प्रथमं यद्भवेद्द्वारं धर्मार्थाभ्यां समाश्रितम्
The first gate, which is supported by righteousness and wealth, is established.
द्वितीयायां तु कक्षायामप्रधृष्टौ व्यवस्थितौ
In the second enclosure, two unassailable ones are stationed.
वर्णस्य शबलत्वाच्च यमः कल्माष उच्यते
Because of the variegated color of his form, Yama is called 'Kalmasha' (the dark one).
स्थितो दक्षिणत तस्य दंडहस्तसमन्वितः
He stands to his right, furnished with a staff in hand.
कुबेरो धनदो ज्ञेयो हस्तिरूपो विनायकः कुबेरः कुशरीरत्वात्स नाम्ना धनदः स्मृतः
Kubera, known as the giver of wealth, is recognized as the elephant-faced Vinayaka; Kubera, because of his deformed body, is remembered by the name 'giver of wealth.'
नायकः सर्वसत्त्वानां तेन नायक उच्यते
He is the leader of all beings; therefore, he is called 'Nayaka.'
रैवतश्चैव दिंडिश्च तौ रवेः पूर्वतः स्थितौ 1.124.
Raivata and Dindi, both, are stationed to the east of the Sun.
प्लुतं गच्छत्यसौ यस्मात्सर्वलोकनमस्कृतः
Because he moves swiftly, he is honored by all the worlds.
डीङ्गतावस्य वै धातोर्दिंडिशब्दो निपात्यते
For the state of 'ḍiṅgati' of the root, the word 'diṇḍi' is used.
इत्येते प्रवराः प्रोक्ता धात्वर्था नैगमैः शुभैः
Thus these eminent meanings of the roots have been declared by the auspicious Vedic authorities.
अश्विनौ तौ ततो ज्ञेयौ दंडनायकपिंगलौ
Therefore, the two Aśvins should be understood as Daṇḍanāyaka and Piṅgala.
रेवतश्चैव दिंडिश्च इत्येते प्रवरा मया
Revata and Diṇḍi—these eminent ones have been described by me.
इत्येभिर्नामभिस्त्वन्ये दानवानां जिघांसया
By these names, others, with the intention to destroy the Dānavas,
सरूपाश्चान्यरूपाश्च विरूपाः कामरूपिणः
both those with similar forms and those with different forms, those deformed and those who can assume any form at will,
धातुर्दिविति वै प्रोक्तो क्रीडायां स तु उच्यते
The root 'div' is indeed spoken of in the sense of play; thus it is stated.
ऋचो यजूंषि सामानि यान्युक्तानीह वै मया
The Ṛg, Yajur, and Sāma Vedas that have been mentioned here by me,
ते श्रुत्वाराध्य देवेशं संसिद्धा दिवि संस्थिताः ।। 1.124.
Having heard them and worshipped the Lord of the gods, they attained perfection and reside in heaven.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे प्रवरवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः
Thus, in the glorious Bhaviṣya Mahāpurāṇa, in the Brāhma Parvan, in the Saptamī Kalpa, in the dialogue of the Brahmarṣis, is the chapter named 'Description of the Eminent Ones', the one hundred and twenty-fourth.
तदुच्यते किमात्मा च कथंभूतश्च कथ्यताम्
Now it is asked: What is the self, and of what nature is it? Let it be described.
यदात्मकं हि यत्प्रोक्तं यथा वसंति देवताः
Whatever is said to be of the nature of the self, and how the deities dwell,
पुरस्ताच्च चतुःशृंगं तद्व्योमायतनं रवेः
And in front, the four-peaked abode of the sun in the sky,
गैरिकार्णवसंभूतं यदंतर्गर्भमाश्रितम्
Which, originating from the red ocean, is contained within as its essence,
वरुणस्य यथा पाशो हुङ्कारो वेधसो यथा
Just as the noose of Varuṇa, and the sound 'huṃ' of the Creator,
इन्द्रस्य च यथा वज्रं तथा व्योम रवेः स्मृतम्
And just as the thunderbolt of Indra, so is the sky said to be of the sun.
हरश्च वर्षशुद्धश्च त्र्यंबकश्चापराजितः ईश्वरो भुवनश्चैते रुद्रा एकादश स्मृताः
Hara, Varṣaśuddha, Tryambaka, Aparājita, Īśvara, and Bhuvana—these eleven are remembered as Rudras.
आदित्यानां च नामानि विष्णोश्चक्रस्य दीयताम्
Let the names of the Ādityas and the discus of Viṣṇu be given.
