रविपूजाविधिवर्णनम् ब्रह्मोवाच कृष्ण राजा महानासीद्ययातिकुलसम्भवः । सत्राजिदिति विख्यातश्चक्रवर्ती महाबलः । । १ प्रभावैस्तेजसा कान्त्या क्षान्त्या बलसमन्वितः । धैर्यगम्भीर्यसम्पन्नो वदान्यो यशसान्वितः । । २ बुद्ध्या विक्रमदक्षश्च सम्पन्नो ब्राह्मणायतः । कृती कविस्तथा शूरः षट्पदाख्यैर्न निर्जितः । । ३ सदा पञ्चसु रक्तश्च वसुमद्भिर्न निर्जितः । रुद्रता वसुभिर्जातैः सत्त्वश्रद्धासमन्वितः । । ४ अम्बुजस्याण्डजस्येव आत्रेयस्य तथाच्युत । अम्बुजायास्तथा कृष्ण वार्यपात्रं स वै विभो । । ५ गाङ्गेयेन बले तुल्यः पौलस्त्यार्चाश्रमो यथा । गाङ्गेयस्य तथा कृष्ण धिषणस्य हरेर्यथा । । ६ काम्यश्च द्विजभक्तस्तु तथा वाल्मीकिवत्सदा । व्यासस्य देवशार्दूल जामदग्न्यस्य वा विभोः । । ७ एषां नैकैर्गुणैर्युक्तः स राजा क्ष्मातले विभो । शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् । । ८ यस्मिन्गाथां प्रगायन्ति ये पुराणविदो जनाः । सत्राजिते महाबाहौ कृष्ण धात्रीं समाश्रिते । । ९ यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति । सत्राजितं तु तत्सर्वं क्षेत्रमित्यमिधीयते । । 1.116.१० स सर्वरत्नसंयुक्तां सप्तद्वीपवतीं महीम् । शशास धर्मेण पुरा चक्रवर्ती महाबलः । । ११ नान्यायकृन्न चाशक्तो वदान्यो बलवत्तरः । तस्याभूत्पुरुषा राज्ञः सम्यग्धर्मानुशासिनः । । १२ चत्वारः सचिवास्तस्य राज्ञः सत्राजितस्य तु । बभूवुरप्रतिहताः सदा वाति बलस्य वै । । १३ तस्य भक्तिरतीवासीन्निसर्गादेव भूपतेः । दिवाकरे जगद्भानौ रक्तचन्दनमालिनि । । १४ तस्योर्ध्वमहिमानं च विलोक्य पृथिवीपतेः । न केवलं जनस्यापि ह्यभवत्तस्य विस्मयः । । १५ सञ्चिन्तयामास नृपः समृद्ध्या विस्मितस्तथा । कथं स्यात् सम्पदेषा मे पुनरप्यन्यजन्मनि । । १६ एवं स बहुशो राजा तदा कृष्ण महायशाः । चिन्तयन्नपि तन्मूलं नासदन्निश्चयान्वितः । । १७ यदा न निश्चयं राजा स ययौ भार्गवीप्रियः । तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् । । १८ सर्वाश्च ससुखान्वीर विविक्तान्तः पुरस्थितः । प्रणिपत्य महाबाहुर्ग्रहीतुं शासनक्रियाः । । १९ विश्वासानुग्रहा बुद्धिर्भवतां मयि सत्तमाः । तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ । । 1.116.२० सद्विद्याखिलविज्ञानसम्यग्धौतान्तरात्मभिः । भवद्भिर्यद्यनुग्राह्यः स्यामहं वेदवित्तमाः । । २१ तद्यथावन्मया पृष्टा भवन्तो मत्प्रसादिनः । वक्तुमर्हथ विद्वांसः सर्वस्यैवोपकारिणः । । २२ ब्रह्मोवाच यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते । वदिष्यामो यथान्यायं यत्ते१ मनसि वर्त्तते । । २३ वयं हि नृपशार्दूल भवता पारितोषिताः । सम्यक्प्रजां पालयित्रा ददता भोजनं सदा । । २४ सन्तुष्टो ब्राह्मणोऽश्नीयाच्छिंद्याद्वा धर्मसंशयम् । हितं चोपदिशेद्वर्त्म अहिताद्वा निवर्तयेत् । । २५ विवक्षुमथ भूपालं भार्या तस्यैव धीमतः । प्रणिपातेन चाहेदं विनयात्प्रणयान्वितम् । । २६ न स्त्रीणामवनीपाल वक्तुमीदृगिहेष्यते । तथापि भूपते वक्ष्ये सम्पदीदृक्सुदुर्लभा । । २७ भूयोऽपि संशयान्प्रष्टुमलमीशो भवानृषीन् । नन्वहं पुरषव्याघ्र सदान्तः पुरचारिणी । । २८ तत्प्रसादं यदि भवान्करोति मम पार्थिव । तन्मदीयमृषीन्प्रष्टुं सन्देहं पार्थिवार्हसि । । २९ सत्राजित उवाच ब्रूहि सुभ्रूर्मतं यत्ते प्रष्टव्या यन्मया द्विजाः । भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतद्द्विजोत्तमान् । । 1.116.३० विमलवत्युवाच श्रूयन्ते पृथिवीपाल नृपा ये तु चिरन्तनाः । येषां च सम्पद्भूपाल यथा तेऽद्य किलाभवत् । । ३१ तदीदृक्सम्पदो धाम तवाशेषं क्षितीश्वर । येन कर्मविपाकेन तद्वदन्तु महर्षयः । । ३२ अहं च भवतो भार्या सर्वसीमन्तिनीवरा । अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् । । ३३ तथा सम्पत्समृद्धत्वमन्येष्वपि हि विद्यते । निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा । । ३४ तदन्यजन्मचरितं नरनाथ निजं भवान् । मुनीन्पृच्छ त्वया चाहं यन्मया च पुरा कृतम् । । ३५ ब्रह्मोवाच स तथोक्तस्तया राजा पत्न्या विस्मितमानसः । मुनीनां पुरतो मायां प्रशंसन्वाक्यमब्रवीत् । । ३६ साधु देवि मतं यन्मे त्वया यदिदमीरितम् । सत्यं मुनिवचः पुंसां स्याद्ध वै गृहिणी तथा । । ३७ सोऽहमेतन्महाभागे पृच्छाम्येतान्महामुनीन् । तेषामविदितं किञ्चित्त्रिषु लोकेषु न विद्यते । । ३८ एवमुक्त्वा प्रियां राजा प्रणिपत्य च तानृषीन् । यथावदेतदखिलं पप्रच्छ धरणीधरः । । ३९ राजोवाच भगवन्तो ममाशेषं प्रसादावृतचेतसः । कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् । ।1.116.४ ० कोऽहमासं पुरा विप्राः किंस्वित्कर्म मया कृतम् । किं वानया तु चार्वंग्या मम पत्न्या कृतं द्विजाः । ।४ १ येनावयोरियं लक्ष्मीर्मर्त्यलोके सुदुर्लभा । चत्वारश्चाप्रतिहता अमात्या मम गच्छतः । ।४ २ अशेषा भूभृतो वश्या धनस्यान्तो न विद्यते । बलं चैवाप्रतिहतं शरीरारोग्यमेव च । ।४ ३ प्रतिभाति च मे कान्त्या भार्यायामखिलं जगत् । ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ।४४ सोऽहमिच्छामि तज्ज्ञातुं तथैवेयमनिन्दिता । निजानुष्ठानमखिलं यस्याशेषमिदं फलम् । ।४५ ब्रह्मोवाच इति पृष्टा नरेन्द्रेण समस्तास्ते तपोधनाः । परावसुमथोचुस्ते कथ्यतामस्य भूभृतः । । ४६ चोदितः सोऽपि धर्मज्ञैर्महाशूरा महामतिः । योगमास्थाय सुचिरं यथावद्यतमानसः । । ४७ ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् । स तमाह मुनिर्भूपं विज्ञानेच्छं महामतिम् । । ४८ सत्राजितं महात्मानं जितशत्रुं मनस्विनम् । सपत्नीकं महाबुद्धिं ब्राह्मणान्सत्यवादिनः । । ४९ परावसुरुवाच शृणु भूपाल सकलं यस्येदं कर्मणः फलम् । तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते । । 1.116.५० त्वमासीः शूद्रजातीयः परहिंसापरायणः । कुष्ठार्तो दण्डपारुष्ये निःस्नेहः सर्वजन्तुषु । । ५१ द्वयं च भवतो भार्या पूर्वमप्यायतेक्षणा । नित्यं बभूव त्वच्चित्ता भवच्छुश्रूषणे रता । । ५२ पतिव्रता महाभागा भर्त्स्यमानापि निष्ठुरम् । त्वद्वाक्येषु च सर्वेषु वीर कर्मसु चोद्यता । ५३ नैश्वर्यादसहायस्य त्यज्यमानस्य बन्धुभिः । क्षयं जगाम योर्थोऽभूत्सञ्चितः प्रपितामहैः । । ५४ तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते । सापि कर्मविपाकेन कृषिर्विफलतां गता । । ५५ ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् । तत्याज साध्वी नेयं त्वां त्यज्यमानापि पार्थिव । । ५६ अनया तु समं साध्व्या भानोरावसथे त्वया । कृतं शुश्रूषणं वृत्त्या भक्त्या सम्मार्जनादिकम् । । ५७ निःस्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः । अहन्यहनि विस्रम्भात्तस्मिन्नावसथे रवेः । । ५८ कान्यकुब्जपुरे वीर महाशुश्रूषितं त्वया । दिवाकरालये नित्यं कृतं तन्मार्जनं त्वया । । ५९ तथैवाभ्युक्षणं भूप नित्यं चैवानुलेपनम् । पत्न्यानया नृप तथा युष्मच्चित्तानुवृत्तया । । 1.116.६० कारितं श्रवणं पुण्यमितिहासपुराणयोः । दत्त्वाङ्गुलीयकं राजन्पितृदत्तं तु वाचके । । ६१ अहन्यहनि यत्कर्म युवयोर्नृपकुर्वतोः । तत्रैव तन्मयत्वेन पापहानिरजायत । । ६२ भानोः कार्यं मया कार्यं परं शुश्रूषणं तथा । नाप्रभातं प्रभातं वा चिन्तेयमभवन्निशि । । ६३ एवमायतनं रम्यमित्येवं च सुखावहम् । सूर्यवच्चैवमेतत्स्यादित्यासीत्ते मनस्तदा । । ६४ योगिनां सुखदं कर्म तथैव सुखमित्यपि । भवच्चित्तमभूत्तत्र योगकर्मण्यहर्निशम् । । ६५ एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव । भूतानुमानिनः सम्यग्यथोक्ताधिककारिणः । । ६६ स्मरतो गोपतिं नित्यं चित्तेनापि दृढात्मनः । निःशेषमुपशांतं ते पापं सूर्यनिषेवणात् । । ६७ ततोऽधिकं पुरस्तस्मादगारस्यानुलेपनम् । संमार्जनं च बहुशः सपत्नीकेन यत्कृतम् । । ६८ केवलं धर्ममाश्रित्य त्यक्त्वा वृत्तिमशेषतः । अनया श्रवणं पुण्यं कारितं वाचकात्सदा । ६९ नानाधातुविकारैस्तु गोमयेन मृदा तथा । उपलेपनं कृतं भक्त्या त्वया पूर्वं सुरालये । । 