नन्दानामसप्तमीवर्णनम् ब्रह्मोवाच या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी । नन्दा सा कथिता वीर सर्वानन्दकरी शुभा । । १ पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् । सप्तम्यामुपवासं तु कीर्तयन्ति मनीषिणः । । २ पारणान्यत्र वै त्रीणि शंसन्तीह मनीषिणः । मालतीकुसुमानीह सुगन्धं चन्दनं तथा । । ३ कर्पूरागरुसम्मिश्रं धूपं चात्र विनिर्दिशेत् । दध्योदनं सखण्डं च नैवेद्यं भास्करप्रियम् । । ४ तमेव दद्याद्विप्रेभ्योऽश्नीयाच्च तदनु स्वयम् । धूपार्थं भास्करस्यैष प्रथमे पारणे विधिः । । ५ पलाशपुष्पाणि विभो धूपो यः शक्य एव च । कर्पूरं चन्दनं कुष्ठमगुरुः सिह्लकं तथा । । ६ सग्रन्थि वृषणं भीम कुंकुमं गृञ्जनं तथा । हरीतकी तथा भीम एष पक्षक उच्यते । । ७ धूपः प्रबोध आदिष्टो नैवेद्यं खण्डमण्डकाः । कृष्णागरुः सितं कञ्जं बालकं वृषणं तथा । । ८ चंदनं तगरो मुस्ता प्रबोधशर्करान्विता । भोजयेद्ब्राह्मणांश्चापि खण्डखाद्यैर्गणाधिप । । निम्बपत्रं तु सम्प्राश्य ततो भुञ्जीत वाग्यतः । । ९ पारणस्य द्वितीयस्य विधिरेष प्रकीर्तितः । । 1.100.१० नीलोत्पलानि शुभ्राणि धूपं गौग्गुलमाहरेत् । नैवेद्यं पायसं देयं१ प्रीतये भास्करस्य तु । । ११ विलेपनं चन्दनं तु प्राशने विधिरुच्यते । तृतीयस्यापि ते वीर कथितो विधिरुत्तमः । । १२ शृणु नामानि देवस्य पावनानि नृणां सदा । विष्णुर्भगस्तथा धाता प्रीयतामुद्गिरेच्च वै । । १३ अनेन विधिना यस्तु कुर्यात्प्रयतमानसः । सकामानिह सम्प्राप्य नन्दते शाश्वती समाः
Description of the Nandā Saptamī.
ततः सूर्यसदो गत्या नन्दते नन्दवर्धन । एषा तु नन्दजननी तवाख्याता भया शिव । । १५ यामुपोष्य ततो भुक्त्वा नन्दते हंसमाप्य वै । । १६ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे नन्दानामसप्तमीवर्णनं नाम शततमोऽध्यायः
Then, by reaching the assembly of the Sun, one rejoices, O Nandavardhana. This, O Śiva, is declared to you as the mother of Nandā.
७८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे नक्षत्रपूजाविधिवर्णनं नाम द्व्यधिकशततमोऽध्यायः
Thus ends the one hundred and second chapter, named 'Description of the Procedure for Worshipping the Constellations,' in the Saptamī section of the Brahma Parvan of the glorious Bhaviṣya Mahāpurāṇa.
सूर्यपूजामहिमवर्णनम् ब्रह्मोवाच यश्च देवालयं भक्त्या भानोः कारयते स्थिरम् । स सप्त पुरुषांल्लोकान्भानोर्नयति मानवः । । १ यावन्त्यब्दानि देवार्चा रवेस्तिष्ठति मन्दिरे । तावद्वर्षसहस्राणि सूर्यलोके स मोदते । । २ देवार्चा लक्षणोपेता यद्गृहे सन्ततो विधिः । निष्कामं वा मनो यस्य स याति रविसाम्यताम् । । ३ पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान् । प्रयच्छति हि देवेशं तद्भावगतमानसः । ।४ धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम् । दीपबल्युपहाराश्च यच्चाभीष्टमथात्मनः । । ५ नरः सोऽनुदिनं यज्ञात्प्राप्नोत्याराधनाद्रवे । यज्ञेशो भगवान्भानुर्मखैरपि च तोष्यते । । ६ बहूपकरणा यज्ञा नानासम्भारविस्तराः । प्राप्यन्ते३ तैर्धनयुतैर्मनुष्यैर्लोकसञ्चयैः ।। ७ भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि । रवेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ८ यानि पुष्पाणि भक्ष्याणि धूपगन्धानुलेपनम् । दयितं भूषणं यच्च रक्तके चैव वाससी । । ९ यानि चाभ्युपहाराणि भक्ष्याणि च फलानि च । प्रयच्छ तानि देवेश भवेथाश्चैव तन्मनाः । । 1.103.१० आद्यं तं यज्ञपुरुषं यथाशक्त्या प्रसादय । आराध्य स्थापितं देवं तस्मिन्नेव नरालये । । ११ पुष्पैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा । क्षीरेण स्नापयेद्देवं चित्रभानुं दिवाकरम्
1.103.४० विधुनोत्यतिवातेन दातुरज्ञानतः कृतम् । पापं दातुर्गृहे भानुर्दिवारात्रौ न संशयः । । ४१ गीतवाद्यादिर्भिर्देवं य उपास्ते विभावसुम् । गन्धर्वनृत्यैर्वाद्यैश्च विमानस्थो निषेव्यते । । ४२ जातिस्मरत्वं वृद्धिं च ततस्तु परमां गतिम् । प्राप्नोति हेलेरायतने पुण्याख्यानकथाकरः । । ४३ तस्मात्कुर्यात्प्रयत्नेन पूजयेद्वापि वाचकम् । नान्यत्प्रीतिकरं भानोः पुण्याख्यानादृते क्वचित् । । ४४ एकोऽपि हेलेः सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म हेलिप्रणामी न पुनर्भवाय । । ४५ एवं१ देवेश्वरो भक्त्या येन भानुरुपासितः । स प्राप्नोति गतिं श्लाघ्यां यामिच्छति च चेतसा । ।४ ६ तमाराध्य मया प्राप्तं ब्रह्मत्वं लोकपूजितम् । सौरेर्यथेप्सितं प्राप्तं त्वया तस्मात्पुरानघ । । ४७ ब्रह्महत्याभिभूतस्तु गोश्रुताभरणो हरः । तमाराध्य रविं भक्त्या मुक्तोऽसौ ब्रह्महत्यया । ।४८ देवत्वं मनुजैः कैश्चिद्गन्धर्वत्वं तथा परैः । विद्याधरत्वमपरैरेवाप्तं हि दिवाकरात् । । ४९ लेखः क्रतुशतेनेशमाराध्यैनं दिवाकरम् । इन्द्रत्वमगमत्तस्मान्नान्यः पूज्यो दिवाकरात् । । 1.103.५० देवेभ्योऽप्यतिपूज्यस्तु स्वगुरुर्ब्रह्मचारिणा । तस्मात्स यज्ञपुरुषो विवस्वान्पूज्य एव हि । । ५१ स्त्रियाश्च भर्तारमृते पूज्योऽत्यन्तं विभावसुः । भर्तुर्गृहस्थस्य सतः पूज्यो गोपतिरंशुमान् । । ५२ वैश्यानामपि चाराध्यस्तपोभिस्तमनाशनः । ध्येयः परिव्राजकानां सदा देवो विभावसुः । । ५३ एवं सर्वाश्रमाणां हि चित्रभानुः परायणम् । सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् । । ५४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सूर्यपूजामहिमवर्णनं नाम त्र्यधिकशततमोऽध्यायः
The sin committed by the donor out of ignorance is dispelled by the wind, O giver; the sun removes the donor's sin from his house, both by day and night, without doubt.
त्रिवर्गसप्तमीव्रतनिरूपणम् शृणुष्व संयतः काम्यानुपवासांस्तथापरान् । तांस्तानाश्रित्य यान्कामान्कुरुतेप्सितमानसः । । १ सप्तम्यां शुक्लपक्षे तु फाल्गुनस्येह मानवः । जपन्हेलीति देवस्य नाम भक्त्या पुनःपुनः । । २ देवार्चने चाष्टशतं कृत्वैतच्च जपेच्छुचिः । स्नातः प्रस्थानकाले तु उत्थाने स्खलिते क्षुते । । ३ पाखण्डान्पतितांश्चैव तथैवान्यायशालिनः । नालपेत तथा भानुमर्चयेच्छ्रद्धयान्वितः । । इदं चोदाहरेद्भानौ मनः संधाय तत्परः । ।४ हंसहंस कृपालुस्त्वमगतीनां गतिर्भव । संसारार्णवमग्नानां त्राता भव दिवाकर । । ५ एवं प्रसाद्योपवासं कृत्वा नियतमानसः । पूर्वाह्ण एव च सकृत्प्राश्याच्चाचमनीयकम् । । ६ स्नात्वार्चयित्वा हंसेति पुनर्नाम प्रकीर्तयेत् । वज्रधारात्रयं चैव क्षिपेत्त्रिर्देवपादयोः । । ७ चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयन् । मर्त्यलोके गतिं श्रेष्ठां कृष्ण प्राप्नोति वै नरः । । ८ उत्क्रांतस्तु व्रजेत्कृष्ण दिव्यं हंसालयं शुभम् । वृषध्वजप्रसादाद्वै संक्रन्दनश्रिया वृतः । । ९ आषाढे श्रावणे चैव मासि भाद्रपदे तथा । तथैवाश्वयुजे चैव अनेन विधिना नरः । । 1.104.१० उपोष्य सम्पूज्य तथा मार्तण्डेति च कीर्तयेत् । गोमूत्रप्राशनोत्पूतो धनी धनपुरं व्रजेत् । । ११ आराधितस्य जगतामीश्वरस्याव्ययात्मनः । उत्क्रांतिकाले स्मरणं भास्करस्य तथाप्नुयात् । । १२ क्षीरस्य प्राशनं कृष्ण विधिं चैव यथोदितम् । कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् । । १३ तेनैव विधिना कृष्ण भास्करेति च कीर्तयेत् । स याति भानुसालोक्यं भास्करं स्मरति क्षये । । १४ प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेप्सितम् । चातुर्मास्ये तु सम्पूर्णे कृत्वा पुस्तकवाचनम् । । १५ कथां तु भास्करस्येह सङ्गीतकमथापि वा । धर्मश्रवणमभीष्टं सदा धर्मध्वजस्य तु । । १६ वाचकं पूजयित्वा तु तस्मात्कार्यं विपश्चिता । श्राद्धमन्येन पक्वेन वाचकेन द्विजेन तु । । दिव्येन च यथायुक्तमभीष्टं भास्करस्य हि । । १७ एवमेव गतिं श्रेष्ठां देवानामनुकीर्तनात् । प्राप्नुयात्त्रिविधां कृष्ण त्रिलोकाख्यां नरः सदा । । १८ कथितं पारणं यत्ते प्रथमं गोधराधनम् । आधिपत्यं तथा भोगांस्ततः प्राप्नोति मानुषः । । १९ द्वितीयेन तथा भोगान्गोपतेः प्राप्नुयान्नरः । सूर्यलोकं तृतीयेन पारणेन तथाप्नुयात् । । 1.104.२० एवमेतत्समाख्यातं गतिप्रापकमुत्तमम् । विधानं देवाशार्दूल यदुक्तं सप्तमीव्रते । । २१ यः श्वेतां सप्तमीं कुर्यात्सुगतिं श्रद्धया नरः । तथा भक्त्या च वै नारी प्राप्नोति त्रिविधां गतिम् । । २६२ एषा धन्या पापहरा तिथिर्नित्यमुपासिता । आराधनाय यस्तेषां यदा भानोर्धराधर । । २३ पठतां शृण्वतां चापि सर्वपापभयापहा । तथा धन्या च पुण्या च त्रिवर्गादीष्टदा सदा । । २४. इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे त्रिवर्गसप्तमीव्रतनिरूपणं नाम चतुरधिकशततमोऽध्यायः
Listen attentively as I explain the various desired fasts and others; by observing them, a person fulfills the wishes cherished in his heart.
कामदासप्तमीव्रतनिरूपणम् ब्रह्मोवाच फाल्गुनामलपक्षस्य सप्तम्यां क्ष्माधराव्यय । उपोषितो नरो नारी समभ्यर्च्य तमोऽपहम् । । १ सूर्यनाम जपन्भक्त्या मितभोक्ता जितेन्द्रियः । उत्तिष्ठन्प्रस्वपंश्चैव सूर्यमेवाभिकीर्तयेत् । । २ ततोऽन्यदिवसे प्राप्ते त्वष्टम्यां प्रयतो रविम् । स्नात्वा देवं समभ्यर्च्य दद्याद्विप्राय दक्षिणाम् । । ३ रविमुद्दिश्य वै चाग्नौ घृतहोमकृतक्रियः । प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् । । ४ यमाराध्य पुरा देवी सावित्री कामनाय वै । स मे ददातु देवेशः सर्वान्कामान्विभावसुः । । ५ समभ्यर्च्य इति प्राप्तान्कृत्स्नान्कामान्यथेप्सितान् । स ददात्यखिलान्कामान्प्रसन्नो मे दिवस्पतिः । । ६ भ्रष्टराज्यश्च देवेन्द्रो यमभ्यर्च्य दिवस्पतिः । कामान्सम्प्राप्तवान्राज्यं स मे कामं प्रयच्छतु । । ७ एवमभ्यर्च्य पूजां च निष्पाद्येह विवस्वतः । भुञ्जीत प्रयतः सम्यग्घविष्यं पतगध्वज । । ८ फाल्गुने चैत्रवैशाखज्येष्ठे यस्य समापनम् । चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् । । ९ करवीरैश्चतुरो मासान्भक्त्या सम्पूजयेद्रविम् । कृष्णागुरुं दहेद्धूपं प्राश्यं गोशृङ्गजं जलम् । । 1.105.१० नैवेद्यं खण्डवेष्टांस्तु दद्याद्विप्रेभ्य एव च । ततश्च श्रूयतामन्या ह्याषाढादिषु या क्रिया ।। ११ जातीपुष्पाणि शस्तानि धूपो गौग्गुल उच्यते । कूपोदकं समश्नीयान्नैवेद्यं पायसं मतम् । । १२ स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् । कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् । । १३ महाङ्गो धूप उद्दिष्टः पूजा रक्तोत्पलैस्तथा । कासारं चात्र नैवेद्यं निवेद्यं भास्कराय वै । । १४ प्रतिमासं च विप्राय दातव्या दक्षिणा तथा । कर्पूरं चन्दनं मुस्तामगरुं तगरं तथा । । १५ ऊषणं शर्करा कृष्ण सुगन्धं सिह्लकं तथा । महाङ्गोऽयं स्मृतो धूपः प्रियो देवस्य सर्वदा । । १६ प्रीणनं चेष्टया भानोः पारणेपारणे गते । यथाशक्ति यथायोगं वित्तशाठ्यं विवर्जयेत् । । १७ सद्भावेनैव सप्ताश्वः पूजितः प्रीयते यतः । पारणान्ते यथाशक्त्या पूजितः स्नापितो रविः । । १८ प्रीणितश्चेप्सितान्कामान्दद्यादव्याहतं हरे । एषा पुण्या पापहरा सप्तमी सर्वकामदा । । १९ यथाभिलषितान्कामाँल्लभते गरुडध्वज । उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा । । 1.105.२० पुत्रं प्रापच्च सावित्री पुत्रांस्तु अदितिस्तथा । यदवः कामनां प्राप्ता धौम्यो वेदमवाप्तवान् । । २१ त्वयाप्ता भार्गवी कृष्ण शङ्करः शुद्धिमाप्तवान् । पितामहत्वं प्राप्तोऽहं तत्प्रसादाज्जनार्दन । । २२ अन्यैश्चाधिगताः कामास्तमाराध्य न संशयः । ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्योषिद्भिरेव च । । २३ यं यं काममभिध्यायेत्तंतं प्राप्नोत्युपोषणात् । जनः प्राप्नोत्यसंदिग्धं भानोराराधनाद्यतः । । २४ अपुत्रः पुत्रमाप्नोति रोगतश्चापि मोदते । रोगाभिभूत आरोग्यं कन्या विन्दति सत्पतिम् । । २५ समागत्य प्रवसित उपोष्यैतदवाप्नुयात् । सर्वान्कामानवाप्नोति गोगतश्चापि मोदते । । २६ नापुत्रो नाधनो वापि न वानिष्टो न निर्घृणः । उपोष्यैतद्व्रतं मर्त्यः स्त्रीजनो वापि जायते । । २७ गोहेलिलोकमासाद्य मोदते शाश्वतीः समाः । गौरिकं यानमारूढस्तेजसा रविसन्निभः । । २८ पुनरेत्य महीं कृष्ण घनाघनसमो नृपः । क्ष्मातले स्यान्न संदेहः प्रसादाद्गोपतेर्नरः । । २९ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे कामदासप्तमीव्रतनिरूपणं नाम पञ्चाधिकशततमोऽध्यायः
पापनाशिनीव्रतविधिवर्णनम् ब्रह्मोवाच पुनश्चैतन्महाभाग श्रूयतां गदतो मम । प्रोक्तं खगेन देवानां तिथिमाहात्म्यमुत्तमम् । । १ विष्णुरुवाच विजयातिजया चैव जयन्ती च महातिथिः । त्वत्तः श्रुता सुरथेष्ठ ब्रूहि मे पापनाशिनीम् । । २ तथोत्तरायणं ब्रूहि शस्तं यद्भास्करार्चने । यत्र सम्पूजितो भानुर्भवेत्सर्वाघनाशनः । । तन्मे कथय यत्नेन भक्त्या पृष्टोऽक्षयं फलम् । । ३ ब्रह्मोवाच शुक्लपक्षे तु सप्तम्यां यदर्क्षं तु रवेर्भवेत् । तदा स्यात्सा महापुण्या सप्तमी पापनाशिनी । ।४ तस्यां सम्पूज्य देवेशं चित्रभानुं जगद्गुरुम् । सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । । ५ यश्चोपवासं कुरुते तस्यां नियतमानसः । सर्वपापविमुक्तात्मा सूर्यलोके महीयते । । ६ दानं यद्दीयते किञ्चित्तमुद्दिश्य दिवाकरम् । होमो वा क्रियते तत्र तत्सर्वं चाक्षयं भवेत् । । ७ एक ऋग्वेदः पुरतो जप्तः श्रद्धापरेण तु । ऋग्वेदस्य समस्तस्य यच्छते सत्फलं ध्रुवम् । । ८ सामवेदफलं साम यजुर्वेदफलं यजुः । अथर्वा अथर्वांगिरसो निखिलं यच्छते रविः । । ९ तारका इव राजन्ते द्योतमाना दिवानिशम् । समभ्यर्च्य च सप्तम्यां देवदेवं दिवाकरम् । । 1.106.१० यत्र पापमशेषं वै नाशयत्यत्र भास्करः । कर्तव्या सप्तमी कृष्ण तेनोक्ता पापनाशिनी । । ११ अस्यां समभ्यर्च्य रविं याति सौरपुरं नरः । विमानवरमारुह्य कर्पूरोद्भवमुत्तमम् । । १२ तेजसा कविसंकाशः प्रभया सूर्यसन्निभः । कान्त्यात्रेयसमः कृष्ण शौर्ये हरिसमः सदा । । १३ मोदते तत्र सुचिरं वृन्दारकगणैः सह । पुनरेत्य भुवं कृष्ण भवेद्वै क्ष्माधिपाधिपः । । १४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे पापनाशिनीव्रतविधिवर्णनं नाम षडधिकशततमोऽध्यायः
Brahma said: Again, O most fortunate one, listen as I speak about the supreme merit of the lunar day as declared by Khaga among the gods.