विवस्वान्त्सविता चैव पूषा त्वष्टा तथैव च
Vivasvan, Savita, also Pusha, and Tvashta likewise.
पारावतास्तथा चान्ये ते ह्यासंस्तुषितैः सह । । १४ साध्यान्देवान्प्रवक्ष्यामि नामतस्तान्निबोध मे । मनोऽनुमन्ता प्राणश्च नरो नारायणस्तथा । । १५ वृत्तिलम्बो मनुश्चैव समो४ धर्मश्च वीर्यवान् । वित्तस्वामी प्रभुश्चैव साध्या द्वादश कीर्तिताः । । १६ एते यज्ञभुजो देवाः सर्वलोकेषु पूजिताः । आदित्यामेव ते धीर कश्यपस्यात्मजाः स्मृताः । । १७ विश्वे च वसवः साध्या विज्ञेया धर्मसूनवः । एवं धर्मसुतः सोमस्तृतीयो वसुरिष्यते । । १८ धर्मोऽपि ब्रह्मणः पुत्रः पुराणे निश्चयं गतः । अथ चेन्द्रान्वसूंश्चैव नामभिश्च निबोध मे । । १९ स्वायम्भुवो मनुः पूर्वः ततः स्वारोचिषः स्मृतः । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा । । 1.125.२० इत्येते षडतिक्रान्ताः सप्तमः साम्प्रतो मनुः । वैवस्वतेति विज्ञेयो भविष्याः सप्त चापरे । । २१ एषामाद्योर्कसावर्णिर्ब्रह्मसावर्णिरेव च । तस्माच्च भवसावर्णिर्धर्मसावर्णिरित्युत । । २२ पञ्चमो दक्षसावर्णिः सावर्णिः५ पञ्च कीर्तिताः । रौच्यो भौव्यश्च द्वावन्यावित्येते मनवः स्मृताः । । २३ इन्द्रस्तु विष्णुभुग्ज्ञेयो विद्युतिस्तदनन्तरम् । विभुः प्रभुश्चैव शिखी तथैव च मनोजवः । । २४ ओजस्वी साम्प्रतिस्विन्द्रो बलिर्भाव्यस्ततः परम् । अद्भुतस्त्रिदिवश्चैव दशमस्त्विन्द्र उच्यते । । २५ सुसात्त्विकश्च१ कीर्तिश्च शतधामा२ दिवस्पतिः । इति भूता भविष्याश्च इन्द्रा ज्ञेयाश्चतुर्दश । । २६ कश्यपोऽत्रिर्वशिष्ठश्च भरद्वाजश्च गौतमः । विश्वामित्रो जमदग्निः सप्तैते ऋषयः स्मृताः । । २७ अतः परं प्रवक्ष्यामि मरुतोऽग्निपरिग्रहान् । प्रवहोथावहश्चैव उद्वहः संवहस्तथा । । २८ विवहो निवहश्चैव परिवाहस्तथैव च । अन्तरिक्षचरा३ ह्येते पृथङ्मार्गविसारिणः । । २९ सूर्योऽग्निश्च शुचिर्नाम्ना वैद्युतः पावकः स्मृतः । निर्मन्थः पवमानोऽग्निस्त्रयः प्रोक्ता इमेग्नयः । । 1.125.३० अग्नीनां पुत्रपौत्रास्तु चत्वारिंशत्तथैव तु । मरुतामपि सर्वेषां विज्ञेयाः सप्तसप्तकाः । । ३१ ऋतुः संवत्सरोऽह्यग्निर्ऋतवस्तस्य जज्ञिरे । ऋतुपुत्राश्च वै पञ्च इति सर्गः सनातनः । । ३२ संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इद्वत्सरस्तृतीयस्तु चतुर्थस्त्वनुवत्सरः । । ३३ पञ्चमो वत्सरस्तेषामित्येवं पञ्च ते स्मृताः । तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः । । ३४ सोम इद्वत्सरस्तेषां वायुश्चैवानुवत्सरः । रुद्रस्तु वत्सरो ज्ञेयः पञ्चैता ' युगदेवताः । । ३५ आर्तवा पितरो ज्ञेया ये जाताः ऋतुसूनवः । पितामहास्तु विज्ञेयाः पञ्चाब्दा ब्रह्मणः सुताः । । ३६ सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये त्रयः । एते वै पितरस्तेषां ये जीवत्पितृका नराः । । ३७ आदित्यश्चैव सोमश्च लोहिताङ्गो बुधस्तथा । बृहस्पतिश्च शुक्रश्च तथा हेलिसुतश्च यः । । ३८ उपरागः शिखी चोभौ नवैते नु ग्रहाः स्मृताः । त्रैलोक्यस्य त्विमे नित्यं भावाभावनिवेदकाः । । ३९ आदित्यश्चैव सोमश्च द्वावेतौ मण्डलग्रहौ । राहुश्छायाग्रहस्तेषां शेषास्तारा ग्रहाः स्मृताः । ।