1.116.७० अथाजगाम वै तत्र कुवलाश्वो महीपतिः । महासैन्यपरीवारः प्रभूतगजवाहनः । । ७१ सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् । वृतं भार्यासहस्रेण दृष्ट्वा संक्रन्दनोद्बलम् । । स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे । । ७२ सर्वकामप्रदं कर्म क्रियते भास्काराश्रितम् । तेनैतदखिलं राज्यमशेषं चाप्तवान्महीम् । । ७३ तेजश्चैवाधिकं यत्ते तथैव शृणु पार्थिव । योगप्रभावतो लब्धं कथयाम्यखिलं तव । । ७४ तत्रैवावसथे दीपः प्रशान्तः स्नेहसंक्षयात् । निजभोजनतैलेन पुनः प्रज्वलितस्त्वया । । ७५ अन्या चोत्तरीयेण वीर वर्त्योपबृंहितः । तव पत्न्या स्वयं ज्वाल्य कान्तिरस्यास्ततोऽधिका । । ७६ तवाप्यखिलभूपालमनः क्षोभकरं पुनः । तेजो नरेन्द्र एतस्मात्किमुताराध्य भास्करम् । । ७७ एवं नरेन्द्रः शूद्रत्वाद्भानुकर्मपरायणः । तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् । । ७८ किं पुनर्यो नरो भक्त्या नित्यं शुश्रूषणावृतः । करोति सततं पूजां निष्कामो नान्यमानसः । । ७९ सर्वामृद्धिमिमां लब्ध्वा सर्वलोकमहेश्वरः । पूजयित्वार्कमीशेशं तमाराध्य न सीदति । । 1.116.८० पुष्पै धूपैस्तथा वान्यैर्दीपैर्वस्त्रानुलेपनैः । आराधयार्कं तद्वेश्म सदा सम्मार्जनादिना । । ८१ यद्यदिष्टतमं किञ्चिद्यद्यन्यत्तु दुर्लभम् । तद्दत्वा च जगद्धात्रे भास्कराय न सीदति । । ८२ सुगन्धागुरुकर्पूरचन्दनागुरुकुंकुमैः । वासोभिर्विविधैर्धूपैः पुष्पैः स्रक्चामरध्वजैः । । ८३ अन्योपहारैर्विविधैः कृतक्षीराभिषेचनैः । गीतवादित्रनृत्याद्यैस्तोषयस्वार्कमादरात् । । ८४ पुण्यरात्रिषु मार्तण्डं नृत्यगीतैरथोज्ज्वलम् । भूप जागरणैर्भक्त्या होमः कार्यः सदा शुचिः । । ८५ इतिहासपुराणानां श्रवणेन .विशेषतः । तथा वेदस्वनैः पुण्यैर्ऋक्सामयजुभिर्नृप । । ८६ एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् । भूयो वैवस्वतो भूत्वा भवहृद्भास्करो नरैः ।। ८७ तोषितो भगवान्भानुर्ददात्यभिमतं फलम् । दैवकर्मसमर्थानां प्राणिनां स्मृतिसम्भवैः । । ८८ तोषितो भगवान्कामान्प्रयच्छति दिवाकरः । नैष वृत्तैर्न रत्नौघैः पुष्पैर्धूपानुलेपनैः । । सद्भावेनैव मार्तण्डस्तोषमायाति संस्मृतः । । ८९ त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् । कृत्वाल्पमीदृशं प्राप्तं राज्यमन्येन दुर्लभम् । । 1.116.९० अनया श्रवणं पुण्यं कारयित्वा गृहे रवेः । ईदृक्प्राप्ता सम्पदियं पूजां कृत्वा तु वाचके । । ९१ प्राप्तोपकरणैर्यस्तमेकाग्रमतिरण्डजम् । सन्तोषयति नेन्द्रोऽपि भवता वै समः क्वचित् । । ९२ तस्मात्त्वमनया देव्या सहात्यन्तविनीतया । भास्कराराधने यत्नं कुरु धर्मभृतां वर । । ९३ ब्रह्मोवाच एतन्मुनेर्वचो वीर निशम्य स नराधिपः । भार्यासहायः स तदा संप्रहृष्टतनूरुहः । । ९४ कृतकार्यमिवात्मानं मन्यमानस्तदाभवत् । उवाच प्रणतो भूत्वा राजा सत्राजितोऽच्युत । । ९५ सत्राजित उवाच यथामरत्वं सम्प्राप्य यथा वायुर्बलं परम् । परं निर्वाणमाप्नोति तथाहं वचसा तव । । ९६ कृतकृत्यः सुखासीनो निर्वृतिं परमां गतः । अज्ञानतमसाच्छन्ने यत्प्रदीपस्त्वया धृतः । । ९७ अहमेषा च तन्वङ्गी विभूतिभ्रंशभीरुकः । द्रव्यमापादितं ब्रह्मन्निहाद्य वचसा तव । । ९८ सम्पदः कथितं बीजमावयोर्भवता मुने । त्वद्वक्त्रादुद्यता वाचो विज्ञाता हि द्विजोत्तम । । ९९ न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः । आराध्यश्च जगन्नाथो भावशून्यैर्दिवाकरः । । 1.116.१०० बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः । निःस्वैराराध्यते देवो भानुः सर्वेश्वरेश्वरः । । १०१ सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने । यच्च पृच्छामि तन्मे त्वं प्रसादसुमुखो वद । । १०२ कथमाराधितो देवो नरैः स्त्रीभिश्च भास्करः । तोषमायाति विप्रेन्द्र तद्वदस्व महामुने । । १०३ रहस्यानि च देवस्य प्रीतये या तिथिः सदा । चान्यशेषाणि मे ब्रूहि अर्काराधनकांक्षिणः । । १०४ परावसुरुवाच शृणु भूपाल यैर्भानुर्गृहेष्याराध्यते जनैः । नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे । । १०५ समभ्यर्च्य जगन्नाथं देवमकं समाधिना । एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणार्पणम् । । १०६ करोति भास्करप्रीत्यै कार्त्तिकं मासमात्मना । पूर्वे वयसि यत्नेन जानताऽजानतापि वा । । १०७ पापमाचरितं तस्माद्भिद्यते नात्र संशयः । अनेनैव विधानेन मासि मार्गशिरे पुनः । । १०८ समभ्यर्च्य मरकतं विप्रेभ्यो यः प्रयच्छति । भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे । । १०९ मध्ये वयसि यत्पापं योषिता पुरुषेण वा । कृतमस्माच्च तेनेक्तो विमोक्षः परमात्मना । । 1.116.११० तथा चैवेकभक्तं तु यस्तु विप्राय यच्छति । दिवाकरं समभ्यर्च्य पौषे मासि महीपते । । १११ तत्तच्च प्रीणयत्यर्कं वार्धिकेनैव यत्कृतम् । स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा । । ११२ त्रिमासिकं व्रतमिदं यः करोति नरेश्वर । स भानुप्रीणनात्पापैर्लघुभिः परिमुच्यते । । ११३ द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः । तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् । । ११४ व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् । त्रिभिः संवत्सरैश्चैव प्रददाति फलं नृणाम् । । ११५ त्रिभिर्मासैरनुष्ठानात्त्रिविधात्पातकान्नृप । त्रीणि नामानि देवस्य मोचयन्ति च वार्षिकैः । । ११६ यतस्ततो व्रतमिदं विविधं समुदाहृतम् । सर्वपापप्रशमनं भास्कराराधने परम् । । ११७ सत्राजित उवाच कतमाय 'तु विप्राय दातव्यं भक्तितो मुने । द्वितीये द्विजशार्दूल कथयस्वाखिलं मम । । ११८ परावसुरुवाच देये पुराणविदुषे वस्त्रे विप्रोत्तमाय च । श्रूयतां चापि वचनं यदुक्तं भास्करेण च । । अरुणाय महाबाहो पृच्छते यत्पुरा नृप । । ११९ उदयाचलमारूढं भास्करं तिमिरापहम् । प्रणम्य शिरसा नूनमिदं वचनमब्रवीत् । । 1.116.१२० कानि प्रियाणि ते देव पूजने सन्ति सर्वदा । पुष्पादीनां समस्तानामाराधनविधौ सदा । । उपरागादिवस्त्रादौ ब्राह्मणानां तथा रवे । । १२१ भास्कर उवाच पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । गुग्गुलञ्चापि धूपानां नैवेद्ये मोदकाः प्रियाः । । १२२ पूजाकरो भोजकस्तु घृतदीपस्तथा प्रियः । दानं प्रियं खगश्रेष्ठ वाचकाय प्रदीयते । । १२३ मामुद्दिश्य च यद्दानं दीयते मानवैर्भुवि । वाचकाय१ तु दातव्यं तन्मम प्रीतये खग । । १२४ इतिहासपुराणाम्यामभिज्ञो यस्तु वाचकः । ब्राह्मणो वै खगश्रेष्ठ सम्पूज्यः प्रीतये मम । । १२५ पूजितेऽस्मिन्सदा विप्रे पूजितोहं न संशयः । भवामि खगशार्दूल यतस्त्विष्टः स मे सदा । । १२६ वेदवीणामृदङ्गैश्च नातिगन्धविलेपनैः । तथा मे जायते प्रीतिर्यथा श्रुत्वा खगोत्तम । । १२७ इतिहासपुराणानि वाच्यमानानि वाचकैः । अतः प्रियो वाचको मे पूजाकर्ता च भोजकः । । १२८ इति भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सत्राजितोपाख्याने रविपूजाविधिवर्णनं नाम षोडशाधिकशततमोऽध्यायः
Brahma said: Krishna, there was a great king named Satrājit, born in the line of Yayāti, renowned as a universal monarch of great strength.
