आदित्यमहिमावर्णनम् सुमन्तुरुवाच प्रणम्य शिरसा देवं सुरज्येष्ठं चतुर्मुखम् । उवाच स महातेजा दिण्डिर्लोकेशमादरात् । । १ देवदेवेन भवतादिष्टोऽस्मि च महात्मना । क्रियायोगामृतं२ सर्वमाख्यास्यति भवान्किल । । २ स त्वां पृच्छाम्यहं ब्रह्मन्क्रियायोगं निरन्तरम् । सन्तोषयितुमीशेहं यथावद्वक्तुमर्हसि । । ३ ब्रह्मोवाच एह्येहि मत्सकाशं च मत्समीपे गणाधिप । ब्रह्महत्या प्रणष्टा ते दर्शनादेव तस्य तु । । ४ अनुग्राह्योऽसि भूतेश भास्करस्यामितौजसः । आराधनाय भूतेश यदीशे प्रवणं मनः । । ५ यदि देवपतिं भानुमाराधयितुमिच्छसि । भगवन्तमनाद्यन्तं भव दीक्षागुणान्वितः । । ६ न ह्यदीक्षान्वितैर्भानुर्ज्ञातु स्तोतुं च तत्त्वतः । द्रष्टुं वा शक्यते मूढैः प्रवेष्टुं कुत एव हि । । ७ जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः । भवन्ति भगवन्सौरास्तदा दीक्षागुणान्विताः । । ८ अनेकजन्मसंसारचिते पापसमुच्चये । नाक्षीणे जायते पुंसां मार्तण्डाभिमुखी मतिः । । ९ प्रद्वेषं याति मार्तण्डे द्विजान्वेदांश्च निन्दति । यो नरस्तं विजानीयात्पापबीजसमुद्भवम्
Description of the greatness of the Sun
1.63.१० पाखण्डेषु रतिः पुंसां हेतुवादानुकूलता । जायते विष्णुमायाम्भः पतितानां दुरात्मनाम् । । ११ यदा पापक्षयः पुंसां तदा वेदद्विजादिषु । रवौ च देवदेवेशे श्रद्धां भवति निश्चला । । १२ यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः । तदा दीक्षागुणान्सर्वे भजन्ते नात्र संशयः । । १३ भ्रमतामत्र संसारे नराणां पापदुर्गमे । हस्तावलम्बदोप्येको भक्तिप्रीतो दिवाकरः । । १४ सर्वभागवतो भूत्वा सर्वपापहरं रविम् । आराधयेह तं भक्त्या प्रीतिमेष्यति भास्करः । । १५ दिण्डिरुवाच किं लक्षणा नरा दीक्षामर्हन्ति पद्मसम्भव । यच्च दीक्षान्वितैः कार्यं तन्मे कथय पद्मज । । १६ ब्रह्मोवाच कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः । भावभक्तश्च मार्तण्डे तस्य दीक्षा गुणान्विता । । १७ ब्राह्मणांश्चैव देवांश्च नित्यमेव नमस्यति । न च द्रोग्धा१ परं वादे स मार्तण्डं समर्चति । । १८ सर्वान्देवान् रविं वेत्ति सर्वलोकांश्च भास्करम् । तेभ्यश्च नान्यमात्मानं स नरः सौरतां व्रजेत् । । १९ देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान् । तरुपाषाणकाष्ठानि भूम्यंभो गगनं दिशः । । 1.63.२० आत्मानं चापि देवेशाद्व्यतिरिक्तं दिवाकरात् । यो न जानाति यतिषु स वै दीक्षागुणान्भजेत् । । २१ भावं न कुरुते यस्तु सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा स तु दीक्षां समर्हति । । २२ सुतप्तेनेह तपसा यथैर्वा बहुदक्षिणैः । तां गतिं न नरा यान्ति यां गताः सूर्यमाश्रिताः । २३ येन सर्वात्मना भानौ भक्त्या भावो निवेशितः । गणेश्वर कृतार्थत्वाच्छ्लाघ्यः सौरः स मानवः । । २४ अपि न: स कुले धन्यो जायते कुलपावनः । भगवान्भक्तिभावेन येन भानुरुपासितः । । २५ यः कारयति - देवार्चां हृदयालम्बनं रवेः । स नरो भानुसालोक्यमाप्नोति धुतकल्मषः । । २६ यस्तु देवालयं भानोर्भक्त्या कारयति ध्रुवम् । स सप्त पुरुषाँल्लोकं भानोर्नयति मानवः । । २७ यावन्त्याब्दानि देवार्चा रवेस्तिष्ठति मन्दिरे । तावद्वर्षसहस्राणि सूर्यलोके महीयते । । २८ देवार्चा लक्षणोपेता तद्गृहे सन्ततो विधिः । निष्कामं च मनो यस्य स यात्यक्षरसाम्यताम् । । २९ पुष्पाणि च सुगन्धीनि मनोज्ञानि च यः पुमान् । प्रयच्छति सहस्रांशोः सदा प्रयतमानसः । । 1.63.३० धूपांश्च तांस्तान्विविधान्गन्धाढ्यं चानुलेपनम् । नरः सोऽनुदिनं यज्ञं करोत्याराधनं रवेः । । ३१ यज्ञेशो भगवान्पूषा सदा क्रतुभिरिज्यते । बहूपकरणा यज्ञा नानासम्भारविस्तराः । । ३२ न ते दिण्डिन्नवाप्यन्ते मनुष्यैरल्पसञ्चयैः । भक्त्या तु पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि । । भानोर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ३३ यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् । दयितं भूषणं यच्च प्रीतये चैव वाससी । । ३४ यानि चाभ्यवहार्याणि भक्षााणि च फलानि वै । प्रयच्छ तानि मार्तण्डे भवेथाश्चैव तन्मनाः । । ३५ आद्यं तं भुवनाधारं यथाशक्त्या प्रसादय । आराध्य याति तं देवं तस्मिन्नेव नरो लयम् । । ३६ पुष्पैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा । क्षीरेण स्नापयेद्भानुं ग्रहेशं गोपतिं खगम् । । ३७ दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः । प्रयास्यति गणश्रेष्ठ निर्वृत्तिं च विलक्षणाम् । । ३८ स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः । मनसश्चैव योगेन आराधय दिवाकरम् । । ३९ आराध्य तं जगन्नाथं मया सर्गः प्रवर्तितः । विष्णुश्च पालयेल्लोकांस्तमाराध्य दिवाकरम् । । 1.63.४० रुद्रश्च प्राप्तवान्देवीं भवानीं तत्प्रसादतः । दीप्यन्ते ऋषयश्चापि तमाराध्य दिवाकरम् । । ४१ स त्वमेभिः प्रकारैस्तमुपवासैश्च भास्करम् । तोषयाब्दं हि तुष्टोऽसौ भानुर्द्वंद्वप्रशान्तिदः । । ४२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मदिण्डिसंवादे आदित्यक्रियायोगवर्णनं नाम त्रिषष्टितमोऽध्यायः
Attachment to heretical doctrines and fondness for arguments arise among evil-minded men who have fallen into the waters of Viṣṇu's illusion.