1.125.४ ० नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः । पठ्यते चाग्निरादित्य उदकश्चन्द्रमाः स्मृतः । । ४१ आदित्यः पठ्यते ब्रह्मा विष्णुस्तेषां तु चन्द्रमाः । महेश्वरस्तु विज्ञेयस्तृतीयस्तारकग्रहः । । ४२ कश्यपस्य सुतः सूर्यः सोमो धर्मसुतः स्मृतः । देवासुरगुरू द्वौ तु नामतस्तौ१ महाग्रहौ । । ४३ प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती । बुधः सोमात्मजः श्रीमाञ्छनी रविसुतः स्मृतः । । ४४ सिंहिकायाः सुतो राहुः केतुस्तु ब्रह्मणः सुतः । सर्वेषां च ग्रहाणां हि अधस्ताच्चरते रविः । । ४५ ततो दूरं स्मृतं तावद्विधोर्नक्षत्रमण्डलम् । नक्षत्रेभ्यः कुजबुधौ श्वेताह्वस्तदनन्तरम् । । ४६ तस्मान्माहेश्वरश्चोर्द्ध्वं धिषणस्तदनन्तरम् । कृष्णश्चोर्ध्वं ततस्तस्मादथ चित्रशिखण्डिजः । । ४७ एषामेव क्रमः प्रोक्ताश्चासक्तं त्रिदिवं ध्रुवे । आदित्यनिलयो राहुः कदाचित्सोममार्गगः । । ४८ सूर्यमण्डलसंस्थस्तु१ शिखी सर्पति सर्वदा । नवयोजनसाहस्रो विस्तारो भार्गवस्य२ तु । । ४९ द्विगुणः सूर्यविस्ताराद्विस्तारः शनिनः स्मृतः । त्रिगुणं३ मंडलं ज्ञेयं नाक्षत्रं विस्तराद्विधोः । । 1.125.५० नक्षत्रमण्डलात्तत्र पादहीनो बृहस्पतिः । बृहस्पतेः पादहीनः शुक्रोङ्गारक एव हि । । ५१ विस्तारो मण्डलानां तु पादहीनस्तयोर्बुधः । बुधतुल्यानि ऋक्षाणि सर्वऋक्षाणि यानि तु । । ५२ योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते । राहुः सूर्यप्रमाणश्च कदाचित्सोमसन्निभः । । ५३ नक्षत्रग्रहमानस्तु१ केतुस्त्वनियतः स्मृतः । अविज्ञातगतिश्चैव चञ्चलत्वन्नराधिप । । ५४ तथालक्षितरूपस्तु बहुरूपधरो हि सः । भूर्लोकः पृथिवी प्रोक्ता अन्तरिक्षं भुवः स्मृतम् । । ५५ स्वर्लोकस्त्रिदिवं ज्ञेयं शेषादूर्ध्वं यथाक्रमम् । भूपतिस्तु सदा त्वग्निस्तेनासौ भूपतिः स्मृतः । । ५६ वायुर्नभस्पतिस्तेन तथा सूर्यो दिवस्पतिः । गन्धर्वाप्सरसश्चैव गुह्यकाः सिद्धराक्षसाः । ।५७ भूर्लोकवासिनः सर्वे अन्तरिक्षचराञ्छृणु । मरुतः सप्तमस्कंधे रुद्रास्तत्रैव चाश्विनौ । ।५८ आदित्या वसवः सर्वे तथैव च गवां गणाः । चतुर्थे तु महर्लोके वसन्ते कल्पवासिनः । ।५ ९ प्रजानां पतिभिः सर्वेः सहिताः कुरुनन्दन । जनलोके पञ्चमे च वसन्ते भूमिदाः सदा । । 1.125.