उपलेपनस्नापनमाहात्म्यवर्णनम् अरुण उवाच किमर्थं भोजकस्तुभ्यं प्रियो देवेश कथ्यताम् । नान्ये विप्रादयो वर्णा देवतायतनेषु वै । । १ कश्चायं भोजको देव कस्य पुत्रः किमात्मकः । वर्णतश्चास्य मे ब्रूहि कर्म चास्य समन्ततः । । २ आदित्य उवाच साधु पृष्टोऽस्मि भद्रं ते वैनतेय महामते । शृणुष्वैकमनाः सर्वं गदतो मम खेचर । । ३ विप्रादयस्तु ये त्वन्ये वर्णाः कश्यपनन्दन । ते पूजयन्ति मां नित्यं भक्तिश्रद्धासमन्विताः । ।४ देवालयेषु ये विप्राः प्रीत्या मां पूजयन्ति हि । अन्याश्च देवतावृत्त्या ते स्युर्देवलकाः खग । । एतस्मात्कारणान्मह्यं भोजको दयितः सदा । । ५ वर्णतो ब्राह्मणश्चायं स्वानुष्ठानपरो यदि । अनुष्ठानविहीनो हि नरकं यात्यसंशयम् । । ६ न त्याज्यं भोजकैस्तस्मात्स्वकं कर्म कदाचन । मयासौ निर्मितः पूर्वं तेजसा स्वेन वै खग । । ७ पूजार्थमात्मनो नूनं कर्म चास्य प्रकीर्तितम् । प्रियव्रतसुतो राजा शाकद्वीपे महामतिः । । ८ तेन मे कारितं दिव्यं विमानप्रतिमं गृहम् । तस्मिन्द्वीपे तदात्मीये दिव्यं शिलामयं महत् । । ९ स मदर्चां कारयित्वा काञ्चनीं लक्षणान्विताम् । प्रतिष्ठापनाय वै तस्याश्चिन्तयामास सुव्रतः । । 1.117.१० कृतमायतनं श्रेष्ठं तेनेयं प्रतिमा कृता । को वै प्रतिष्ठापयिता देवमर्कं शुभालये । । ११ एवं सञ्चिन्तयित्वा तु जगाम शरणं मम । भक्तिं तस्य च सञ्चिन्त्य खगाहं पार्थिवस्य तु । । १२ गतोऽहं दर्शनं तस्य उक्तञ्चापि मया खग । किं चिन्तयसि राजेन्द्र कुतश्चिंता समागता । । १३ ब्रूहि यत्ते हृदि प्रौढं चिन्ताकारणमागतम् । संपादयिष्ये तत्सर्वं विमना भव मा नृप । । १४ अत्यर्थं दुष्करमपि करिष्ये नात्र संशयः । इत्युक्तः स मया राजा इदं वचनमब्रवीत् । । १५ द्वीपेऽस्मिन्देवदेवस्य कृतमायतनं तव । मया भक्त्या जगन्नाथ तथेयं प्रतिमा कृता । । १६ प्रतिष्ठां कारयेद्यस्तु तव देवालये खग । यत्र सन्ति त्रयो वर्णा द्वीपेस्मिन्क्षत्रियादयः । । १७ ते मयोक्ता न कुर्वन्ति प्रतिष्ठां तव कृत्स्नशः । न चाप्यर्चां जगन्नाथ ब्राह्मणश्चात्र विद्यते । । १८ तेनेयमागता चिन्ता हृदि शल्यं तयार्पितम् । ततो मयोक्तो राजाऽसौ वैनतेय वचः शुभम् । । १९ एवमेतन्न संदेहो यथात्थ त्वं नराधिपः । क्षत्रियादित्रयो वर्णा द्वीपेऽस्मिन्नात्र संशयः । । 1.117.२० ते च नार्हन्ति मे पूजां न प्रतिष्ठां कदाचन । तस्मात्ते श्रेयसे राजन्प्रतिष्ठामात्मनस्तथा । । २१ सृजामि प्रथमं वर्णं भग(मग?)संज्ञमनौपमम् । इत्युक्त्वा तमहं वीर राजानं खगसत्तम । । २२ जगाम परमां चिन्तां तस्य कार्यस्य सिद्धये । अथ मे चिन्तयानस्य१ स्वशरीराद्विनिःसृताः । । २३ शशिकुन्देन्दुसंकाशाः संख्ययाष्टौ महाबलाः । पठन्ति चतुरो वेदान्सांगोपनिषदः खग । । २४ काषायवाससः सर्वे करण्डाम्बुजधारिणः । ललाटफलकाद्द्वौ तु द्वौ चान्यौ वक्षसस्तथा । । २५ चरणाभ्यां तथा द्वौ तु पादाभ्यां द्वौ तथा खग । अथ ते च महात्मानः सर्वे प्रणतकन्धराः । । २६ पितरं मन्यमाना मामिदं वचनमब्रुवन् । तात तात महादेव लोकनाथ जगत्पते । । २७ किमर्थं भवता सृष्टा वयं देवस्य देहतः । ब्रूहि सर्वं करिष्याम आदेशं भवतोऽखिलम् । । २८ पितास्माकं भवान्देवो वयं पुत्रा न संशयः । इत्युक्तवन्तस्ते सर्वे मयोक्ता देवसम्भवाः । । २९ प्रियव्रतसुतो योयमस्य वाक्यं करिष्यथ । स चाप्युक्तो मया राजा शाकद्वीपाधिपः खग । । 1.117.३० य एते मत्सुता राजन्नर्घ्या ब्राह्मणसत्तमाः । कारयन्तु प्रतिष्ठां मे सर्वैरेभिर्महीपते । । ३१. कारयित्वा प्रतिष्ठां तु ममार्चायां नराधिप । पश्चादायतनं सर्वमेषामर्पय पूजने । । ३२ एते मत्पूजने योग्याः प्रतिष्ठासु च सर्वशः । समाप्य न प्रहर्तव्यं भोजकेभ्यः कदाचन । । ३३ सर्वमायतनार्थं तु गृहक्षेत्रादिकं च यत् । धनधान्यादिकं राजन्यन्ममायतने भवेत् । । ३४ तत्सर्वं भोजकेभ्यस्तु दातव्यं नात्र संशयः । धनधान्यसुवर्णादि गृहक्षेत्रादिकं च यत् । । यन्मदीयं भवेत्किञ्जिद्ग्रामे वा नगरे क्वचित् । । ३५ तस्य सर्वस्य राजेन्द्र मदीयस्य समन्ततः । अधिपा भोजकाः सर्वे नान्ये विप्रादयो नृप । । ३६ यथाधिकारी पुत्रस्तु पितृद्रव्यस्य वै भवेत् । तथा मदीयवित्तस्य भोजकाः स्युर्न संशयः । । ३७ इत्युक्तेन मया राज्ञा तथा सर्वं प्रवर्तितम् । कारयित्वा प्रतिष्ठां तु दत्त्वा सर्वस्वमेव हि । । भोजकेभ्यः खगश्रेष्ठ ततो हर्षमवाप्तवान् । । ३८ एवमेते मया सृष्टा भोजका गरुडाग्रज । अहमात्मा ततो ह्येषां सर्वे सुमनसस्तथा । । ३९ मत्पुत्रेण समा ज्ञेयास्तथा मम हिताः सदा । तस्मात्तेभ्यः प्रदातव्यं न हर्तव्यं कदाचन । । 1.117.४० भोजकस्य हरेद्यस्तु लोभाद्द्वेषात्तथापि वा । स याति नरकं घोरं तामिस्रं शाश्वतीः समाः । । ४१ तस्माद्ग्रामादिकं द्रव्यं यत्किञ्चिन्मम विद्यते । तत्सर्वं भोजकस्वं हि पितृपर्यागतं मम । । ४२ भोजकश्च भवेद्यादृक्तत्ते वच्मि खगेश्वर । ममाज्ञां पालेयद्यस्तु स्वानुष्ठानपरः सदा । । ४३ वेदाधिगमनं पूर्वं दारसंग्रहणं तथा । अभ्यङ्गधारणं नित्यं तथा त्रिषवणं स्मृतम् । । ४४ पञ्चकृत्वः सदा पूज्यो ह्यहं रात्रौ दिने तथा । देवब्राह्मणवेदानां निन्दा कार्या न वै क्वचित् । । ४५ नान्यादेवप्रतिष्ठा तु कार्या वै भोजकेन तु । ममापि च न कर्तव्या तेन एकाकिना क्वचित् । । ४६ सर्वमेव निवेद्यान्नं नाश्नीयाद्भोजकः सदा । न भुञ्जीत गृहं गत्वा शूद्रस्य गरुडाग्रज । । ४७ शूद्रोच्छिष्टं प्रयत्नेन सदा त्याज्यं हि भोजकैः । येऽश्नन्ति भोजका नित्यं शूद्रान्नं शूद्रवेश्मनि । । ४८ ते वै पूजाफलं चात्र कथं प्राप्स्यन्ति खेचर । गत्वा गृहं तु शूद्रस्य न भोक्तव्यं कदाचन । । ४९ गृहागतं च शूद्रान्नं तच्च त्याज्यं तथैव च । आध्मातव्योम्बुजो नित्यं भोजकेनाग्रतो मम । । 1.117.५० सकृत्प्रवादिते शंखे मम प्रीतिर्हि जायते । षण्मासान्नात्र सन्देहः पुराणश्रवणं तथा । । ५१ तस्माच्छंखः सदा वाद्यो भोजकेन प्रयत्नतः । तस्येयं परमा वृत्तिर्नैवेद्यं यन्मदीयकम् । । ५२ नाभोज्यं भुञ्जते यस्मात्तेनैते भोजका मताः । मगं ध्यायन्ति ते यस्मात्तेन ते मगधाः स्मृताः । । ५३ भोजयन्ति च मां नित्यं तेन ते भोजका स्मृताः । अभ्यङ्गं च प्रयत्नेन प्रायं शुद्धिकरं परम् । । ५४ अभ्यङ्गहीनो ह्यशुचिर्भोजकः स्यान्न संशयः । यस्तु मां पूजयेद्वीर अभ्यङ्गेन विना खग । । ५५ न तस्य सन्ततिः स्याद्वै न चाहं प्रीतिमान्भवे
मुण्डनं शिरसा कार्यं शिखा धार्या प्रयत्नतः । । ५६ नक्तं चादित्यदिवसे तथा षष्ठ्यां प्रवर्तयेत् । सप्तम्यामुपवासस्तु मम संक्रमणे तथा । । ५७ कर्तव्यो भोजकेनैव मत्प्रीत्यै गरुडाग्रज । त्रिकालं चापि गायत्रीं जपेद्वाचा पुरो मम । । ५८ मुखमावृत्य यत्नेन पूजनीयोऽहमादरात् । मौनं चास्य प्रयत्नेन त्यक्त्वा क्रोधं च दूरतः । । ५९ शूद्रेभ्यो यस्तु वैश्येभ्यो लोभात्कामात्प्रयच्छति । निर्माल्यं मम वै वत्स स याति नरकं ध्रुवम् । । 1.117.६० लोभाद्वै भोजको यस्तु मत्पुष्पाणि खगाधिप । यच्छतेन्यस्य दुष्टात्मा मय्यनारोप्य खेचर । । ६१ स ज्ञेयो मे परः शत्रुः स मामर्हो न चार्चितुम् । निर्माल्यं मम देयं स्याद्ब्राह्मणादिषु वै नृषु । । ६२ नैवेद्यं यन्मदीयं तु तदश्नीयात्सदैव हि । तेनासौ शुद्ध्यते नित्यं हविष्यान्नसमं तथा । । ६३ तत्क्षणादुत्क्षिपेद्यस्तु ममांगात्पुष्पमेव हि । नान्यस्य देयं नैवेद्यं मदीयमुदके२ क्षिपेत् । । ६४ पञ्चगव्यसमं तस्य मन्मतं नात्र संशयः । ममाङ्गलग्नं यत्किञ्चिद्गन्धं पुष्पमथापि वा । । ६५ दातव्यं न च वैश्याय न शूद्राय कदाचन । आत्मना तद्ग्रहीतव्यं न विक्रेयं कथञ्चन । । ६६ यस्तु नारोप्य पुष्पाणि अव्यङ्गानि ममोपरि । यः कश्चिदाहरेल्लोके स याति नरकं ध्रुवम् । । ६७ स्नपनं मम निर्माल्यं पावकं यस्तु लङ्घयेत् । स नरो नरकं याति सरौद्रं रौरवं खग । । ६८ भोजकेन सदा कार्यं स्नपनं मे प्रयत्नतः । यथा न लङ्घयेत्कश्चिद्यथा श्वा नापि भक्षयेत् । । ६९ यद्ययत्नपरः कुर्याद्भोजकः स्नपनं मम । यथा वै लङ्घितमतिर्भक्ष्यतां च खगाधिप । । 1.117.७० स याति नरकं रौद्रं तामिश्रं नाम नामतः । एकभक्तं सदा कार्यं स्नानं त्रैकालमेव हि । । ७१ त्रिचैलं परिवर्तेत भवितव्यं दिनेदिने । पूजाकालेऽर्घकाले च क्रोधस्त्याज्यः प्रयत्नतः । । ७२ अमांगल्यं न वक्तव्यं वक्तव्यं च शुभं तदा । ईदृग्भूतो भोजको मे प्रेयान् पूजाकरः सदा । । ७३ सन्मान्यः पूजनीयश्च विप्रादीनां यथास्म्यहम् । यः करोत्यवमानं तु वृत्तिरूपं तु भोजके । । ७४ तस्याहं रोषमेत्याशु कुलं हन्मि समन्ततः । प्रियो मे भोजको नित्यं यथा त्वं विनतासुत । । ७५ उपलेपनकर्ता च सम्मार्जनपरश्च यः । । परावसुरुवाच इत्युक्त्वा भगवान्भानुर्बभ्राम रथमास्थितः । । ७६ अरुणोऽपि तथा श्रुत्वा मुदया परया नृपः । पूज्यस्तस्मान्महाराज भोजकस्तु महीपते । । ७७ तस्माद्देवं वाचकाय द्वितीयमशनं नरैः । । ७८ ब्रह्मोवाच इत्थं श्रुत्वा स राजा तु कर्मणः फलमात्मनः । पुरातनं महाबाहुर्मुदमाप महीपतिः । ।७९ यद्यदायतनं भानोः पृथिव्यां पश्यते नृपः । तस्मिंस्तस्मिन्कारयति उपलेपनमादरात् । । 1.117.८० भार्या तस्यापि सुश्रोणि पुण्यश्रवणमादरात् । वाचके वेतनं दत्त्वा भानोर्देवस्य मन्दिरे । । ८१ इत्थं राजा सपत्नीकः पूज्य भक्त्या दिवाकरम् । प्राप्तावुभौ परां प्रीतिं गतिं चानुत्तमां तथा । । ८२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्प उपलेपनस्नापनमाहात्म्यवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः
दीपदानफलवर्णनम् ब्रह्मोवाच दीपं प्रयच्छति नरो भानोरायतने तु यः । तेजसा रविसंकाशः सर्वयज्ञफलं१ लभेत् । । १ कार्त्तिके तु विशेषेण कौमारे मासि दीपकम् । दत्वा फलमवाप्नोति यदन्येन न लभ्यते । । २ कृष्णकृष्णात्र ते वच्मि संवादं पापनाशनम् । भ्रातृभिः सह भद्रस्य ब्राह्मणस्य महात्मनः । । ३ जगत्यस्मिन्पुरी रम्या नाम्ना माहिष्मती पुरा । तस्यामासीद्द्विजः कृष्ण नागशर्मेति विश्रुतः । ।४ तस्य पुत्रशतं जातं प्रसादाद्भास्करस्य च । तेषां कनिष्ठो भद्रस्तु तत्पुत्राणां विचक्षणः । । ५ स च नित्यं जगद्धातुर्देवदेवस्य भास्वतः । दीपवर्तिपरस्तद्वत्तैलाद्याहरणोद्यतः । । ६ भानोरायतने तस्य सहस्रं भार्गवीप्रिय । प्रदीपानां तु जज्वाल दिवारात्रमनिन्दितम् । ।७ तस्य दीप्त्या पराभूतास्तस्य लावण्यधर्षिताः । सर्वे ते भ्रातरो भद्रं पप्रच्छुरिदमादरात् । । ८ भो भद्र वद वै भ्रातर्भद्रं तेस्तु सदा द्विज । कौतूहलपराः सर्वे यत्पृच्छामस्तदुच्यताम् । । ९ तेषां तद्वचनं श्रुत्वा भद्रो वचनमब्रवीत् । विषये सति वक्तव्यं यन्मया तदिहोच्यताम् । । 1.118.१० नाहं मत्सरयुक्तो वै न च रागादिदूषितः । भवन्तो मम सर्वे वै भ्रातरो गुरवस्तथा । । ११ कथं न कथयाम्येष भवतां पुत्रसम्मितः । तस्माद्ब्रुवन्तु मां सर्वे भ्रातरो यद्विवक्षितम् । । १२ भ्रातर ऊचुः न तथा पुष्पधूपेषु न तथा द्विजपूजने । सुप्रयत्नं तु पश्यामो भानोरायतने परम् । । १३ यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि । तव दीपप्रदानाय यथा भद्र सदोद्यमम् । । १४ तत्त्वं तत्कथयास्माकं हंत कौतूहलं परम् । यन्नाम दीपदानस्य भवता विदितं फलम् । । १५ तदेतत्कथयास्माकं सविशेषं महाबल । एवमुक्तस्ततस्तैस्तु भ्रातृभिश्चोदितो मुदा । । १६ व्याजहार स भ्रातॄणां न किञ्चिदपि सुव्रत । पुनः पुनरसौ तैस्तु भ्रातृभिश्चोदितो मुदा । । १७ दाक्षिण्यसारो भद्रस्तु कथयामास कृत्स्नशः । भवतां कौतुकं चैतदतीवाल्पेऽपि वस्तुनि । । १८ तदेष कथयाम्यद्य यद्व्रतं मम सुव्रत । इक्ष्वाकुराज्ञस्तु पुरा वशिष्ठोऽभूत्पुरोहितः । । १९ तेन चायतनं भानोः कारितं सरयूतटे । अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः । । 1.118.२० दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः । कार्तिके दीपको भक्त्या प्रदत्तस्तेन वै सदा । । २१ आसीन्निर्वाण एवासौ देवार्चापुरतो निशि । देवतायतने चाहमवसं व्यथितो भृशम् । । २२ पूयशोणितनिष्पन्दं प्रावहन्कायतः सदा । शीर्ण घ्राणो ह्यर्वरवो दुर्गंधपतितस्तथा । । २३ दुष्टबुद्ध्या सदा युक्तः सप्ताश्वं प्रति सुव्रत । यदृच्छ्या दीपदानं वर्त्यादीनां विभावसौ । ।२४ तत्तद्भुक्त्वा सदा तुष्टिं व्रजामि द्विजसत्तमाः । एकदा तु ततस्तस्मिन्भानोरायतने गतः । । २५ रात्रौ दृष्टा मया तत्र भक्ता जागरणागताः । प्रतिश्रयं प्रार्थिताश्च तैश्च दत्तो दयान्वितः । । २६ व्याधितोऽयं सुदीनश्च इति कृत्वा मतिं शुभाम् । ततोऽहमग्निमाश्रित्य स्थितस्तेषां समीपतः । । २७ दुष्टां बुद्धिं समाश्रित्य हर्तुकामो विवस्वतः । दिव्यमाभरणं भानोश्छिद्रान्वेषी द्विजोत्तमाः । । २८ स्थितोऽहं भोजका ह्यत्र यदि निद्रां व्रजन्ति ते । येनास्य वैरिवद्भानोर्हराम्याभरणं शुभम् । । २९ अथ सुप्ता भोजकास्ते निद्रया मोहितास्तदा । निर्वाणाश्चापि दीपास्तु ततोऽहमुत्थितस्त्वरन् । । 1.118.३० मुदा परमया युक्तो गतो वैश्वानरं प्रति । प्रज्वाल्यं पावकं यत्नाद्दीपवर्तिन्ततो मया । । ३१ योजयित्वा तु वै दीपे धृतो दीपोऽग्रतो रवेः । हर्तुकामेनाभरणं भानोर्देवस्य सुव्रत । । ३२ अथ ते भोजकाः सर्वे वृद्धा देवस्य पुत्रकाः । तैस्तु दृष्टो ह्यहं तत्र दीपहस्तो विभावसोः । । ३३ पुरः स्थितो द्विजश्रेष्ठा गृहीतश्चापि तैरिह । ततोऽहं तेजसा मूढो भास्करस्य महात्मनः । । ३४ विलपन्करुणं तेषां पादयोरवनिं गतः । तैश्चापि करुणां कृत्वा मुक्तोऽहं भोजकैस्तदा । । ३५ गृहीतो राजपुरुषैः पृष्टश्चापि समन्ततः । किमिदं भवतारब्धं देवदेवस्य मंदिरे । । ३६ दीपं प्रज्वाल्य दुष्टात्मन्कथ्यतां मा चिरं कुरु । इत्युक्त्वा तु ततस्तैस्तु शस्त्रहस्तैः समावृतः । । ३७ ततोऽहं व्याधिना क्लिष्टो भयेन च द्विजोत्तमाः । हित्वा प्राणान्गतो यत्र स्वयं देवो विभावसुः । । ३८ स्थित्वा कल्पं ततस्तत्र युष्माकं भ्रातृतां गतः । एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । । ३९ दत्तस्यार्कस्य भवने यस्येयं व्युष्टिरुत्तमा । दुष्टबुद्ध्या कृतं यत्तु मया दीपप्रवर्तनम् । । 1.118.४० भगायतनदीपस्य तस्येदं भुज्यते फलम् । क्षुधाभिभूतेन मया देवदेवस्य भूषणम् । । ४१ दीपश्च देवपुरतो ज्वालितो भास्करस्य तु । ततो जातिस्मृतिर्जन्म प्रान्तं ब्राह्मणवेश्मनि । । ४२ कुष्ठिना चापि शूद्रेण प्राप्तं ब्राह्मण्यमुत्तमम् । नानाविधानि शास्त्राणि सांगं वेदं समाप्तवान् । । ४३ दुष्टबुद्ध्या धृताद्दीपात्फलमेतन्महाद्भुतम् । प्राप्तं मया द्विजश्रेष्ठाः किं पुनर्दीपदायिनाम् । । ४४ एतस्मात्कारणाद्दीपानहमेवमहर्निशम् । प्रयच्छामि रवेर्धाम्नि ज्ञातमस्य हि यत्फलम् । ।४५ युष्माकमिदमुक्तं वै स्नेहात्सत्यं न संशयः । एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । ।४ ६ अर्कायतनदीपस्य भद्रोवोचद्यथा पुरा । दिनेदिने जपन्नाम भास्करस्य समाहितः । ।४७ ददाति कार्तिके यस्तु भगायतनदीपकम् । जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्वजन्तुषु । । ४८ अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः । सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः । ।४ ९ जायते नरकं चापि तमः संज्ञं न पश्यति । षष्ठीं वा सप्तमीं वापि प्रतिपक्षं च यो नरः । । 1.118.५० दीपं ददाति यत्नाद्यत्फलं तस्य निबोध मे । काञ्चनं मणियुक्तं च मनोज्ञमतिशोभनम् । । ५१ दीपमालाकुलं दिव्यं विमानमधिरोहति । तस्मादायतने भानोर्दीपान्दद्यात्सदाच्युत । । ५२ तांश्च दत्त्वा न हिंस्याच्च न च तैलवियोजितान् । कुर्वीत दीपहर्ता तु मूषकोन्धश्च जायते । । ५३ तस्माद्दद्यान्नाहरेद्वै श्रेयोऽर्थी दीपकं नरः । । ५४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भद्रोपाख्यान आदित्यायतनदीपदानफलवर्णनं नामाष्टादशाधिकशततमोऽध्यायः
आदित्यस्तववर्णनम् शतानीक उवाच तस्मिन्काले समारूढो लिख्यमानो दिवस्पतिः । ब्रह्मादिभिः स्तुतो देवैर्यथा वै तद्वदस्व मे । । १ सुमन्तुरुवाच शृणुष्वैकमना राजन्यथा देवो दिवस्पतिः । ब्रह्मादिभिः स्तुतो देवैर्ऋषिभिश्च पुराऽनघ । । २ प्रयत्नतः प्रणतहितानुकम्पिने स्वरूपतो लोकविभाविने नमः । दिवस्पते कमलकुलावबोधिने नमस्तमः पटसपटावपायिने । । ३ पावनातिशयपुण्यकर्मणे नैककामविभवप्रदायिने । भासुरामलमयूखमालिने सर्वलोकहितकारिणे नमः । । ४ अजाय लोकत्रयभावनाय भूतात्मने गोपतये प्रियाय । नमो महाकारुणिकोत्तमाय सूर्याय लोकत्रयभावनाय । । ५ विवस्वते ज्ञानकृतान्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे । स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः । । ६ निजोदयाय सुरगणमौलिमणे जगता त्वं महितस्त्वमुरुमयूखसहस्रतपाः । जगति विभो वतमसतुद वनतिमिरासवपावन मदाद्भवति विलोहितविग्रहतातिमिरविनाशिनमुग्रं सुतरां त्रिभुवनभाप्रकरैः । । ७ रथामारुह्य१ समामयं भ्रमसि सदा जगतो हितदः । । ८ इत्येवं संस्तुतो देवो भास्करो वेधसा पुरा । दैवतैश्च महाबाहो शिवविष्ण्वादिभिर्नृप । । ९ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यस्तवो नाम द्वाविंशत्यधिकशततमोऽध्यायः
परिलेखवर्णनम् शतानीक उवाच भूयोऽपि कथयस्वेमां कथां सूर्यसमाश्रिताम् । न तृप्तिमधिगच्छामि शृण्वन्नेतां कथां मुने । । १ सुमन्तुरुवाचं भास्करस्य कथां पुण्यां सर्वपापप्रणाशिनीम् । वक्ष्यामि कथितां पूर्वं ब्रह्मणा लोककर्तृणा
Śatānīka said: Once more, please tell me this story connected with the Sun; I do not attain satisfaction, O sage, even as I listen to this tale.