फलसप्तमीवर्णनम् दिण्डिरुवाच उपवासैः सुरश्रेष्ठ कथं तुष्यति भास्करः । परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिभिः । । १ यद्यत्कार्यं यथा चैव भास्कराराधने नरै । तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि । । २ ब्रह्मोवाच स्मृतः सम्पूजितो धूपपुष्पान्नैर्भानुरादरात् । भोगिनामुपकाराय किं पुनश्चोपवासिनाम् । । ३ उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः । । ४ एकरात्रं द्विरात्रं वा त्रिरात्रं नक्तमेव च । उपवासी रविं यस्तु भक्त्या ध्यायति मानवः । । ५ तन्नामजापी तत्कर्मरतस्तद्गतमानसः । निष्कामः पुरुषो दिण्डे स ब्रह्म परमाप्नुयात् । । ६ यं च काममभिध्याय मास्करार्पितमानसः । उपोषति तमाप्नोति प्रसन्ने खगमेऽखिलम् । । ७ दिण्डिरुवाच ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च कञ्जज । संसारगर्ते पङ्कस्थे सुगतिः प्राप्यते कथम् । । ८ ब्रह्मोवाच अनाराध्य जगन्नाथं गोपतिं ध्वान्तनाशनम् । निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् । । ९ विषयग्राहि वै यस्य न चित्तं भास्करार्पितम् । स कथं पापपङ्काक्तो नरो यास्यति सद्गतिम् । । 1.64.१० यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि । तदाराधय सर्वेशं भास्करं ज्योतिषां पतिम् । । ११ पुष्पैः सुगन्धैर्हद्यैश्च धूपैः सागरुचन्दनैः । वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः । । १२ यदि संसारनिर्वेदादभिवाच्छसि सद्गतिम् । तदाराधय मार्तण्डं भक्तिप्रवणचेतसा । । १३ पुष्पाणि यदि ते न स्नुः शस्तपादपपल्लवैः । दूर्वाङ्करैरपि दिण्डे तदभावेऽर्चयार्यमम् । । १४ पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमात्मनः । पूजितस्तुष्टिमतुलां भक्त्या यात्येकचेतसा । । १५ यः सदायतने भानोः कुरुते मार्जनक्रियाम् । स यात्युत्तमके स्थाने सर्वपापं व्यपोहति । । १६ यावत्यः पांसुकणिका मार्ज्यन्ते भास्करालये । दिनानि दिवि तावन्ति तिष्ठत्यर्कसमो नरः । । १७ अहन्यहनि यत्पापं कुरुते गणनायक । गोचर्ममात्रं सम्मार्ज्य हन्ति तद्भास्करालये । । १८ यश्चानुलेपनं कुर्याद्भानोरायतने नरः । सोऽपि लोकं समासाद्य हंसेन सह मोदते । । १९ मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा । उपलेपनकृद्याति मत्पुरं यानमास्थितः । । 1.64.२० उदकाभ्युक्षणं भानोर्यः करोति सदा गृहे । सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः । । २१ पुष्पप्रकरमत्यर्थं सुगन्धं भास्करालये । अनुलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् । । २२ विमानमतिशोभाढ्यं सर्वर्तुसुखभूषितम् । समाप्नोति नरो दत्त्वा दीपकं भास्करालये । । २३ यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः । ध्वजं च भास्करे दद्यात्सममत्र फलं लभेत् । । २४ विधूतो हन्ति वातेन दातुरज्ञानतः कृतम् । पापं कर्तुर्गृहे भानोर्दिवा रात्रौ नराधिप । । २५ गीतवाद्यादिभिर्भानुं य उपास्ते तमोपहम् । गन्धर्वैर्नृत्यगीतैः स विमानस्थो निषेव्यते । । २६ जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम् । प्राप्नोति गणाशार्दूल कृत्वा पुस्तकवाचनम् । । २७ एवं खगेश्वरो भक्त्या येन भानुरुपासितः । स प्राप्नोति गतिं श्लाध्यां यां यामिच्छति चेतसा । । २८ देवत्वं मनुजैः कैश्चिद्गन्धर्वत्वं तथा परैः । विद्याधरत्वमपरैः संराध्येह दिवाकरम् । । २९ शक्रः १ क्रतुशतेनेशमाराध्य ज्योतिषां पतिम् । देवेन्द्रत्वं गतस्तस्मान्नान्यः२ पूज्यतमः क्वचित् । । 1.64.३० ब्रह्मचारिगृहस्थानां वनस्थानां गणाधिप । नान्यः पूज्यस्तथा स्त्रीणामृते देवं दिवाकरम् । । ३१ मध्ये परिव्राजकानां सहस्रांशुं महात्मनाम् । मोक्षद्वारं विशन्तीह तं रविं विजितात्मनाम् । । ३२ एवं सर्वाश्रमाणां हि सहस्रांशुः परायणम् । सर्वेषां चैव वर्णानां ग्रहेशो वै गतिः परा । । ३३ शृणुष्व गदतः काम्यानुपवासांस्तथापरान् । शृणु दिण्डे महापुण्यफलकां सप्तमीं पराम् । । ३४ आदित्याराधनायैनां सर्वपापहरां शिवाम् । यामुपोष्य नरो भक्त्या मुच्यते सर्वपातकैः । । ३५ तथा लोकमवाप्नोति सूर्यस्यामिततेजसः । अथ भाद्रपदे मासि शुक्लपक्षे समागते । । ३६ सोपोष्या प्रथमं तात विधानं शृणु तत्र वै । अयाचितं चतुर्थ्यां तु पञ्चम्यामेकभोजनम् । । ३७ उपवासपरः षष्ठ्यां जितक्रोधो जितेन्द्रियः । अर्चयित्वा दिनकरं गन्धधूपनिवेदनैः । । ३८ पुरतः स्थण्डिले रात्रौ स्वप्याद्देवस्य पुत्रक । प्रध्यायन्मनसा देवं सर्वभूतार्तिनाशनम् । । ३९ सर्वदोषप्रशमनं सर्वपातकनाशनम् । विबुद्धस्त्वथ सप्तम्यां कुर्याद्ब्राह्मणभोजनम् । । 1.64.४० पूजयित्वा दिनकरं पुष्पधूपविलेपनैः । नैवेद्यं तात देवस्य फलानि कथयन्ति४ हि । ।४ १ खर्जूरनालिकेराणि तथा आम्रफलानि तु । मातुलिङ्गफलान्येव कथितानि मनीषिभिः । । ४२ एतैश्च भोजयेद्विप्रानात्मना च प्रभक्षयेत् । तथैषां चाप्यभावेन शृणु चान्यानि सुव्रत । ।४ ३ शालिगोधूमपिष्टानि कारयेद्गणनायक । गुडगर्भकृतानीह घृतपाकेन पावयेत् । ।४४ चातुर्यावकमिश्राणि आदित्याय निवेदयेत् । अग्निकार्यमथो कृत्वा ब्राह्मणान्भोजयेत्ततः । ।४५ इत्थं द्वादश वै मासान्कार्यं व्रतमनुत्तमम् । मासि मासि फलाहारः फलदायी फलार्चनः । ।४६ वर्षान्ते त्वथ कुर्वीत शक्त्या ब्राह्मणभोजनम् । स्नानप्राशनयोश्चापि विधानं शृणु सुव्रत । । ४७ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । तिलसर्षपयोः कल्कं श्वेता मृच्चापि सुव्रत । ।४८ दूर्वाकल्कं घृतं चापि गोशृंगक्षालितं जलम् । जातिगुल्मविनिर्यासः प्रशस्तः स्नानकर्मणि । । ४९ प्राशने चाप्यथैतानि सर्वपापहराणि वै । आदौ कृत्वा भाद्रपदं यथा संख्यं विदुर्बुधाः । । 1.64.५० इत्थं वर्षान्तमासाद्य भोजयित्वा द्विजोत्तमान् । दिव्यान्भोगान्महादेव ततस्तेभ्यो निवेदयेत् । । ५१ फलानि तात१ हैमानि यथा शक्त्या गणाधिप । सवत्सामथ वा धेनुं भूमिं सस्यान्वितामथ । । ५२ प्रासादमथ वा भौमं सर्वधान्यसमन्वितम् । दद्यात्छुक्लानि२ वस्त्राणि ताम्रपात्रं ३सविद्रुमम् । । ५३ शक्तियुक्तस्य चैतानि दरिद्रस्य तु मे शृणु । फलानि पिष्टकान्येषां तिलचूर्णान्वितानि तु । । ५४ भोजयित्वा द्विजान्दद्याद्राजतानि४ फलानि तु । धातुरक्तं वस्त्रयुगममाचार्याय निवेदयेत् । । ५५ सहिरण्यं महादेव पञ्चरत्नसमन्वितम् । इत्थं समाप्यते तात पारणं वार्षिकान्तिकम् । । ५६ इत्येषा वै पुण्यतमा सप्तमी दुरितापहा । यामुपोष्य नराः सर्वे यान्ति सूर्यसलोकताम् । । ५७ १पूज्यमानः सदा देवैर्गन्धर्वाप्सरसां गणैः । अनया मानवो नित्यं पूजयेद्भास्करं सदा । । ५८ दारिद्यदुःखदुरितैर्मुक्तो याति दिवाकरम् । ब्राह्मणो मोक्षमायाति क्षत्रियश्चेन्द्रतां व्रजेत् । । ५९ वैश्यो धनदसालोक्यं शूद्रो: विप्रत्वमाप्नुयात् । अपुत्रो लभते पुत्रं दुर्भगा सुभगा भवेत् । । 1.64.६० यामुपोष्य च नारीमां सप्तमीं लोकपूजिताम् । विधवा वा सती भक्त्या अनया पूजयेद्रविम् । । ६१ नान्यजन्मनि वैधव्यं नारी प्राप्नोति मानद । चिन्तामणिसमा ह्येषा विज्ञेया फलसप्तमी । । ६२ पठतां शृण्वतां दिण्डे सर्वकामप्रदा स्मृता । । ६३ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मदिण्डिसंवादे सप्तमीकल्पे फलसप्तमीवर्णनं नाम चतुःषष्टितमोऽध्याय
आदित्यमाहात्म्यवर्णनम् ब्रह्मोवाच अतः परं प्रवक्ष्यामि रहस्यां नाम सप्तमीम् । सप्तमी कृतमात्रेयं नरांस्तारयते भवात् । । १ सप्तापरान्सप्त पूर्वान्पितॄंश्चापि न संशयः । रोगांश्छिनत्ति दुश्छेद्यान्दुर्जयाञ्जयते ह्यरीन् । । २ अर्थान्प्राप्नोति दुष्प्रापान्यः कुर्यान्नाम सप्तमीम् । कन्यार्थी लभते कन्यां धनार्थी लभते धनम् । । ३ पुत्रार्थी लभते पुत्रान्धर्मार्थी धर्ममाप्नुयात् । समयान्पालयन्सर्वान्कुर्याच्चेमां विचक्षणः । ।४ समयाञ्छृणु भूतेश श्रेयसे गदतो मम । आदित्यभक्तः पुरुषः सप्तम्यां गणनायक । । ५ मैत्रीं सर्वत्र वै कुर्याद्भास्करं वापि चिंतयेत् । सप्तम्यां न स्पृशेत्तैलं नीलं वस्त्रं न धारयेत् । । न चाप्यामालकैः स्नानं न कुर्यात्कलहं क्वचित् । । ६ दिण्डिरुवाच किमर्थं न स्पशेत्तैलं सप्तम्यां पद्मसंभव । । ७ कश्च दोषो भवेद्देव नीलवस्त्रस्य धारणात् । ब्रह्मोवाच शृणु दिण्डे महाबाहो नीलवस्त्रस्य धारणे । । ८ दूषणं गणशार्दूल गदतो मम कृत्स्नशः । पालनं विक्रयश्चैव सद्वृत्तिरुपजीवनम् । । ९ पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छैर्विशुद्ध्यति । नीलीरक्तेन वस्त्रेण यत्कर्म कुरुते द्विजः । । 1.65.१० स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् । वृथा तस्य महायज्ञा नीलसूत्रस्य धारणात् । । ११ नीलीरक्तं यदा वस्त्रं विप्रस्त्वङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति । । १२ रोमकूपे यदा गच्छेद्रक्तं नीलस्य१ कस्यचित् । पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुद्ध्यति । । १३ नीलीमध्यं यदा गच्छेत्प्रमादाद्ब्राह्मणः क्वचित् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति । । १४ नीलीदारु यदा भिंद्याद्ब्राह्मणानां शरीरके । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् । । १५ कुर्यादज्ञानतो यस्तु नीलेर्वा दन्तधावनम् । कृत्वा कृच्छ्रद्वयं दिण्डे विशुद्धः स्यान्न संशयः । । १६ वापयेद्यत्र नीलीं तु भवेत्तत्राशुचिर्मही । प्रमाणद्वादशाब्दानि तत ऊर्ध्वं शुचिर्भवेत्
One should not speak with an outcaste, nor with a menstruating woman; nor should one touch the fallen, or look upon the dead.