भानुपादद्वयव्रतवर्णनम् ब्रह्मोवाच तथान्यदपि धर्मज्ञ शृणुष्व गदतो मम । पदद्वयं जगद्धातुर्देवदेवस्य गोपतेः । । १ यदेकपादपीठं हि तत्र न्यस्तं पदद्वयम् । स्वयमंशुमता कृष्ण लोकानां हितकाम्यया । । २ वामनस्य पदं कृष्ण ज्ञेयं वै उत्तरायणम् । देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् । । ३ अहं त्वं च सदा कृष्ण दक्षिणं पादमर्चतः । श्रद्धान्वितौ भास्करस्य हरीशौ वाममर्चतः । । ४ तस्मिन्यः प्रत्यहं सम्यग्देवदेवस्य मानवः । करोत्याराधनं तस्य तुष्टः स्याद्भानुमान्त्सदा । । ५ विष्णुरुवाच कथमाराधनं तस्य देवदेवस्य गोपतेः । क्रियते देवशार्दूल तत्समाख्यातुमर्हसि । । ६ ब्रह्मोवाच उत्तरे त्वयने कृष्ण स्नातो नियतमानसः । घृतक्षीरादिभिर्देवं स्नापयेत्तिमिरापहम् । । ७ चारुवस्त्रोपहारैश्च पुष्पधूपानुलेपनैः । समभ्यर्च्य ततः सम्यग्ब्राह्मणानां च तर्पणैः । । ८ पदद्वयं व्रतं यस्य गृह्णीयाद्भानुतत्परः । वन्देत्स्नातश्चित्रभानुं ततश्च गरुडध्वज । । ९ भुक्त्वान्नं चित्रभानुं तु चित्रभानुं व्रजंस्तथा । स्वपन्विबुध्यन्प्रणमन्होमं कुर्वंस्तथार्चयन् । । 1.107.१० चित्रभानोरनुदिनं करिष्ये नामकीर्तनम् । यावदद्य दिनात्प्राप्तं क्रमशो दक्षिणायनम् । । ११ चलिते हुंकृते चैव वेदारम्भेऽपि वा सदा । तावद्वक्ष्ये चित्रभानुं यावदेवोत्तरायणम् । । १२ यावज्जीवं च यत्किञ्चिज्जानतोज्ञानतोऽपि वा । करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् । । १३ यदानृतं किञ्चिद्वक्ष्ये तदा वक्ष्यामि तद्वचः । अज्ञानादथ वा ज्ञानात्कीर्तयिष्यामि तं प्रभुम् । । १४ षण्मासमेकमनसा चित्रभानुमयं परम् । तं स्मरन्मरणे याति यां गतिं सास्तु मे गतिः । । १५ षण्मासाभ्यन्तरे मृत्युर्यदि तस्मिन्भवेन्मम । तन्मया भास्करस्येह स्वयमात्मा निवेदितः । । १६ परमात्ममयं ब्रह्म चित्रभानुमयं परम् । यमं ते संस्मरिष्यामि स मे भानुः परा गतिः । । १७ यदि प्रातस्तथा सायं मध्याह्ने वा जपाम्यहम् । षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया । । १८ तथा कुरु जगन्नाथ स्वर्गलोकपरायणः । चित्रभानो यथा शक्त्या भवान्भवति मे गतिः । । १९ एवमुच्चार्य षण्मासं चित्रभानुमयं व्रतम् । तावन्निष्पादयेद्यावत्सम्पूर्णं दक्षिणायनम् । । 1.107.२० ततश्च प्रीणनं कुर्याद्यथाशक्त्या विभावसोः । भोजयेद्ब्राह्मणान्दिव्यान्भौमांश्चापि सदक्षिणान् । । २१ पुण्याख्यानकथां कुर्यान्मार्तंडस्य तथाग्रतः । पूजयेद्वाचकं भक्त्या यथाशक्त्या१ च लेखकम् । । २२ एवं व्रतमिदं कृष्ण यो धारयति मानवः । इहैव देवशार्दूल मुच्यते सर्वकिल्बिषैः । । २३ षण्मासाभ्यन्तरे चास्य मरणं यदि जायते । प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् । । २४ पदद्वयं च देवस्य सम्यक्त्वेन सदार्चितम् । भवत्येतज्जगौ भानुः पुरा चन्द्राय पृच्छते । । २५ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भानुपादद्वयव्रतवर्णनं नाम सप्ताधिकशततमोऽध्यायः
Brahma said: Now hear, O knower of dharma, as I describe the two feet of the Lord of the universe, the god of gods, the protector of cows.
सर्वार्थावाप्तिसप्तमीवर्णनम् ब्रह्मोवाच कृष्णपक्षे तु माघस्य सर्वाप्तिं सप्तमीं शृणु । यामुपोष्य समाप्नोति सर्वान्कामांस्तथा परान् । । १ पाखण्डादिभिरालापं न कुर्याद्भानुतत्परः । पूजयेत्प्रणतो देवमेकाग्रमनसा शुभम् । । २ माघाद्यैः पारणं मासैः षड्भिः सांक्रान्तिकं स्मृतम् । मार्तण्डः प्रथमं नाम द्वितीयं कः प्रकीर्तितम् । । ३ तृतीयं चित्रभानुश्च विभावसुरतः परम् । भगेति पञ्चमं ज्ञेयं षष्ठं हंसः स उच्यते । ।४ पूर्णेषु षट्सु मासेषु पञ्चगव्यमुदाहृतम् । स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् । । ५ प्रणामं देवदेवस्य कृत्वा पूजां यथाविधि । विप्राय दक्षिणां दद्याच्छ्रद्दधानश्च शक्तितः । । ६ पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम् । कुर्वीत भक्त्या विधिवद्रविभक्त्या तु गृह्यते । । ७ नक्तभोजी तथा विष्णो तैलक्षारविवर्जितः । कृष्ण जागरणं रात्रौ सप्तम्यामथ वा दिने । । ८ एतामुषित्या धर्मज्ञो हंसप्रीणनतत्परः । सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते । । ९ यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा । अतो लोकेषु विख्याता सर्वार्थावाप्तिसप्तमी । । 1.108.१० कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः । पूरयत्यखिलान्कामान्संश्रुता च दिनेदिने । । ११ तमाराधयस्व रविं तथाथ गरुडध्वज । यथाराधितवान्भानुं भगणाधिपतिः पुरा । । १२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सर्वार्थावाप्तिसप्तमीवर्णनम् नामाष्टाधिकशततमोऽध्यायः
Brahma said: In the dark fortnight of Magha, hear about the Saptami that grants all attainments; by observing it, one obtains all desired objects and more.
मार्तण्डसप्तमीवर्णनम् ब्रह्मोवाच मार्तण्डसप्तमीं कृष्ण यथान्यां१ वच्चि तेऽनघ । शृणुष्वैकमना वीर गदतो मे शुभप्रदाम् । । १ यस्याः सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् । पौषे मासे सिते पक्षे सप्तम्यां समुपोषितः । । २ सम्यक्सम्पूज्य मार्तण्डं मार्तण्ड इति वै जपेत् । पूजयेत्कुतपं भक्त्या श्रद्धया परयान्वितः । । ३ धूपपुष्पोपहराद्यैरुपवासैः समाहितः । मार्तण्डेति जपन्नाम पुनस्तद्गतमानसः । । ४ विप्राय दक्षिणां दद्याद्यथाशक्त्या खगध्वज । स्वपन्विबोधन्स्खलितो मार्तण्डेति च कीर्तयेत् । । ५ पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् । गोमूत्रं गोपयो वापि दधि क्षीरमथापि वा । । ६ गोदेहतः समुद्भूतं प्राश्नीयादात्मशुद्धये । द्वितीयेऽह्नि पुनः स्नातस्तथैवाभ्यर्चनं रवेः । । ७ तेनैव नाम्ना सम्भूय दत्त्वा विप्राय दक्षिणाम् । ततो भुञ्जीत गोदोहसम्भूतेन समन्वितम् । । ८ एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः । दद्याद्गवादिकं विप्रान्प्रतिमासं स्वशक्तितः । । ९ धारिता चेत्पुनर्वर्षे यथाशक्त्या गवादिकम् । दत्त्वा परं रवेर्भूयः शृणु यत्फलमश्नुते । । 1.109.१० स्वर्णशृंगीं च पञ्चम्यां षष्ठ्यां च वृषभं नरः । प्रतिमासं द्विजातिभ्यो यद्दत्त्वा फलमश्नुते । । ११ तत्प्राप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः । तं च लोकमवाप्नोति मार्तण्डो यत्र तिष्ठति । । १२ शाण्डेलेयसमः कृष्ण तेजसा नात्र संशयः । मार्तण्डसप्तमीमेतामुपोष्यैते गणा दिवि । । १३ विद्योतमाना दृश्यन्ते लोकैरद्यापि भूधर । तस्मात्त्वमादिदेवेशं ग्रहेशं भास्करं रविम् । । अनयार्चय गोविन्द गोपतिं गोलसन्निभम् । । १४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे मार्तण्डसप्तमीवर्णनम् नाम नवाधिकशततमोऽध्यायः
Brahma said: O Krishna, the Martanda Saptami, as previously described to you, listen with a focused mind as I narrate its auspiciousness.
सप्तमीकल्पे ऽनन्तरसप्तमीव्रतवर्णनम् ब्रह्मोवाच शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदेऽच्युत । प्रणम्य शिरसादित्यं पूजयेत्सप्तवाहनम् । । १ पुष्पधूपादिभिर्वीर कुतपानां च तर्पणैः । पाषण्डादिभिरालापमकुर्वन्नियतात्मवान् । । २ विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्यतः । तिष्ठन्व्रजन्प्रस्थितश्च क्षुतप्रस्खलितादिषु । । ३ आदित्यनामस्मरणं कुर्वन्नुच्चारणं तथा । अनेनैव विधानेन मासान्द्वादश वै क्रमात् । । ४ उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम् । पुण्येन श्रावणेनेह प्रीणयन्पुष्टिमश्नुते । । ५ अनन्तं श्रावणेनेह यतः फलमुदाहृतम् । तेनादित्यं समभ्यर्च्य तदेव लभते फलम् । । ६ एवं यः पुरुषः कुर्यादादित्याराधनं शुचिः । प्राप्येह विपुलं भोगं धर्ममर्थं तथाव्ययम् । । ७ अमुत्र लोकमायाति दिव्ये खे गीतसंयुते । नारी वा स्वर्गमभ्येत्य ह्यनन्तं फलमश्नुते । । ८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तकल्पेऽनन्तरसप्तमीव्रतवर्णनम् नाम दशाधिकशततमोऽध्यायः
Brahma said: On the seventh day of the bright fortnight in the month of Bhadrapada, O Achyuta, bowing with the head to Aditya, one should worship the Sun with seven horses.
सप्तमीकल्पेऽभ्यङ्गसप्तमीवर्णनम् ब्रह्मोवाच श्रावणे मासि देवाग्र्यं सप्तम्यां सप्तवाहनम् । शुक्लपक्षे समभ्यर्च्य पुष्पधूपादिभिः शुचिः । । १ पाखण्डादिभिरालापमकुर्वन्नियतात्मवान् । विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्यतः । । २ अभ्यङ्गं देवदेवस्य वर्षे वर्षे नियोजयेत् । सप्तम्यामन्नमेवाग्र्यं शुभं शुक्लं नवं तथा । । ३ विभवेषु तथान्येषु वादित्राण्येव वै विदुः । तथा देवस्य मासेऽस्मिन्नभ्यङ्गः परिगीयते । ।४ यस्तु चाराधयेद्भक्त्या भास्करस्य नरोऽच्युत । अभ्यङ्गं विधिवच्छक्त्या कृत्वा ब्राह्मणभोजनम् । । ५ शङ्खतूर्यनिनादैश्च ब्रह्मघोषैश्च पुष्कलैः । स दिव्यं यानमारूढो लोकमायाति हेलिनः । । ६ अनेनैव विधानेन मासान्द्वादश वै क्रमात् । उपोष्य पारणे पूर्णे दद्याद्विप्राय दक्षिणाम् । । ७ व्रतं यः पुरुषः कुर्यादादित्याराधनं शुचिः । स गच्छेत्परमं लोकं दिव्यं वै वनमालिनः । । ८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पेऽभ्यङ्गसप्तमीवर्णनम् नामैकादशाधिकशततमोऽध्यायः
Brahma said: In the month of Shravana, on the seventh day, worship the Sun with seven horses in the bright fortnight, using flowers, incense, and other pure offerings.
तृतीयपदव्रतवर्णनम् ब्रह्मोवाच एवं कृष्ण सदा भानुर्नरैर्भक्त्या यथाविधि । फलं ददात्यसुलभं सलिलेनापि पूजितः । । १ न भानुर्जीवदानेन न पुष्पैर्न फलैस्तथा । आराध्यते सुयुद्धेन हृदयेनैव केवलम् । । २ रागादपेतं हृदयं वाग्दुष्टा नानृतादिभिः । हिंसाविरहितं कर्म भास्कराराधनत्रयम् । । ३ रागादिदूषिते चित्ते नास्पन्दी तिमिरापहः । बध्नाति तं नरं हंसः कदाचित्कर्दमाम्भसि । । ४ तमसो नाशनायालं चेन्दोर्लेखा ह्यनारतम् । हिंसादिदूषितं कर्म केशवाराधने कुतः । । ५ जनश्चित्ताप्रसादाद्वै न चाप तिमिरापहम् । तस्मात्सत्यस्वभावेन सत्यवाक्येन चाच्युत । । ६ अहिंसकेन चादित्यो निसगदेव तोषितः । सर्वस्वमपि देवाय यो दद्यात्कुटिलाशयः । । ७ स नैवाराधयेदेवं देवदेवं दिवाकरम् । रागादपेतं हदयं कुरु त्वं भास्करार्पणम् । । ततः प्रापयसि दुष्प्राप्यमयत्नेनैव भास्करम् । । ८ विष्णुरुवाच देवेशः कथितः सम्यल्काम्योऽयं भास्करो मयि । आराधनविधिं सर्वं भूयः पृच्छामि तं वद । । ९ कुले जन्म तथारोग्यं धनवृद्धिश्च दुर्लभा । त्रितयं प्राप्यते येन तन्मे वद जगत्पते । । 1.112.१० ब्रह्मोवाच मासे तु माघे सितसप्तमेऽह्नि हस्तर्क्षयोगे जगतः प्रसूतिम् । सम्पूज्य भानुं विधिनोपवासी सुगन्धधूपान्नवरोपहारैः । । ११ गृही तु पुष्पैः प्रतिपाद्य पूजां दानादियुक्तं व्रतमब्दमेकम् । दद्याच्च दानं मुनिपुङ्गःवेभ्यस्तत्कथ्यमानं विनिबोध धीर । । १२ वज्रं तिलान्व्रीहियवान्हिरण्यं यवान्नमम्भः करकामुपानहम् । छत्रोपपन्नं गुडफेणिताढ्यं दद्यात्क्रमाद्वस्तु अनुक्रमेण । । १३ यद्येष१ वर्षे विधिनोदितेन यस्यां तिथौ लोकगुरुं प्रपूज्य । अश्मन्तनान्यात्मविशुद्धिहेतोः सम्प्राशनानीह निबोध तानि । । १४ गोमूत्रमम्भश्च रसे नु शाकं दूर्वा दधिव्रीहितिलान्यवांश्च । सूर्यांशुतप्तं जलमम्बुजाक्ष क्षीरं च मासैः क्रमशः प्रयुज्यः । । १५ कुले प्रधाने धनधान्यपूर्णे पद्मावृते ह्यस्तसमस्तदुःखे । प्राप्नोति जन्माऽविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च । । १६ तस्मात्त्वमप्येतदमोघवीर्य दिवाकराराधनमप्रमत्तः । कुरु प्रभावं भगवन्तमीशमाराध्य कामानखिलानुपेहि । । १७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे तृतीयपदव्रतवर्णनं नाम द्वादशाधिकशततमोऽध्यायः
Brahma said: Thus, O Krishna, the Sun always bestows rare fruits upon men who worship him with devotion, even if only with water.
आदित्यालयवन्दनमार्जनादिवर्णनम् विष्णुरुवाच सुरज्येष्ठ पुनर्ब्रूहि यत्पृच्छाम्यहमादितः । यत्फलं समवाप्नोति कारयित्वा रवेर्गृहम् । । १ देवार्चां कारयित्वा तु यत्पुण्यं पुरुषोऽश्नुते । पूजयित्वा च विधिवदनुलिप्य च यत्फलम् । । २ कानि माल्यानि शस्तानि कानि नार्हति भास्करः । के धूपा भानुदयिताः के वर्ज्याश्च जगत्पतेः । । ३ उपचारफलं किं स्यात्किं फलं गीतवादिते । घृतक्षीरादिना यत्तु स्नापिते भास्करे फलम् । । ४ यथोपलेपनादौ च फलमभ्युक्षितेन तु । दिवाकरगृहे तात तदशेषं वदस्व मे । । ५ ब्रह्मोवाच साधु वत्स यदेतत्त्वं मार्तण्डस्येह पृच्छसि । शुश्रूषणे विधिं पुण्यं तदिहैकमनाः शृणु । । ६ यस्तु देवालयं भानोर्दार्वं शैलमथापि वा । कारयेन्मृन्मयं चापि तस्य पुण्यफलं शृणु । । ७ अहन्यहनि यज्ञेन यजतो यन्महत्फलम् । प्राप्नोति तत्फलं भानोर्यः कारयति मन्दिरम् । । ८ कुलानां शतमागामि समतीतं कुलं शतम् । कारयेद्भगवद्धाम स नयेदर्कलोकताम् । । ९ सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु । भानोरालयविन्यासप्रारम्भादेव नश्यति । । 1.113.१० सप्तलोकमयो भानुस्तस्य यः कुरुते गृहम्
Vishnu said: O foremost of the gods, tell me again what I ask from the beginning: what result does a person obtain by building a house for the Sun?
प्रतिष्ठां समवाप्नोति स नरः साप्तलौकिकीम् । । ११ प्रशस्तदेशभूभागे प्रशस्तं भवनं रवेः । कारयेदक्षयाँल्लोकान्स नरः प्रतिपद्यते । । १२ इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति । तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः । । १३ प्रतिमां लक्षणवतीं यः कारयति मानवः । दिवाकरस्य तल्लोकमक्षयं प्रतिपद्यते । । १४ षष्टिर्वर्षसहस्राणां सहस्राणि स मोदते । लोके सुमनसां वीर प्रत्येकं मधुसूदन । । १५ प्रतिष्ठाप्य रवेरर्चां सुप्रशस्ते निवेशने । पुरुषः कृतकृत्योऽस्ति न दोषफलमश्नुते । । १६ ये भविष्यन्ति येऽतीता आकल्पं पुरुषाः कुले । तांस्तारयति संस्थाप्य देवस्य प्रतिमां रवेः । । १७ अनुशिष्टाः किल पुरा यमेन यमकिङ्कराः । पाशदण्डकराः कृष्ण प्रजासंयमनोद्यताः । । १८ यम उवाच विहरन्तु यथान्यायं नियोगो मेऽनुपाल्यताम् । नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् । । १९ केवलं ये जगन्मूलं विवस्वन्तमुपाश्रिताः । भवद्भिः परिहर्तव्यास्तेषां नैवेह संस्थितिः । । 1.113.२० ये तु वैवस्वता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा भानुं ते च त्याज्या सुदूरतः । । २१ तिष्ठंश्च प्रस्वपन्गच्छन्नुत्तिष्ठन्स्खलिते क्षुते । सङ्कीर्तयति देवं यः स नस्त्याज्यः सुदूरतः । । २२ नित्यनैमित्तिकैर्देवं ये यजन्ति तु भास्करम् । न चालोक्या भवद्भिस्ते यद्ध्यानं हंति वो गतिम् । । २३ ये पुष्पधूपवासोऽभिर्भूषणैश्चापि वल्लभैः । अर्चयन्ति न ते ग्राह्या मत्पितुस्ते परिग्रहाः । । २४ उपलेपनकर्तारः कर्तारो मार्जनस्य ये । अर्कालये परित्याज्यं तेषां त्रिपुरुषं कुलम् । । २५ ये वायतनं भानोः कारितं तत्कुलोद्भवः । पुमान्न नावलोक्यो वै भवद्भिर्दुष्टचक्षुषा । । २६ येनार्चा भगवद्भक्त्या मत्पितुः कारिता शुभा । नराणां तत्कुलं वीराः सदा त्याज्यं सुदूरतः । । २७ भवतां भ्रमतां यत्र भानुसंश्रयमुद्रया । न चाज्ञाभङ्गकृत्कश्चिद्भविष्यति नरः क्वचित् । । २८ इत्युक्ताः किङ्करास्तेन यमेन सुमहात्मना । अनाश्रित्य वचः कृष्णः सत्राजितमथो गताः । । २९ तस्य ते तेजसा सर्वे भानोर्भक्तस्य सुव्रत । मोहिताः पतिता भूमौ यथा च विहगा नगात् । । 1.113.३० एतां महाफलां योर्चां भानोः कारयते नरः । तवाख्यानं महाबाहो गृहं कारयितुश्च यत् । । ३१ यज्ञा नराणां पापौघनाशकाः सर्वकामदाः । तथैवेष्टो जगद्भानुः सर्वयज्ञमयो रविः । । ३२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यालयवन्दनमार्जनादिवर्णनं नाम त्रयोदशाधिकशततमोऽध्यायः
He attains the establishment of a sevenfold worldly position; in an excellent land and house, the builder attains imperishable worlds.