1.123.४० महादेवेन सहिता इन्द्रेण च महात्मना । तमेव शरणं देवं गच्छामः सहिता वयम् । । ४१ ततस्ते सहिताः सर्वे ब्रह्मविष्ण्वादयः सुराः । गत्वा ते शरणं सर्वे भास्करं लोकभास्करम् । । ४२ स्तोतुं प्रचक्रमुः सर्वे भक्तिनम्रा समन्ततः । केशादिदेवताः सर्वा भक्तिभावसमन्विताः । । ४३ ब्रह्मविष्ण्वीशा ऊचुः नमोनमः सुरवर तिग्मतेजसे नमोनमः सुरवर संस्तुताय वै । जडान्धमूकान्बधिरान्सकुष्ठान्सश्वित्रिणोंऽधान्विविधव्रणावृतान् । । करोषि तानेव पुनर्नवान्त्सदा अतो महाकारुणिकाय ते नमः । । ४४ यदौदरं ज्योतिरतित्वरन्महद्यदल्पतेजो यदपीह चक्षुषाम् । यदत्र यज्ञेष्वपनीतमाहितं तवैव तदूपमनेकतः स्थितम् । । ४५ सुरद्विषः सागरतोयवासिनः प्रचण्डपाशासिपरश्वधायुधाः । समुच्छ्रितास्ते भुवि पापचेतसः प्रयांति नाशं तव देव दर्शनात् । । ४६ यतो भवांस्तीर्थफलं समस्तं यज्ञेषु नित्यं भगवानवस्थितः । नमो भवन्नत्र विचारणास्ति सदा समः शांतिकरो नराणाम् । । यच्चापि लोके तप उच्यते बुधैस्तत्ते महातेज उशंति पण्डिताः । ।४७ स्तुतः स भगवानेवं प्रजापतिमुखैः सुरैः । अवधानं ततश्चक्रे श्रवणाभ्यां महीपते । ।४८ स्तुवन्ति ते ततो भूयः शिवविष्णुपुरोगमाः । कृत्वा मां पुरतः सर्वे भक्तिनम्राः समन्ततः । ।४९ १नमोनमस्त्रिभुवनभूतिदायिने क्रतुक्रियासत्फलसम्प्रदायिने । नमोनमः प्रतिदिनकर्मसाक्षिणे सहस्रसंदीधितये नमोनमः । । 1.123.५० प्रसक्तसप्ताश्वयुजे क्षयाय ध्रुवैकरश्मिग्रथिने नमोनमः । सवालखिल्याप्सरकिन्नरोरगैः संसिद्धगन्धर्वपिशाचमानुषैः । । सयक्षरक्षोगणगुह्यकोत्तमैः स्तुतः सदा देव नमोनमस्ते । । ५१ यतो रसान्संक्षिपसे शरीरिणां गभस्तिभिर्हिमजलघर्मनिस्रवैः । जगच्च संशोषयसे सदैव अतोसि लोके जगतो विशोषणम् । । ५२ ब्रह्मोवाच ज्ञात्वा तेषामभिप्रायमुवाच भगवान्वचः । लब्ध्वानुज्ञां ततः सर्वे सुराः संहृष्टचेतसः । । ५३ त्वष्टारं पूजयामासुर्मनोवाक्कायकर्मभिः । विश्वकर्मा तवादेशात्करोतु तव सौम्यताम् । । ५४ ततस्तु तेजसो राशिं सर्वकर्मविधानवित् । भ्रमिमारोपयामास विश्वकर्मा विभावसुम् । । ५५ अमृतेनाभिषिक्तस्य तदा सूर्यस्य वै विभोः । तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । ५६ आजानुलिखितश्चासौ समुरासुरपूजितः । नाभ्यनन्दत्ततो देव उल्लेखनमतः परम् । । ५७ ततः प्रभृति देवस्य चरणौ नित्यसंवृतौ । तापयन्ग्लापयंश्चैव युक्ततेजोऽभवत्तदा । । ५८ यच्चास्य शातितं तेजस्तेन चक्रं विनिर्मितम् । येन विष्णुर्जघानोग्रान्सदा वै दैत्यदानवान् । । ५९ शूलशक्तिगदावज्रशरासनपरश्वधान् । देवतानां ददौ कृत्वा विश्वकर्मा महामतिः । । 1.123.६० त्रिदेवनिर्मितं स्तोत्रं सन्ध्ययोरुभयोर्जपन् । कुलं पुनाति पुरुषो व्याधिभिर्न च पीड्यते । । ६१ प्रजावान्सिद्धकर्मा च जीवेत्साग्रं शरच्छतम् । पुत्रवान्धनवांश्चैव सर्वत्र चापराजितः । । हित्वा पुरं भूतमयं गच्छेत्सृर्यमयं पुरम् । । ६२ भूयोऽपि तुष्टुवुर्देवास्तथा देवर्षयो रविम् । वाग्भिरित्थमशेषस्य त्रैलोक्यस्य समागताः । । ६३ देवा ऊचुः नमस्ते१ रविरूपाय सोमरूपाय ते नमः । नमो यजुः स्वरूपायाथर्वायाङ्गिरसे२ नमः । । ६४ ज्ञानैकधामभूताय३ निर्धूततमसे नमः । शुद्धज्योतिःस्वरूपाय निस्तत्त्वायामलात्मने । । ६५ नमोऽखिलजगद्व्याप्तिस्वरूपायात्ममूर्तये
नमोऽस्तु ज्ञेयरूपाय प्रकाशे लक्षरूपिणे
Salutations to you, whose form is to be known, who appears as illumination in a hundred thousand forms.
संसारहेतवे चैव संध्याज्योत्स्नाकृते नमः
Salutations to the cause of worldly existence, to the maker of twilight and moonlight.
भ्रमत्वाविद्धमखिलं ब्रह्माण्डं सचराचरम्
Brahmā, Viṣṇu, and Īśa said: O best of gods, fierce in brilliance, salutations, salutations to you, praised by the gods! Those who are dull, blind, mute, deaf, leprous, afflicted with white patches, or covered with various wounds—you make them all new again; therefore, O greatly compassionate one, we bow to you.
क्रियते त्वत्करस्पर्शाज्जलादीनां पवित्रता 1.123.
Whatever is the great or lesser light in the belly, whatever is the vision of the eyes, whatever is removed or offered in sacrifices—all that is your portion, established in many forms.
तावद्यावन्न संयोगी जगत्यत्र भवाञ्छुचिः
Those enemies of the gods, dwelling in the ocean’s waters, armed with fierce nooses, swords, axes, and weapons, those evil-minded ones who rise up on earth, are destroyed at the sight of you, O god.
ऋचोऽथ सकला ह्येता यजूंषि त्वं जगत्पते
Because you are the giver of all the fruits of pilgrimage, always present in sacrifices, O Lord, we bow to you; there is no doubt here. You are ever equal, the bringer of peace to men.
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः
And whatever austerity is spoken of in the world by the wise, that, O one of great brilliance, the learned declare to be yours.
त्वमेव ब्रह्मणो रूपं परं चापरमेव च
Thus praised by the gods headed by Prajāpati, the Lord then listened attentively, O King, with both ears.
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः
Then again, all those gods, with Śiva and Viṣṇu at their head, made me stand before them and, devoted, bowed from all sides.
इत्थं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा
Salutations, salutations to the giver of prosperity to the three worlds, to the bestower of the true fruits of sacrificial rites; salutations, salutations to the witness of daily actions, to the one with a thousand rays.
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी
Salutations to the one yoked to the seven swift horses, to the charioteer with the single, fixed ray; always praised by the Vālakhilyas, Apsarases, Kinnaras, serpents, Siddhas, Gandharvas, Piśācas, men, Yakṣas, Rākṣasas, and the best of Guhyakas—salutations to you, O god.
शातितास्तेजसो भागा ये च स्युर्दश पंच च
You draw up the fluids of embodied beings with your rays, by the flow of snow, water, and heat; you always dry up the world—indeed, you are the one who dries up the universe.
चक्रं विष्णोर्वसूनां च शंकरस्य च दारुणम्
Brahmā said: Knowing their intention, the Lord spoke these words; having received permission, all the gods then became joyful at heart.
अन्येषां चासुरारीणां शस्त्राण्युग्राणि यानि वै 1.123.
They worshipped Tvaṣṭṛ with mind, speech, and bodily actions; by your command, Viśvakarman should make you gentle.
ततश्च षोडशं भागं बिभर्ति भगवान्रविः
Then Viśvakarman, expert in all ritual acts, placed the mass of energy upon the Sun, setting it in motion.
ततः सुरूपदृग्भानुरुत्तरानगमत्कुरून्
When the Sun, O Lord, was anointed with nectar, Viśvakarman gradually diminished his energy.
इत्येतन्निखिलं भानोः कथितं मुनिसत्तमाः
He, whose form reached to his knees, was worshipped by gods and demons; but thereafter the god did not accept further inscription.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे परिलेखवर्णनं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः
Thus ends the twenty-third chapter after one hundred, named 'Description of the Outline,' in the Brahma section, Seventh Kalpa, in the dialogue of Brahmarshis, of the glorious Bhavishya Mahapurana.
ब्रह्मोवाच व्योम्नः परं तिष्ठति यस्तु मग्नः स मुच्यते रुद्र इहापि दिंडी
Brahma said: He who is immersed stands beyond the sky; he is freed. Rudra, even here, is called Diṇḍī.
स्थित्वा पुरा ब्रह्मशिरः किलासौ प्रगृह्य तत्तस्य शिरःकपालम्
Long ago, having seized the head of Brahma, he held the skull of that head.
Aruna said: For what reason, O Lord of gods, is the Bhojaka dear to you? Tell me, why not other Brahmins or castes in the temples of the gods?
Shaving of the head should be done, and the topknot should be carefully maintained; on the day of the Sun and on the sixth day, one should observe night-fasting; on Saptami and at the Sun's transit, fasting should be performed by the Bhojaka for my satisfaction, O son of Garuda.
Brahma said: Whoever offers a lamp in the temple of the Sun attains brilliance like the Sun and gains the fruit of all sacrifices.