१७ सप्तम्यां स्पृशतस्तैलमिष्टा भार्या विनश्यति । इत्येष नीलीतैलस्य दोषस्ते कथितो मया । । १८ न चैव खादेन्मांसानि मद्यानि न पिबेद्बुधः । न द्रोहं कस्यचित्कुर्यान्न पारुष्यं समाचरेत् । । १९ नावभाषेत चाण्डालं स्त्रियं नैव रजस्वलाम् । न वापि संस्पृशेद्धीनं मृतकं नावलोकयेत् । । 1.65.२० नास्फोटयेन्नातिहसेद्गायेच्चापि न गीतकम् । न नृत्येदतिरागेण न च वाद्यानि वादयेत् । । २१ न शयीत स्त्रिया सार्धं न सेवेत दुरोदरम् । न रुद्यादश्रुपातेन न च वाच्यं च शौकिकम् । । २२ आकृषेन्न शिरोयूका न वृथावादमाचरेत् । परस्यानिष्टकथनमतिशोकं च वर्जयेत् । । २३ न कञ्चित्ताडयेज्जन्तुं न कुर्यादतिभोजनम् । न चैव हि दिवा स्वप्नं दम्भं शाठ्यं च वर्जयेत् । । २४ रथ्यायामटनं वापि यत्नतः परिवर्जयेत् । अथापरो विधिश्चात्र श्रूयतां त्रिपुरान्तक । । २५ चैत्रात्प्रभृति कर्तव्या सर्वदा नाम सप्तमी । धातेति चैत्रमासे तु पूजनीयो दिवाकरः । । २६ अर्यमेति च वैशाखे ज्येष्ठे मित्रः प्रकीर्तितः । आषाढे वरुणो ज्ञेय इन्द्रो नभसि कथ्यते । । २७ विवस्वांश्च नभस्येऽथ पर्जन्योश्वयुजि स्मृतः । पूषा कार्त्तिकमासे तु मार्गशीर्षेषुरुच्यते । । २८ भगः पौषे भवेत्पूज्यस्त्वष्टा माघे तु शस्यते । विष्णुश्च फाल्गुने मासि पूज्यो वन्द्यश्च भास्करः । । २९ सप्तम्यां चैव सप्तम्यां भोजयेद्भोजकान्बुधः
On the seventh day, if one touches oil, the beloved wife is lost; thus, I have described to you the fault of indigo oil.
सघृतं भोजनं देयं भोजयित्वा विधानतः । । 1.65.३० भोजकायैव विप्राय दक्षिणां स्वर्णमाषकम् । सघृतं भोजनं देयं रक्तवस्त्राणि चैव हि । । ३१ अभावे भोजकानां तु दक्षिणीया द्विजोत्तमाः । तथैव भोजनीयाश्च श्रद्धया परया विभो । । ३२ विशेषतो वाचकश्च बाह्मणः कल्पवित्सदा । इत्येषा कथिता तुभ्यं सप्तमी गणनायक । । ३३ श्रुता सती पापहरा सूर्यलोकप्रदायिनी । । ३४ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मदिण्डिसंवादे सप्तमीकल्पे आदित्यमहात्म्यवर्णने सप्तमीवर्णनं नाम पञ्चषष्टितमोऽध्यायः
Food prepared with ghee should be given, and after feeding according to rule, a gold coin should be given as a gift to the invited Brahmin.
याज्ञवल्क्यवर्णनम् सुमन्तुरुवाच इत्युक्त्वा भगवान्ब्रह्मा जगामादर्शनं विभोः
After saying this, the venerable Brahmā disappeared from the sight of the Lord.
सूर्यमाराधयद्दिण्डी४ सूर्यस्यानुचरोऽभवत् । । १ शतानीक उवाच भूयः कथय विप्रेन्द्र माहात्म्यं भास्करस्य मे । शृण्वतो नास्ति मे तृप्तिरमृतस्येव सुव्रत । । २ सुमन्तुरुवाच शृणुष्वावहितो राजन्सम्वादं द्विजशङ्खयोः । यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो१ नृप । । ३ आसीनमाश्रमे शंखं द्विजो द्रष्टुं जगाम ह । फलभारानतच्छाये वृक्षवृन्दसमाकुले । । ४ परस्परमृगशृङ्गकण्डूयितमृगावृते । बर्हिर्वनाम्बरानीततीर्थकन्दोपभोगिनि । । ५ प्रभूतकुसुमामोदषट्पदोद्गीतशालिनी । सिद्धदेवर्षिगन्धर्वतीर्थसेवितवारिणि । । ६ मुण्डैश्च जटिलैश्चैव तापसैरुपशोभिते । आश्रमे तं मुनिश्रेष्ठं शंखाह्वं सुखमास्थितम् । । ७ स्तोत्रैः स्तोतुं सहस्रांशुं तद्भक्तं तत्परायणम् । ततः संहत्य सहसा तं भोजककुमारकाः । । ८ विनीता उपसंगम्य यथावदभिवाद्य च । आसनेषूपविष्टास्त उपविष्टमथाब्रुवन् । । ९ भगवन्त्सर्ववेदेषु२ च्छिंधि नः संशयो महान् । विनयेनोपपन्नानां कुमाराणां ततो मुनिः । । 1.66.१० अनादींश्चतुरो वेदानुवाच प्रीतमानसः । तेषां तु पठतामेव आश्रमं तु यदृच्छया । । ११ मुनिश्रेष्ठोऽथ तं देशमाजगाम द्विजो नृप । यथावदर्चितस्तेन शङ्खेनामिततेजसा । । १२ वन्दितश्च कुमारैस्तैरभवत्प्रीतमानसः । अथैतानब्रवीच्छंखस्तान्भोजककुमारकान् । । १३ शिष्टागमादनध्यायः स च जातो विरम्यताम् । यथाज्ञापयसीत्याहुः कुमारास्ते ऋषिं ततः । । १४ प्रपच्छ सिद्धिदश्चैतान्के ह्येते किं पठन्ति च । शङ्खोवाच महाराज कुमारा भोजकात्मजाः । । १५ ससूत्रकल्पांश्चतुरो विप्र वेदानधीयते । तथैव सप्तमीकल्पे परिचर्यां च भास्वतः । । १६ अग्निकार्यविधानं च प्रतिष्ठाकल्पमादितः । अध्यङ्गलक्षणं १ ब्रह्मन् रथयात्राविधिं तथा । । १७ द्विज उवाच कथं क्रियेत सप्तम्यां कभ्रार्चनविधिक्रमः । गन्धपुष्पप्रदीपानां किं फलं रविमन्दिरे । । १८ केन तुष्यति दानेन व्रतेन नियमेन च । धूपपुष्पोपहारादि किं च देयं विवस्वते । । १९ एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन । विशेषतस्तु माहात्म्यं ब्रूहि मां भास्करस्य हि । । 1.66.२० शङ्ख उवाच इममर्थं वशिष्ठेन पृष्टः साम्बो यथा पुरा । स चोवाच वशिष्ठाय तदहं कथयामि ते । । २१ अत्राश्रमे पुण्यतमे तीर्थानामुत्तमे प्रभुः । ववन्दे नियतात्मानं वशिष्ठं मुनिसत्तमम् । । २२ विनयेनोपसंगम्य ववन्दे चरणौ मुनेः । कृतप्रणामं साम्बं तु भक्तिप्रह्वीकृताननम् । । २३ विलोक्य परमप्रीतो मुनिः पप्रच्छ तं तदा । सर्वतः स्फुटितं गात्रं कुष्ठेन महता तव । । २४ घोररूपेण तीव्रेण कथं तद्विगतं तव
He worshipped the Sun and became an attendant of the Sun. Śatānīka said: Tell me again, O best of Brāhmaṇas, about the greatness of Bhāskara. Listening to this, I am never satisfied, just as one is never satisfied with nectar, O virtuous one.