६० ऋतुः सनत्कुमाराद्या वैराजभ्र तथाश्रयाः । सत्यस्तु सप्तमे लोके ह्यपुनर्मार्गगामिनाम् । । ६१ ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः । इतिहासविदो यत्र क्रीडन्ते कुरुनन्दन । । ६२ शृण्वन्ति च पुराणानि ये सदा भीमनंदन । महीतलात्सहस्राणां शतादूर्ध्वं दिवाकरः । । ६३ शतयोजनकोट्यस्तु१ भूमेरूर्ध्वं ध्रुवः स्थितः । ततो विंशतिलक्षस्तु त्रैलोक्योत्सेध उच्यते । । ६४ द्विगुणैस्तु सहस्रैस्तु योजनानां शतेषु च । लोकांतरमथो चैवं ध्रुवादूर्ध्वं विधीयते । । ६५ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । भूता विद्याधराश्चैव अष्टौ ते देवयोनयः । । ६६ यस्मिन्व्योम्नि त्विमे लोकाः सप्त वै सम्प्रतिष्ठिताः । मरुतः पितरो ह्येते तस्मिन्नेवाग्नयो ग्रहाः । । ६७ यास्त्वप्येताः समाख्याता मयाष्टौ देवयोनयः । मूर्ताश्चामूर्तयश्चैव सर्वास्ता व्योम्नि संस्थिताः । । ६ ८ एवंविधमिदं व्योम सर्वव्योममयं स्मृतम् । सर्वदेवमयं चैव सर्वग्रहमयं तथा । । ६९ तस्माद्यो ह्यर्चयेद्व्योम तेन सर्वेऽर्चिताः सुराः । तस्मात्सर्वप्रयत्नेन शुभार्थी व्योम चार्चयेत् । । 1.125.७० यस्त्वर्चते सदा व्योम भक्त्या श्रद्धासमन्वितः । वृषध्वजसदो राजन्स गच्छेन्नात्र संशयः । । ७१ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योम माहात्म्ये भुवनकोशवर्णनं नाम पञ्चविंशत्यधिकशततमोऽध्यायः
व्योममाहात्म्यवर्णनम् सुमन्तुरुवाच आकाशं खं दिशो व्योम अन्तरिक्षं नभोऽम्बरम् । पुष्करं गगनं मेरुर्विपुलं च बिलं तथा । । १ आपोछिद्रं तथा शून्यं तमो वै रोदसी तथा । नामान्येतानि ते व्योम्नः कीर्तितानि महीपते । । २ लवणक्षीरदध्यम्लघृतमध्विक्षवस्तथा । स्वादूदकश्च सप्तैते समुद्राः परिकीर्तिताः । । ३ हिमवान्हेमकूटश्च निषधो नील एव च । श्वेतश्च शृङ्गवांश्चैव षडेते वर्षपर्वताः । ।४ मध्यसंस्थस्तथैतेषां महाराजतपर्वतः । माहेन्द्री चाप्यथाग्नेयी याम्या च नैर्ऋती तथा । । ५ वारुणी चाथ वायव्या सौम्यैशानी तथैव च । एताः पुर्यस्तु देवानां तथोपरि समाश्रिताः । । ६ पृथिव्यां तु स्थितो वीर लोकालोकस्तु पर्वतः । ततश्चण्डकपालं तु तस्मात्तत्परतस्तु यः । । ७ ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते । ततो महानहङ्कारः प्रकृतिः पुरुषस्ततः । । ८ पुरुषादीश्वरो श्रेय ईश्वरेणाव्रृतं जगत् । ईश्वरो भगवन्भानुस्तेनेदं पूरितं जगत् । । ९ सहस्रांशुर्महातेजाश्चतुर्बाहुर्महाबलः । ऊर्ध्वमप्यथ लोकास्तु प्राङ्मया ये प्रकीर्तिताः । । 1.126.१० भूयस्तान्सम्प्रवक्ष्यामि अण्डावरणकारकान् । भूर्लोकस्तुभुवर्लोकस्तृतीयः परिकीर्तितः । । ११ महर्जनस्तपः सत्यः सप्तलोकाः प्रकीर्तिताः । १ततस्तवंडकपालं तु तस्माच्च परस्तपः । । १२ ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते । ततो महान्प्रधानश्च प्रकृतिपुरुषस्ततः । । १३ पुरुषादीश्वरो ज्ञेय ईश्वरेणावृतं जगत् । भूमेरधस्तात्सप्तैव लोकानभिमताञ्छृणु । । १४ तलं सुतलपाताले तलातलं तथातलम् । वितलं च कुरुश्रेष्ठ सप्तमं च रसातलम् । । १५ ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते । ततो महान्प्रधानश्च प्रकृतिः पुरुषस्ततः । । १६ पुरुषादीश्वरो ज्ञेय ईश्वरेणावृतं जगत् । एवं मेरोः प्रमाणं तु सर्वमेतत्प्रकीर्तितम् । । १७ चतुरस्रश्चतुः शृंगः स मेरुः काञ्चनः शुभः । पृथिव्यां संस्थितो मध्ये सिद्धगन्धर्वसेवितः । । १८ चतुर्भिः काञ्चनैः शृंगैर्दिव्यैर्दिवमिवोल्लिखन् । योजनानां सहस्राणि चतुराशीतिरुच्छ्रितः । । १९ प्रविष्टः षोडशाधस्तादष्टविंशतिविस्तृतः । विस्तारस्त्रिगुणश्चास्य परिणाहस्ततः स्मृतः । । 