दीपदानवर्णनम् ब्रह्मोवाच अन्धे तमसि दुष्पारे नरके पतितात्किल । संक्रोशमानान्संक्षुब्धानुवाच यमकिङ्करः । । १ विलापैरलमत्रेति किं वो विलपिते फलम् । यत्प्रमादादिभिः पूर्वमात्मायं समुपेक्षितः । । २ पूर्वमालोचितं नैतत्कथमन्ते भविष्यति । इदानीं यातनां भुङ्ध्वं किं विलापं करिष्यथ । । ३ देहो दिनानि स्वल्पानि विषयाश्चातिदुर्बलाः । एतत्को न विजानाति येन यूयं प्रमादिनः । । ४ जन्तुर्जन्मसहस्रेभ्य एकस्मिन्मानुषो यदि । स तत्राप्यतिमूढात्मा किं भोगानभिधावति । । ५ पुत्रदारगृहक्षेत्रहिताय सततोद्यताः । न जानन्ति ततो मूढाः स्वल्पमप्यात्मनो हितम् । । ६ वञ्चितोऽहं मया लब्धमिदमस्मादुपागतम् । न वेत्ति मोहितः कश्चित्प्रक्रान्तनरको नरः । । ७ न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च । साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च । । ८ जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम् । यदर्थं यत्कृतं कर्म तस्य जन्मशतानि तु । । ९ अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि । क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् । । 1.119.१० एवमाकृष्टचित्तानां विषयैः स्वादुतर्पणैः । नृणां न जायते बुद्धिः परमार्थविलोकिनी । । ११ तथा च विषयासङ्गे करोत्यविरतं मनः । को हि भारो रवेर्नाम्नि जिह्वायाः परिकीर्तने । । १२ वर्तितैलेऽल्पमूल्ये च यद्वर्त्तिर्लभ्यते सुधा । अतो वै कतरो लाभः का तश्चिन्ता भवेत्तदा । । १३ येनायतेषु हस्तेषु स्वातंत्र्ये सति दीपकः । महाफलो भानुगृहे न दत्तो नरकापहाः । । १४ नरो विलपते किञ्चिदिदानीं दृश्यते फलम् । अस्वातंत्र्ये विलपतां स्वातंत्र्ये सति मानिनाम् । । १५ अवश्यं पातिनः प्राणा भोक्ता जीवोऽप्यहर्निशम् । दत्तं च लभते भोक्तं कामयन्विषयानपि । । १६ एतत्स्थानं दुष्कृतैर्वा युक्तं चाद्य मयेक्षितम् । इदानीं किं विलापेन सहध्वं यदुपागतम् । । १७ यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् । तदद्भुतमतिः पापे न कर्तव्या कदाचन । । १८ कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम् । कर्तव्यमनवच्छिन्नं पूजनं सवितुः सदा । । १९ ब्रह्मोवाच नारकास्तद्वचः श्रुत्वा तमूचुरतिदुःखिताः । क्षुत्क्षामकण्ठास्तृट्तापविसंस्फुटिततालुकाः । । 1.119.२० भो भोः साधो कृतं कर्म यदस्माभिस्तदुच्यताम् । नरकस्थैर्विपाकोऽयं भुज्यते यत्सुदारुणः । । २१ किङ्कर उवाच युष्माभियौंवनोन्मादान्मुदितैरविवेकिभिः । घृतलोभेन मार्तण्डगृहाद्दीपः पुरा हृतः । । २२ तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः । भवन्तः पतितास्तीव्रे शीतवातविदारिताः । । २३ ब्रह्मोवाच एतत्ते दीपदानस्य प्रदीपहरणस्य च । पुण्यं पापं च कथितं भास्करायतनेऽच्युत । । २४ सर्वत्रैव हि दीपस्य प्रदानं कृष्ण शस्यते । विशेषेण जगद्धातुर्भास्करस्य निवेशने । । २५ येऽन्धा मूका बधिरा निर्विवेका हीनास्तैस्तैर्दानसाधनैर्वृष्णिवीर । तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतः कृष्ण नीताः । । २६ इति श्री भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे दीपदानमाहात्म्यवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः
Description of the Gift of a Lamp Brahma said: 1. In the impenetrable darkness, having fallen into hell, as they cried out and were agitated, a servant of Yama addressed them. 2. 'Enough of this wailing here—what result will come from your lamentation? By your own negligence before, you have disregarded your very self. 3. This was not considered before—how will it be at the end? Now, endure your punishment; why do you lament? 4. The body lasts only a few days, and sense pleasures are extremely frail—who does not know this, because of which you acted carelessly? 5. Among thousands of births, if one attains a human birth, and even then, being utterly deluded, pursues only pleasures, what is the use? 6. Always striving for the benefit of sons, wives, houses, and fields, the deluded do not know even a little of what is good for themselves. 7. 'I have been deceived; what I gained has been taken from me'—thus, bewildered, no one knows, once a man has entered hell. 8. He does not know the sun, moon, and so on, nor time, nor even himself, who is the witness of all good and evil here. 9. Other births arise for embodied beings like sons and wives; for the sake of whatever action was done, there are hundreds of births. 10. Oh, the greatness of delusion! Even in hell, attachment persists—a man, though tormented, cries for his mother and father. 11. Thus, for those whose minds are drawn by sense objects and the satisfaction of sweet tastes, no discernment arises to see the highest truth. 12. In the same way, through attachment to sense objects, the mind acts incessantly—what effort is there in uttering the name of the Sun with the tongue? 13. When a lamp is obtained with little cost, and oil is available, what gain is greater, and what worry should there be then? 14. When, with one's own hands and freedom, a lamp is offered in the house of the Sun, it yields great fruit and removes hell. 15. A man laments a little, now seeing the result—those who lament without freedom, and those who, being free, are proud. 16. The breaths of the sinful must surely fall; the soul also enjoys or suffers day and night. What is given is received and enjoyed, even as one desires pleasures. 17. This place, fit for the wicked, has now been seen by me; now, what is the use of lamenting? Endure what has come. 18. If this suffering that has come is not desired by you, then, O man of wondrous mind, never commit sin. 19. Even if a sinful deed is done out of ignorance, worship of the Sun should always be performed without interruption, for it destroys dense darkness. Brahma said: 20. Hearing those words, the hell-dwellers, extremely distressed, with throats parched by hunger and thirst, and tongues cracked by heat, spoke: 21. 'O noble one, tell us what deeds we have done, for this dreadful suffering is being endured by us in hell.' The servant said: 22. 'By you, intoxicated with youth, delighted and lacking discernment, out of greed for ghee, a lamp was once stolen from the house of the Sun.' 23. 'Because of that, you have fallen into this terrible hell, tormented by hunger and thirst, and torn by intense cold and wind.' Brahma said: 24. Thus, O Achyuta, the merit and sin of giving or stealing a lamp in the house of the Sun has been described. 25. Everywhere, O Krishna, the giving of a lamp is praised, especially in the abode of the world-creator, the Sun. 26. O hero of the Vrishnis, those who are blind, mute, deaf, lacking discernment, or destitute—by such means of charity, lamps are taken from the temple of the gods and given to the world of the good, or removed elsewhere, O Krishna. Thus ends the one hundred nineteenth chapter, entitled 'The Greatness of the Gift of a Lamp,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
आदित्यपूजावर्णनम् विष्णुरुवाच भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः । दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः । । १ आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः । सदा सम्पीड्यमानास्तु तिष्ठन्त्यम्बुजसम्भव । । २ येन कर्मविपाकेन विषरोगाद्युपद्रवाः । प्रभवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि । । ३ ब्रह्मोवाच व्रतोपवासैर्यैर्भानुर्नान्यजन्मनि तोषितः । ते नरा देवशार्दूल ग्रहरोगादिभागिनः । । ४ यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् । विषग्रहज्वराणां ते मनुष्याः कृष्ण भागिनः । । ५ आरोग्यं परमां वृद्धिं मनसा यद्यदिच्छति । तत्तदाप्नोत्यसंदिग्धं परत्रादित्यतोषणात् । । ६ नाधीन्प्राप्नोति न व्याधीन्न विषयग्रहबन्धनम् । कृत्यास्पर्शभयं वापि तोषिते तिमिरापहे । । ७ सर्वे दुष्टाः समास्तस्य सौम्यास्तस्य सदा ग्रहाः । देवानामपि पूज्योऽसौ तुष्टो यस्य दिवाकरः । । ८ यः समः सर्वभूतेषु यथात्मनि तथा हिते । उपवासादिना येन तोष्यते तिमिरापहः । । ९ तोषितेऽस्मिन्प्रजानाथे नराः पूर्णमनोरथाः । अरोगाः सुखिनो नित्यं बहुधर्मसुखान्विताः । । 1.120.१० न तेषां शत्रवो नैव शरीराद्यभिचारकम् । ग्रहरोगादिकं चापि पापकार्युपजायते । । ११ अव्याहतानि देवस्य धनजालानि तं नरम् । रक्षन्ति सकलापत्सु येन श्वेताधिपोऽर्चितः । । १२ विष्णुरुवाच अनाराधितमार्तण्डा ये नराः दुःखभागिनः । ते कथं नीरुजः सन्तु विज्वरा गतकल्मषाः ।। १३ ब्रह्मोवाच आराधयन्तु देवेशं पुष्पेणैवमनौपमम् । भास्करं तु जगन्नाथं सर्वदेवगुरुं परम् ।। १४ विष्णुरुवाच दोषाभिभूतदेहैस्तु कथमाराधनं रवेः । कर्त्तव्यं वद देवेश भक्त्या श्रेयोऽर्थमात्मनः ।। १५ अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति । तन्मयोपदिश त्वं च महदाराधनं रवेः ।। १६ अनन्तमजरं देवं दुष्टसन्देहनाशनम् । आराधयितुमिच्छामि भगवन्तस्त्वदनुज्ञया । । येनाहं त्वत्प्रसादेन भवेयमतिविक्रमः ।। १७ ब्रह्मोवाच अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः । आराधनाय ते विष्णो यदेतत्प्रवणं मनः ।। १८ यदि देवपतिं भानुमाराधयितुमिच्छसि । भगवन्तमनाद्यं च भव वैवस्वतोऽच्युत ।। १९ न ह्यवैवस्वतैर्भानुर्ज्ञातुं स्तोतुं च शक्यते । द्रष्टुं वा शक्यते मूढैः प्रवेष्टुं कुत एव तु ।।1.120.२ ० तद्भक्तिप्रार्थिताः पूता नरास्तद्भक्तिचेतसः । वैवस्वता भवन्त्येवं विवस्वन्तं विशन्ति च ।।२ १ अनेकजन्मसंसारचिते पापसमुच्चये । नाक्षीणे जायते पुंसां मार्तण्डाभिमुखी मतिः । । २२ प्रद्वेषं याति मार्तण्डे द्विजान्वेदांश्च निन्दति । यो नरस्तं विजानीयादसुरांशसमुद्भवम् । । २३ पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता । जायते दम्भमायाम्भः पतितानां दुरात्मनाम् । । २४ यदा पापक्षयः पुंसां तदा वेदद्विजातिषु । भानौ च यज्ञपुरुषे श्रद्धा भवति नैष्ठिकी । । २५ यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः । तदा भोजकविप्रेषु भानौ पूजां प्रकुर्वते । । २६ भ्रमतामत्र संसारे नराणां कर्मदुर्गमे । करावलम्बनो ह्येको भक्तिप्रीतो दिवाकरः । । २७ स त्वं वैवस्वतो भूत्या सर्वपापहरं हरिम् । आराधय समं भक्त्या प्रीतिमभ्येति भास्करः । । २८ विष्णुरुवाच किं लक्षणा भवन्त्येते नरा वैवस्वता गुणैः । यच्च वैवस्वतं कार्यं तन्मे कथय कञ्जज । । २९ ब्रह्मोवाच कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः । भावभक्तश्च मार्तण्ड कृष्ण वैवस्वतो हि सः । । 1.120.३० यो भोजकद्विजान्देवान्नित्यमेव नमस्यति । न च भोक्ता परस्वादेर्विष्णो वैवस्वतो हि सः । । ३१ सर्वान्देवान्रविं वेत्ति सर्वांल्लोकांश्च भास्करम् । तेभ्यश्चानन्यमात्मानं कृष्ण वैवस्वतो हि सः । । ३२ देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकम् । तरुपाषाणकाष्ठादिभूम्यम्भोधिं दिवं तथा । । ३३ आत्मानं चापि देवशाद्व्यतिरिक्तं दिवाकरात् । यो न जानाति तं विद्यात्कृष्ण वैवस्वतं नरम् । । ३४ सर्वो वैवस्वतो भागो यद्भूतं यद्व्यवस्थितम् । इति वै यो विजानाति स तु वैवस्वतो नरः । । ३५ भवभीतिं हरत्येष भक्तिभावेन भावितः । विवस्वानिति भावो यः स तु वैवस्वतो नरः । । ३६ भावं न कुरुते यस्तु सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा स च वैवस्वतो नरः । । ३७ बाह्यार्थनिरपेक्षो यः क्रियां भक्त्या विवस्वतः । भावेन निष्पादयति ज्ञेयो वैवस्वतो हि सः । । ३८ नारयो यस्य न स्निग्धा न भेदाधीनवृत्तयः । वीक्षते सर्वमेवेदं भानुं वैवस्वतो हि सः । । ३९ सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः । तां गतिं न नरा यन्ति यां तु वैवस्वतो गतः । ।