कथं च लक्ष्मीरधिका रूपं चातिमनोहरम् । । २५ तेजस्वितातिमहती तथैव२ सुकुमारता । । २६ साम्ब उवाच स्तुतो नामसहस्रेण लोकनाथो दिवाकरः । दर्शनं च गतः साक्षाद्दत्तवांश्च वरान्मम । । २७ वशिष्ठ उवाच कथमाराधितः सूर्यस्त्वया यादवनंदन । कैश्च व्रततपोदानैर्दर्शनं भगवान्गतः । । २८ साम्ब उवाच शृणुष्वावहितो ब्रह्मन्सर्वमेव मया यथा । तोषितो भगवान्सूर्यो विधिना येन सुव्रत । । २९ मोहान्मयोपहसितो३ दुर्वासाः कोपनो मुनिः । ततोऽहं तस्य शापेन महाकुष्ठमवाप्तवान् । । 1.66.३० ततोऽहं पितरं गत्वा कुष्ठयोगाभिपीडितः । लज्जमानोऽतिगर्वेण इदं वाक्यमथाब्रवम् । । ३१ तात सीदति मे गात्रं स्वरश्च परिहीयते । घोररूपो महाव्याधिर्वपुरेष जिघांसति । । ३२ अशेषव्याधिराज्ञाहं पीडितः क्रूरकर्मणा । वैद्यैरोषधिभिश्चैव न शान्तिर्मम विद्यते । । ३३ सोऽहं त्वया ह्यनुज्ञातस्त्यक्तुमिच्छामि जीवितम् । यदि वाहमनुग्राह्यस्ततोऽनुज्ञातुमर्हसि । । ३४ इत्युक्तवाक्यः स पिता षुत्रशोकाभिपीडितः । पिता क्षणं ततो ध्यात्वा मामेवं वाक्यमुक्तवान् । । ३५ धैर्यमाश्रयतां१ पुत्र मा शोके च मनः कृथाः । हन्ति शोकार्दितं व्याधिः शुष्कं तृणमिवानलः । । ३६ देवताराधनपरो भव पुत्रक मा शुचः । इत्युक्ते च मया प्रोक्तो देवमाराधयामि कम् । । ३७ कमाराध्य विमुच्येऽहं तात रोगैः समन्ततः । इत्येवमुक्तो भगवान्मामुवाच पिता मम । । ३८ इममर्थं पुरा पृष्टः पद्मयोनिः सनातनः । याज्ञवल्क्येन ऋषिणा योगीशेन महात्मना
Sumantu said: Listen attentively, O King, to the dialogue between the two Brāhmaṇas Śaṅkha and others. Hearing it, a person is freed from all sins, O King.
७२ सोऽहमिच्छामि तं देवं सप्तलोकपरायणम् । कालायनमशेषस्य१ जगतो हद्यवस्थितम् । । ७३ आराधयितुं गोपालं ग्रहेशममितौजसम् । शङ्करं जगतो दीपं स्मृतमात्राघनाशनम् । । ७४ तमनाद्यं सुरश्रेष्ठं प्रसादयितुमिच्छतः । उपदेशप्रदानेन प्रसादं कर्तुमर्हसि । । ७५ तस्यैतद्वचनं श्रुत्या भक्तिमुद्वहतो रवौ । जगाम परितोषं स पद्मयोनिर्महातपाः । ।७ ६ ब्रह्मोवाच यत्पृच्छसि द्विजश्रेष्ठ सूर्यस्याराधनं प्रति । व्रतोपवासजप्यादि तदिहैकमनाः शृणु । । ७७ अनादि यत्परं ब्रह्म सर्वहेयविवर्जितम् । व्याप्य यत्सर्वभूतेषु स्थितं सदसतः परम् । । ७८ प्रधानपुंसोरनयोर्यतः क्षोभः प्रवर्तते । नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः । ।७९ तत्क्षोभकत्वाद् ब्रह्मांडं सृष्टेर्हेतुर्निरञ्जनः । अहेतुरपि सर्वात्मा जायते परमेश्वरः । । 1.66.८० प्रधानपुरुषत्वं च तथैवेश्वरलीलया । समुपैति ततश्चैवं ब्रह्मत्वं छन्दतः प्रभुः । । ८१ ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये । रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुते रविः । । ८२ तमेकमक्षरं धाम सर्वदेवनमस्कृतम् । भेदाभेदस्वरूपं तं प्रणिपत्य दिवाकरम् । । ३वर्णयिष्येऽखिलं विप्र तस्यैवाराधनं रवेः । । ८३ गुह्यं चापि तथा तस्य भास्करस्य शृणुष्व वै । तुष्टेन हि पुरा मह्यं कथितं भास्करेण तु । । ८४ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि याज्ञवल्क्यब्रह्मसंवादे सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः
Therefore, I wish to worship that god, the refuge of the seven worlds, who dwells in the heart of all time and the entire universe.
ब्रह्मयाज्ञवल्क्यसम्वादवर्णनम् ब्रह्मोवाच प्रभाते संस्तुतो देवो मूर्तिहेतोर्मया पुरा । यजन्तं चापरं देवं भक्तिनम्रं महामतिः । । १ प्रत्यक्षत्वमथो गत्वा रहस्यं प्रोक्तवान्मम । अहं च कृतवान्प्रश्नं दृष्ट्वा प्रत्यक्षतो रविम् । । २ वेदेषु१ च पुराणेषु साङ्गोपाङ्गेषु गीयसे । त्वमजः शाश्वतो धाता महाभूतमनुत्तमम्
Description of the dialogue between Brahmā and Yājñavalkya
३ प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् । चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः । । ४ यजन्ते त्वामहरहर्नानामूर्तिसमाश्रिताः । पिता माता हि सर्वस्य दैवतं त्वं हिं शाश्वतम् । । ५ यजसे चैव कं देवमेव चापि न विद्महे । कथ्यतां मम देवेश परं कौतूहलं हि मे । । ६ इत्थं मयोक्तो भगवानिदं वचनमब्रवीत् । अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् । । ७ तव भक्तिमतो ब्रह्मन्वक्ष्यामीह यथातथम् । यतः सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । । ८ इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् । स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते । । ९ त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कथ्यते । हिरण्यगर्भो भगवान्सैव४ बुद्धिरिति स्मृतः । । 1.67.१० महानिति च योगेषु प्रधानश्चेति कथ्यते । सांख्ये५ च पठ्यते शास्त्रे नामभिर्बहुभिः सदा । । ११ विश्वगो विश्वभूतश्च विश्वात्मा विश्वसम्भवः
All this world, past, present, and future, is established in you; the four stages of life, O god, all have their root in householdership.
धृतं चैवात्मकं येन इदं त्रैलोक्यमात्मना । । १२ अशरीरः शरीरेषु लिप्यते न च कर्मभिः । ममान्तरात्मा तव च ये चान्ये देहसंज्ञकाः । । १३ सर्वेषां साक्षिभूतोऽसौ२ न करोति न लिप्यते । सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्मृतः । । १४ सर्वतः पाणिपादोऽसौ सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतियुक्तोऽसौ सर्वमावृत्य तिष्ठति । । १५ विश्वमूर्धा४ विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् । । १६ क्षेत्राण्यस्य शरीराणि बीजं चापि शुभाशुभम् । तानि वेत्ति स योगात्मा अतः क्षेत्रज्ञ उच्यते । । अव्यक्तके पुरे शेते तेनाऽसौ पुरुषः स्मृतः । । १७ विश्वं बहुविधं ज्ञेयं स च सर्वत्र विद्यते । तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः । । १८ महापुरुषशब्दं हि बिभर्त्येष सनातनः । स तु वै विक्रियापन्नः सृजत्यात्मानमात्मना । । १९ आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा । भूमे रसविशेषेण तथा गुणवशात्तु सः । । 1.67.२० एक एव यथा वायुर्देहे तिष्ठति पञ्चधा । एकत्वं च पृथक्त्वं च तथा तस्य न संशयः । । २१ स्थानान्तरविशेषेण यथाग्निर्लभते पराम् । संज्ञां दावाग्रिकाद्येषु तथा देवो ह्यसौ स्मृतः । । २२ यथा दीपसहस्राणि दीप एकः प्रसूयते । तथा रूपसहस्राणि स एवैकः प्रसूयते । । २३ स यदा बुध्यतेत्मानं तदा भवति केवलः । एकत्वं प्रलये चास्य बहुत्वं स्यात्प्रवर्तने । । २४ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते१ तमेकमीशानं पुरुषं बीजसंज्ञितम् । । २५ अक्षयश्चाप्रमेयध्र सवर्गभ्र स उच्यते । तस्मादव्यक्तमुत्पन्नं त्रिगुणं सर्वकारणम् । । २६ अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते । तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः । । २७ नास्ति तस्मात्परो ह्यन्यः स पिता स प्रजापतिः । आत्मा मम स विज्ञेयस्ततस्तं पूजयाम्यहम् । । २८ स्वर्गताश्चापि ये केचित्तं नमस्यन्ति देहिनः । ते तत्प्रसादाद्गच्छन्ति तेनादिष्टाः परां गतिम् । । २९ तं देवाश्चासुराश्चैव नानामतसमाश्रिताः
He by whom this threefold world is sustained by his own self, though bodiless, abides in bodies, yet is not tainted by actions.
