives a guest in his house,
रक्षोभूतपिशाचाश्च योगिन्योपि पलायिताः
Demons, spirits, and witches, as well as yoginis, have fled.
सप्तसंवत्सरं यावतृप्तो भवति भास्करः यस्तु तान्निंदते विप्रः स न भोज्यः कदाचन
For seven years, the Sun is satisfied; but the Brahmin who mocks them must never be given food.
निजं भर्तारमुत्सृज्य स्वैरं यान्यत्र गच्छति
A woman who abandons her own husband and goes elsewhere of her own accord—
प्रच्छन्नं रोचते राजन्या नारी भवदोषतः
A royal woman, due to her own fault, delights in secret affairs.
योऽस्यां रतो भवेद्विप्रः स ज्ञेयः स्वैरिणीरतः 1.210.
The Brahmin who takes pleasure with such a woman should be known as one who associates with the unchaste.
रंगोपजीवी राजेंद्र तथा च बहुयाचकः कृतेनानेन यादृक्च उद्वृत्तः कुरुनंदन
O king, one who makes a living from the stage, and one who begs from many, by such acts becomes arrogant, O descendant of Kuru.
यः स्तुतिं गायते विप्रः प्रोच्चैस्तु जनसंसदि
A Brahmin who sings praises loudly in the midst of people—
सूचनं कथनं प्रोक्तं सर्वशास्त्रेषु भारत
This indication and statement has been declared in all the scriptures, O Bharata.
वेदांगं ज्योतिःशास्त्रं तु षष्ठं प्रोक्तं मनीषिभिः
The science of astrology, as an auxiliary of the Veda, is said by the wise to be the sixth.
षडंगो न भवेत्तेन रहितेन द्विजेन च
Without that, a twice-born is not complete in the six limbs.
भोज्योऽखण्डं ययौ विप्रोऽनर्थकेन त्वनर्थकम्
A Brahmin who partakes of food without purpose, that food becomes useless.
यस्य जीव्यमिदं ज्ञेयमंगं विप्रस्य वै भवेत्
This should be known as the essential livelihood of a Brahmin.
सांवत्सरेण ज्योतिषा ज्ञाननक्षत्रसूचकः
In a year, through astrology, the knowledge of the stars is indicated.
निष्कारणं पराणां च परोक्षं दोषकीर्तनम्
To proclaim the faults of others without cause and in their absence—
ब्राह्मणो यस्तु राजेंद्र वृत्त्या कर्म करोति वै 1.210.
O king, a Brahmin who performs actions for livelihood—
आधिपत्यं भक्षणं च नैवेद्यस्य परंतप
Sovereignty and the consumption of offerings, O scorcher of foes—
नाधिकारस्तु विप्राणां भौमानां देवपूजने
There is no authority for Brahmins of the earth in the worship of the gods.
यस्तु पूजयते देवीं ब्राह्मणो द्रव्यलोभतः
A Brahmin who worships the goddess out of greed for wealth—
देवालयेषु सर्वेषु अग्निकार्यं च सुव्रत
O virtuous one, all fire rituals in temples—
देवालयेषु सर्वेषु वर्जयित्वा शिवालयम्
—in all temples, except for the temple of Shiva—
अधिकारः स्मृतो राजन्भोजकानां न संशयः
The right, O king, is declared to belong to the officiants, without doubt.
नैवेद्यं भुञ्जते यस्माद्भोजयंति च भास्करम्
Because they partake of the offerings and cause them to be offered to the Sun.
पूजयित्वा तु वै देवान्नैवेद्यं भक्ष्य च प्रभोः
Having worshipped the gods, the offerings and food are for the Lord.
ब्राह्मणश्चापि तं ब्रूया त्तीक्ष्णे सति महामते
And the Brahmin should say this, O wise one, if there is insistence.