1.120.४ ० येन सर्वात्मना भानौ भक्त्या भावो निवेशितः । देवश्रेष्ठ कृतार्थत्वाच्छ्लाघ्यो वैवस्वतो हि सः । । ४१ अपि नः स कुले धन्यो जायेत कुलपावनः । भास्करं भक्तिभावेन यस्तु वै पूजयिष्यति । ।४२ यः कारयति देवार्चां हदयालम्बिनीं रवेः । स नरोऽर्कमवाप्नोति धर्मध्वजमनौपमम् । ।४ ३ यश्च देवालयं भक्त्या भानोः कारयते स्थिरम् । स सप्त पुरुषाँल्लोकान्भानोर्नयति मानवः । ।४४ यावन्तोब्दान्हि देवार्चा रवेस्तिष्ठति मंदिरे । तावद्वर्षसहस्राणि पुष्पोत्तरगृहे वसेत् । । ४५ देवार्चालक्षणोपेतो यद्गृहे सन्ततो विधिः । निष्कामं च मनो यस्य स यात्यक्षरसाम्यताम् । । ४६ पुष्पाण्यतिसुगंधीनि मनोज्ञानि च यः पुमान् । प्रयच्छति जगन्नाथे सप्ताश्वे ज्योतिषां पतौ । । स याति परमं स्थानं यत्र ज्योतिः सनातनम् । ।४७ यस्य यस्य विहीनो यो देशो यद्वर्जितं च यत् । धूपांश्च विविधांस्तांस्तान्गंधाढ्यं सुविलेपनम् । ।४८ दीपवर्त्युपहारांश्च यच्चाभीष्टमथात्मनः । नरः सोनुदिनं यज्ञान्करोत्याराधनाद्रवेः । ।४ ९ यज्ञेशो भगवान्भानुर्मखैरपि स तोष्यते । बहूपकरणा यज्ञा नानासंभारविस्तराः । । संप्राप्यन्ते धनयुतैर्मनुष्यैर्नाल्पसंचयैः । । 1.120.५० भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि । रवेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ५१ यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् । दयितं भूषणं यच्च तथा रक्ते च वाससी । । ५२ यानि चाभ्यवहार्याणि भक्ष्याणि च फलानि च । प्रयच्छ तानि मार्तण्ड भवेथाश्चैव तन्मनाः । । ५३ आद्यं तं यज्ञपुरुषं यथा भक्त्या प्रसादय । आराध्य याति तं देवं यत्तद्ब्रह्म परं स्मृतम् । । ५४ पुण्यैस्तीर्थोदकैः पुष्पैर्मधुना सर्पिषा तथा । क्षीरेण स्नापयेद्देवमच्युतं जगतां पतिम् । । ५५ दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः । प्रयास्यसि यदुश्रेष्ठ निर्वृतिं चापि ऐश्वरीम् । । ५६ स्तोत्रैर्हद्यैर्यथा वाद्यैर्ब्राह्मणानां च तर्पणैः । मनसश्चैकतायोगादाराधय दिवाकरम् । । ५७ आराध्यं तं महादेवो महच्छब्दमवाप्तवान् । । ५८ अहं चापि समस्तानां लोकानां सृष्टिकारकः । तमाराध्य विवस्वन्तं तत्प्रसादाज्जनार्दन । । ५९ त्वमप्येतं हृषीकेश तत्प्रसादान्न संशयः । समर्थो देवशत्रूणां दैत्यानां नाशने सदा । । 1.120.६० दक्षिणः किरणस्तस्य यो देवस्य विवस्वतः । अहं तस्मात्समुत्पन्नो वेदवेदाङ्गसम्मितः । । ६१ वामो यः किरणः कृष्ण रश्मिमालाकुलः सदा । तस्मादीशः समुत्पन्नः पार्वतीदयितोऽच्युत । । ६२ वक्षसस्त्वं समुत्पन्नः शंखचक्रगदाधरः । तथाम्बुजकरा देवी अम्बुजाननवल्लभा । । ६३ समाराध्य बलं कीर्तिं श्रियं चावाप्तवानहम् । तथा त्त्वमपि राजेन्द्र तमाराध्य दिवाकरम् । । यान्यानिच्छसि कामांस्त्वं तांस्तान्सर्वानवाप्स्यसि । । ६४ य इदं शृणुयान्नित्यं संवादं विधिकृष्णयोः । सोऽपि कामानवाप्याग्र्यांस्ततो लोकमवाप्नुयात् । । ६५ गैरिकं यानमारूढो युक्तं कुञ्जरवाजिभिः । तेजसाम्बुजसंकाशः प्रभयाण्डज सन्निभः । । ६६ कान्त्या चंद्रसमो राजन्वृन्दारकगणैर्वृतः । गन्धर्वैर्गीयमानस्तु तथा चाप्सरसां गणैः । । ६७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यपूजावर्णनं नाम विंशत्यधिकशततमोऽध्यायः
Description of the Worship of the Sun Vishnu said: 1. O Lord, all living beings are constantly afflicted by poison, disease, and other troubles, as well as the attacks of evil planets. 2. They are always tormented by sorcery, terrible skin diseases, and other afflictions, O Lotus-born. 3. By what karma's result do poison, disease, and other troubles arise among men? Please tell me this properly. Brahma said: 4. Those men, O best of gods, who have not pleased the Sun in this or previous lives by vows and fasts, become subject to the planets, diseases, and so on. 5. Those whose minds have never been inclined toward him, O Krishna, always become subject to poison, planets, and fevers. 6. Whatever supreme health and increase one desires in mind, that is certainly obtained hereafter by pleasing the Sun. 7. He does not suffer from subjugation, disease, or bondage to sense objects, nor from fear of sorcery or touch, when the dispeller of darkness is pleased. 8. All the planets become gentle for him, always auspicious; even the gods worship him, when the Sun is pleased. 9. He who is equal to all beings, who seeks the welfare of others as his own, and who pleases the dispeller of darkness by fasting and so on— 10. When this lord of beings is pleased, men become fulfilled in their desires, healthy, always happy, and endowed with many virtues. 11. They have no enemies, nor any bodily or magical affliction; no evil arises from planets, diseases, or sinful acts. 12. The inexhaustible treasures of the god protect that man in all dangers, by whom the lord of light is worshipped. Vishnu said: 13. Those men who do not worship Martanda are subject to suffering—how can they be free from disease, fever, and sin? Brahma said: 14. Let them worship the lord of the gods, the Sun, the teacher of all the gods, the supreme, with incomparable flowers. Vishnu said: 15. How should the worship of the Sun be performed by those whose bodies are afflicted by faults? Tell me, O lord of gods, for the sake of my own welfare, with devotion. 16. If I am to be favored by you, as your devotee, then instruct me in the great worship of the Sun. 17. I wish to worship the endless, ageless god, the destroyer of evil doubts, with your permission, O Lord, so that by your grace I may become exceedingly powerful. Brahma said: 18. You are indeed worthy of the god's favor, O Vishnu, whose birth is unmanifest; your mind is inclined to his worship. 19. If you wish to worship the lord of gods, the Sun, the primeval one, then become a son of Vivasvat, O Achyuta. 20. The Sun cannot be known, praised, or seen by those who are not of the Vaivasvata lineage, nor can he be entered by the deluded. 21. Those purified by devotion, whose minds are set on him, become Vaivasvatas and enter Vivasvat. 22. Unless the heap of sins accumulated over many births is destroyed, the mind of men does not turn toward Martanda. 23. He who hates Martanda and reviles Brahmins and the Vedas—know that man to be born of demonic stock. 24. Delight in heretics, fondness for arguments—these arise among the fallen, wicked souls, covered by hypocrisy and deceit. 25. When the sins of men are destroyed, then steadfast faith arises in the Vedas, Brahmins, the Sun, and the Lord of sacrifice. 26. When only a little sin remains, men perform worship of the Sun and feed Brahmins. 27. As men wander in this difficult world of karma, the Sun, pleased by devotion, is their only support. 28. Therefore, O Vaivasvata, worship Hari, the remover of all sins, with equal devotion; the Sun will become pleased. Vishnu said: 29. What are the marks and virtues of these Vaivasvata men? And what should be done by a Vaivasvata? Tell me this, O Lotus-born. Brahma said: 30. He who does not harm living beings by deed, mind, or word, and who is devoted to Martanda in spirit, O Krishna, is a Vaivasvata. 31. He who always honors Brahmins who feed others, and does not covet another's wealth, O Vishnu, is a Vaivasvata. 32. He who knows all the gods as the Sun, and all the worlds as the Sun, and sees himself as non-different from them, O Krishna, is a Vaivasvata. 33. He who does not see himself as separate from the god, man, animal, bird, ant, tree, stone, wood, earth, water, or sky— 34. He who does not know himself as different from the god, the Sun—know him, O Krishna, to be a Vaivasvata man. 35. Whoever knows that all that exists and is established is the portion of Vaivasvata—he is a Vaivasvata man. 36. He who, filled with devotion, removes the fear of worldly existence, and whose mind is set on Vivasvat—he is a Vaivasvata man. 37. He who does not harm any being by deed, mind, or word—he is a Vaivasvata man. 38. He who, indifferent to external objects, performs actions for Vivasvat with devotion—he is to be known as a Vaivasvata. 39. He whose relatives are not dear, whose behavior is not dependent on divisions, and who sees all this as the Sun—he is a Vaivasvata. 40. By austerity, sacrifice, or great gifts, men do not attain that state which the Vaivasvata attains. 41. He who, with all his being, places his devotion in the Sun, O best of gods, is fulfilled and praiseworthy as a Vaivasvata. 42. May such a blessed one be born in our family, a purifier of the lineage, who will worship the Sun with devotion. 43. He who causes the worship of the Sun, with a heart full of faith, attains the Sun and an incomparable banner of righteousness. 44. He who builds a temple for the Sun with devotion leads seven generations to the worlds of the Sun. 45. For as many years as the worship of the Sun remains in the temple, for that many thousands of years he dwells in the house of flowers. 46. In whose house the worship of the Sun is constantly performed with proper marks, and whose mind is desireless, he attains equality with the imperishable. 47. He who offers fragrant and delightful flowers to the Lord of the universe, the seven-horsed Lord of light, attains the supreme place where the eternal light is. 48. Whatever place is lacking, whatever is omitted, various kinds of incense, ointments rich in fragrance, and all desired offerings— 49. The man who, day by day, performs sacrifices and worship of the Sun with these, attains the fruits of worship. 50. The Lord of sacrifice, the Sun, is pleased even by simple offerings of sacred grass; the fruits he gives by devotion are hard to obtain even by great sacrifices. 51. Whatever pleasing flowers, incense, ointments, beloved ornaments, and red garments— 52. Whatever foods, eatables, and fruits are dear—offer these to Martanda with a devoted mind. 53. Please the primeval Lord of sacrifice with devotion; by worshipping him, one attains that supreme Brahman. 