सिद्धार्थसप्तमीव्रतवर्णनम् ब्रह्मोवाच वच्मि ते परमं देवं सर्वदेवैश्च पूजितम् । आराधयन्ति यं देवं ब्रह्मविष्णुमहेश्वराः । । १ पद्माकृतिं सदा ब्रह्मा नलिनैर्गुग्गुलेन तु । व्योमरूपं सदा देवं महादेवोर्चते रविम् । । २ जातिपुष्पैर्द्विजश्रेष्ठ धूपेन विजयेन तु । वृषणं सिह्लकं विप्र श्रीखण्डमगरुस्तथा । । ३ कर्पूरं च तथा मुस्ता शर्करा सत्वचा द्विज । इत्येष विजयो धूपः स्वयं देवेन निर्मितः । । ४ केशवश्चक्ररूपं तु सदा सम्पूजयेद्रविम् । नीलोत्पलदलश्यामो नीलोत्पलकदम्बकैः । । ५ धूपेनागुरुसंज्ञेन भक्तिश्रद्धासमन्वितः । मया स पृष्टो देवेशस्तस्यैवाराधनाय वै । । ६ कानि पुष्पाणि चेष्टानि सदा भास्करपूजने । तेन चोक्तानि पुष्पाणि स्वयं तानि निबोध मे । । ७ मल्लिकायास्तु कुसुमैर्भोगवाञ्जायते नरः । सौभाग्यं पुण्डरीकैश्च भजत्येव च शाश्वतम् । । ८ १गन्धकुटजकैः पुष्पैः परमैश्वर्यमश्नुते । भवत्यक्षयमत्यन्तं नित्यमर्चयतो रविम् । । ९ मन्दारपुष्पैः पूजा तु सर्वकुष्ठविनाशिनी
Description of the Siddhārtha Saptamī Vow Brahmā said: I will tell you of the supreme god, worshipped by all the gods, whom Brahmā, Viṣṇu, and Maheśvara always worship.
बिल्वपत्रैश्च कुसुमैर्महतीं श्रियमश्नुते । । 1.68.१० अर्कस्रजा भवत्यर्थं सर्वकामफलप्रदः । प्रदद्यादूपिणीं कन्यामर्चितो बकुलस्रजा । । ११ किंशुकैरर्चितो देवो न पीडयति भास्करः । पूजितोऽगस्त्यकुसुमैरानुकूल्यं प्रयच्छति । । १२ करवीरैस्तु विप्रेन्द्र सूर्यस्यानुचरो भवेत् । तथा १मुद्गरपुष्पैश्च समभ्यर्च्य दिवाकरम् । । १३ हंसयुक्तेन यानेन रवेः सालोक्यतां व्रजेत् । शतपुष्पसहस्रैस्तु पूषसालोक्यतां व्रजेत् । । बकपुष्पैर्द्विजश्रेष्ठ याति भानुसलोकताम् । । १४ चतुःसमेन गन्धेन समभ्यर्च्य दिवाकरम् । पञ्चभूतालयस्थानमाप्नुयान्नात्र संशयः । । १५ देवागारं तु सम्मार्ज्य भक्त्या यस्तु प्रलेपयेत् । स रोगान्मुच्यते क्षिप्रं द्रव्यलाभं च विन्दति । । १६ तस्य चायतनं भक्त्या गैरिकेणोपलेपयेत् । प्राप्नुयान्महतीं लक्ष्मीं रोगैश्चापि प्रमुच्यते । । १७ अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् । प्रलयं यान्ति ते सर्वे मृदा यद्युपलेपयेत् । । १८ विलेपनानां सर्वेषां रक्तचन्दनमुत्तमम् । पुष्पाणां करवीराणि प्रशस्तानि प्रचक्षते । । १९ नातः परतरं किंचिद्भास्वतस्तुष्टिकारकम् । किं तस्य न भवेल्लोके यस्त्वेभिः स्वर्चयेद्रविम् । । 1.68.२० करवीरैः पूजयेद्यो भास्करं श्रद्धयान्वितः । सर्वकामसमृद्धोऽसौ सूर्यकाममवाप्नुयात् । । २१ विलेप्यायतनं३ यस्तु कुर्यान्मण्डलकं शुभम् । स सूर्यलोकमासाद्य मोदते शाश्वतीः समाः । । २२ एकेनास्य भवेदर्थो द्वाभ्यामारोग्यमश्नुते । त्रिभिः सन्तत्यविच्छिन्ना चतुर्भिर्भार्गवीं४ लभेत् । । २३ पञ्चभिर्विपुलं धान्यं षड्भिरायुर्बलं यशः । सप्तमण्डलकारी स्यान्मंडलाधिपतिर्नर । । २४ आयुर्धनसुतैर्युक्तः सूर्यलोके महीयते । घृतप्रदीपदानेन चक्षुष्माञ्जायते नरः । । २५ कटुतैलप्रदानेन स शत्रूञ्जयते नरः । तिलतैलप्रदानेन सूर्यलोके महीयते । । २६ मधूकतैलदानेन सौभाग्यं परमं व्रजेत् । संपूज्य विधिवद्देवं पुष्पधूपादिभिर्बुधः । । २७ यथाशक्त्या ततः पश्चान्नैवेद्यं भक्तितो न्यसेत् । पुष्पाणां प्रवरा जाती धूपानां विजयः परः । । २८ गन्धानां कुङ्कुमं श्रेष्ठं लेपानां रक्तचन्दनम् । दीपदाने घृतं श्रेष्ठं नैवेद्ये मोदकः परः । । २९ एतैस्तुष्यति देवेशः सान्निध्यं चाधिगच्छति । एवं संपूज्य विधिवत्कृत्वा चापि प्रदक्षिणम् । । 1.68.३० प्रणम्य शिरसा देवं देवदेवं दिवाकरम् । सुखासीनस्ततः पश्येद्रवेरभिमुखे स्थितः । । ३१ एकं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतम् । कामं यथेष्टं हृदये कृत्वा तं वाञ्छितं नरः । । ३२ पिबेत्सतोयं तं विप्र अस्पृष्टं दशनैः सकृत् । द्वितीयायां तु सप्तम्यां द्वौ गृहीत्वा तु सुव्रत । । ३३ तृतीयायां तु सप्तम्यां ग्रहीतव्यास्त्रयोऽपि च । ज्ञेयाश्चतुर्थ्यां चत्वारः पञ्चम्यां पञ्च एव हि । । ३४ षट् पिबेच्चापि षष्ठ्यां तु इतीयं वैदिकी श्रुतिः । सप्तम्यां सप्तमायां तु सप्त चैव पिबेन्नरः । । ३५ आदौ प्रभृति विज्ञेयो मन्त्रोऽयमभिमन्त्रणे । सिद्धार्थकस्त्वं हि लोके सर्वत्र श्रूयसे यथा । । तथा मामपि सिद्धार्थमर्थतः कुरुतां रविः । । ३६ ततो हविरुपस्पृश्य जपं कुर्याद्यथेप्सितम् । हुताशनं च जुहुयाद्विधिदृष्टेन कर्मणा । । ३७ एवमेव पराः कार्या सप्तम्यः सप्त सर्वदा । एकात्प्रभृति कार्या सा सर्वदोदकसप्तमी । । ३८ एकं तोयेन सहितं द्वौ चापि घृतसंयुतौ । त्रींस्तथा मधुना सार्धं दध्ना चतुर एव च । । ३९ युक्तान्नपयसा पञ्च षट् च गोमयसंयुतान् । पञ्चगव्येन वै सप्त पिबेत्सिद्धार्थकान्द्विज । । 1.68.४० अनेन विधिना यस्तु कुर्यात्सर्षपसप्तमीम् । बहुपुत्रो बहुधनः सिद्धार्थश्चापि सर्वदा । । ४१ इह लोके नरो विप्र प्रेत्ययाति विभावसुम् । तस्मात्सम्पूजयेद्देवं विधिनानेन भास्करम् । । ४२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सिद्धार्थसप्तमीव्रतवर्णनं नामाष्टषष्टितमोऽध्यायः
स्वप्नदर्शनवर्णनम् ब्रह्मोवाच सप्तम्यामुषितो विप्रः स्वप्नदर्शनमुच्यते । स्वप्ने दृष्टे च सप्तम्यां पुरुषो नियतव्रतः । । १ समाप्य विधिवत्सर्वं जपहोमादिकं क्रमात् । पूजयित्वा दिनेशं तु यथाविभवमात्मनः । । २ ततः शयीत शयने देवदेवं विचिन्तयन् । सम्प्रसुप्तो यदा पश्येदुदयन्तं दिवाकरम् । । ३ शक्रध्वजं तथा चन्द्रं तस्य सर्वाः समृद्धयः । दृश्यं जनं तथा शक्तिं१ स्रग्विगोवेणुनिस्वनाः । । ४ श्वेताब्जचामरादर्शकनकासिसुतोद्भवम् । रुधिरस्य स्रुतिं सेकं पानं चैश्वर्यकारकम् । । ५ श्वेतायाः पञ्चपूताया दर्शनं वृद्धिकारकम् । प्रजापतेर्घृताक्तस्य दर्शनं पुत्रदं स्मृतम् । । ६ शस्तवृक्षाभिरोहश्च क्षिप्रमैश्वर्यकारकः । दोहनं महिषीसिंहीगोधेनूनां स्वके मुखे । । ७ धनुषां च शराणां च नाभौ च द्रुतनिर्गतिः । अभिहन्यात्स्वयं खादेत्सिंहान्गा भुजगांस्तथा । । ८ स्वांगशीर्षं२ हुतवहे तस्य श्रीरग्रतः स्थिता । राजते हैमने पात्रे यो भुंक्ते पायसं द्विजः । । ९ पद्मपत्रे यथा विप्रस्तस्य जन्तोर्बलं भवेत् । द्यूते वादेऽथ वा युद्धे विजयो हि सुखावहः । । 1.69.