आदित्यस्नापनयोगवर्णनम् ब्रह्मोवाच स्थापितां प्रतिमां भानोः सम्यक्सम्पूज्य मानवः । यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयम् । । १ यः स्नापयति देवस्य घृतेन प्रतिमां रवेः । प्रस्थेप्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् । । २ गवां शतस्य विप्रेभ्यो यद्वत्तस्य भवेत्फलम् । घृतप्रस्थेन तद्भानोर्भवेत्स्नातकयोगिनाम् । । ३ भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा । घटोदकेन मार्तण्डप्रतिमा स्नापिता किल । ।४ प्रतिमामसिताष्टम्यां घृतेन जगतीपतेः । स्नापयित्वा समस्तेभ्यः पापेभ्यः कृष्ण मुच्यते । । ५ सप्तम्यामथ षष्ठ्यां वा गव्येन हविषा रवेः । स्नपनं तु भवेच्छ्रेष्ठं महापातकनाशनम् । । ६ ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः । तत्क्षालयति सन्ध्यायां घृतेन स्नपनं रवेः । । ७ सर्वयज्ञमयो भानुर्हव्यानां परमं घृतम् । तयोरशेषपापानां क्षालकः सङ्गमो भवेत् । । ८ येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः । मोदते तेषु लोकेषु क्षीरस्नानकरो रवेः । । ९ आह्लादं निर्वृतिस्थानमारोग्यं चारुरूपताम् । सप्तजन्मान्यवाप्नोति क्षीरवानपरो रवेः । । 1.114.१० दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा । यथा च विमलं क्षीरं यथा निर्वृतिकारकम् । । तथा च निर्मलं ज्ञानं भवत्यपि न संशयः । । ११ ग्रहानुकूलतां पुष्टिं प्रियत्यमखिले जने । करोति भगवान्भानुः क्षीरस्नपनतोषितः । । १२ सर्वस्य स्निग्धतामेति दृष्टमात्रे प्रसीदति । घृतक्षीरेण देवेश स्नापिते तिमिरापहे । । १३ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यस्नापनयोगवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः
Brahma said: Having properly worshipped an installed image of the Sun, whatever desire a person prays for, he certainly attains.
सूर्यपूजाविधिवर्णनम् ब्रह्मोवाच प्रशंसन्ति महात्मानः संवादं भास्कराश्रयम् । गौतम्या सह कौशल्या सुमनायां सुरालये । । १ स्वर्गेऽतिशोभनां दृष्ट्वा कौशल्यां पतिना सह । ब्राह्मणी गौतमी नाम पर्यपृच्छत विस्मिता । । २ गौतम्युवाच शतशः सन्ति कौशल्ये देवाः स्वर्गनिवासिनः । देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा । । ३ न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता । न वाससी शोभने ये यथा ते पतिना सह । । ४ नैवाभरणजातानि तेषां भ्राजन्ति वै तथा । यथा तव यथा पत्युर्न च स्वर्गनिवासिनाम् । । ५ सुस्नातचैलतश्चैव युवयोरतिरिच्यते । लेखाद्यानामपीशानां क्षयातिशयवर्जितः । । ६ तपःप्रभावो दानं वा होमो वा कर्मसंज्ञितः । युवयोर्यत्समाचक्ष्व तत्सर्वं वरवर्णिनि । । येन मे विक्रमे बुद्धिर्मनुजा येन सङ्गताः । । ७ कौशल्योवाच यज्ञो यज्ञेश्वरो भानुरावाभ्यां जातु तोषितः । स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् । । ८ सुरूपता ततः प्रीतिः पश्यतां चारुवेषिता । यत्पृच्छसि महाभागे तदप्येषां वदामि ते । । ९ तीर्थोदकैस्तथा गन्धैः स्नापितो यद्दिवाकरः । तेन कान्तिरियं नित्यं देवांस्त्रिभुवनेश्वरान् । । 1.115.१० मनःप्रसादः सौम्यत्वं शरीरे ये च निर्वृताः । यत्प्रियत्वं च सर्वं स्यात्तद्घृतस्नपनात्फलम् । । ११ यान्यभीष्टानि वासांसि यच्चाभीष्टविभूषणम् । रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् । । १२ ये धृता यानि माल्यानि दयितान्यभवन्सदा । मम भर्तुस्तदैवास्य तदा राज्यं प्रशासतः । । १३ तानि सर्वाणि सर्वज्ञ सर्वपातरि भानुनि । दत्तानि तं समुत्थोऽयं गन्धधूपात्मको गुणः । । १४ आहारा दयिता ये च पवित्राश्च निवेदिताः । त्रिलोककर्तुः सवितुस्तृप्तिस्तद्गुणसम्भवा । । १५ स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने । कृतमेतत्कृतेनाभूदावयोर्भवसंक्षयः । । १६ ये त्वकामा नराः सम्यक्तत्कुर्वन्ति च शोभने । तेषां ददाति विश्वेशो भगवान्मुक्तिमीश्वरः । । १७ ब्रह्मोवाच एवमभ्यर्च्य मार्तण्डमर्कं देवेश्वरं गुरुम् । प्राप्तोऽस्म्यभिमतान्कामान्कृष्णाहं शाश्वतीः समाः । । १८ चन्दनागुरुकर्पूरकुङ्कुमोशीरपद्मकैः । अनुलिप्तो नरैर्भक्त्या ददाति१ सागरोद्भवाम् । । १९ कालेयकं तुरुष्कं च रक्तचन्दनमेव च । यान्यात्मनि सदेष्टानि तानि शस्यान्यपाकुरु । । 1.115.२० गन्धाश्चापि शुभा ये च धूपा ये विजयोदयाः । दिवाकरस्य धर्मज्ञ निवेद्यास्सर्वदाच्युत । । २१ न दद्यात्सल्लकीक्षारं नो मुखेन च संहृतम् । दद्यादर्काय धर्मज्ञ धूपमाराधनोद्यतः । । २२ मालती मल्लिका चैव यूथिका चातिमुक्तिकः । पाटलाः करवीरश्च जपा सेवन्तिरेव च । । २३ कुङ्कुमस्तगरश्चैव कर्णिकारः सकेशरः । चम्पकः केतक कुन्दो बाणबर्बरमालिका । । २४ अशोकस्तिलको लोध्रस्तथा चैवाटरूषकः । शतपत्राणि धन्यानि बकाह्वानी विशेषतः । । २५ अगस्तिं किंशुकं तद्वत्पूजार्थं भास्करस्य तु । अमी पुष्पप्रकारास्तु शस्ता भास्करपूजने । । २६ बिल्वपत्रं शमीपत्रं पत्रं वा भृङ्गरस्य च । तमालपत्रं च हरे सदैव भगवत्प्रियम् । । २७ तुलसी कालतुलसी तथा रक्तं च चन्दनम् । केतकी पत्रपुष्पं तु सद्यस्तुष्टिकरं रवेः । । २८ पद्मोत्पलसमुत्थानि रक्तं नीलोत्पलं तथा । सितोत्पलं तु भानोस्तु दयितानि सदाच्युत । । २९ कृष्णलोकन्मत्तकं कान्तं तथैव गिरिमल्लिका । न कर्णिकारिकापुष्पं भास्कराय निवेदयेत् । । 1.115.३० कुटजं शाल्मलीपुष्पं तथान्यद्गन्धवर्जितम् । निवेदितं भयं रोगं निःस्वतां च प्रयच्छति । । ३१ येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च । तानि पुष्पाणि देयानि मानवे लोकभानवे । । ३२ सुगन्धैश्च मुरामांसीकर्पूरागरुचन्दनैः । तथान्यैश्च शुभैर्द्रव्यैरर्चयेद्वनमालिनम् । । ३३ दुकूलपट्टकौशेयवार्क्षकार्पासकादिभिः । वासोभिः पूजयेद्भानुं यानि चात्मप्रियाणि तु । । ३४ भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च । फलं च वल्लभं यत्स्यात्तत्ते देयं दिवाकरे । । ३५ सुवर्णमणिमुक्तानि रजतं च तथाच्युत । दक्षिणा विविधा चेह यच्चान्यदपि वल्लभम् । । ३६ आत्मानं भास्करं मत्वा यज्ञं तस्मै निवेदयेत् । तत्तदव्यक्तरूपाय भास्कराय निवेदयेत् । । ३७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्ये सूर्यपूजाविधिवर्णनं नाम पञ्चदशाधिकशततमोऽध्यायः
रविपूजाविधिवर्णनम् ब्रह्मोवाच कृष्ण राजा महानासीद्ययातिकुलसम्भवः । सत्राजिदिति विख्यातश्चक्रवर्ती महाबलः । । १ प्रभावैस्तेजसा कान्त्या क्षान्त्या बलसमन्वितः । धैर्यगम्भीर्यसम्पन्नो वदान्यो यशसान्वितः । । २ बुद्ध्या विक्रमदक्षश्च सम्पन्नो ब्राह्मणायतः । कृती कविस्तथा शूरः षट्पदाख्यैर्न निर्जितः । । ३ सदा पञ्चसु रक्तश्च वसुमद्भिर्न निर्जितः । रुद्रता वसुभिर्जातैः सत्त्वश्रद्धासमन्वितः । । ४ अम्बुजस्याण्डजस्येव आत्रेयस्य तथाच्युत । अम्बुजायास्तथा कृष्ण वार्यपात्रं स वै विभो । । ५ गाङ्गेयेन बले तुल्यः पौलस्त्यार्चाश्रमो यथा । गाङ्गेयस्य तथा कृष्ण धिषणस्य हरेर्यथा । । ६ काम्यश्च द्विजभक्तस्तु तथा वाल्मीकिवत्सदा । व्यासस्य देवशार्दूल जामदग्न्यस्य वा विभोः । । ७ एषां नैकैर्गुणैर्युक्तः स राजा क्ष्मातले विभो । शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् । । ८ यस्मिन्गाथां प्रगायन्ति ये पुराणविदो जनाः । सत्राजिते महाबाहौ कृष्ण धात्रीं समाश्रिते । । ९ यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति । सत्राजितं तु तत्सर्वं क्षेत्रमित्यमिधीयते । । 1.116.१० स सर्वरत्नसंयुक्तां सप्तद्वीपवतीं महीम् । शशास धर्मेण पुरा चक्रवर्ती महाबलः । । ११ नान्यायकृन्न चाशक्तो वदान्यो बलवत्तरः । तस्याभूत्पुरुषा राज्ञः सम्यग्धर्मानुशासिनः । । १२ चत्वारः सचिवास्तस्य राज्ञः सत्राजितस्य तु । बभूवुरप्रतिहताः सदा वाति बलस्य वै । । १३ तस्य भक्तिरतीवासीन्निसर्गादेव भूपतेः । दिवाकरे जगद्भानौ रक्तचन्दनमालिनि । । १४ तस्योर्ध्वमहिमानं च विलोक्य पृथिवीपतेः । न केवलं जनस्यापि ह्यभवत्तस्य विस्मयः । । १५ सञ्चिन्तयामास नृपः समृद्ध्या विस्मितस्तथा । कथं स्यात् सम्पदेषा मे पुनरप्यन्यजन्मनि । । १६ एवं स बहुशो राजा तदा कृष्ण महायशाः । चिन्तयन्नपि तन्मूलं नासदन्निश्चयान्वितः । । १७ यदा न निश्चयं राजा स ययौ भार्गवीप्रियः । तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् । । १८ सर्वाश्च ससुखान्वीर विविक्तान्तः पुरस्थितः । प्रणिपत्य महाबाहुर्ग्रहीतुं शासनक्रियाः । । १९ विश्वासानुग्रहा बुद्धिर्भवतां मयि सत्तमाः । तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ । । 1.116.२० सद्विद्याखिलविज्ञानसम्यग्धौतान्तरात्मभिः । भवद्भिर्यद्यनुग्राह्यः स्यामहं वेदवित्तमाः । । २१ तद्यथावन्मया पृष्टा भवन्तो मत्प्रसादिनः । वक्तुमर्हथ विद्वांसः सर्वस्यैवोपकारिणः । । २२ ब्रह्मोवाच यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते । वदिष्यामो यथान्यायं यत्ते१ मनसि वर्त्तते । । २३ वयं हि नृपशार्दूल भवता पारितोषिताः । सम्यक्प्रजां पालयित्रा ददता भोजनं सदा । । २४ सन्तुष्टो ब्राह्मणोऽश्नीयाच्छिंद्याद्वा धर्मसंशयम् । हितं चोपदिशेद्वर्त्म अहिताद्वा निवर्तयेत् । । २५ विवक्षुमथ भूपालं भार्या तस्यैव धीमतः । प्रणिपातेन चाहेदं विनयात्प्रणयान्वितम् । । २६ न स्त्रीणामवनीपाल वक्तुमीदृगिहेष्यते । तथापि भूपते वक्ष्ये सम्पदीदृक्सुदुर्लभा । । २७ भूयोऽपि संशयान्प्रष्टुमलमीशो भवानृषीन् । नन्वहं पुरषव्याघ्र सदान्तः पुरचारिणी । । २८ तत्प्रसादं यदि भवान्करोति मम पार्थिव । तन्मदीयमृषीन्प्रष्टुं सन्देहं पार्थिवार्हसि । । २९ सत्राजित उवाच ब्रूहि सुभ्रूर्मतं यत्ते प्रष्टव्या यन्मया द्विजाः । भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतद्द्विजोत्तमान् । । 1.116.३० विमलवत्युवाच श्रूयन्ते पृथिवीपाल नृपा ये तु चिरन्तनाः । येषां च सम्पद्भूपाल यथा तेऽद्य किलाभवत् । । ३१ तदीदृक्सम्पदो धाम तवाशेषं क्षितीश्वर । येन कर्मविपाकेन तद्वदन्तु महर्षयः । । ३२ अहं च भवतो भार्या सर्वसीमन्तिनीवरा । अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् । । ३३ तथा सम्पत्समृद्धत्वमन्येष्वपि हि विद्यते । निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा । । ३४ तदन्यजन्मचरितं नरनाथ निजं भवान् । मुनीन्पृच्छ त्वया चाहं यन्मया च पुरा कृतम् । । ३५ ब्रह्मोवाच स तथोक्तस्तया राजा पत्न्या विस्मितमानसः । मुनीनां पुरतो मायां प्रशंसन्वाक्यमब्रवीत् । । ३६ साधु देवि मतं यन्मे त्वया यदिदमीरितम् । सत्यं मुनिवचः पुंसां स्याद्ध वै गृहिणी तथा । । ३७ सोऽहमेतन्महाभागे पृच्छाम्येतान्महामुनीन् । तेषामविदितं किञ्चित्त्रिषु लोकेषु न विद्यते । । ३८ एवमुक्त्वा प्रियां राजा प्रणिपत्य च तानृषीन् । यथावदेतदखिलं पप्रच्छ धरणीधरः । । ३९ राजोवाच भगवन्तो ममाशेषं प्रसादावृतचेतसः । कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् । ।1.116.४ ० कोऽहमासं पुरा विप्राः किंस्वित्कर्म मया कृतम् । किं वानया तु चार्वंग्या मम पत्न्या कृतं द्विजाः । ।४ १ येनावयोरियं लक्ष्मीर्मर्त्यलोके सुदुर्लभा । चत्वारश्चाप्रतिहता अमात्या मम गच्छतः । ।४ २ अशेषा भूभृतो वश्या धनस्यान्तो न विद्यते । बलं चैवाप्रतिहतं शरीरारोग्यमेव च । ।४ ३ प्रतिभाति च मे कान्त्या भार्यायामखिलं जगत् । ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ।४४ सोऽहमिच्छामि तज्ज्ञातुं तथैवेयमनिन्दिता । निजानुष्ठानमखिलं यस्याशेषमिदं फलम् । ।४५ ब्रह्मोवाच इति पृष्टा नरेन्द्रेण समस्तास्ते तपोधनाः । परावसुमथोचुस्ते कथ्यतामस्य भूभृतः । । ४६ चोदितः सोऽपि धर्मज्ञैर्महाशूरा महामतिः । योगमास्थाय सुचिरं यथावद्यतमानसः । । ४७ ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् । स तमाह मुनिर्भूपं विज्ञानेच्छं महामतिम् । । ४८ सत्राजितं महात्मानं जितशत्रुं मनस्विनम् । सपत्नीकं महाबुद्धिं ब्राह्मणान्सत्यवादिनः । । ४९ परावसुरुवाच शृणु भूपाल सकलं यस्येदं कर्मणः फलम् । तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते । । 1.116.५० त्वमासीः शूद्रजातीयः परहिंसापरायणः । कुष्ठार्तो दण्डपारुष्ये निःस्नेहः सर्वजन्तुषु । । ५१ द्वयं च भवतो भार्या पूर्वमप्यायतेक्षणा । नित्यं बभूव त्वच्चित्ता भवच्छुश्रूषणे रता । । ५२ पतिव्रता महाभागा भर्त्स्यमानापि निष्ठुरम् । त्वद्वाक्येषु च सर्वेषु वीर कर्मसु चोद्यता । ५३ नैश्वर्यादसहायस्य त्यज्यमानस्य बन्धुभिः । क्षयं जगाम योर्थोऽभूत्सञ्चितः प्रपितामहैः । । ५४ तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते । सापि कर्मविपाकेन कृषिर्विफलतां गता । । ५५ ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् । तत्याज साध्वी नेयं त्वां त्यज्यमानापि पार्थिव । । ५६ अनया तु समं साध्व्या भानोरावसथे त्वया । कृतं शुश्रूषणं वृत्त्या भक्त्या सम्मार्जनादिकम् । । ५७ निःस्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः । अहन्यहनि विस्रम्भात्तस्मिन्नावसथे रवेः । । ५८ कान्यकुब्जपुरे वीर महाशुश्रूषितं त्वया । दिवाकरालये नित्यं कृतं तन्मार्जनं त्वया । । ५९ तथैवाभ्युक्षणं भूप नित्यं चैवानुलेपनम् । पत्न्यानया नृप तथा युष्मच्चित्तानुवृत्तया । । 1.116.६० कारितं श्रवणं पुण्यमितिहासपुराणयोः । दत्त्वाङ्गुलीयकं राजन्पितृदत्तं तु वाचके । । ६१ अहन्यहनि यत्कर्म युवयोर्नृपकुर्वतोः । तत्रैव तन्मयत्वेन पापहानिरजायत । । ६२ भानोः कार्यं मया कार्यं परं शुश्रूषणं तथा । नाप्रभातं प्रभातं वा चिन्तेयमभवन्निशि । । ६३ एवमायतनं रम्यमित्येवं च सुखावहम् । सूर्यवच्चैवमेतत्स्यादित्यासीत्ते मनस्तदा । । ६४ योगिनां सुखदं कर्म तथैव सुखमित्यपि । भवच्चित्तमभूत्तत्र योगकर्मण्यहर्निशम् । । ६५ एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव । भूतानुमानिनः सम्यग्यथोक्ताधिककारिणः । । ६६ स्मरतो गोपतिं नित्यं चित्तेनापि दृढात्मनः । निःशेषमुपशांतं ते पापं सूर्यनिषेवणात् । । ६७ ततोऽधिकं पुरस्तस्मादगारस्यानुलेपनम् । संमार्जनं च बहुशः सपत्नीकेन यत्कृतम् । । ६८ केवलं धर्ममाश्रित्य त्यक्त्वा वृत्तिमशेषतः । अनया श्रवणं पुण्यं कारितं वाचकात्सदा । ६९ नानाधातुविकारैस्तु गोमयेन मृदा तथा । उपलेपनं कृतं भक्त्या त्वया पूर्वं सुरालये । । 1.116.७० अथाजगाम वै तत्र कुवलाश्वो महीपतिः । महासैन्यपरीवारः प्रभूतगजवाहनः । । ७१ सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् । वृतं भार्यासहस्रेण दृष्ट्वा संक्रन्दनोद्बलम् । । स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे । । ७२ सर्वकामप्रदं कर्म क्रियते भास्काराश्रितम् । तेनैतदखिलं राज्यमशेषं चाप्तवान्महीम् । । ७३ तेजश्चैवाधिकं यत्ते तथैव शृणु पार्थिव । योगप्रभावतो लब्धं कथयाम्यखिलं तव । । ७४ तत्रैवावसथे दीपः प्रशान्तः स्नेहसंक्षयात् । निजभोजनतैलेन पुनः प्रज्वलितस्त्वया । । ७५ अन्या चोत्तरीयेण वीर वर्त्योपबृंहितः । तव पत्न्या स्वयं ज्वाल्य कान्तिरस्यास्ततोऽधिका । । ७६ तवाप्यखिलभूपालमनः क्षोभकरं पुनः । तेजो नरेन्द्र एतस्मात्किमुताराध्य भास्करम् । । ७७ एवं नरेन्द्रः शूद्रत्वाद्भानुकर्मपरायणः । तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् । । ७८ किं पुनर्यो नरो भक्त्या नित्यं शुश्रूषणावृतः । करोति सततं पूजां निष्कामो नान्यमानसः । । ७९ सर्वामृद्धिमिमां लब्ध्वा सर्वलोकमहेश्वरः । पूजयित्वार्कमीशेशं तमाराध्य न सीदति । । 1.116.८० पुष्पै धूपैस्तथा वान्यैर्दीपैर्वस्त्रानुलेपनैः । आराधयार्कं तद्वेश्म सदा सम्मार्जनादिना । । ८१ यद्यदिष्टतमं किञ्चिद्यद्यन्यत्तु दुर्लभम् । तद्दत्वा च जगद्धात्रे भास्कराय न सीदति । । ८२ सुगन्धागुरुकर्पूरचन्दनागुरुकुंकुमैः । वासोभिर्विविधैर्धूपैः पुष्पैः स्रक्चामरध्वजैः । । ८३ अन्योपहारैर्विविधैः कृतक्षीराभिषेचनैः । गीतवादित्रनृत्याद्यैस्तोषयस्वार्कमादरात् । । ८४ पुण्यरात्रिषु मार्तण्डं नृत्यगीतैरथोज्ज्वलम् । भूप जागरणैर्भक्त्या होमः कार्यः सदा शुचिः । । ८५ इतिहासपुराणानां श्रवणेन .विशेषतः । तथा वेदस्वनैः पुण्यैर्ऋक्सामयजुभिर्नृप । । ८६ एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् । भूयो वैवस्वतो भूत्वा भवहृद्भास्करो नरैः ।। ८७ तोषितो भगवान्भानुर्ददात्यभिमतं फलम् । दैवकर्मसमर्थानां प्राणिनां स्मृतिसम्भवैः । । ८८ तोषितो भगवान्कामान्प्रयच्छति दिवाकरः । नैष वृत्तैर्न रत्नौघैः पुष्पैर्धूपानुलेपनैः । । सद्भावेनैव मार्तण्डस्तोषमायाति संस्मृतः । । ८९ त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् । कृत्वाल्पमीदृशं प्राप्तं राज्यमन्येन दुर्लभम् । । 