54. Bathe the Lord of the universe, Achyuta, with holy waters, flowers, honey, ghee, and milk. 55. By giving ponds of curds and milk, you will go to worlds full of honey, O best of the Yadus, and attain supreme bliss and sovereignty. 56. With hymns, music, and the satisfaction of Brahmins, and by concentration of mind, worship the Sun. 57. Having worshipped him, the great god obtained the great name. 58. I, the creator of all worlds, worshipped Vivasvat, and by his grace, O Janardana— 59. You also, O Hrishikesha, by his grace, are always able to destroy the enemies of the gods and the demons. 60. The right ray of that god Vivasvat is myself, born from him, and is the essence of the Vedas and their limbs. 61. The left ray, O Krishna, always surrounded by rays, is the Lord Shiva, beloved of Parvati, O Achyuta. 62. From his chest you were born, O bearer of conch, discus, and mace; likewise, the goddess with lotus hands, beloved of the lotus-faced one. 63. By worshipping him, I obtained strength, fame, and wealth; so too, O king, by worshipping the Sun, you will obtain all the desires you wish for. 64. Whoever hears this dialogue between Brahma and Krishna daily, he too will obtain the highest desires and attain that world. 65. Mounted on a red vehicle drawn by elephants and horses, shining like a lotus, radiant like an egg of light, 66. Equal in splendor to the moon, surrounded by groups of boys, praised by Gandharvas, and by companies of Apsaras. 67. Thus ends the one hundred twentieth chapter, entitled 'Description of the Worship of the Sun,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
विश्वकर्मकृतसूर्यतेजः शातनवर्णनम् शतानीक उवाच शरीरलेखनं१ भानोरुक्तं संक्षेपतस्त्वया । विस्तराच्छ्रोतुमिच्छामि तन्ममाचक्ष्व सुव्रत । । १ सुमन्तुरुवाच पितुर्गृहं तु यातायां संज्ञायां कुरुनंदन । भास्करश्चिंतयामास संज्ञा मद्रूपकारिणी । । २ एतस्मिन्नंतरे ब्रह्मा तत्रागत्य दिवाकरम् । अव्रवीन्मधुरां वाचं रवेः प्रीतिकरां शुभाम् । । ३ आदिदेवोऽसि देवानां व्याप्तमेतत्त्वया जगत् । श्वशुरो विश्वकर्मा ते रूपं निर्वर्तयिष्यति । । ४ एवमुक्त्वा रविं ब्रह्मा विश्वकर्माणमब्रवीत् । निवर्तस्य मार्तण्डं स्वरूपं तत्सुशोभनम् । । ५ ततो ब्रह्मसमादेशाद्भ्र(भू?)मिमारोप्य भास्करम् । रूपं निर्वर्तयामास विश्वकर्मा शनैःशनैः । । ६ ततस्तुष्टाव तं ब्रह्मा सर्वदेवगणैः सह । गुह्यैर्नानाविधैः स्तोत्रैर्वेदवेदाङ्गपारगैः । । ७ स्वस्ति तेऽस्तु जगन्नाथ धर्मवर्षहिमाकर । शांतिस्ते सर्वलोकानां देवदेव दिवाकर । । ८ ततो रुद्रश्च विष्ण्वाद्याः स्तुवंतस्तं दिवाकरम् । तेजस्ते वर्धतां देव लिख्यतेऽपि दिवस्पते । । ९ इन्द्रश्चागत्य तं देवं लिख्यमानमथास्तुवत् । जय देव जयस्वेति तत्त्वदोऽसि जगत्पते ।। 1.121.१० ऋषयस्तु ततः सप्त विश्वामित्रपुरोगमाः । तुष्टुवुर्विविधैः स्तोत्रैः स्वस्तिस्वस्तीतिवादिनः ।। ११ वेदोक्ताभिरथाशीर्भिर्वालखिल्याश्च तुष्टुवुः । त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनामपि ।। १२ त्वं गतिः सर्वभूतानां त्वयि सर्वं प्रतिष्ठितम् । प्रजाभ्यश्चैव देवेश शं नोऽस्तु जगतः पते ।। १३ त्वत्तो भवति वै नित्यं जगत्संलीयते त्वयि । त्वमेकस्त्वं द्विधा चैव त्रिधा च त्वं न संशयः ।। १४ त्वयैकेन जगत्सृष्टं त्वयैकेन प्रबोधितम् । ततो विद्याधरगणा यक्षराक्षसपन्नगाः ।। १५ कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । ऊचुरेवंविधा वाचो मनः श्रोत्रसुखप्रदाः ।। १६ सह्यं भवतु ते तेजो भूतानां भूतभावन । हाहा हूहूस्ततश्चैव तुम्बुरुर्नारदस्तथा ।। १७ उपगातुं समारब्धा गामुच्चैः कुशला रविम् । षड्जमध्यमगांधारग्रामत्रयविशारदाः ।। १८ मूर्च्छनाभिस्ततश्चैव तथा धैवतपञ्चमैः । नानानुभावमन्द्रैश्च अर्धमन्द्रैस्तथैव च ।। १९ त्रिसाधनैः प्रकारैस्तु वाद्यतालसमन्वितैः । विश्वाची च घृताची च उर्वशी च तिलोत्तमा ।।२० मेनका सहजन्या च रम्भा चाप्सरसां वरा । हावभावविलासैश्च कुर्वत्योऽभिनयान्बहून् ।।२ १ ततोऽतीव कलं गेयं मधुरं च प्रवर्तते । सर्वेषां देवसंघानां मनः श्रोत्रसुखप्रदम् ।।२२ प्रवाद्यं तु ततस्तत्र वीणावंशादि सुव्रत । पणवाः पुष्कराश्चैव मृदङ्गाः पटहास्तथा । । २३ देवदुन्दुभयः शंखाः शतशोऽथ सहस्रशः । गायद्भिश्चैव गन्धर्वैर्नृत्यद्भिश्चाप्सरोगणैः । । २४ तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् । ततः कृतैः करपुटैः पद्यकुड्मलसन्निभैः । । २५ ललाटोपरि विन्यस्तैः प्रणेमुः सर्वदेवताः । ततः कोलाहले तस्मिन्सर्वदेवसमागमे । । २६ तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । २७ इति हिमजलघर्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य । तदुपरि लिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोन्ते । । २८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे विश्वकर्मकृतसूर्यतेजः शातनं नामैकविंशोत्तरशततमोऽध्यायः
Description of the Diminishing of the Sun's Splendor by Vishvakarman Shatanika said: 1. The inscription of the Sun's body has been briefly described by you; I wish to hear it in detail—please tell me, O virtuous one. Sumantu said: 2. When Sanjna had gone to her father's house, O descendant of Kuru, the Sun thought, 'Sanjna has made a form like mine.' 3. At that moment, Brahma came there to the Sun and spoke sweet, auspicious words, pleasing to Ravi. 4. 'You are the primeval god among the gods; the universe is pervaded by you. Your father-in-law, Vishvakarman, will fashion your form.' 5. Having thus spoken to Ravi, Brahma addressed Vishvakarman: 'Fashion the beautiful form of Martanda.' 6. Then, by Brahma's command, Vishvakarman gradually fashioned the form of the Sun, placing him on the ground. 7. Then Brahma, together with all the hosts of gods, praised him with various secret hymns, versed in the Vedas and their limbs. 8. 'May there be welfare for you, O Lord of the universe, source of righteousness and snow; may there be peace for all worlds, O god of gods, O Sun.' 9. Then Rudra, Vishnu, and others praised that Sun: 'May your splendor increase, O god, even as it is inscribed, O lord of day.' 10. Indra, having come, praised the god as he was being inscribed: 'Victory to you, O god, victory to you! You are the knower of truth, O lord of the world.' 11. Then the seven sages, headed by Vishvamitra, praised him with various hymns, saying, 'Welfare, welfare.' 12. The Valakhilyas praised him with blessings from the Vedas: 'You are the liberation of those who seek liberation, O lord; you are the object of meditation even for the meditators.' 13. 'You are the refuge of all beings; in you all is established. From you, O lord of the world, may there be peace for the creatures.' 14. 'From you the world is born, and into you it dissolves; you are one, you are twofold, you are threefold—there is no doubt.' 15. 'By you alone the world is created, by you alone it is awakened.' 16. Then the hosts of Vidyadharas, Yakshas, Rakshasas, and serpents, with joined palms and bowed heads, praised Ravi with words pleasing to the mind and ear. 17. 'May your splendor be bearable for beings, O creator of beings.' 18. Then Hāhā, Hūhū, Tumburu, and Narada began to sing to Ravi, skilled in the three scales—Shadja, Madhyama, and Gandhara. 19. With various melodies, in Dhaivata and Panchama, with many kinds of soft and deep notes. 20. With triple measures, accompanied by instrumental rhythms, Vishvachi, Ghritachi, Urvashi, and Tilottama, 21. Menaka, Sahajanya, and Rambha, the best of Apsaras, performed many expressive dances with gestures and moods. 22. Then a very melodious and sweet song arose, delighting the minds and ears of all the hosts of gods. 23. Then, O virtuous one, the vina, flute, panava, pushkara, mrdanga, and pataha were played. 24. Divine drums and conches by the hundreds and thousands, sung by Gandharvas and danced by groups of Apsaras. 25. With the sounds of all these instruments, everything was filled with tumult. Then, with hands joined like lotus buds, all the gods bowed at his forehead. 26. Then, in that tumult, with all the gods assembled, 27. Vishvakarman gradually diminished the Sun's splendor. 28. Thus, for the sake of the seasons of snow, water, and heat, praised by Hara, Kamalāsana, and Vishnu, the inscription was made on the Sun; hearing of this, at the end of his life, one goes to the world of the Sun. Thus ends the one hundred twenty-first chapter, entitled 'The Diminishing of the Sun's Splendor by Vishvakarman,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
Description of the Hymn to the Sun Shatanika said: 1. At that time, as the lord of day was being inscribed, tell me how the god was praised by Brahma and the other gods. Sumantu said: 2. Listen attentively, O king, to how the god, the lord of day, was praised by Brahma, the gods, and the sages of old, O sinless one. 3. Salutation to you, who, with effort, show compassion to those who bow, who reveal the worlds in your own form, O lord of day, awakener of the lotus race, salutation to you, remover of the veil of darkness. 4. Salutation to you, performer of supremely pure and meritorious deeds, bestower of manifold desires and prosperity, radiant one, adorned with spotless rays, doer of good to all the worlds. 5. Salutation to the unborn, creator of the three worlds, the soul of all beings, protector of the earth, beloved one, greatest of the compassionate, Sun, creator of the three worlds. 6. Salutation to Vivasvat, the inner self of knowledge and destiny, the foundation of the world, the benefactor of the world, self-born, the eye of all the worlds, best of the gods, of immeasurable splendor. 7. To you, whose own rising is the crest-jewel of the gods, you are revered in the world, you burn with thousands of mighty rays; O lord, you dispel the darkness of the forests, you purify the world, you are the destroyer of the darkness of ignorance, fierce one, with the light that fills the three worlds. 8. Riding your chariot, you always move for the welfare of the world. 9. Thus was the god Bhaskara praised of old by Brahma, the gods, the mighty Shiva, Vishnu, and others, O king. Thus ends the one hundred twenty-second chapter, entitled 'The Hymn to the Sun,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
Together with great Mahādeva and mighty Indra, we all go for refuge to that very god.