१० अग्नेस्तु ग्रसनं विप्र आग्रेयं वृद्धिकारकम् । गात्रस्य ज्वलनं विप्र शिरोवेधश्च भूतये । । ११ माल्याम्बराणां४ युक्तानां शस्तानां शुक्लपक्षिणाम् । सदा लाभं प्रशंसन्ति तथा विष्ठानुलेपनम् । । १२ स्वाङ्गस्य कर्तने क्षेपे रथयाने प्रजागमः । नानाशिरोबाहुता च हस्तानां कुरुते श्रियम् । । १३ अगम्यागमनं चैव शोकमध्ययनं तथा । देवद्विजजनाचार्यगुरुवृद्धतपस्विनः । । १४ यद्यद्वदन्ति तत्सर्वं सत्यमेव हि निर्दिशेत् । प्रशस्तदर्शनं चैव अभिषेको नृपश्रियाः । । १५ स्याद्राज्यं शिरश्छेदेन बहुधा स्फुटितेन तु । रुदितं हर्षसम्प्राप्त्यै राज्यं निगडबन्धने । । १६ तुरङ्गं वृषभं पद्मं राजानां श्वेतकुञ्जरम् । महदैश्वर्यमाप्नोति योभीकश्चाधिरोहति । । १७ ग्रसमानो ग्रहांस्तारा महीं च परिवर्तयन् । उन्मूलयन्पर्वतांश्च राज्यलाभमवाप्नुयात् । । १८ देहान्निष्क्रान्तिरन्त्राणां तैर्वा वृक्षस्य वेष्टनम् । पातः समुद्रसरितामैश्वर्याणि सुखानि च । । १९ उदधिं सरितं वापि तीर्त्वा पारं प्रयाति च । अद्रिं लङ्घयतेश्चापि भवन्त्यर्थजयायुषः । । 1.69.२० उज्ज्वला स्त्री विशेदङ्कमाशीर्वादपराः स्त्रियः । भवत्यर्थागमः शीघ्रं कृमिभिर्यदि भक्ष्यते । । २१ स्वप्ने स्वप्न इति ज्ञातं दृष्टप्रकथनं तथा । मङ्गलानां च सर्वेषां शुभं दर्शनमेव च । । २ २ संयोगश्चैव मङ्गल्यैरारोग्यधनकारकः । ऐश्वर्यराज्यलाभाय यस्मिन्स्वप्न उदाहृतः । । २३ तैर्दृष्टै रोगिणो रोगान्मुच्यन्ते नात्र संशयः । न स्वप्नं शोभनं दृष्ट्वा स्वप्यात्प्रातश्च कीर्तयेत् । । राजभोजकविप्रेभ्यः शुचिभ्यश्च शुचिर्नरः । । २४ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे स्वप्नदर्शनवर्णनं नामैकोनसप्ततिमोऽध्यायः
Description of Dream Omens Brahmā said: If one observes the saptamī fast, O brāhmaṇa, the dreams seen are described as follows.
सर्षपसप्तमीवर्णनम् ब्रह्मोवाच ततो मध्याह्नसमये स्नातः प्रयतमानसः । तथैव देवान्विधिवत्पूजयित्वा यथासुखम्
Brahma said: Then, at midday, having bathed and with a concentrated mind, one should worship the gods in the proper manner, and then act as is comfortable.
२ तथा पुराणविदुष इतिहासविदो द्विजान् । तथा वेदविदश्चैव दिव्यान्भौमांश्च सुव्रत । । ३ रक्तानि वस्त्राणि तथा च गावः सुगन्धमाल्यादि हविष्यमन्नम् । पयस्विनी चाप्यथ भोजकाय देया तथान्यत्प्रियमात्मनो यत् । । ४ भवेदलाभो यदि भोजकानां विप्रास्तदार्हन्ति जयोपजीविनः । ये मन्त्रविद्ब्राह्मणपाठकाश्च ये येऽपि सामाध्ययनेषु युक्ताः । । ५ प्रथमं भोजका भोज्याः पुराणविदुषैः२ सह । तेषामृते मन्त्रविदस्तथा वेदविदो द्विजाः । । ६ कृत्वैवं सप्तमी सप्त नरो भक्त्या समन्वितः । श्रद्दधानोऽनसूयश्च अनन्तं प्राप्नुयात्सुखम्
Likewise, those who know the Purāṇas, those learned in history, and twice-born men who know the Vedas, O virtuous one, as well as divine and earthly beings, should be honored.
दुर्वासाशापविसर्जनवर्णनम् सुमन्तुरुवाच इत्थं ब्रह्मवचो योगी श्रुत्वा राजन्दिवाकरम् । व्योमरूपं समाराध्य गतः सूर्यसलोकताम् । । १ तथा त्वमपि राजेन्द्र पूजयित्वा विभावसुम् । गमिष्यसि परं स्थानं देवानामपि दुर्लभम् । । २ शतानीक उवाच आद्यं स्थानं रवेः कुत्र जम्बूद्वीपे महामुने । यत्र पूजां विधानोक्तां प्रतिगृह्णात्यसौ रविः । । ३ सुमन्तुरुवाच स्थानानि त्रीणि देवस्य द्वीपेऽस्मिन्भास्करस्य१ तु । पूर्वमिन्द्रवनं नाम तथा मुण्डीरमुच्यते । । ४ कालप्रियं३ तृतीयं तु त्रिषु लोकेषु विश्रुतम् । तथान्यदपि ते वच्मि यत्पुरा ब्रह्मणोदितम् । । ५ चन्द्रभागातटे नाम्ना पुरं यत्साम्बसंज्ञितम्
The sage Sumantu said: Thus, O King, the yogi, having heard the words of Brahma, worshipped the Sun in his celestial form and attained the same world as the Sun. In the same way, O lord of kings, if you worship the blazing Sun, you too will reach that supreme abode, which even the gods find difficult to attain. King Shatanika said: O great sage, where is the foremost place of the Sun on Jambudvipa, where he accepts the worship performed according to prescribed rites? Sumantu said: On this continent, there are three places of the god Bhaskara. The first is called Indravana, the second is known as Mundira, and the third, famed in the three worlds, is Kalapriya. I will also tell you of another, as spoken by Brahma in ancient times: the city named Sambapura on the banks of the river Chandrabhaga.
द्वीपेस्मिञ्छाश्वतं स्थानं यत्र सूर्यस्य नित्यता । । ६ प्रीत्या साम्बस्य तत्रर्को जनस्यानुग्रहाय च । तत्र द्वादशभागेन मित्रो मैत्रेण चक्षुषा । । ७ अवलोकञ्जगत्सर्वं श्रेयोऽर्थं तिष्ठते सदा । प्रयुक्तां विधिवत्पूजां गृह्णाति भगवान्स्वयम् । । ८ शतानीक उवाच कोऽयं साम्बः सुतः कस्य कस्य प्रीतो दिवाकर । यस्य चायं सहस्रांशुर्वरदः पुण्यकर्मणः
On this continent is the eternal abode where the Sun is ever-present. There, out of affection for Samba and for the welfare of the people, the Sun abides. In that place, with his friendly gaze, Mitra, in one twelfth part, always observes the entire world for its benefit. The Lord himself accepts the worship performed there according to proper rites. King Shatanika said: Who is this Samba, whose son is he, and why is the radiant Sun so pleased with him, granting boons to this virtuous one?
९ सुमन्तुरुवाच य एते द्वादशादित्या विराजन्ते महाबलाः । तेषां यो विष्णुसंज्ञस्तु सर्वलोकेषु विश्रुतः । । 1.72.१० इहासौ वासुदेवत्वमवाप भगवान्विभुः । तस्मात्साम्बः सुतो जज्ञे जाम्बवत्यां महाबलः । । ११ स तु पित्रा भृशं शप्तः कुष्ठरोगमवाप्तवान् । तेनायं स्थापितः सूर्यः स्वानाम्ना च पुरं कृतम् । । १२ शतानीक उवाच शस्तः कस्मिन्निमित्तेऽसौ पित्रा चैवात्मसम्भवः
Sumantu said: Among those twelve mighty Adityas who shine forth, the one known as Vishnu is renowned in all the worlds. Here, that illustrious one took the form of Vasudeva, and from him, the powerful son Samba was born to Jambavati. He, having been severely cursed by his father, contracted leprosy. Because of this, the Sun was established there, and the city was named after him. King Shatanika said: For what reason did his father curse him, his own son?