1.116.९० अनया श्रवणं पुण्यं कारयित्वा गृहे रवेः । ईदृक्प्राप्ता सम्पदियं पूजां कृत्वा तु वाचके । । ९१ प्राप्तोपकरणैर्यस्तमेकाग्रमतिरण्डजम् । सन्तोषयति नेन्द्रोऽपि भवता वै समः क्वचित् । । ९२ तस्मात्त्वमनया देव्या सहात्यन्तविनीतया । भास्कराराधने यत्नं कुरु धर्मभृतां वर । । ९३ ब्रह्मोवाच एतन्मुनेर्वचो वीर निशम्य स नराधिपः । भार्यासहायः स तदा संप्रहृष्टतनूरुहः । । ९४ कृतकार्यमिवात्मानं मन्यमानस्तदाभवत् । उवाच प्रणतो भूत्वा राजा सत्राजितोऽच्युत । । ९५ सत्राजित उवाच यथामरत्वं सम्प्राप्य यथा वायुर्बलं परम् । परं निर्वाणमाप्नोति तथाहं वचसा तव । । ९६ कृतकृत्यः सुखासीनो निर्वृतिं परमां गतः । अज्ञानतमसाच्छन्ने यत्प्रदीपस्त्वया धृतः । । ९७ अहमेषा च तन्वङ्गी विभूतिभ्रंशभीरुकः । द्रव्यमापादितं ब्रह्मन्निहाद्य वचसा तव । । ९८ सम्पदः कथितं बीजमावयोर्भवता मुने । त्वद्वक्त्रादुद्यता वाचो विज्ञाता हि द्विजोत्तम । । ९९ न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः । आराध्यश्च जगन्नाथो भावशून्यैर्दिवाकरः । । 1.116.१०० बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः । निःस्वैराराध्यते देवो भानुः सर्वेश्वरेश्वरः । । १०१ सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने । यच्च पृच्छामि तन्मे त्वं प्रसादसुमुखो वद । । १०२ कथमाराधितो देवो नरैः स्त्रीभिश्च भास्करः । तोषमायाति विप्रेन्द्र तद्वदस्व महामुने । । १०३ रहस्यानि च देवस्य प्रीतये या तिथिः सदा । चान्यशेषाणि मे ब्रूहि अर्काराधनकांक्षिणः । । १०४ परावसुरुवाच शृणु भूपाल यैर्भानुर्गृहेष्याराध्यते जनैः । नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे । । १०५ समभ्यर्च्य जगन्नाथं देवमकं समाधिना । एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणार्पणम् । । १०६ करोति भास्करप्रीत्यै कार्त्तिकं मासमात्मना । पूर्वे वयसि यत्नेन जानताऽजानतापि वा । । १०७ पापमाचरितं तस्माद्भिद्यते नात्र संशयः । अनेनैव विधानेन मासि मार्गशिरे पुनः । । १०८ समभ्यर्च्य मरकतं विप्रेभ्यो यः प्रयच्छति । भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे । । १०९ मध्ये वयसि यत्पापं योषिता पुरुषेण वा । कृतमस्माच्च तेनेक्तो विमोक्षः परमात्मना । । 1.116.११० तथा चैवेकभक्तं तु यस्तु विप्राय यच्छति । दिवाकरं समभ्यर्च्य पौषे मासि महीपते । । १११ तत्तच्च प्रीणयत्यर्कं वार्धिकेनैव यत्कृतम् । स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा । । ११२ त्रिमासिकं व्रतमिदं यः करोति नरेश्वर । स भानुप्रीणनात्पापैर्लघुभिः परिमुच्यते । । ११३ द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः । तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् । । ११४ व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् । त्रिभिः संवत्सरैश्चैव प्रददाति फलं नृणाम् । । ११५ त्रिभिर्मासैरनुष्ठानात्त्रिविधात्पातकान्नृप । त्रीणि नामानि देवस्य मोचयन्ति च वार्षिकैः । । ११६ यतस्ततो व्रतमिदं विविधं समुदाहृतम् । सर्वपापप्रशमनं भास्कराराधने परम् । । ११७ सत्राजित उवाच कतमाय 'तु विप्राय दातव्यं भक्तितो मुने । द्वितीये द्विजशार्दूल कथयस्वाखिलं मम । । ११८ परावसुरुवाच देये पुराणविदुषे वस्त्रे विप्रोत्तमाय च । श्रूयतां चापि वचनं यदुक्तं भास्करेण च । । अरुणाय महाबाहो पृच्छते यत्पुरा नृप । । ११९ उदयाचलमारूढं भास्करं तिमिरापहम् । प्रणम्य शिरसा नूनमिदं वचनमब्रवीत् । । 1.116.१२० कानि प्रियाणि ते देव पूजने सन्ति सर्वदा । पुष्पादीनां समस्तानामाराधनविधौ सदा । । उपरागादिवस्त्रादौ ब्राह्मणानां तथा रवे । । १२१ भास्कर उवाच पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । गुग्गुलञ्चापि धूपानां नैवेद्ये मोदकाः प्रियाः । । १२२ पूजाकरो भोजकस्तु घृतदीपस्तथा प्रियः । दानं प्रियं खगश्रेष्ठ वाचकाय प्रदीयते । । १२३ मामुद्दिश्य च यद्दानं दीयते मानवैर्भुवि । वाचकाय१ तु दातव्यं तन्मम प्रीतये खग । । १२४ इतिहासपुराणाम्यामभिज्ञो यस्तु वाचकः । ब्राह्मणो वै खगश्रेष्ठ सम्पूज्यः प्रीतये मम । । १२५ पूजितेऽस्मिन्सदा विप्रे पूजितोहं न संशयः । भवामि खगशार्दूल यतस्त्विष्टः स मे सदा । । १२६ वेदवीणामृदङ्गैश्च नातिगन्धविलेपनैः । तथा मे जायते प्रीतिर्यथा श्रुत्वा खगोत्तम । । १२७ इतिहासपुराणानि वाच्यमानानि वाचकैः । अतः प्रियो वाचको मे पूजाकर्ता च भोजकः । । १२८ इति भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सत्राजितोपाख्याने रविपूजाविधिवर्णनं नाम षोडशाधिकशततमोऽध्यायः
उपलेपनस्नापनमाहात्म्यवर्णनम् अरुण उवाच किमर्थं भोजकस्तुभ्यं प्रियो देवेश कथ्यताम् । नान्ये विप्रादयो वर्णा देवतायतनेषु वै । । १ कश्चायं भोजको देव कस्य पुत्रः किमात्मकः । वर्णतश्चास्य मे ब्रूहि कर्म चास्य समन्ततः । । २ आदित्य उवाच साधु पृष्टोऽस्मि भद्रं ते वैनतेय महामते । शृणुष्वैकमनाः सर्वं गदतो मम खेचर । । ३ विप्रादयस्तु ये त्वन्ये वर्णाः कश्यपनन्दन । ते पूजयन्ति मां नित्यं भक्तिश्रद्धासमन्विताः । ।४ देवालयेषु ये विप्राः प्रीत्या मां पूजयन्ति हि । अन्याश्च देवतावृत्त्या ते स्युर्देवलकाः खग । । एतस्मात्कारणान्मह्यं भोजको दयितः सदा । । ५ वर्णतो ब्राह्मणश्चायं स्वानुष्ठानपरो यदि । अनुष्ठानविहीनो हि नरकं यात्यसंशयम् । । ६ न त्याज्यं भोजकैस्तस्मात्स्वकं कर्म कदाचन । मयासौ निर्मितः पूर्वं तेजसा स्वेन वै खग । । ७ पूजार्थमात्मनो नूनं कर्म चास्य प्रकीर्तितम् । प्रियव्रतसुतो राजा शाकद्वीपे महामतिः । । ८ तेन मे कारितं दिव्यं विमानप्रतिमं गृहम् । तस्मिन्द्वीपे तदात्मीये दिव्यं शिलामयं महत् । । ९ स मदर्चां कारयित्वा काञ्चनीं लक्षणान्विताम् । प्रतिष्ठापनाय वै तस्याश्चिन्तयामास सुव्रतः । । 1.117.१० कृतमायतनं श्रेष्ठं तेनेयं प्रतिमा कृता । को वै प्रतिष्ठापयिता देवमर्कं शुभालये । । ११ एवं सञ्चिन्तयित्वा तु जगाम शरणं मम । भक्तिं तस्य च सञ्चिन्त्य खगाहं पार्थिवस्य तु । । १२ गतोऽहं दर्शनं तस्य उक्तञ्चापि मया खग । किं चिन्तयसि राजेन्द्र कुतश्चिंता समागता । । १३ ब्रूहि यत्ते हृदि प्रौढं चिन्ताकारणमागतम् । संपादयिष्ये तत्सर्वं विमना भव मा नृप । । १४ अत्यर्थं दुष्करमपि करिष्ये नात्र संशयः । इत्युक्तः स मया राजा इदं वचनमब्रवीत् । । १५ द्वीपेऽस्मिन्देवदेवस्य कृतमायतनं तव । मया भक्त्या जगन्नाथ तथेयं प्रतिमा कृता । । १६ प्रतिष्ठां कारयेद्यस्तु तव देवालये खग । यत्र सन्ति त्रयो वर्णा द्वीपेस्मिन्क्षत्रियादयः । । १७ ते मयोक्ता न कुर्वन्ति प्रतिष्ठां तव कृत्स्नशः । न चाप्यर्चां जगन्नाथ ब्राह्मणश्चात्र विद्यते । । १८ तेनेयमागता चिन्ता हृदि शल्यं तयार्पितम् । ततो मयोक्तो राजाऽसौ वैनतेय वचः शुभम् । । १९ एवमेतन्न संदेहो यथात्थ त्वं नराधिपः । क्षत्रियादित्रयो वर्णा द्वीपेऽस्मिन्नात्र संशयः । । 1.117.२० ते च नार्हन्ति मे पूजां न प्रतिष्ठां कदाचन । तस्मात्ते श्रेयसे राजन्प्रतिष्ठामात्मनस्तथा । । २१ सृजामि प्रथमं वर्णं भग(मग?)संज्ञमनौपमम् । इत्युक्त्वा तमहं वीर राजानं खगसत्तम । । २२ जगाम परमां चिन्तां तस्य कार्यस्य सिद्धये । अथ मे चिन्तयानस्य१ स्वशरीराद्विनिःसृताः । । २३ शशिकुन्देन्दुसंकाशाः संख्ययाष्टौ महाबलाः । पठन्ति चतुरो वेदान्सांगोपनिषदः खग । । २४ काषायवाससः सर्वे करण्डाम्बुजधारिणः । ललाटफलकाद्द्वौ तु द्वौ चान्यौ वक्षसस्तथा । । २५ चरणाभ्यां तथा द्वौ तु पादाभ्यां द्वौ तथा खग । अथ ते च महात्मानः सर्वे प्रणतकन्धराः । । २६ पितरं मन्यमाना मामिदं वचनमब्रुवन् । तात तात महादेव लोकनाथ जगत्पते । । २७ किमर्थं भवता सृष्टा वयं देवस्य देहतः । ब्रूहि सर्वं करिष्याम आदेशं भवतोऽखिलम् । । २८ पितास्माकं भवान्देवो वयं पुत्रा न संशयः । इत्युक्तवन्तस्ते सर्वे मयोक्ता देवसम्भवाः । । २९ प्रियव्रतसुतो योयमस्य वाक्यं करिष्यथ । स चाप्युक्तो मया राजा शाकद्वीपाधिपः खग । । 1.117.३० य एते मत्सुता राजन्नर्घ्या ब्राह्मणसत्तमाः । कारयन्तु प्रतिष्ठां मे सर्वैरेभिर्महीपते । । ३१. कारयित्वा प्रतिष्ठां तु ममार्चायां नराधिप । पश्चादायतनं सर्वमेषामर्पय पूजने । । ३२ एते मत्पूजने योग्याः प्रतिष्ठासु च सर्वशः । समाप्य न प्रहर्तव्यं भोजकेभ्यः कदाचन । । ३३ सर्वमायतनार्थं तु गृहक्षेत्रादिकं च यत् । धनधान्यादिकं राजन्यन्ममायतने भवेत् । । ३४ तत्सर्वं भोजकेभ्यस्तु दातव्यं नात्र संशयः । धनधान्यसुवर्णादि गृहक्षेत्रादिकं च यत् । । यन्मदीयं भवेत्किञ्जिद्ग्रामे वा नगरे क्वचित् । । ३५ तस्य सर्वस्य राजेन्द्र मदीयस्य समन्ततः । अधिपा भोजकाः सर्वे नान्ये विप्रादयो नृप । । ३६ यथाधिकारी पुत्रस्तु पितृद्रव्यस्य वै भवेत् । तथा मदीयवित्तस्य भोजकाः स्युर्न संशयः । । ३७ इत्युक्तेन मया राज्ञा तथा सर्वं प्रवर्तितम् । कारयित्वा प्रतिष्ठां तु दत्त्वा सर्वस्वमेव हि । । भोजकेभ्यः खगश्रेष्ठ ततो हर्षमवाप्तवान् । । ३८ एवमेते मया सृष्टा भोजका गरुडाग्रज । अहमात्मा ततो ह्येषां सर्वे सुमनसस्तथा । । ३९ मत्पुत्रेण समा ज्ञेयास्तथा मम हिताः सदा । तस्मात्तेभ्यः प्रदातव्यं न हर्तव्यं कदाचन । । 1.117.४० भोजकस्य हरेद्यस्तु लोभाद्द्वेषात्तथापि वा । स याति नरकं घोरं तामिस्रं शाश्वतीः समाः । । ४१ तस्माद्ग्रामादिकं द्रव्यं यत्किञ्चिन्मम विद्यते । तत्सर्वं भोजकस्वं हि पितृपर्यागतं मम । । ४२ भोजकश्च भवेद्यादृक्तत्ते वच्मि खगेश्वर । ममाज्ञां पालेयद्यस्तु स्वानुष्ठानपरः सदा । । ४३ वेदाधिगमनं पूर्वं दारसंग्रहणं तथा । अभ्यङ्गधारणं नित्यं तथा त्रिषवणं स्मृतम् । । ४४ पञ्चकृत्वः सदा पूज्यो ह्यहं रात्रौ दिने तथा । देवब्राह्मणवेदानां निन्दा कार्या न वै क्वचित् । । ४५ नान्यादेवप्रतिष्ठा तु कार्या वै भोजकेन तु । ममापि च न कर्तव्या तेन एकाकिना क्वचित् । । ४६ सर्वमेव निवेद्यान्नं नाश्नीयाद्भोजकः सदा । न भुञ्जीत गृहं गत्वा शूद्रस्य गरुडाग्रज । । ४७ शूद्रोच्छिष्टं प्रयत्नेन सदा त्याज्यं हि भोजकैः । येऽश्नन्ति भोजका नित्यं शूद्रान्नं शूद्रवेश्मनि । । ४८ ते वै पूजाफलं चात्र कथं प्राप्स्यन्ति खेचर । गत्वा गृहं तु शूद्रस्य न भोक्तव्यं कदाचन । । ४९ गृहागतं च शूद्रान्नं तच्च त्याज्यं तथैव च । आध्मातव्योम्बुजो नित्यं भोजकेनाग्रतो मम । । 1.117.५० सकृत्प्रवादिते शंखे मम प्रीतिर्हि जायते । षण्मासान्नात्र सन्देहः पुराणश्रवणं तथा । । ५१ तस्माच्छंखः सदा वाद्यो भोजकेन प्रयत्नतः । तस्येयं परमा वृत्तिर्नैवेद्यं यन्मदीयकम् । । ५२ नाभोज्यं भुञ्जते यस्मात्तेनैते भोजका मताः । मगं ध्यायन्ति ते यस्मात्तेन ते मगधाः स्मृताः । । ५३ भोजयन्ति च मां नित्यं तेन ते भोजका स्मृताः । अभ्यङ्गं च प्रयत्नेन प्रायं शुद्धिकरं परम् । । ५४ अभ्यङ्गहीनो ह्यशुचिर्भोजकः स्यान्न संशयः । यस्तु मां पूजयेद्वीर अभ्यङ्गेन विना खग । । ५५ न तस्य सन्ततिः स्याद्वै न चाहं प्रीतिमान्भवे
मुण्डनं शिरसा कार्यं शिखा धार्या प्रयत्नतः । । ५६ नक्तं चादित्यदिवसे तथा षष्ठ्यां प्रवर्तयेत् । सप्तम्यामुपवासस्तु मम संक्रमणे तथा । । ५७ कर्तव्यो भोजकेनैव मत्प्रीत्यै गरुडाग्रज । त्रिकालं चापि गायत्रीं जपेद्वाचा पुरो मम । । ५८ मुखमावृत्य यत्नेन पूजनीयोऽहमादरात् । मौनं चास्य प्रयत्नेन त्यक्त्वा क्रोधं च दूरतः । । ५९ शूद्रेभ्यो यस्तु वैश्येभ्यो लोभात्कामात्प्रयच्छति । निर्माल्यं मम वै वत्स स याति नरकं ध्रुवम् । । 1.117.६० लोभाद्वै भोजको यस्तु मत्पुष्पाणि खगाधिप । यच्छतेन्यस्य दुष्टात्मा मय्यनारोप्य खेचर । । ६१ स ज्ञेयो मे परः शत्रुः स मामर्हो न चार्चितुम् । निर्माल्यं मम देयं स्याद्ब्राह्मणादिषु वै नृषु । । ६२ नैवेद्यं यन्मदीयं तु तदश्नीयात्सदैव हि । तेनासौ शुद्ध्यते नित्यं हविष्यान्नसमं तथा । । ६३ तत्क्षणादुत्क्षिपेद्यस्तु ममांगात्पुष्पमेव हि । नान्यस्य देयं नैवेद्यं मदीयमुदके२ क्षिपेत् । । ६४ पञ्चगव्यसमं तस्य मन्मतं नात्र संशयः । ममाङ्गलग्नं यत्किञ्चिद्गन्धं पुष्पमथापि वा । । ६५ दातव्यं न च वैश्याय न शूद्राय कदाचन । आत्मना तद्ग्रहीतव्यं न विक्रेयं कथञ्चन । । ६६ यस्तु नारोप्य पुष्पाणि अव्यङ्गानि ममोपरि । यः कश्चिदाहरेल्लोके स याति नरकं ध्रुवम् । । ६७ स्नपनं मम निर्माल्यं पावकं यस्तु लङ्घयेत् । स नरो नरकं याति सरौद्रं रौरवं खग । । ६८ भोजकेन सदा कार्यं स्नपनं मे प्रयत्नतः । यथा न लङ्घयेत्कश्चिद्यथा श्वा नापि भक्षयेत् । । ६९ यद्ययत्नपरः कुर्याद्भोजकः स्नपनं मम । यथा वै लङ्घितमतिर्भक्ष्यतां च खगाधिप । । 1.117.७० स याति नरकं रौद्रं तामिश्रं नाम नामतः । एकभक्तं सदा कार्यं स्नानं त्रैकालमेव हि । । ७१ त्रिचैलं परिवर्तेत भवितव्यं दिनेदिने । पूजाकालेऽर्घकाले च क्रोधस्त्याज्यः प्रयत्नतः । । ७२ अमांगल्यं न वक्तव्यं वक्तव्यं च शुभं तदा । ईदृग्भूतो भोजको मे प्रेयान् पूजाकरः सदा । । ७३ सन्मान्यः पूजनीयश्च विप्रादीनां यथास्म्यहम् । यः करोत्यवमानं तु वृत्तिरूपं तु भोजके । । ७४ तस्याहं रोषमेत्याशु कुलं हन्मि समन्ततः । प्रियो मे भोजको नित्यं यथा त्वं विनतासुत । । ७५ उपलेपनकर्ता च सम्मार्जनपरश्च यः । । परावसुरुवाच इत्युक्त्वा भगवान्भानुर्बभ्राम रथमास्थितः । । ७६ अरुणोऽपि तथा श्रुत्वा मुदया परया नृपः । पूज्यस्तस्मान्महाराज भोजकस्तु महीपते । । ७७ तस्माद्देवं वाचकाय द्वितीयमशनं नरैः । । ७८ ब्रह्मोवाच इत्थं श्रुत्वा स राजा तु कर्मणः फलमात्मनः । पुरातनं महाबाहुर्मुदमाप महीपतिः । ।७९ यद्यदायतनं भानोः पृथिव्यां पश्यते नृपः । तस्मिंस्तस्मिन्कारयति उपलेपनमादरात् । । 1.117.८० भार्या तस्यापि सुश्रोणि पुण्यश्रवणमादरात् । वाचके वेतनं दत्त्वा भानोर्देवस्य मन्दिरे । । ८१ इत्थं राजा सपत्नीकः पूज्य भक्त्या दिवाकरम् । प्राप्तावुभौ परां प्रीतिं गतिं चानुत्तमां तथा । । ८२ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्प उपलेपनस्नापनमाहात्म्यवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः
दीपदानफलवर्णनम् ब्रह्मोवाच दीपं प्रयच्छति नरो भानोरायतने तु यः । तेजसा रविसंकाशः सर्वयज्ञफलं१ लभेत् । । १ कार्त्तिके तु विशेषेण कौमारे मासि दीपकम् । दत्वा फलमवाप्नोति यदन्येन न लभ्यते । । २ कृष्णकृष्णात्र ते वच्मि संवादं पापनाशनम् । भ्रातृभिः सह भद्रस्य ब्राह्मणस्य महात्मनः । । ३ जगत्यस्मिन्पुरी रम्या नाम्ना माहिष्मती पुरा । तस्यामासीद्द्विजः कृष्ण नागशर्मेति विश्रुतः । ।४ तस्य पुत्रशतं जातं प्रसादाद्भास्करस्य च । तेषां कनिष्ठो भद्रस्तु तत्पुत्राणां विचक्षणः । । ५ स च नित्यं जगद्धातुर्देवदेवस्य भास्वतः । दीपवर्तिपरस्तद्वत्तैलाद्याहरणोद्यतः । । ६ भानोरायतने तस्य सहस्रं भार्गवीप्रिय । प्रदीपानां तु जज्वाल दिवारात्रमनिन्दितम् । ।७ तस्य दीप्त्या पराभूतास्तस्य लावण्यधर्षिताः । सर्वे ते भ्रातरो भद्रं पप्रच्छुरिदमादरात् । । ८ भो भद्र वद वै भ्रातर्भद्रं तेस्तु सदा द्विज । कौतूहलपराः सर्वे यत्पृच्छामस्तदुच्यताम् । । ९ तेषां तद्वचनं श्रुत्वा भद्रो वचनमब्रवीत् । विषये सति वक्तव्यं यन्मया तदिहोच्यताम् । । 1.118.१० नाहं मत्सरयुक्तो वै न च रागादिदूषितः । भवन्तो मम सर्वे वै भ्रातरो गुरवस्तथा । । ११ कथं न कथयाम्येष भवतां पुत्रसम्मितः । तस्माद्ब्रुवन्तु मां सर्वे भ्रातरो यद्विवक्षितम् । । १२ भ्रातर ऊचुः न तथा पुष्पधूपेषु न तथा द्विजपूजने । सुप्रयत्नं तु पश्यामो भानोरायतने परम् । । १३ यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि । तव दीपप्रदानाय यथा भद्र सदोद्यमम् । । १४ तत्त्वं तत्कथयास्माकं हंत कौतूहलं परम् । यन्नाम दीपदानस्य भवता विदितं फलम् । । १५ तदेतत्कथयास्माकं सविशेषं महाबल । एवमुक्तस्ततस्तैस्तु भ्रातृभिश्चोदितो मुदा । । १६ व्याजहार स भ्रातॄणां न किञ्चिदपि सुव्रत । पुनः पुनरसौ तैस्तु भ्रातृभिश्चोदितो मुदा । । १७ दाक्षिण्यसारो भद्रस्तु कथयामास कृत्स्नशः । भवतां कौतुकं चैतदतीवाल्पेऽपि वस्तुनि । । १८ तदेष कथयाम्यद्य यद्व्रतं मम सुव्रत । इक्ष्वाकुराज्ञस्तु पुरा वशिष्ठोऽभूत्पुरोहितः । । १९ तेन चायतनं भानोः कारितं सरयूतटे । अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः । । 1.118.२० दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः । कार्तिके दीपको भक्त्या प्रदत्तस्तेन वै सदा । । २१ आसीन्निर्वाण एवासौ देवार्चापुरतो निशि । देवतायतने चाहमवसं व्यथितो भृशम् । । २२ पूयशोणितनिष्पन्दं प्रावहन्कायतः सदा । शीर्ण घ्राणो ह्यर्वरवो दुर्गंधपतितस्तथा । । २३ दुष्टबुद्ध्या सदा युक्तः सप्ताश्वं प्रति सुव्रत । यदृच्छ्या दीपदानं वर्त्यादीनां विभावसौ । ।२४ तत्तद्भुक्त्वा सदा तुष्टिं व्रजामि द्विजसत्तमाः । एकदा तु ततस्तस्मिन्भानोरायतने गतः । । २५ रात्रौ दृष्टा मया तत्र भक्ता जागरणागताः । प्रतिश्रयं प्रार्थिताश्च तैश्च दत्तो दयान्वितः । । २६ व्याधितोऽयं सुदीनश्च इति कृत्वा मतिं शुभाम् । ततोऽहमग्निमाश्रित्य स्थितस्तेषां समीपतः । । २७ दुष्टां बुद्धिं समाश्रित्य हर्तुकामो विवस्वतः । दिव्यमाभरणं भानोश्छिद्रान्वेषी द्विजोत्तमाः । । २८ स्थितोऽहं भोजका ह्यत्र यदि निद्रां व्रजन्ति ते । येनास्य वैरिवद्भानोर्हराम्याभरणं शुभम् । । २९ अथ सुप्ता भोजकास्ते निद्रया मोहितास्तदा । निर्वाणाश्चापि दीपास्तु ततोऽहमुत्थितस्त्वरन् । । 1.118.३० मुदा परमया युक्तो गतो वैश्वानरं प्रति । प्रज्वाल्यं पावकं यत्नाद्दीपवर्तिन्ततो मया । । ३१ योजयित्वा तु वै दीपे धृतो दीपोऽग्रतो रवेः । हर्तुकामेनाभरणं भानोर्देवस्य सुव्रत । । ३२ अथ ते भोजकाः सर्वे वृद्धा देवस्य पुत्रकाः । तैस्तु दृष्टो ह्यहं तत्र दीपहस्तो विभावसोः । । ३३ पुरः स्थितो द्विजश्रेष्ठा गृहीतश्चापि तैरिह । ततोऽहं तेजसा मूढो भास्करस्य महात्मनः । । ३४ विलपन्करुणं तेषां पादयोरवनिं गतः । तैश्चापि करुणां कृत्वा मुक्तोऽहं भोजकैस्तदा । । ३५ गृहीतो राजपुरुषैः पृष्टश्चापि समन्ततः । किमिदं भवतारब्धं देवदेवस्य मंदिरे । । ३६ दीपं प्रज्वाल्य दुष्टात्मन्कथ्यतां मा चिरं कुरु । इत्युक्त्वा तु ततस्तैस्तु शस्त्रहस्तैः समावृतः । । ३७ ततोऽहं व्याधिना क्लिष्टो भयेन च द्विजोत्तमाः । हित्वा प्राणान्गतो यत्र स्वयं देवो विभावसुः । । ३८ स्थित्वा कल्पं ततस्तत्र युष्माकं भ्रातृतां गतः । एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । । ३९ दत्तस्यार्कस्य भवने यस्येयं व्युष्टिरुत्तमा । दुष्टबुद्ध्या कृतं यत्तु मया दीपप्रवर्तनम् । । 1.118.४० भगायतनदीपस्य तस्येदं भुज्यते फलम् । क्षुधाभिभूतेन मया देवदेवस्य भूषणम् । । ४१ दीपश्च देवपुरतो ज्वालितो भास्करस्य तु । ततो जातिस्मृतिर्जन्म प्रान्तं ब्राह्मणवेश्मनि । । ४२ कुष्ठिना चापि शूद्रेण प्राप्तं ब्राह्मण्यमुत्तमम् । नानाविधानि शास्त्राणि सांगं वेदं समाप्तवान् । । ४३ दुष्टबुद्ध्या धृताद्दीपात्फलमेतन्महाद्भुतम् । प्राप्तं मया द्विजश्रेष्ठाः किं पुनर्दीपदायिनाम् । । ४४ एतस्मात्कारणाद्दीपानहमेवमहर्निशम् । प्रयच्छामि रवेर्धाम्नि ज्ञातमस्य हि यत्फलम् । ।४५ युष्माकमिदमुक्तं वै स्नेहात्सत्यं न संशयः । एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । ।४ ६ अर्कायतनदीपस्य भद्रोवोचद्यथा पुरा । दिनेदिने जपन्नाम भास्करस्य समाहितः । ।४७ ददाति कार्तिके यस्तु भगायतनदीपकम् । जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्वजन्तुषु । । ४८ अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः । सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः । ।४ ९ जायते नरकं चापि तमः संज्ञं न पश्यति । षष्ठीं वा सप्तमीं वापि प्रतिपक्षं च यो नरः । । 1.118.५० दीपं ददाति यत्नाद्यत्फलं तस्य निबोध मे । काञ्चनं मणियुक्तं च मनोज्ञमतिशोभनम् । । ५१ दीपमालाकुलं दिव्यं विमानमधिरोहति । तस्मादायतने भानोर्दीपान्दद्यात्सदाच्युत । । ५२ तांश्च दत्त्वा न हिंस्याच्च न च तैलवियोजितान् । कुर्वीत दीपहर्ता तु मूषकोन्धश्च जायते । । ५३ तस्माद्दद्यान्नाहरेद्वै श्रेयोऽर्थी दीपकं नरः । । ५४ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भद्रोपाख्यान आदित्यायतनदीपदानफलवर्णनं नामाष्टादशाधिकशततमोऽध्यायः
आदित्यस्तववर्णनम् शतानीक उवाच तस्मिन्काले समारूढो लिख्यमानो दिवस्पतिः । ब्रह्मादिभिः स्तुतो देवैर्यथा वै तद्वदस्व मे । । १ सुमन्तुरुवाच शृणुष्वैकमना राजन्यथा देवो दिवस्पतिः । ब्रह्मादिभिः स्तुतो देवैर्ऋषिभिश्च पुराऽनघ । । २ प्रयत्नतः प्रणतहितानुकम्पिने स्वरूपतो लोकविभाविने नमः । दिवस्पते कमलकुलावबोधिने नमस्तमः पटसपटावपायिने । । ३ पावनातिशयपुण्यकर्मणे नैककामविभवप्रदायिने । भासुरामलमयूखमालिने सर्वलोकहितकारिणे नमः । । ४ अजाय लोकत्रयभावनाय भूतात्मने गोपतये प्रियाय । नमो महाकारुणिकोत्तमाय सूर्याय लोकत्रयभावनाय । । ५ विवस्वते ज्ञानकृतान्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे । स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः । । ६ निजोदयाय सुरगणमौलिमणे जगता त्वं महितस्त्वमुरुमयूखसहस्रतपाः । जगति विभो वतमसतुद वनतिमिरासवपावन मदाद्भवति विलोहितविग्रहतातिमिरविनाशिनमुग्रं सुतरां त्रिभुवनभाप्रकरैः । । ७ रथामारुह्य१ समामयं भ्रमसि सदा जगतो हितदः । । ८ इत्येवं संस्तुतो देवो भास्करो वेधसा पुरा । दैवतैश्च महाबाहो शिवविष्ण्वादिभिर्नृप । । ९ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यस्तवो नाम द्वाविंशत्यधिकशततमोऽध्यायः
परिलेखवर्णनम् शतानीक उवाच भूयोऽपि कथयस्वेमां कथां सूर्यसमाश्रिताम् । न तृप्तिमधिगच्छामि शृण्वन्नेतां कथां मुने । । १ सुमन्तुरुवाचं भास्करस्य कथां पुण्यां सर्वपापप्रणाशिनीम् । वक्ष्यामि कथितां पूर्वं ब्रह्मणा लोककर्तृणा
Śatānīka said: Once more, please tell me this story connected with the Sun; I do not attain satisfaction, O sage, even as I listen to this tale.
1.123.४० महादेवेन सहिता इन्द्रेण च महात्मना । तमेव शरणं देवं गच्छामः सहिता वयम् । । ४१ ततस्ते सहिताः सर्वे ब्रह्मविष्ण्वादयः सुराः । गत्वा ते शरणं सर्वे भास्करं लोकभास्करम् । । ४२ स्तोतुं प्रचक्रमुः सर्वे भक्तिनम्रा समन्ततः । केशादिदेवताः सर्वा भक्तिभावसमन्विताः । । ४३ ब्रह्मविष्ण्वीशा ऊचुः नमोनमः सुरवर तिग्मतेजसे नमोनमः सुरवर संस्तुताय वै । जडान्धमूकान्बधिरान्सकुष्ठान्सश्वित्रिणोंऽधान्विविधव्रणावृतान् । । करोषि तानेव पुनर्नवान्त्सदा अतो महाकारुणिकाय ते नमः । । ४४ यदौदरं ज्योतिरतित्वरन्महद्यदल्पतेजो यदपीह चक्षुषाम् । यदत्र यज्ञेष्वपनीतमाहितं तवैव तदूपमनेकतः स्थितम् । । ४५ सुरद्विषः सागरतोयवासिनः प्रचण्डपाशासिपरश्वधायुधाः । समुच्छ्रितास्ते भुवि पापचेतसः प्रयांति नाशं तव देव दर्शनात् । । ४६ यतो भवांस्तीर्थफलं समस्तं यज्ञेषु नित्यं भगवानवस्थितः । नमो भवन्नत्र विचारणास्ति सदा समः शांतिकरो नराणाम् । । यच्चापि लोके तप उच्यते बुधैस्तत्ते महातेज उशंति पण्डिताः । ।४७ स्तुतः स भगवानेवं प्रजापतिमुखैः सुरैः । अवधानं ततश्चक्रे श्रवणाभ्यां महीपते । ।४८ स्तुवन्ति ते ततो भूयः शिवविष्णुपुरोगमाः । कृत्वा मां पुरतः सर्वे भक्तिनम्राः समन्ततः । ।४९ १नमोनमस्त्रिभुवनभूतिदायिने क्रतुक्रियासत्फलसम्प्रदायिने । नमोनमः प्रतिदिनकर्मसाक्षिणे सहस्रसंदीधितये नमोनमः । । 1.123.५० प्रसक्तसप्ताश्वयुजे क्षयाय ध्रुवैकरश्मिग्रथिने नमोनमः । सवालखिल्याप्सरकिन्नरोरगैः संसिद्धगन्धर्वपिशाचमानुषैः । । सयक्षरक्षोगणगुह्यकोत्तमैः स्तुतः सदा देव नमोनमस्ते । । ५१ यतो रसान्संक्षिपसे शरीरिणां गभस्तिभिर्हिमजलघर्मनिस्रवैः । जगच्च संशोषयसे सदैव अतोसि लोके जगतो विशोषणम् । । ५२ ब्रह्मोवाच ज्ञात्वा तेषामभिप्रायमुवाच भगवान्वचः । लब्ध्वानुज्ञां ततः सर्वे सुराः संहृष्टचेतसः । । ५३ त्वष्टारं पूजयामासुर्मनोवाक्कायकर्मभिः । विश्वकर्मा तवादेशात्करोतु तव सौम्यताम् । । ५४ ततस्तु तेजसो राशिं सर्वकर्मविधानवित् । भ्रमिमारोपयामास विश्वकर्मा विभावसुम् । । ५५ अमृतेनाभिषिक्तस्य तदा सूर्यस्य वै विभोः । तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । ५६ आजानुलिखितश्चासौ समुरासुरपूजितः । नाभ्यनन्दत्ततो देव उल्लेखनमतः परम् । । ५७ ततः प्रभृति देवस्य चरणौ नित्यसंवृतौ । तापयन्ग्लापयंश्चैव युक्ततेजोऽभवत्तदा । । ५८ यच्चास्य शातितं तेजस्तेन चक्रं विनिर्मितम् । येन विष्णुर्जघानोग्रान्सदा वै दैत्यदानवान् । । ५९ शूलशक्तिगदावज्रशरासनपरश्वधान् । देवतानां ददौ कृत्वा विश्वकर्मा महामतिः । । 1.123.६० त्रिदेवनिर्मितं स्तोत्रं सन्ध्ययोरुभयोर्जपन् । कुलं पुनाति पुरुषो व्याधिभिर्न च पीड्यते । । ६१ प्रजावान्सिद्धकर्मा च जीवेत्साग्रं शरच्छतम् । पुत्रवान्धनवांश्चैव सर्वत्र चापराजितः । । हित्वा पुरं भूतमयं गच्छेत्सृर्यमयं पुरम् । । ६२ भूयोऽपि तुष्टुवुर्देवास्तथा देवर्षयो रविम् । वाग्भिरित्थमशेषस्य त्रैलोक्यस्य समागताः । । ६३ देवा ऊचुः नमस्ते१ रविरूपाय सोमरूपाय ते नमः । नमो यजुः स्वरूपायाथर्वायाङ्गिरसे२ नमः । । ६४ ज्ञानैकधामभूताय३ निर्धूततमसे नमः । शुद्धज्योतिःस्वरूपाय निस्तत्त्वायामलात्मने । । ६५ नमोऽखिलजगद्व्याप्तिस्वरूपायात्ममूर्तये
भद्राकल्पवर्णनम् ब्रह्मोवाच शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर्भवेत् । यदा प्रथमता चैव तदा वै भद्रतां व्रजेत् । । १ स्नपनं तत्र देवस्य घृतेन कथितं बुधैः । क्षीरेण च तथा वीर पुनरिक्षुरसेन च । । २ स्नापयित्वा तु देवेशं चन्दनेन विलेपयेत् । दग्ध्वा तु गुग्गुलं तस्य दद्याद्भद्रं तथाग्रतः । । ३ गोधूमचूर्णं निवपन्विमलं शशिसन्निभम् । सवज्रं सगुडं चैव रक्तपुष्पोपशोभितम् । । ४ यदस्य शृङ्गमीशानं तत्र वै मौक्तिकं न्यसेत् । यदाग्नेयं तत्र माणिक्यं न्यसेद्वा लोहितं मणिम् । । ५ नैर्ऋत्ये मकरं दद्याद्वायव्ये पद्मरागिणम् । गाङ्गेयमन्ततस्तस्य स्वशक्त्या विन्यसेद्बुधः । । ६ चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् । षष्ठ्यामयाचितं प्रोक्तं(क्त?) उपवासो ह्यतः परः । । ७ पाषण्डिनो विकर्मस्थान्बैडालव्रतिकान्त्यजान् । सप्तम्यां पालयेत्प्राज्ञो दिवा स्वापं विवर्जयेत् । । ८ अनेन विधिना यस्तु कुर्याद्वै भद्रसप्तमीम् । तस्मै भद्राणि सर्वाणि यच्छन्ति ऋभवः सदा । । ९ भद्रं ददाति यस्त्वस्यां भद्रस्तस्य सुतो भवेत् । भद्रमासाद्य भूतेश सदा भद्रेण तिष्ठति । । 1.101.१० दिण्डिरुवाच कोऽयं भद्र इति प्रोक्तः कथं कार्यं प्रभूषणम् । दत्त्वा च किं फलं विद्याद्विधिना केन दीयते । । ११ ब्रह्मोवाच व्योम भद्रमिति प्रोक्तं देवचिह्नमनूपमम् । यद्धृत्वेह नरः सूर्यं मुच्यते सर्वकिल्बिषैः । । १२ शालिपिण्डमयं कार्यं चतुष्कोणमनूपमम् । गव्येन सर्पिषा युक्तं खण्डशर्करयान्वितम् । । १३ चातुर्जातकपूर्णं तु द्राक्षाभिश्च विशेषतः । नालिकेरफलैश्चैव सुगन्धं च गणाधिप । । १४ मध्येन्द्रनीलं भद्रस्य न्यसेत्प्राज्ञः स्वशक्तितः । पुष्परागं मरकतं पद्मरागं तथैव च । । १५ अनौपम्यं च माणिक्यं क्रमात्कोणेषु विन्यसेत् । वाचकायाथ वा दद्यादथ वा भोजके स्वयम् । । १६ अनेन विधिना यस्तु कृत्वा भद्रं प्रयच्छति । स हि भद्राणि सम्प्राप्य गच्छेद्गोपतिमन्दिरम् । । १७ ब्रह्मलोकं ततो गच्छेद्यानारूढो न संशयः । तेजसा गोजसंकाशः कांत्या गोजसमस्तथा । । १८ प्रभया गोपतेस्तुल्य ऊर्जसा गोपरस्य च । तस्मादेत्य पुनर्भूमौ गोपतिः स्यान्न संशयः । । प्रसादाद्गोपतेर्वीर सर्वज्ञाधिपपूजितः । । १९ इत्येषा कथिता भीम भद्रा नामेति सप्तमी । यामुपोष्य नरो भीम ब्रह्मलोकमवाप्नुयात् । । 1.101.२० शृण्वन्ति ये पठन्तीह कुर्वन्ति च गणाधिप । ते सर्वे भद्रमासाद्य यान्ति तद्ब्रह्म शाश्वतम् । । २१ सुमन्तुरुवाच इत्युक्तवान्पुरा ब्रह्मा दिण्डिने सप्तमीव्रतम् । मयाप्युक्तं तव विभो यथाज्ञातं यथाश्रुतम् । । २२ गृहीत्वा सप्तमीकल्पं मानवो यस्तु भूतले । त्यजेत्कामाद्भयाद्वापि स ज्ञेयः पतितोऽबुधः । । २३ तस्माद्धारय तद्वीर न त्याज्यं सप्तमीव्रतम् । त्यजमानो भवेद्वीर आरूढपतितो नरः । । २४ श्रावयेद्यस्तु भक्त्या च सप्तमीकल्पमादितः । सोऽश्वमेधफलं प्राप्य ततो याति परं पदम् । । २५ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भद्राकल्पवर्णनं नामैकाधिकशततमोध्यायः
Description of the Auspicious Rite Brahmā said: On the seventh day of the bright fortnight, when the constellation of Savitṛ is present for the first time, then indeed auspiciousness is attained. On that day, the wise have prescribed bathing the deity with ghee, with milk, O hero, and also with the juice of sugarcane. After bathing the Lord of Deities, one should anoint him with sandal paste; having burned guggul incense, one should offer the auspicious item before him. One should spread pure wheat flour, shining like the moon, mixed with diamond dust and jaggery, adorned with red flowers. Wherever is his horn, O Lord, there a pearl should be placed; in the southeast, a ruby or a red gem should be set. In the southwest, one should offer a makara gem; in the northwest, a padmarāga gem; and finally, a wise person should place a Gāṅgeya gem according to his ability. On the fourth day, one meal is prescribed; on the fifth, night-fasting is enjoined; on the sixth, begging is prescribed, and after that, fasting is ordained. The wise should avoid heretics, those engaged in improper acts, and those who have abandoned vows; on the seventh, one should observe discipline and avoid sleeping during the day. Whoever performs the Bhadrā Saptamī with this procedure, to him the Ṛbhus always grant all auspicious things. Whoever gives an auspicious gift on this day, will have an auspicious son; having attained auspiciousness, the Lord of Beings always abides in auspiciousness. Diṇḍira said: Who is called Bhadrā? How should the ornament be made? What result is known from giving it, and by what procedure is it given? Brahmā said: The sky is called Bhadrā, an incomparable divine symbol; whoever wears it here is freed from all sins by the Sun. It should be made of a lump of rice, four-sided and excellent, mixed with cow’s ghee and pieces of sugar. It should be filled with four kinds of grains, especially with grapes and coconut fruits, and made fragrant, O Lord of Hosts. A wise person should place a sapphire in the center of the Bhadrā, according to his ability, as well as a topaz, an emerald, and a padmarāga gem. An incomparable ruby should be placed in order at the corners; it may be given to a reciter, or to one who serves food, or by oneself. Whoever, having made the Bhadrā in this way, gives it, surely attains all auspicious things and goes to the abode of the Lord of Cows. Then he goes to Brahmaloka, riding a vehicle, without doubt; his brilliance is like the essence of cows, his radiance is also like that of cows. His splendor is equal to the Lord of Cows, and his vigor is like the essence of cows; therefore, having come to earth again, he becomes the Lord of Cows, without doubt. By the grace of the Lord of Cows, O hero, he is worshipped by all-knowing masters. Thus, O Bhīma, the Bhadrā Saptamī has been described; by observing which, a man attains Brahmaloka, O Bhīma. Whoever hears, recites, or performs this, O Lord of Hosts, all of them, having attained auspiciousness, reach that eternal Brahman. Sumantu said: Thus, long ago, Brahmā spoke to Diṇḍi about the Saptamī vow; I have also told you, O Lord, as I have known and heard. Whoever, having taken up the Saptamī rite on earth, abandons it out of desire or fear, should be known as fallen and ignorant. Therefore, uphold it, O hero; the Saptamī vow must not be abandoned. One who abandons it, O hero, is like one who falls from a high place. Whoever, with devotion, causes the Saptamī rite to be heard from the beginning, attains the fruit of an Aśvamedha sacrifice and then reaches the supreme state. Thus ends the one hundred and first chapter, named 'Description of the Auspicious Rite,' in the Saptamī section of the Brahma Parvan of the glorious Bhaviṣya Mahāpurāṇa.