1.126.२० तस्य सौमनसं नाम शृंगमेकं तु काञ्चनम् । द्वितीयं पद्मरागाभं ज्योतिष्कं नाम नामतः । । २१ तृतीयं नामतश्चित्रं सर्वदेवमयं शुभम् । चतुर्थं राजतं शुक्लं चन्द्रौजस्कमिति स्मृतम् । । २२ यत्तु सौमनसं नाम शृंगं गाङ्गेयमुच्यते । तदेव चोदयो नाम्ना यत्रोद्यन्दृश्यते रविः । । २३ उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूतानां शिखरं च समास्थितः । । २४ काञ्चनस्य च शैलस्य तेजसार्कस्य चाहृते । उभे सन्ध्ये प्रकाशेते आताम्रे पूर्वपश्चिमे । । २५ शृंगे सौमनसे सूर्य उत्तिष्ठत्युत्तरायणे । ज्योतिषे दक्षिणे चापि विषुवे मध्यतस्तयोः । । २६ ईशेन्द्रोद्रिश्च ऐशान्यां तत्राग्निः पूर्वदक्षिणे । नैर्ऋतेऽपि ततो ज्ञेयो वायव्ये मरुतस्तथा । । २७ मध्ये तु कंजजः साक्षाद्ग्रहा ज्योतींषि चैव हि । आदित्यस्तेन रूपेण तस्मिन्व्योम्नि प्रतिष्ठितः । । २८ इदं देवमयं व्योम तथा लोकमयं स्मृतम् । पूर्वकोणस्थिते शृंगे स्थितः शुक्रो महीपते । । २९ हेलिजश्चापरे ज्ञेयो धननाथस्तथापरे । सोमश्चापि चतुर्थे तु स्थितः शृंगे जनाधिप । । 1.126.३० मध्ये केशास्थितो राजन्हुङ्कारश्च पिनाकिनः । शृंगे पूर्वोत्तरे राजन्स्थितो देवो विधुक्षये
३१ ततः स्थितो महादेवो गोपतिर्लोकपूजितः । पूर्वाग्नेयीस्थिते शृंगे स्थितो वै शाण्डिलः सुतः । । ३२ ततः स्थितो महातेजाः कीनाशो हेलिनन्दनः । स्थितो वै नैर्ऋते शृंगे विरूपाक्षो महाबलः । । ३३ तस्मादनन्तरो देवः स्थितो वै यादसां पतिः । ततः स्थितो महातेजा वीर मित्रो महाबलः । । ३४ वायव्यं शृंगमाश्रित्य सर्वदेवनमस्कृतम् । ततः स्थितो दशबलो नरमारुह्य भारत । । ३५ ब्रह्मा मध्ये स्थितो देवो ह्यनन्तश्चाध एव हि । उपेन्द्रशङ्करौ देवौ ब्रह्मणोऽन्ते समास्थितौ । । ३६ एष मेरुस्तथा व्योम एष धर्मश्च पठ्यते । सर्वदेवमयश्चायं मेरुर्व्योम इति स्मृतः । । ३७ तथा वेदमयश्चापि पठ्यते नात्र संशयः । शृंगाणि वेदाश्चत्वारः पूर्वशृंगादयो विदुः । । ३८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योममाहात्म्यवर्णनं नाम षड्विंशत्यधिकशततमोऽध्यायः
Then Mahadeva, the cowherd, revered by the worlds, stands; on the eastern-southeastern peak stands the son of Shandila.
The Paravatas and others, together with the Tushitas, were present; I will now tell you the names of the Sadhya gods, so listen to me.
Description of the greatness of the sky.