नाल्पं हि कारणं विप्र येनासौ शप्तवान्सुतम् । । १३ सुमन्तुरुवाच शृणुष्वावहितो राजंस्तस्य यच्छापकारणम् । दुर्वासा नाम भगवान्रुद्रस्यांशसमुद्भवः । । १४ अटमानः स भगवांस्त्रील्लोकान्प्रचचार ह । अथ प्राप्तो द्वारवतीं मधुसंज्ञोचितां पुरा । । १५ तमागतमृषिं दृष्ट्वा साम्बो रूपेण गर्वितः । पिङ्गाक्षं१ क्षुधितं रूक्षं विरूपं सुकृशं तथा । । १६ अनुकारास्पदं चक्रे दर्शने गमने तथा । दृष्ट्वा तस्य मुखं साम्बो वक्र चक्रे तथात्मनः । । १७ मुखं कुरुकुलश्रेष्ठ गर्वितो यौवनेन तु । अथ क्रुद्धो महातेजा दुर्वासा ऋषिसत्तमः । । १८ साम्बं चोवाच भगवान्विधुन्वन्मुखमात्मनः । यस्माद्विरूपं मां दृष्ट्वा स्वात्मरूपेण गर्वितः । । १९ गमने दर्शने मह्यमनुकारं समाचरः । तस्मात्तु कुष्ठरोगित्वमचिरात्त्वं गमिष्यसि । । 1.72.२० इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बाय दुर्वाससा शापविसर्जनं नाम द्विसत्ततितमोऽध्यायः
It was not for a trivial reason, O Brahmin, that he cursed his son. Sumantu said: Listen attentively, O King, to the cause of that curse. The venerable Durvasa, born from a portion of Rudra, wandered through the three worlds. He then arrived at Dvaravati, the city famed as Madhusudana's abode. Seeing the sage arrive, Samba, proud of his beauty, mocked the sage, who was tawny-eyed, hungry, harsh, deformed, and emaciated. He made a mockery of the sage's appearance and gait, and, seeing his face, Samba twisted his own in derision, proud of his youth, O best of the Kurus. Then the great and radiant sage Durvasa, filled with anger, spoke to Samba while shaking his own face: 'Because, seeing me deformed, you have become proud of your own form and imitated my appearance and movements, therefore you shall soon become afflicted with leprosy.'
साम्बकृतसूर्याराधनवर्णनम् सुमन्तुरुवाच एतस्मिन्नेव काले तु नारदो भगवानृषिः । ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु विश्रुतः । । १ सर्वलोकचरः सोऽथ अटमानः समन्ततः । वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् । । २ आयाति ऋषिभिः सार्धं क्रोधनो मुनिसत्तमः । अथागच्छति तस्मिंस्तु सर्वे यदुकुमारकाः । । ३ प्रद्युम्नप्रभृतयो ये प्रह्वाश्चावनताः स्थिताः । अभिवाद्यार्घ्यपाद्याभ्यां पूजां चक्रुः समन्ततः । । ४ साम्बस्त्ववश्यभावित्वात्तस्य शापस्य कारणम् । अवज्ञां कुरूते नित्यं नारदस्य महात्मनः । । ५ रतः क्रीडासु वै नित्यं रूपयौवनगर्वितः । अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः । । ६ अस्याहमविनीतस्य करिष्ये विनयं शुभम् । एवं सञ्चिन्तयित्या तु वासुदेवमथाब्रवीत् .। । ७ इमाः षोडशसाहस्र्यः स्त्रियो यादवसत्तम । सर्वासां हि सदा साम्बे भावो देव समाश्रितः । । ८ रूपेणाप्रतिमः साम्बो लोकेस्मिन्सचराचरे । सदा हीच्छन्ति १तास्तस्य दर्शनं चापि हि स्त्रियः । । ९ श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः । यदेतन्नारदेनोक्तमन्यदत्र तु किं भवेत् । । 1.73.१० वचनं श्रूयते लोके चापल्यं स्त्रीषु विद्यते । श्लोकौ चेमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः । । ११ पौंश्चल्याच्चलचित्तत्वान्नैःस्नेह्याच्च स्वभावतः । रक्षिताः सर्वतो ह्येता विकुर्वन्ति हि भर्तृषु । । १२ नैता रूपं परीक्षन्ते नासां वयसि निश्चयः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते । । १३ मनसा चिन्तयन्नेव कृष्णो नारदमब्रवीत् । न ह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं त्वया । । १४ ब्रुवाणमेवं देवं तु नारदो वाक्यमब्रवीत्
तथाहं तत्करिष्यामि यथा श्रद्धास्यते भवान् । । १५ एवमुक्त्वा ययौ स्वर्गं नारदस्तु यथागतः । ततः कतिपयाहोभिर्द्वारकां पुनरभ्यगात् । । १६ तस्मिन्नहनि देवोऽपि सहान्तःपुरिकैर्जनैः । अनुभूय जलक्रीडां पानमासेवते रहः । । १७ ३रम्यरैवतकोद्याने नानाद्रुमविभूषिते । सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकानने । । १८ नानाजलजफुल्लाभिर्दीर्घिकाभिरलङ्कृते । हंससारससंघुष्टे चक्रवाकोपशोभिते । । १९ तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा । हारनूपुरकेयूररशनाद्यैर्विभूषणैः । । 1.73.२० भूषितानां वरस्त्रीणां चार्वङ्गीनां विशेषतः । ताभिः सम्पीयते पानं शुभगन्धान्वितं शुभम् । । २१ एतस्मिन्नन्तरे बुद्ध्वा मद्यपानात्ततः स्त्रियः । उवाच नारदः साम्बं साम्बोत्तिष्ठ कुमारक । । २२ त्वां समाह्वायते देवो न युक्तं स्थातुमत्र ते । तद्वाक्यार्थमबुद्धैव नारदेनाथ चोदितः । । २३ गत्वा तु सत्वरं साम्बः प्रणाममकरोत्प्रभोः
Nārada replied: 'I shall act in such a way that you will believe, O Lord.' Having said this, Nārada departed to heaven as he had come. After a few days, he returned again to Dvārakā. On that day, the Lord, together with the women of his inner apartments, enjoyed water-sports and then drank wine in private. In the delightful Raivataka garden, adorned with various trees, always fragrant with flowers of all seasons, and beautified by ponds blooming with many kinds of water-lilies, filled with the cries of swans and cranes, and graced by chakravāka birds, the Lord delighted, surrounded by women adorned with necklaces, anklets, armlets, and girdles, especially those of lovely limbs. With them, he drank excellent, fragrant wine. At that moment, knowing that the women were intoxicated, Nārada said to Sāmba: 'Sāmba, arise, O prince! The Lord summons you; it is not proper for you to remain here.' Not understanding the meaning of Nārada's words, Sāmba, thus prompted, quickly went and bowed to the Lord.
आदित्यद्वादशमूर्तिवर्णनम् शतानीक उवाच स्थापितो यदि साम्बेन सूर्यश्चन्द्रसरित्तटे । तस्मान्नद्यमिदं स्थानं यथैतद्भाषते भवान् । । १ सुमन्तुरुवाच आद्यं स्थानमिदं भानोः पश्चात्साम्बेन भारत । विस्तरेणास्य चाद्यस्य कथ्यमानं निबोध मे । । २ अत्राद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः । मित्रत्वे च स्थितो देवस्तपस्तेपे पुरा नृप । । ३ अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च । सृष्ट्वा प्रजापतीन्ब्रह्मा सृष्ट्वा च विविधाः प्रजाः । । ४ ससर्ज मुखतो देवं पूर्वमम्बुजसन्निभम् । कञ्जजस्तं ततो देवं वक्षस्तो निर्ममे नृप । । ५ ललाटात्कुरुशार्दूल नीरजाक्षं दिगम्बरम्
Śatānīka said: 'If the Sun was established by Sāmba on the bank of the river Candrā, then why is this place called Nadya, as you say?' Sumantu said: 'This is the first site of the Sun; later, Sāmba established it, O Bhārata. Listen as I describe in detail this first site. Here, the Lord of the worlds, adorned with rays, the Lord of the universe, stood as a friend and performed austerities long ago, O king. The eternal, beginningless and endless Brahmā, having created the lords of creatures and various beings, first created the god, lotus-like in form, from his mouth. Then, from his chest, he created the god born from the lotus. From his forehead, O tiger among Kurus, he created the lotus-eyed, unclad one.'
ऋभवः पादतः सर्वे सृष्टास्तेन महात्मना । । ६ ततः शतसहस्रांशुरव्यक्तः पुरुषः स्वयम् । कृत्वा द्वादशधात्मानमदित्यामुदपद्यत । । ७ इन्द्रो धाता च पर्जन्यः पूषा त्वष्टार्यमा भगः । विवस्वानंशुर्विष्णुश्च वरुणो मित्र एव च । । ८ एभिर्द्वादशभिस्तेन आदित्येन महात्मना । कृत्स्नं जगदिदं व्याप्तं मूर्तिभिस्तु नराधिप । । ९ तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता । स्थिता सा देवराजत्वे दानवासुरनाशिनी । 1.74.१० द्वितीया चास्य या मूर्तिर्नाम्ना धातेति कीर्तिता । स्थिता प्रजापतित्वे सा विधात्री सृजते प्रजाः । । ११ तृतीया तस्य या मूर्तिः पर्जन्य इति विश्रुता । करेष्वेव स्थिता सा तु वर्षत्यमृतमेव हि । । १२ चतुर्थी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता
All the Ṛbhus were created from his feet by that great soul.