नक्षत्रपूजाविधिवर्णनम् सुमन्तुरुवाच एवं या देवदेवस्य सप्तमी भास्करस्य तु । यथा बहूनां भार्याणां भर्तुः काचित्प्रिया भवेत् । । १ सर्वाश्च तिथयो ह्यस्य प्रियाः सूर्यस्य भारत । तस्मादस्यां नरेणेह पूजनीयो दिवाकरः । । २ शतानीक उवाच तिथीनामधिपः सूर्यः सर्वासां कथितो यदि । सप्तम्यामेव यागोऽस्य किमर्थं क्रियते बुधैः । । ३ सुमन्तुरुवाच इदमर्थं पुरा पृष्टः सुरज्येष्ठो दिवि स्थितः । विष्णुना कुरुशार्दूल तेनोक्तं हरये यथा । । तथा ते सर्वमाख्यास्ये शृणुष्वैकमना विभो । । ४ सुखासीनं सुरज्येष्ठं पुरा देवं पितामहम् । प्रणम्य शिरसा देव कृष्णो वचनमब्रवीत् । । ५ यद्येष भानुमान्देवस्तिथीनामधिपः स्मृतः । किमर्थं पूज्यते ब्रह्मन्सप्तम्यां ब्रूहि मे विभो । । ६ एवमुक्तः सुरज्येष्ठो विष्णुना प्रभविष्णुना । प्रहस्य भगवान्देव इदं वचनमब्रवीत् । । ७ ब्रह्मोवाच देवेभ्यस्तिथयो दत्ता भास्करेण महात्मना । मुक्त्वैकां सप्तमीं सर्वां सम्यगाराधनेन वै । । ८ यस्यैव यद्दिनं दत्तं स तस्यैवाधिपः स्मृतः । स्वदिने पूजितस्तस्मात्स्वमन्त्रैर्वरदो भवेत्.. । । ९ विष्णुरुवाच अर्केण कतरत्कस्मै दिनं दत्तं महात्मना । स्वदिने पूजितेऽस्मिन्वै स्वमन्त्रैर्जायते ध्रुवम् । । 1.102.१० ब्रह्मोवाच अग्नये प्रतिपद्दत्ता द्वितीया ब्रह्मणे तथा । तृतीया यक्षराजाय गणेशाय चतुर्थ्यपि । । ११ पञ्चमी नागराजाय कार्तिकेयाय षष्ठ्यपि । सप्तमी स्थापितात्मार्थं दत्ता रुद्राय चाष्टमी । । १२ दुर्गायै नवमी दत्ता यमाय दशमी स्वयम् । विश्वेभ्यश्चाथ देवेभ्यो दत्ता चैकादशी सदा । । १३ द्वादशी विष्णवे दत्ता मदनाय त्रयोदशी । चतुर्दशी शङ्कराय दत्ता सोमाय पूर्णिमा । । १४ पितॄणां भानुना दत्ता पुण्या पञ्चदशी सदा । तिथ्यः पञ्चदशैतास्तु सोमस्य परिकीर्तिताः । । १५ पीयते कृष्णपक्षे तु सुरैरेभिर्यथोदितैः । शुक्लपक्षे प्रपूर्यन्ते षोडश्या कलया सह । । १६ अक्षया सा सदैकैका तत्र साक्षात्स्थितो रविः । क्षयवृद्धिकरो ह्येवं तेनासौ तत्पतिः स्मृतः । । १७ ददाति गतिमक्षीणा ध्यानमात्रस्थितो १ रविः । अन्येपीष्टान्यथाकामान्प्रयच्छन्ति सुखेन वै । । १८ तथा सर्वं प्रवक्ष्यामि कृष्ण संक्षेपतः शृणु । अग्निमिष्ट्वा च हुत्वा च प्रतिपद्यमृतं घृतम् । । हविषा सर्वधान्यानि प्राप्नुयादमितं धनम् । । १९ ब्रह्माणं च द्वितीयायां सम्पूज्य ब्रह्मचारिणम् । भोजयित्वा च विद्यानां सर्वासां पारगो भवेत् । । 1.102.२० तृतीयायां च वित्तेशं वित्ताढ्यो जायते ध्रुवम् । क्रयादिव्यवहोरषु लाभो बहुगुणो भवेत् । । २१ गणेशपूजनं कुर्याच्चतुर्थ्यां सर्वकर्मसु । अविघ्नं विद्विषां विघ्नं कुर्याच्चास्य न संशयः । । २२ नागानिष्ट्वा च पञ्चम्यां न विषैरभिभूयते । स्त्रियं च लभते पुत्रान्परां च श्रियमाप्नुयात् । । २३ सम्पूज्य कार्तिकेयं तु षष्ठ्यां श्रेष्ठः प्रजायते । मेधावी रूपसम्पन्नो दीर्घायुः कीर्तिवर्धनः । । २४ सप्तम्यां पूज्य रक्षेशं चित्रभानुं दिवाकरम् । अष्टम्यां पूजितो देवो गोवृषाभरणो हरः । । २५ ज्ञानं ददाति विपुलं कान्तिं च विपुलां तथा । मृत्युहा ज्ञानदश्चैव पाशहा च प्रपूजितः । । २६ दुर्गां सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया । सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते । । २७ दशम्यां यममातिष्ठेत्सर्वव्याधिहरो ध्रुवम् । नरकादथ मृत्योश्च समुद्धरति मानवम् । । २८ एकादश्यां यथोद्दिष्टा विश्वेदेवाः प्रपूजिताः । प्रजां पशुं धनं धान्यं प्रयच्छन्ति महीं तथा । । २९ द्वादश्यां विष्णुमिष्ट्वेह सर्वदा विजयी भवेत् । पूज्यश्च सर्वलोकानां यथा गोपतिगोकरः । । 1.102.३० कामदेवं त्रयोदश्यां सुरूपो जायते ध्रुवम् । इष्टां रूपवतीं भार्यां लभेत्कामांश्च पुष्कलान् । । ३१ दृष्ट्वेश्वरं चतुर्दश्यां सर्वैश्वर्यसमन्वितः । बहुपुत्रो बहुधनस्तथा स्यान्नात्र संशयः । । ३२ पौर्णमास्यां तु यः सोमं पूजयेद्भक्तिमान्नरः । स्वाधिपत्यं भवेत्तस्य सम्पूर्णं न च हीयते । । ३३ पितरः स्वदिने दिण्डे दृष्टाः कुर्वन्ति सर्वदा । प्रजावृद्धिं धनं रक्षां चायुष्यं बलमेव च । । ३४ उपवासं विनाप्येते भवन्त्युक्तफलप्रदाः । पूजया जपहोमैश्च तोषिता भक्तितः सदा । । ३५ मूलमन्त्रैश्च संज्ञाभिरंशमन्त्रैश्च कीर्तिताः । पूर्ववत्पद्ममध्यस्थाः कर्त्तव्याश्च तिथीश्वराः । । ३६ गन्धपुष्पोपहारैश्च यथा शक्त्या विधीयते । पूजा बाह्येन विधिना कृतापि च फलप्रदा । । ३७ आज्यधारासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः । यथोक्तफलदो होमो जपः शान्तेन चेतसा । । ३८ मूलमन्त्राश्च संज्ञाभिरङ्गमन्त्राश्च कीर्तिताः । कृत्वा यज्ञान्दश द्वौ च फलान्येतानि भक्तितः । । ३९ यथोक्तानि तथोक्तानि लभेतेहाधिकान्यपि । इह यस्माद्यथान्यस्मिन्यो वसेद्यः सुखी सदा । । 1.102.४० तेषां लोकेषु मन्त्रज्ञो यावत्तेषां तिथिः स्थिता । दहेत्तस्मात्तथारिष्टं तद्रूपो जायते नरः । । ४१ सुरूपो धर्मसम्पन्नो क्षपितारिर्महीपतिः । स्त्री वा नपुंसको वापि जायते पुरुषोत्तमः । । ४२ इत्येताः कथिताः कृष्ण तिथयो या मया तव । नक्षत्रदेवताः सर्वा नक्षत्रेषु व्यवस्थिताः । । ४३ इष्टान्कामान्प्रयच्छन्ति यास्ता वक्ष्ये महीधर । चन्द्रमा यत्र नक्षत्रे महावृद्ध्या स्थितः सदा । ।४४ उक्तस्तु देवतायज्ञस्तदा सा फलदा भवेत् । देवताश्च प्रवक्ष्यामि नक्षत्राणां यथाक्रमम् । । ४५ नक्षत्राणि च सर्वाणि यज्ञाश्चैव पृथक्पृथक् । अश्विन्यामश्विनाविष्ट्वा दीर्घायुर्जायते नरः । । ४६ व्याधिभिर्मुच्यते क्षिप्रमत्यर्थं व्याधिपीडितः । भरण्यां यम उद्दिष्टः कुसुमैरसितैः शुभैः । । ४७ तथा गन्धादिभिः शुभ्रैरपमृत्योर्विमोचयेत् । । ४८ अनलः कृत्तिकायां तु इह सम्पूजितः परः । रक्तमाल्यादिभिर्दद्यात्फलं होमेन च ध्रुवम् । । ४९ पूज्यः प्रजापतिः प्रीत इष्टो दद्यात्पशूंस्तथा । रोहिण्यां देवशार्दूल पूजनादिह गोपते । । मृगशीर्षे सदा सोमो ज्ञानमारोग्यमेव च । । 1.102.५० आर्द्रायां तु शिवं पूज्य पश्चाद्द्विज यमाप्नुयात् । पद्मादिभिः स दिव्यैश्च पूजितः शं प्रयच्छति । । ५१ तथा पुनर्वस्वदितिः सदा सम्पूज्यते दिवि । गुरूणां तर्पिता चैव मातेव परिरक्षति । । ५२ पुष्ये बृहस्पतिर्बुद्धिं ददाति विपुलां शुभाम् । गीतैर्गन्धादिभिर्नागा आश्लेषायां प्रपूजिताः । । ५३ तर्पिताश्च यथान्यायं भक्ष्याद्यैर्मधुरैः सितैः । रक्षामिषादिभिस्तैस्तैः प्रीतिं कुर्वन्ति मानद । । ५४ मघासु पितरः सर्वे हव्यैः कव्यैश्च पूजिताः । प्रयच्छन्ति धनं धान्यं भृत्यान्पुत्रान्पशूंस्तथा । । ५५ फाल्गुन्यामथ वै पूषा इष्टः पुष्पादिभिः शुभैः । पूर्वायां विजयं दद्यादुत्तरायां भगं तथा । । ५६ भर्तारमीप्सितं दद्यात्कन्यायै पुरुषाय ताम् । इह जन्मनि युज्येत रूपद्रविणसम्पदा । । ५७ पूजितः सविता हस्ते विश्वतेजोनिधिः सदा । गन्धपुष्पादिभिः सर्वं ददाति विपुलं धनम् । । ५८ राज्यं तु त्वष्टा चित्रायां निःसपत्नं प्रयच्छति । इष्टः सन्तर्पितः प्रीतः स्वात्यां वायुर्बलं परम् । । ५९ इंद्राग्नी च विशाखायां जातरक्तै प्रपूज्य च । धनधान्यानि लब्ध्वेह तेजस्वी निवसेत्सदा । । 1.102.६० रक्तैर्मित्रमनूराधास्वेवं सम्पूज्य भक्तितः । श्रियो भजन्ति सर्वेषां चिरं जीवन्ति सर्वदा । । ६१ ज्येष्ठायां पूर्ववच्छक्रमिष्ट्वा पुष्टिमवाप्नुयात् । गुणैर्ज्येष्ठश्च१ सर्वेषां कर्मणा च धनेन च । । ६२ मूले देवपितॄन्त्सर्वान्भक्त्या२ सम्पूज्य पूर्ववत् । पूर्ववत्फलमाप्नोति स्वर्गस्थाने ध्रुवो भवेत् । । ६३ पूर्वाषाढे ह्यपः पूज्य हुत्वा तत्रैव पूर्ववत् । सन्तापान्मुच्यते क्षिप्रं शारीरान्मानसात्तथा । । ६४ आषाढासु तथा विश्वानुत्तराषाढयोगतः । विश्वेशं पूज्य पुष्पाद्यैः३ सर्वमाप्नोति मानवः । । ६५ श्रवणे तु सितैर्विष्णुं पीतैर्नीलैश्च भक्तितः । सम्पूज्य श्रियमाप्नोति परं विजयमेव च । । ६६ धनिष्ठासु वसूनिष्ट्वा न भयं भजते क्वचित् । महतोऽपि भयात्त्वेतैर्गन्धपुष्पादिभिः शुभैः । । ६७ इन्द्रं शतभिषायां च व्याधिभिर्मुच्यते ध्रुवम् । आतुरः पुष्टिमाप्नोति स्वास्थ्यमैश्वर्यमेव च । । ६८ अजं भाद्रपदायां तु शुद्धस्फटिकसन्निभम् । सम्पूज्य भक्तिमाप्नोति परं विजयमेव च । । ६९ उत्तरायामहिर्बुध्न्यं परां शान्तिमवाप्नुयात् । रेवत्यां पूजितः पूषा ददाति सततं शुभम्
Description of the Procedure for Worshipping the Constellations Sumantu said: Thus is the Saptamī of the Lord of Gods, the Sun; just as among many wives, one is especially dear to her husband. All lunar days are indeed dear to the Sun, O descendant of Bharata; therefore, on this day, the Sun must be worshipped by men. Śatānīka said: If the Sun is said to be the lord of all lunar days, why is a special sacrifice performed for him on the seventh day by the wise? Sumantu said: On this matter, long ago, the chief of the gods, residing in heaven, was asked by Viṣṇu, O tiger among the Kurus; as he spoke to Hara, so I will tell you everything—listen attentively, O Lord. Long ago, Kṛṣṇa approached the god Brahmā, seated comfortably as chief of the gods, bowed his head, and spoke these words: If this Sun is considered the lord of the lunar days, O Brahman, why is he especially worshipped on the seventh? Tell me, O Lord. Thus addressed by Viṣṇu, the chief of the gods, the blessed Lord, smiling, spoke these words: Brahmā said: The lunar days were given to the gods by the great-souled Sun, except for the seventh, which he kept for himself for proper worship. Whichever day was given to whom, that one is considered its lord; when worshipped on his own day with his own mantras, he grants boons. Viṣṇu said: By the Sun, which day was given to which deity? When worshipped on his own day with his own mantras, what is the result? Brahmā said: The first day was given to Agni, the second to Brahmā; the third to the King of Yakṣas, the fourth to Gaṇeśa. The fifth to the King of Serpents, the sixth to Kārttikeya; the seventh was kept for himself, and the eighth was given to Rudra. The ninth was given to Durgā, the tenth to Yama; the eleventh always to the Viśvadevas. The twelfth to Viṣṇu, the thirteenth to Madana; the fourteenth to Śaṅkara, and the full moon to Soma. The fifteenth, always auspicious, was given by the Sun to the ancestors; these fifteen lunar days are said to belong to Soma. In the dark fortnight, they are consumed by the gods as described; in the bright fortnight, they are filled up, including the sixteenth phase. Each one is inexhaustible, and there the Sun is directly present; he causes both decrease and increase, and thus is considered their lord. The Sun, present even in mere meditation, grants inexhaustible progress; the other deities, when worshipped as desired, also grant wishes with ease. Thus, I will explain everything briefly, O Kṛṣṇa, listen: Having worshipped and offered oblations to Agni on the first day, one obtains nectar, ghee, and all grains as offerings, and gains immense wealth. By worshipping Brahmā on the second day, feeding a celibate, one attains mastery over all knowledge. On the third day, by worshipping the Lord of Wealth, one certainly becomes wealthy; in buying and selling, one gains manifold profit. On the fourth, one should worship Gaṇeśa in all rites; obstacles are removed, and enemies are obstructed, without doubt. By worshipping the Nāgas on the fifth, one is not afflicted by poisons, obtains a wife, sons, and great prosperity. By worshipping Kārttikeya on the sixth, one becomes excellent, intelligent, handsome, long-lived, and renowned. On the seventh, by worshipping the Lord of Protection, the radiant Sun; on the eighth, by worshipping Hara, adorned with the bull, the god grants abundant knowledge and radiance. He removes death, grants wisdom, and cuts the bonds, when worshipped. By worshipping Durgā on the ninth, one easily overcomes difficulties, and always attains victory in battle and litigation. On the tenth, by worshipping Yama, one is freed from all diseases, and rescues a man from hell and death. On the eleventh, as prescribed, by worshipping the Viśvadevas, one obtains offspring, cattle, wealth, grain, and land. On the twelfth, by worshipping Viṣṇu, one always becomes victorious and is honored in all worlds like the Lord of Cows. On the thirteenth, by worshipping Kāmadeva, one surely becomes handsome, obtains a beautiful wife, and fulfills many desires. On the fourteenth, by seeing Śiva, one is endowed with all prosperity, many sons, and much wealth, without doubt. On the full moon, whoever worships Soma with devotion, attains complete sovereignty, which is never diminished. On their own day, the ancestors, when seen, always grant increase of progeny, wealth, protection, longevity, and strength. Even without fasting, these rites grant the stated results; worship, recitation, and offerings, when done with devotion, always please them. With root mantras, names, and limb mantras as described, the lords of the lunar days should be worshipped, seated in the center of a lotus, as before. With fragrant substances, flowers, and offerings, as one is able, even external worship performed yields results. With streams of ghee, sacred sticks, curd, milk, rice, and honey, the prescribed offerings and recitations, performed with a peaceful mind, yield the stated results. Having performed twelve or ten sacrifices with root mantras, names, and limb mantras, these results are obtained with devotion. As stated, so obtained, even greater results are gained here; for as long as one remains in each world, so long as that lunar day lasts. There, the knower of mantras burns away misfortune and becomes like that deity; he is handsome, righteous, a conqueror of enemies, and a king. Whether woman, eunuch, or man, one becomes excellent among people. Thus, O Kṛṣṇa, I have described to you the lunar days; all the deities of the constellations are established in the stars. They grant the desired wishes, and I will tell you about them, O mountain-like one. Wherever the moon is present in a constellation with great fullness, the sacrifice to the deity then yields results. Now I will describe the deities of the constellations in order. All the constellations and their sacrifices are described separately: By worshipping the Aśvins in Aśvinī, one becomes long-lived; one suffering from disease is quickly freed from ailments. In Bharanī, Yama is prescribed, worshipped with black flowers and other auspicious items; with white fragrant substances, one is freed from untimely death. In Kṛttikā, Agni is worshipped with red garlands and other items; one certainly gains the result through offerings. By worshipping Prajāpati in Rohiṇī, one obtains cattle; in Mṛgaśīrṣa, Soma always grants knowledge and health. In Ārdrā, by worshipping Śiva, one attains the world of Yama; worshipped with lotuses and other divine flowers, he grants auspiciousness. In Punarvasu, Aditi is always worshipped in heaven; satisfied, she protects like a mother. In Puṣya, Bṛhaspati grants abundant and auspicious intelligence; in Āśleṣā, the Nāgas are worshipped with songs, fragrances, and sweet foods. Satisfied with proper offerings and meats, they grant favor, O bestower of honor. In Maghā, all the ancestors are worshipped with oblations and offerings; they grant wealth, grain, servants, sons, and cattle. In Phālgunī, Pūṣan is worshipped with auspicious flowers; in the former, he grants victory, in the latter, prosperity. He grants a desired husband to a maiden, and she is united with a man; in this life, one attains beauty and wealth. In Hasta, the Sun is always worshipped, the repository of all splendor; with fragrances and flowers, he grants abundant wealth. In Citrā, Tvaṣṭṛ grants a kingdom free from enemies when worshipped and satisfied; in Svātī, Vāyu grants great strength. In Viśākhā, Indra and Agni are worshipped with red items; one obtains wealth and grain, and always lives with brilliance. In Anurādhā, by worshipping Mitra with red items and devotion, all enjoy prosperity and long life. In Jyeṣṭhā, as before, by worshipping Śakra, one attains nourishment; he becomes foremost among all by virtue and wealth. In Mūla, by worshipping all the divine ancestors with devotion as before, one obtains the same result and is established in heaven. In Pūrvāṣāḍhā, by worshipping the Waters and offering oblations as before, one is quickly freed from bodily and mental suffering. In Uttarāṣāḍhā, by worshipping Viśveśa with flowers and other items, one obtains everything. In Śravaṇa, by worshipping Viṣṇu with white, yellow, and blue items and devotion, one obtains prosperity and great victory. In Dhaniṣṭhā, by worshipping the Vasus with auspicious fragrances and flowers, one is never afflicted by fear, even from great dangers. In Śatabhiṣā, by worshipping Indra, one is freed from diseases; the sick obtain nourishment, health, and prosperity. In Bhādrapadā, by worshipping Aja, shining like pure crystal, one attains devotion and great victory. In Uttarābhādrapadā, by worshipping Ahirbudhnya, one attains supreme peace; in Revatī, Pūṣan, when worshipped, always grants auspiciousness.
Description of the Greatness of Sun Worship Brahmā said: Whoever, with devotion, builds a permanent temple for the Sun, that man leads seven generations to the worlds of the Sun. For as many years as the image of the deity, Ravi, remains in the temple, for that many thousands of years he enjoys happiness in the world of the Sun. Wherever the image of the deity is established in a house with proper marks, and whose mind is unattached, he attains equality with the Sun. Whoever offers to the Lord of Deities flowers that are very fragrant and delightful, with a mind absorbed in that feeling, And various kinds of incense, fragrant ointments, lamps, offerings, and whatever else is desired by oneself— That man, by daily worship, attains the favor of Ravi; the Lord Sun, the master of sacrifice, is pleased even by sacrifices. Sacrifices with many implements and a great variety of materials are obtained by men with wealth and followers. But even if worship is performed with mere blades of durvā grass by devoted men, Ravi grants a result that is hard to obtain even by all sacrifices. Whatever flowers, foods, incense, ointments, beloved ornaments, and red garments, And whatever offerings, foods, and fruits are given, offer those to the Lord of Deities with a mind fixed on him. Worship that primordial Lord of sacrifice as best as you can; having worshipped and established the deity in that very house, Bathe the radiant Sun, the Lord of Day, with flowers, sacred water, fragrances, honey, ghee, and milk.
Brahma said: On the seventh day of the bright fortnight in the month of Phalguna, a man or woman who fasts and worships the remover of darkness, reciting the names of the Sun with devotion, eating moderately, and controlling the senses, should always praise the Sun upon rising, sleeping, and at all times.
Brahma said: The great souls praise the dialogue concerning the Sun, which took place with Gautami and Kaushalya in the abode of the gods.
Brahma said: Krishna, there was a great king named Satrājit, born in the line of Yayāti, renowned as a universal monarch of great strength.
Aruna said: For what reason, O Lord of gods, is the Bhojaka dear to you? Tell me, why not other Brahmins or castes in the temples of the gods?
Shaving of the head should be done, and the topknot should be carefully maintained; on the day of the Sun and on the sixth day, one should observe night-fasting; on Saptami and at the Sun's transit, fasting should be performed by the Bhojaka for my satisfaction, O son of Garuda.
Brahma said: Whoever offers a lamp in the temple of the Sun attains brilliance like the Sun and gains the fruit of all sacrifices.
दीपदानवर्णनम् ब्रह्मोवाच अन्धे तमसि दुष्पारे नरके पतितात्किल । संक्रोशमानान्संक्षुब्धानुवाच यमकिङ्करः । । १ विलापैरलमत्रेति किं वो विलपिते फलम् । यत्प्रमादादिभिः पूर्वमात्मायं समुपेक्षितः । । २ पूर्वमालोचितं नैतत्कथमन्ते भविष्यति । इदानीं यातनां भुङ्ध्वं किं विलापं करिष्यथ । । ३ देहो दिनानि स्वल्पानि विषयाश्चातिदुर्बलाः । एतत्को न विजानाति येन यूयं प्रमादिनः । । ४ जन्तुर्जन्मसहस्रेभ्य एकस्मिन्मानुषो यदि । स तत्राप्यतिमूढात्मा किं भोगानभिधावति । । ५ पुत्रदारगृहक्षेत्रहिताय सततोद्यताः । न जानन्ति ततो मूढाः स्वल्पमप्यात्मनो हितम् । । ६ वञ्चितोऽहं मया लब्धमिदमस्मादुपागतम् । न वेत्ति मोहितः कश्चित्प्रक्रान्तनरको नरः । । ७ न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च । साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च । । ८ जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम् । यदर्थं यत्कृतं कर्म तस्य जन्मशतानि तु । । ९ अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि । क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् । । 1.119.१० एवमाकृष्टचित्तानां विषयैः स्वादुतर्पणैः । नृणां न जायते बुद्धिः परमार्थविलोकिनी । । ११ तथा च विषयासङ्गे करोत्यविरतं मनः । को हि भारो रवेर्नाम्नि जिह्वायाः परिकीर्तने । । १२ वर्तितैलेऽल्पमूल्ये च यद्वर्त्तिर्लभ्यते सुधा । अतो वै कतरो लाभः का तश्चिन्ता भवेत्तदा । । १३ येनायतेषु हस्तेषु स्वातंत्र्ये सति दीपकः । महाफलो भानुगृहे न दत्तो नरकापहाः । । १४ नरो विलपते किञ्चिदिदानीं दृश्यते फलम् । अस्वातंत्र्ये विलपतां स्वातंत्र्ये सति मानिनाम् । । १५ अवश्यं पातिनः प्राणा भोक्ता जीवोऽप्यहर्निशम् । दत्तं च लभते भोक्तं कामयन्विषयानपि । । १६ एतत्स्थानं दुष्कृतैर्वा युक्तं चाद्य मयेक्षितम् । इदानीं किं विलापेन सहध्वं यदुपागतम् । । १७ यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् । तदद्भुतमतिः पापे न कर्तव्या कदाचन । । १८ कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम् । कर्तव्यमनवच्छिन्नं पूजनं सवितुः सदा । । १९ ब्रह्मोवाच नारकास्तद्वचः श्रुत्वा तमूचुरतिदुःखिताः । क्षुत्क्षामकण्ठास्तृट्तापविसंस्फुटिततालुकाः । । 1.119.२० भो भोः साधो कृतं कर्म यदस्माभिस्तदुच्यताम् । नरकस्थैर्विपाकोऽयं भुज्यते यत्सुदारुणः । । २१ किङ्कर उवाच युष्माभियौंवनोन्मादान्मुदितैरविवेकिभिः । घृतलोभेन मार्तण्डगृहाद्दीपः पुरा हृतः । । २२ तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः । भवन्तः पतितास्तीव्रे शीतवातविदारिताः । । २३ ब्रह्मोवाच एतत्ते दीपदानस्य प्रदीपहरणस्य च । पुण्यं पापं च कथितं भास्करायतनेऽच्युत । । २४ सर्वत्रैव हि दीपस्य प्रदानं कृष्ण शस्यते । विशेषेण जगद्धातुर्भास्करस्य निवेशने । । २५ येऽन्धा मूका बधिरा निर्विवेका हीनास्तैस्तैर्दानसाधनैर्वृष्णिवीर । तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतः कृष्ण नीताः । । २६ इति श्री भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे दीपदानमाहात्म्यवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः
Description of the Gift of a Lamp Brahma said: 1. In the impenetrable darkness, having fallen into hell, as they cried out and were agitated, a servant of Yama addressed them. 2. 'Enough of this wailing here—what result will come from your lamentation? By your own negligence before, you have disregarded your very self. 3. This was not considered before—how will it be at the end? Now, endure your punishment; why do you lament? 4. The body lasts only a few days, and sense pleasures are extremely frail—who does not know this, because of which you acted carelessly? 5. Among thousands of births, if one attains a human birth, and even then, being utterly deluded, pursues only pleasures, what is the use? 6. Always striving for the benefit of sons, wives, houses, and fields, the deluded do not know even a little of what is good for themselves. 7. 'I have been deceived; what I gained has been taken from me'—thus, bewildered, no one knows, once a man has entered hell. 8. He does not know the sun, moon, and so on, nor time, nor even himself, who is the witness of all good and evil here. 9. Other births arise for embodied beings like sons and wives; for the sake of whatever action was done, there are hundreds of births. 10. Oh, the greatness of delusion! Even in hell, attachment persists—a man, though tormented, cries for his mother and father. 11. Thus, for those whose minds are drawn by sense objects and the satisfaction of sweet tastes, no discernment arises to see the highest truth. 12. In the same way, through attachment to sense objects, the mind acts incessantly—what effort is there in uttering the name of the Sun with the tongue? 13. When a lamp is obtained with little cost, and oil is available, what gain is greater, and what worry should there be then? 14. When, with one's own hands and freedom, a lamp is offered in the house of the Sun, it yields great fruit and removes hell. 15. A man laments a little, now seeing the result—those who lament without freedom, and those who, being free, are proud. 16. The breaths of the sinful must surely fall; the soul also enjoys or suffers day and night. What is given is received and enjoyed, even as one desires pleasures. 17. This place, fit for the wicked, has now been seen by me; now, what is the use of lamenting? Endure what has come. 18. If this suffering that has come is not desired by you, then, O man of wondrous mind, never commit sin. 19. Even if a sinful deed is done out of ignorance, worship of the Sun should always be performed without interruption, for it destroys dense darkness. Brahma said: 20. Hearing those words, the hell-dwellers, extremely distressed, with throats parched by hunger and thirst, and tongues cracked by heat, spoke: 21. 'O noble one, tell us what deeds we have done, for this dreadful suffering is being endured by us in hell.' The servant said: 22. 'By you, intoxicated with youth, delighted and lacking discernment, out of greed for ghee, a lamp was once stolen from the house of the Sun.' 23. 'Because of that, you have fallen into this terrible hell, tormented by hunger and thirst, and torn by intense cold and wind.' Brahma said: 24. Thus, O Achyuta, the merit and sin of giving or stealing a lamp in the house of the Sun has been described. 25. Everywhere, O Krishna, the giving of a lamp is praised, especially in the abode of the world-creator, the Sun. 26. O hero of the Vrishnis, those who are blind, mute, deaf, lacking discernment, or destitute—by such means of charity, lamps are taken from the temple of the gods and given to the world of the good, or removed elsewhere, O Krishna. Thus ends the one hundred nineteenth chapter, entitled 'The Greatness of the Gift of a Lamp,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
आदित्यपूजावर्णनम् विष्णुरुवाच भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः । दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः । । १ आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः । सदा सम्पीड्यमानास्तु तिष्ठन्त्यम्बुजसम्भव । । २ येन कर्मविपाकेन विषरोगाद्युपद्रवाः । प्रभवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि । । ३ ब्रह्मोवाच व्रतोपवासैर्यैर्भानुर्नान्यजन्मनि तोषितः । ते नरा देवशार्दूल ग्रहरोगादिभागिनः । । ४ यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् । विषग्रहज्वराणां ते मनुष्याः कृष्ण भागिनः । । ५ आरोग्यं परमां वृद्धिं मनसा यद्यदिच्छति । तत्तदाप्नोत्यसंदिग्धं परत्रादित्यतोषणात् । । ६ नाधीन्प्राप्नोति न व्याधीन्न विषयग्रहबन्धनम् । कृत्यास्पर्शभयं वापि तोषिते तिमिरापहे । । ७ सर्वे दुष्टाः समास्तस्य सौम्यास्तस्य सदा ग्रहाः । देवानामपि पूज्योऽसौ तुष्टो यस्य दिवाकरः । । ८ यः समः सर्वभूतेषु यथात्मनि तथा हिते । उपवासादिना येन तोष्यते तिमिरापहः । । ९ तोषितेऽस्मिन्प्रजानाथे नराः पूर्णमनोरथाः । अरोगाः सुखिनो नित्यं बहुधर्मसुखान्विताः । । 1.120.१० न तेषां शत्रवो नैव शरीराद्यभिचारकम् । ग्रहरोगादिकं चापि पापकार्युपजायते । । ११ अव्याहतानि देवस्य धनजालानि तं नरम् । रक्षन्ति सकलापत्सु येन श्वेताधिपोऽर्चितः । । १२ विष्णुरुवाच अनाराधितमार्तण्डा ये नराः दुःखभागिनः । ते कथं नीरुजः सन्तु विज्वरा गतकल्मषाः ।। १३ ब्रह्मोवाच आराधयन्तु देवेशं पुष्पेणैवमनौपमम् । भास्करं तु जगन्नाथं सर्वदेवगुरुं परम् ।। १४ विष्णुरुवाच दोषाभिभूतदेहैस्तु कथमाराधनं रवेः । कर्त्तव्यं वद देवेश भक्त्या श्रेयोऽर्थमात्मनः ।। १५ अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति । तन्मयोपदिश त्वं च महदाराधनं रवेः ।। १६ अनन्तमजरं देवं दुष्टसन्देहनाशनम् । आराधयितुमिच्छामि भगवन्तस्त्वदनुज्ञया । । येनाहं त्वत्प्रसादेन भवेयमतिविक्रमः ।। १७ ब्रह्मोवाच अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः । आराधनाय ते विष्णो यदेतत्प्रवणं मनः ।। १८ यदि देवपतिं भानुमाराधयितुमिच्छसि । भगवन्तमनाद्यं च भव वैवस्वतोऽच्युत ।। १९ न ह्यवैवस्वतैर्भानुर्ज्ञातुं स्तोतुं च शक्यते । द्रष्टुं वा शक्यते मूढैः प्रवेष्टुं कुत एव तु ।।1.120.२ ० तद्भक्तिप्रार्थिताः पूता नरास्तद्भक्तिचेतसः । वैवस्वता भवन्त्येवं विवस्वन्तं विशन्ति च ।।२ १ अनेकजन्मसंसारचिते पापसमुच्चये । नाक्षीणे जायते पुंसां मार्तण्डाभिमुखी मतिः । । २२ प्रद्वेषं याति मार्तण्डे द्विजान्वेदांश्च निन्दति । यो नरस्तं विजानीयादसुरांशसमुद्भवम् । । २३ पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता । जायते दम्भमायाम्भः पतितानां दुरात्मनाम् । । २४ यदा पापक्षयः पुंसां तदा वेदद्विजातिषु । भानौ च यज्ञपुरुषे श्रद्धा भवति नैष्ठिकी । । २५ यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः । तदा भोजकविप्रेषु भानौ पूजां प्रकुर्वते । । २६ भ्रमतामत्र संसारे नराणां कर्मदुर्गमे । करावलम्बनो ह्येको भक्तिप्रीतो दिवाकरः । । २७ स त्वं वैवस्वतो भूत्या सर्वपापहरं हरिम् । आराधय समं भक्त्या प्रीतिमभ्येति भास्करः । । २८ विष्णुरुवाच किं लक्षणा भवन्त्येते नरा वैवस्वता गुणैः । यच्च वैवस्वतं कार्यं तन्मे कथय कञ्जज । । २९ ब्रह्मोवाच कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः । भावभक्तश्च मार्तण्ड कृष्ण वैवस्वतो हि सः । । 1.120.३० यो भोजकद्विजान्देवान्नित्यमेव नमस्यति । न च भोक्ता परस्वादेर्विष्णो वैवस्वतो हि सः । । ३१ सर्वान्देवान्रविं वेत्ति सर्वांल्लोकांश्च भास्करम् । तेभ्यश्चानन्यमात्मानं कृष्ण वैवस्वतो हि सः । । ३२ देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकम् । तरुपाषाणकाष्ठादिभूम्यम्भोधिं दिवं तथा । । ३३ आत्मानं चापि देवशाद्व्यतिरिक्तं दिवाकरात् । यो न जानाति तं विद्यात्कृष्ण वैवस्वतं नरम् । । ३४ सर्वो वैवस्वतो भागो यद्भूतं यद्व्यवस्थितम् । इति वै यो विजानाति स तु वैवस्वतो नरः । । ३५ भवभीतिं हरत्येष भक्तिभावेन भावितः । विवस्वानिति भावो यः स तु वैवस्वतो नरः । । ३६ भावं न कुरुते यस्तु सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा स च वैवस्वतो नरः । । ३७ बाह्यार्थनिरपेक्षो यः क्रियां भक्त्या विवस्वतः । भावेन निष्पादयति ज्ञेयो वैवस्वतो हि सः । । ३८ नारयो यस्य न स्निग्धा न भेदाधीनवृत्तयः । वीक्षते सर्वमेवेदं भानुं वैवस्वतो हि सः । । ३९ सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः । तां गतिं न नरा यन्ति यां तु वैवस्वतो गतः । ।1.120.४ ० येन सर्वात्मना भानौ भक्त्या भावो निवेशितः । देवश्रेष्ठ कृतार्थत्वाच्छ्लाघ्यो वैवस्वतो हि सः । । ४१ अपि नः स कुले धन्यो जायेत कुलपावनः । भास्करं भक्तिभावेन यस्तु वै पूजयिष्यति । ।४२ यः कारयति देवार्चां हदयालम्बिनीं रवेः । स नरोऽर्कमवाप्नोति धर्मध्वजमनौपमम् । ।४ ३ यश्च देवालयं भक्त्या भानोः कारयते स्थिरम् । स सप्त पुरुषाँल्लोकान्भानोर्नयति मानवः । ।४४ यावन्तोब्दान्हि देवार्चा रवेस्तिष्ठति मंदिरे । तावद्वर्षसहस्राणि पुष्पोत्तरगृहे वसेत् । । ४५ देवार्चालक्षणोपेतो यद्गृहे सन्ततो विधिः । निष्कामं च मनो यस्य स यात्यक्षरसाम्यताम् । । ४६ पुष्पाण्यतिसुगंधीनि मनोज्ञानि च यः पुमान् । प्रयच्छति जगन्नाथे सप्ताश्वे ज्योतिषां पतौ । । स याति परमं स्थानं यत्र ज्योतिः सनातनम् । ।४७ यस्य यस्य विहीनो यो देशो यद्वर्जितं च यत् । धूपांश्च विविधांस्तांस्तान्गंधाढ्यं सुविलेपनम् । ।४८ दीपवर्त्युपहारांश्च यच्चाभीष्टमथात्मनः । नरः सोनुदिनं यज्ञान्करोत्याराधनाद्रवेः । ।४ ९ यज्ञेशो भगवान्भानुर्मखैरपि स तोष्यते । बहूपकरणा यज्ञा नानासंभारविस्तराः । । संप्राप्यन्ते धनयुतैर्मनुष्यैर्नाल्पसंचयैः । । 1.120.५० भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि । रवेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ५१ यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् । दयितं भूषणं यच्च तथा रक्ते च वाससी । । ५२ यानि चाभ्यवहार्याणि भक्ष्याणि च फलानि च । प्रयच्छ तानि मार्तण्ड भवेथाश्चैव तन्मनाः । । ५३ आद्यं तं यज्ञपुरुषं यथा भक्त्या प्रसादय । आराध्य याति तं देवं यत्तद्ब्रह्म परं स्मृतम् । । ५४ पुण्यैस्तीर्थोदकैः पुष्पैर्मधुना सर्पिषा तथा । क्षीरेण स्नापयेद्देवमच्युतं जगतां पतिम् । । ५५ दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः । प्रयास्यसि यदुश्रेष्ठ निर्वृतिं चापि ऐश्वरीम् । । ५६ स्तोत्रैर्हद्यैर्यथा वाद्यैर्ब्राह्मणानां च तर्पणैः । मनसश्चैकतायोगादाराधय दिवाकरम् । । ५७ आराध्यं तं महादेवो महच्छब्दमवाप्तवान् । । ५८ अहं चापि समस्तानां लोकानां सृष्टिकारकः । तमाराध्य विवस्वन्तं तत्प्रसादाज्जनार्दन । । ५९ त्वमप्येतं हृषीकेश तत्प्रसादान्न संशयः । समर्थो देवशत्रूणां दैत्यानां नाशने सदा । । 1.120.६० दक्षिणः किरणस्तस्य यो देवस्य विवस्वतः । अहं तस्मात्समुत्पन्नो वेदवेदाङ्गसम्मितः । । ६१ वामो यः किरणः कृष्ण रश्मिमालाकुलः सदा । तस्मादीशः समुत्पन्नः पार्वतीदयितोऽच्युत । । ६२ वक्षसस्त्वं समुत्पन्नः शंखचक्रगदाधरः । तथाम्बुजकरा देवी अम्बुजाननवल्लभा । । ६३ समाराध्य बलं कीर्तिं श्रियं चावाप्तवानहम् । तथा त्त्वमपि राजेन्द्र तमाराध्य दिवाकरम् । । यान्यानिच्छसि कामांस्त्वं तांस्तान्सर्वानवाप्स्यसि । । ६४ य इदं शृणुयान्नित्यं संवादं विधिकृष्णयोः । सोऽपि कामानवाप्याग्र्यांस्ततो लोकमवाप्नुयात् । । ६५ गैरिकं यानमारूढो युक्तं कुञ्जरवाजिभिः । तेजसाम्बुजसंकाशः प्रभयाण्डज सन्निभः । । ६६ कान्त्या चंद्रसमो राजन्वृन्दारकगणैर्वृतः । गन्धर्वैर्गीयमानस्तु तथा चाप्सरसां गणैः । । ६७ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यपूजावर्णनं नाम विंशत्यधिकशततमोऽध्यायः
Description of the Worship of the Sun Vishnu said: 1. O Lord, all living beings are constantly afflicted by poison, disease, and other troubles, as well as the attacks of evil planets. 2. They are always tormented by sorcery, terrible skin diseases, and other afflictions, O Lotus-born. 3. By what karma's result do poison, disease, and other troubles arise among men? Please tell me this properly. Brahma said: 4. Those men, O best of gods, who have not pleased the Sun in this or previous lives by vows and fasts, become subject to the planets, diseases, and so on. 5. Those whose minds have never been inclined toward him, O Krishna, always become subject to poison, planets, and fevers. 6. Whatever supreme health and increase one desires in mind, that is certainly obtained hereafter by pleasing the Sun. 7. He does not suffer from subjugation, disease, or bondage to sense objects, nor from fear of sorcery or touch, when the dispeller of darkness is pleased. 8. All the planets become gentle for him, always auspicious; even the gods worship him, when the Sun is pleased. 9. He who is equal to all beings, who seeks the welfare of others as his own, and who pleases the dispeller of darkness by fasting and so on— 10. When this lord of beings is pleased, men become fulfilled in their desires, healthy, always happy, and endowed with many virtues. 11. They have no enemies, nor any bodily or magical affliction; no evil arises from planets, diseases, or sinful acts. 12. The inexhaustible treasures of the god protect that man in all dangers, by whom the lord of light is worshipped. Vishnu said: 13. Those men who do not worship Martanda are subject to suffering—how can they be free from disease, fever, and sin? Brahma said: 14. Let them worship the lord of the gods, the Sun, the teacher of all the gods, the supreme, with incomparable flowers. Vishnu said: 15. How should the worship of the Sun be performed by those whose bodies are afflicted by faults? Tell me, O lord of gods, for the sake of my own welfare, with devotion. 16. If I am to be favored by you, as your devotee, then instruct me in the great worship of the Sun. 17. I wish to worship the endless, ageless god, the destroyer of evil doubts, with your permission, O Lord, so that by your grace I may become exceedingly powerful. Brahma said: 18. You are indeed worthy of the god's favor, O Vishnu, whose birth is unmanifest; your mind is inclined to his worship. 19. If you wish to worship the lord of gods, the Sun, the primeval one, then become a son of Vivasvat, O Achyuta. 20. The Sun cannot be known, praised, or seen by those who are not of the Vaivasvata lineage, nor can he be entered by the deluded. 21. Those purified by devotion, whose minds are set on him, become Vaivasvatas and enter Vivasvat. 22. Unless the heap of sins accumulated over many births is destroyed, the mind of men does not turn toward Martanda. 23. He who hates Martanda and reviles Brahmins and the Vedas—know that man to be born of demonic stock. 24. Delight in heretics, fondness for arguments—these arise among the fallen, wicked souls, covered by hypocrisy and deceit. 25. When the sins of men are destroyed, then steadfast faith arises in the Vedas, Brahmins, the Sun, and the Lord of sacrifice. 26. When only a little sin remains, men perform worship of the Sun and feed Brahmins. 27. As men wander in this difficult world of karma, the Sun, pleased by devotion, is their only support. 28. Therefore, O Vaivasvata, worship Hari, the remover of all sins, with equal devotion; the Sun will become pleased. Vishnu said: 29. What are the marks and virtues of these Vaivasvata men? And what should be done by a Vaivasvata? Tell me this, O Lotus-born. Brahma said: 30. He who does not harm living beings by deed, mind, or word, and who is devoted to Martanda in spirit, O Krishna, is a Vaivasvata. 31. He who always honors Brahmins who feed others, and does not covet another's wealth, O Vishnu, is a Vaivasvata. 32. He who knows all the gods as the Sun, and all the worlds as the Sun, and sees himself as non-different from them, O Krishna, is a Vaivasvata. 33. He who does not see himself as separate from the god, man, animal, bird, ant, tree, stone, wood, earth, water, or sky— 34. He who does not know himself as different from the god, the Sun—know him, O Krishna, to be a Vaivasvata man. 35. Whoever knows that all that exists and is established is the portion of Vaivasvata—he is a Vaivasvata man. 36. He who, filled with devotion, removes the fear of worldly existence, and whose mind is set on Vivasvat—he is a Vaivasvata man. 37. He who does not harm any being by deed, mind, or word—he is a Vaivasvata man. 38. He who, indifferent to external objects, performs actions for Vivasvat with devotion—he is to be known as a Vaivasvata. 39. He whose relatives are not dear, whose behavior is not dependent on divisions, and who sees all this as the Sun—he is a Vaivasvata. 40. By austerity, sacrifice, or great gifts, men do not attain that state which the Vaivasvata attains. 41. He who, with all his being, places his devotion in the Sun, O best of gods, is fulfilled and praiseworthy as a Vaivasvata. 42. May such a blessed one be born in our family, a purifier of the lineage, who will worship the Sun with devotion. 43. He who causes the worship of the Sun, with a heart full of faith, attains the Sun and an incomparable banner of righteousness. 44. He who builds a temple for the Sun with devotion leads seven generations to the worlds of the Sun. 45. For as many years as the worship of the Sun remains in the temple, for that many thousands of years he dwells in the house of flowers. 46. In whose house the worship of the Sun is constantly performed with proper marks, and whose mind is desireless, he attains equality with the imperishable. 47. He who offers fragrant and delightful flowers to the Lord of the universe, the seven-horsed Lord of light, attains the supreme place where the eternal light is. 48. Whatever place is lacking, whatever is omitted, various kinds of incense, ointments rich in fragrance, and all desired offerings— 49. The man who, day by day, performs sacrifices and worship of the Sun with these, attains the fruits of worship. 50. The Lord of sacrifice, the Sun, is pleased even by simple offerings of sacred grass; the fruits he gives by devotion are hard to obtain even by great sacrifices. 51. Whatever pleasing flowers, incense, ointments, beloved ornaments, and red garments— 52. Whatever foods, eatables, and fruits are dear—offer these to Martanda with a devoted mind. 53. Please the primeval Lord of sacrifice with devotion; by worshipping him, one attains that supreme Brahman. 54. Bathe the Lord of the universe, Achyuta, with holy waters, flowers, honey, ghee, and milk. 55. By giving ponds of curds and milk, you will go to worlds full of honey, O best of the Yadus, and attain supreme bliss and sovereignty. 56. With hymns, music, and the satisfaction of Brahmins, and by concentration of mind, worship the Sun. 57. Having worshipped him, the great god obtained the great name. 58. I, the creator of all worlds, worshipped Vivasvat, and by his grace, O Janardana— 59. You also, O Hrishikesha, by his grace, are always able to destroy the enemies of the gods and the demons. 60. The right ray of that god Vivasvat is myself, born from him, and is the essence of the Vedas and their limbs. 61. The left ray, O Krishna, always surrounded by rays, is the Lord Shiva, beloved of Parvati, O Achyuta. 62. From his chest you were born, O bearer of conch, discus, and mace; likewise, the goddess with lotus hands, beloved of the lotus-faced one. 63. By worshipping him, I obtained strength, fame, and wealth; so too, O king, by worshipping the Sun, you will obtain all the desires you wish for. 64. Whoever hears this dialogue between Brahma and Krishna daily, he too will obtain the highest desires and attain that world. 65. Mounted on a red vehicle drawn by elephants and horses, shining like a lotus, radiant like an egg of light, 66. Equal in splendor to the moon, surrounded by groups of boys, praised by Gandharvas, and by companies of Apsaras. 67. Thus ends the one hundred twentieth chapter, entitled 'Description of the Worship of the Sun,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
विश्वकर्मकृतसूर्यतेजः शातनवर्णनम् शतानीक उवाच शरीरलेखनं१ भानोरुक्तं संक्षेपतस्त्वया । विस्तराच्छ्रोतुमिच्छामि तन्ममाचक्ष्व सुव्रत । । १ सुमन्तुरुवाच पितुर्गृहं तु यातायां संज्ञायां कुरुनंदन । भास्करश्चिंतयामास संज्ञा मद्रूपकारिणी । । २ एतस्मिन्नंतरे ब्रह्मा तत्रागत्य दिवाकरम् । अव्रवीन्मधुरां वाचं रवेः प्रीतिकरां शुभाम् । । ३ आदिदेवोऽसि देवानां व्याप्तमेतत्त्वया जगत् । श्वशुरो विश्वकर्मा ते रूपं निर्वर्तयिष्यति । । ४ एवमुक्त्वा रविं ब्रह्मा विश्वकर्माणमब्रवीत् । निवर्तस्य मार्तण्डं स्वरूपं तत्सुशोभनम् । । ५ ततो ब्रह्मसमादेशाद्भ्र(भू?)मिमारोप्य भास्करम् । रूपं निर्वर्तयामास विश्वकर्मा शनैःशनैः । । ६ ततस्तुष्टाव तं ब्रह्मा सर्वदेवगणैः सह । गुह्यैर्नानाविधैः स्तोत्रैर्वेदवेदाङ्गपारगैः । । ७ स्वस्ति तेऽस्तु जगन्नाथ धर्मवर्षहिमाकर । शांतिस्ते सर्वलोकानां देवदेव दिवाकर । । ८ ततो रुद्रश्च विष्ण्वाद्याः स्तुवंतस्तं दिवाकरम् । तेजस्ते वर्धतां देव लिख्यतेऽपि दिवस्पते । । ९ इन्द्रश्चागत्य तं देवं लिख्यमानमथास्तुवत् । जय देव जयस्वेति तत्त्वदोऽसि जगत्पते ।। 1.121.१० ऋषयस्तु ततः सप्त विश्वामित्रपुरोगमाः । तुष्टुवुर्विविधैः स्तोत्रैः स्वस्तिस्वस्तीतिवादिनः ।। ११ वेदोक्ताभिरथाशीर्भिर्वालखिल्याश्च तुष्टुवुः । त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनामपि ।। १२ त्वं गतिः सर्वभूतानां त्वयि सर्वं प्रतिष्ठितम् । प्रजाभ्यश्चैव देवेश शं नोऽस्तु जगतः पते ।। १३ त्वत्तो भवति वै नित्यं जगत्संलीयते त्वयि । त्वमेकस्त्वं द्विधा चैव त्रिधा च त्वं न संशयः ।। १४ त्वयैकेन जगत्सृष्टं त्वयैकेन प्रबोधितम् । ततो विद्याधरगणा यक्षराक्षसपन्नगाः ।। १५ कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । ऊचुरेवंविधा वाचो मनः श्रोत्रसुखप्रदाः ।। १६ सह्यं भवतु ते तेजो भूतानां भूतभावन । हाहा हूहूस्ततश्चैव तुम्बुरुर्नारदस्तथा ।। १७ उपगातुं समारब्धा गामुच्चैः कुशला रविम् । षड्जमध्यमगांधारग्रामत्रयविशारदाः ।। १८ मूर्च्छनाभिस्ततश्चैव तथा धैवतपञ्चमैः । नानानुभावमन्द्रैश्च अर्धमन्द्रैस्तथैव च ।। १९ त्रिसाधनैः प्रकारैस्तु वाद्यतालसमन्वितैः । विश्वाची च घृताची च उर्वशी च तिलोत्तमा ।।२० मेनका सहजन्या च रम्भा चाप्सरसां वरा । हावभावविलासैश्च कुर्वत्योऽभिनयान्बहून् ।।२ १ ततोऽतीव कलं गेयं मधुरं च प्रवर्तते । सर्वेषां देवसंघानां मनः श्रोत्रसुखप्रदम् ।।२२ प्रवाद्यं तु ततस्तत्र वीणावंशादि सुव्रत । पणवाः पुष्कराश्चैव मृदङ्गाः पटहास्तथा । । २३ देवदुन्दुभयः शंखाः शतशोऽथ सहस्रशः । गायद्भिश्चैव गन्धर्वैर्नृत्यद्भिश्चाप्सरोगणैः । । २४ तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् । ततः कृतैः करपुटैः पद्यकुड्मलसन्निभैः । । २५ ललाटोपरि विन्यस्तैः प्रणेमुः सर्वदेवताः । ततः कोलाहले तस्मिन्सर्वदेवसमागमे । । २६ तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । २७ इति हिमजलघर्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य । तदुपरि लिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोन्ते । । २८ इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे विश्वकर्मकृतसूर्यतेजः शातनं नामैकविंशोत्तरशततमोऽध्यायः
Description of the Diminishing of the Sun's Splendor by Vishvakarman Shatanika said: 1. The inscription of the Sun's body has been briefly described by you; I wish to hear it in detail—please tell me, O virtuous one. Sumantu said: 2. When Sanjna had gone to her father's house, O descendant of Kuru, the Sun thought, 'Sanjna has made a form like mine.' 3. At that moment, Brahma came there to the Sun and spoke sweet, auspicious words, pleasing to Ravi. 4. 'You are the primeval god among the gods; the universe is pervaded by you. Your father-in-law, Vishvakarman, will fashion your form.' 5. Having thus spoken to Ravi, Brahma addressed Vishvakarman: 'Fashion the beautiful form of Martanda.' 6. Then, by Brahma's command, Vishvakarman gradually fashioned the form of the Sun, placing him on the ground. 7. Then Brahma, together with all the hosts of gods, praised him with various secret hymns, versed in the Vedas and their limbs. 8. 'May there be welfare for you, O Lord of the universe, source of righteousness and snow; may there be peace for all worlds, O god of gods, O Sun.' 9. Then Rudra, Vishnu, and others praised that Sun: 'May your splendor increase, O god, even as it is inscribed, O lord of day.' 10. Indra, having come, praised the god as he was being inscribed: 'Victory to you, O god, victory to you! You are the knower of truth, O lord of the world.' 11. Then the seven sages, headed by Vishvamitra, praised him with various hymns, saying, 'Welfare, welfare.' 12. The Valakhilyas praised him with blessings from the Vedas: 'You are the liberation of those who seek liberation, O lord; you are the object of meditation even for the meditators.' 13. 'You are the refuge of all beings; in you all is established. From you, O lord of the world, may there be peace for the creatures.' 14. 'From you the world is born, and into you it dissolves; you are one, you are twofold, you are threefold—there is no doubt.' 15. 'By you alone the world is created, by you alone it is awakened.' 16. Then the hosts of Vidyadharas, Yakshas, Rakshasas, and serpents, with joined palms and bowed heads, praised Ravi with words pleasing to the mind and ear. 17. 'May your splendor be bearable for beings, O creator of beings.' 18. Then Hāhā, Hūhū, Tumburu, and Narada began to sing to Ravi, skilled in the three scales—Shadja, Madhyama, and Gandhara. 19. With various melodies, in Dhaivata and Panchama, with many kinds of soft and deep notes. 20. With triple measures, accompanied by instrumental rhythms, Vishvachi, Ghritachi, Urvashi, and Tilottama, 21. Menaka, Sahajanya, and Rambha, the best of Apsaras, performed many expressive dances with gestures and moods. 22. Then a very melodious and sweet song arose, delighting the minds and ears of all the hosts of gods. 23. Then, O virtuous one, the vina, flute, panava, pushkara, mrdanga, and pataha were played. 24. Divine drums and conches by the hundreds and thousands, sung by Gandharvas and danced by groups of Apsaras. 25. With the sounds of all these instruments, everything was filled with tumult. Then, with hands joined like lotus buds, all the gods bowed at his forehead. 26. Then, in that tumult, with all the gods assembled, 27. Vishvakarman gradually diminished the Sun's splendor. 28. Thus, for the sake of the seasons of snow, water, and heat, praised by Hara, Kamalāsana, and Vishnu, the inscription was made on the Sun; hearing of this, at the end of his life, one goes to the world of the Sun. Thus ends the one hundred twenty-first chapter, entitled 'The Diminishing of the Sun's Splendor by Vishvakarman,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
Description of the Hymn to the Sun Shatanika said: 1. At that time, as the lord of day was being inscribed, tell me how the god was praised by Brahma and the other gods. Sumantu said: 2. Listen attentively, O king, to how the god, the lord of day, was praised by Brahma, the gods, and the sages of old, O sinless one. 3. Salutation to you, who, with effort, show compassion to those who bow, who reveal the worlds in your own form, O lord of day, awakener of the lotus race, salutation to you, remover of the veil of darkness. 4. Salutation to you, performer of supremely pure and meritorious deeds, bestower of manifold desires and prosperity, radiant one, adorned with spotless rays, doer of good to all the worlds. 5. Salutation to the unborn, creator of the three worlds, the soul of all beings, protector of the earth, beloved one, greatest of the compassionate, Sun, creator of the three worlds. 6. Salutation to Vivasvat, the inner self of knowledge and destiny, the foundation of the world, the benefactor of the world, self-born, the eye of all the worlds, best of the gods, of immeasurable splendor. 7. To you, whose own rising is the crest-jewel of the gods, you are revered in the world, you burn with thousands of mighty rays; O lord, you dispel the darkness of the forests, you purify the world, you are the destroyer of the darkness of ignorance, fierce one, with the light that fills the three worlds. 8. Riding your chariot, you always move for the welfare of the world. 9. Thus was the god Bhaskara praised of old by Brahma, the gods, the mighty Shiva, Vishnu, and others, O king. Thus ends the one hundred twenty-second chapter, entitled 'The Hymn to the Sun,' in the Saptami Section of the Brahma Parvan of the Bhavishya Mahapurana.
Together with great Mahādeva and mighty Indra, we all go for refuge to that very god.