मन्त्रेष्ववस्थिता सा तु प्रजाः पुष्णाति भारत । । १३ मूर्तिर्या पञ्चमी तस्य नाम्ना त्वष्टेति विश्रुता । वनस्पतिषु सा नित्यमोषधीषु च वै स्थिता । । १४ षष्ठी मूर्तिस्तु या तस्य अर्यमेति च विश्रुता । प्रजासम्वरणार्थं सा पुरेष्वेव स्थिता सदा । । १५ भानोर्या सप्तमी मूर्तिर्नाम्ना भग इति स्मृता । भूमौ व्यवस्थिता सा तु क्ष्माधरेषु च भारत । । १६ अष्टमी चास्य या मूर्तिर्विवस्वानिति संज्ञिता । अग्नौ व्यवस्थिता सा तु ४पचतेऽन्नं शरीरिणाम् । । १७ नवमी चित्रभानोर्या मूर्तिरञ्शुरिति स्मृता । वीर चन्द्रे स्थिता सा तु आप्याययति वै जगत् । १८ मूर्तिर्या दशमी तस्य विष्णुरित्यभिधीयते । प्रादुर्भवति सा नित्यं गीर्वाणारिविनाशिनी । । १९ मूर्तिस्त्वेकादशी या तु भानोर्वरुणसंज्ञिता । जीवाययति सा कृत्स्नं जगद्धि समुपाश्रिता । । 1.74.२० अपां स्थानं समुद्रस्तु वरुणोऽत्र प्रतिष्ठितः । तस्माद्वै प्रोच्यते वीर सागरो वरुणालयः । । २१ मूर्तिर्या द्वादशी भानोर्नामतो मित्रसंज्ञिता । लोकानां सा हितार्थं तु स्थिता चन्द्रसरित्तटे । । २२ वायुभक्षा तपस्तेपे युक्ता मैत्रेण चक्षुषा । अनुगृह्णन्सदा भक्तान्वरैर्नानाविधैः सदा । । २३ एवमाद्यमिदं स्थानं पुण्यं मित्रपदं स्मृतम् । तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रपदं स्मृतम् । । २४ तयाराध्य महाबाहो साम्बेनामिततेजसा । तत्प्रसादात्तदादेशात्प्रतिष्ठा तस्य वै कृता । । २५ आभिर्द्वादशभिस्तेन भास्करेण महात्मना । कृत्स्नं जगदिदं व्याप्तं मूर्तिभिस्तु नराधिप । । २६ तस्माद्वन्द्यो नमस्यश्च द्वादशस्वपि मूर्तिषु । ये नमस्यन्ति चादित्यं नरा भक्तिसमन्विताः । । २७ ते यास्यन्ति परं स्थान १ तिष्ठेद्यत्राम्बुजेश्वरः । इत्येवं द्वादशात्मानमादित्यं पूजयेत्तु यः । । २८ स मुक्तः सर्वपापेभ्यो याति हेलिसलोकताम् । । २९ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यद्वादशमूर्तिवर्णनं नाम चतुःसप्ततितमोऽध्यायः
She abides in the mantras, O Bhārata, and nourishes the beings.
Description of Phala Saptamī
By offering bilva leaves and flowers, one attains great prosperity; with a garland of arka flowers, one obtains all desired fruits.
७ दशानामश्वमेधानां कृतानां यत्फलं लभेत् । तत्फलं सप्तमी२ सप्त कृत्वा प्राप्नोति मानवः । । ८ दुष्प्रापं नास्ति तल्लोके अनया यन्न लभ्यते । न च रोगोस्त्यसौ लोके अनया यो न शाम्यति । । ९ कुष्ठानि चापि सर्वाणि दुरुच्छेद्यान्यपि ध्रुवम् । अपयान्ति यथा नागा गरुडस्य भयार्दिताः । । 1.70.१० व्रतनियमतपोभिः सप्तमीः सप्तएवं विधिवदिह हि कृत्वा मानवो धर्मशीलः । श्रुतधनसुतभाग्यारोग्यपुण्यैरुपेतो व्रजति तदनुलोकं शाश्वतं तिग्मरश्मेः । । ११ इमं विधिं द्विजश्रेष्ठ श्रुत्वा कृत्वा च मानवः । सहस्ररश्मिं स विशेषान्नात्र कार्या विचारणा । । १२ सुरैर्वा मुनिभिर्वापि पुराणज्ञैरिदं श्रुतम् । सर्वे ते परमात्मानं पूजयन्ति दिवाकरम् । । १३ इदमाख्यानमार्षेयं यन्मयाभिहितं तव । सूर्यभक्ताय दातव्यं नेतराय १ कदाचन । । १४ यश्चैतच्छ्रावयेन्नित्यं यश्चैतच्छृणुयान्नरः । स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः । । १५ मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् । जिज्ञासुर्लभते कामान्भक्तः सूर्यगतिं लभेत् । । १६ क्षेमेण गच्छतेऽध्वानं यस्त्विदं पठतेध्वनि । यो यं प्रार्थयते कामं स तं प्राप्नोति च ध्रुवम् । । १७ एकान्तभावोपगत एकान्ते सुसमाहितः । प्राप्यैतत्परमं गुह्यं भूत्वा सूर्यव्रतो नरः । । १८ प्राप्नोति परमं स्थानं भास्करस्य महात्मनः । लग्नगर्भा प्रमुच्येत गर्भिणी जनयेत्सुतम् । । १९ वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमन्वितम् । एवमेतन्ममाख्यातं भास्करेणामितौजसा । । मयापि तव माख्यातं भक्त्या भानोरिदं द्विज । । 1.70.२० पूजनीयस्त्वया भानुः सर्वपापोपशान्तये । स हि धाता४ विधाता च सर्वस्य जगतो गुरुः । । २१ उद्यन्यः कुरुते नित्यं जगद्वितिमिरं करैः । द्वादशात्मा स देवेशः प्रीयतां तेऽदितेः सुतः । । २२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्ये सर्षपसप्तमीवर्णनं नाम सप्ततितमोऽध्यायः
By performing the Saptamī vow seven times, a person attains the merit obtained from ten Aśvamedha sacrifices; there is nothing in this world that cannot be attained by this, nor is there any disease that cannot be pacified by it. All types of leprosy, even those difficult to cure, certainly depart just as serpents flee in fear of Garuḍa. By performing the Saptamī vow seven times, with proper observance, austerity, and discipline, a righteous person attains the eternal realm of the Sun, endowed with learning, wealth, sons, fortune, health, and merit. O best of twice-born, having heard and performed this rite, a person attains the Sun with a thousand rays—there is no doubt about this. This has been heard from gods, sages, and knowers of the Purāṇas; all of them worship the Supreme Self, the Sun. This account, as told by me to you, should be given only to a devotee of the Sun, never to anyone else. Whoever recites or listens to this story daily will surely enter the god of a thousand rays. One who is afflicted or diseased is freed by hearing this story from the beginning; one who desires knowledge attains it, and a devotee attains the path of the Sun. Whoever recites this on a journey travels safely; whatever desire he prays for, he surely attains. One who, with single-minded devotion, attains this supreme secret, having become a votary of the Sun, reaches the highest abode of the great-souled Bhāskara. A pregnant woman is freed from a difficult birth and gives birth to a son; a barren woman attains offspring and is blessed with sons and grandsons. Thus has this been declared to you by me, as told by the mighty Bhāskara; you too, O twice-born, should worship the Sun for the removal of all sins, for he is the creator, the arranger, and the teacher of the whole world. Rising, he always dispels the world's darkness with his rays; may that lord of the gods, the twelve-formed son of Aditi, be pleased with you.
ब्रह्मप्रोक्तसूर्यनामवर्णनम् ब्रह्मोवाच नामभिः संस्तुतो देवो यैरर्कः परितुष्यति । तानि ते कीर्तयाम्येष यथावदनुपूर्वशः । । १ नमः सूर्याय नित्याय रवये कार्यभानवे । भास्कराय मतङ्गाय मार्तण्डाय विवस्वते । । २ आदित्यायादिदेवाय नमस्ते रश्मिमालिने । दिवाकराय दीप्ताय अग्नये मिहिराय च । । ३ प्रभाकराय मित्राय नमस्तेऽदितिसम्भव । नमो गोपतये नित्यं१ दिशां च पतये नमः । ।४ नमो धात्रे विधात्रे च अर्यम्णे वरुणाय च । पूष्णे भगाय मित्राय पर्जन्यायांशवे नमः । । ५ नमो हितकृते नित्यं धर्माय तपनाय च । हरये२ हरिताश्वाय विश्वस्य पतये नमः । । ६ विष्णवे ब्रह्मणे नित्यं त्र्यम्बकाय तथात्मने । नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये । । ७ एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च । ज्योतिषां पतये नित्यं सर्वप्राणभृते नमः । । ८ हिताय सर्वभूतानां शिवायार्तिहराय च । नमः पद्मप्रबोधाय नमो वेदादिमूर्तये । । ९ काधिजाय४ नमस्तुभ्यं नमस्तारासुताय च । भीमजाय नमस्तुभ्यं पावकाय च वै नमः । । 1.71.१० धिषणाय५ नमोनित्यं नमः कृष्णाय नित्यदा । नमोऽस्त्वदितिपुत्राय नमो लक्ष्याय नित्यशः । । ११ एतान्यादित्यनामानि मया प्रोक्तानि वै पुरा । आराधनाय देवस्य सर्वकामेन सुव्रत । । १२ सायं प्रातः शुचिर्भूत्वा यः पठेत्सुसमाहितः । स प्राप्नोत्यखिलान्कामान्यथाहं प्राप्तवान्पुरा । । १३ प्रसादात्तस्य देवस्य भास्करस्य महात्मनः । श्रीकामः श्रियमाप्नोति धर्मार्थी धर्ममाप्नुयात् । । १४ आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । राज्यार्थी राज्यमाप्नोति कामार्थी काममाप्नुयात् । । १५ एतज्जप्यं रहस्यं च संध्योपासनमेव च । एतेन जपमात्रेण नरः पापात्प्रमुच्यते । । १६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मप्रोक्तसूर्यनामवर्णनं नामैकसप्ततितमोऽध्यायः
Brahma said: I shall now recite to you the names by which the god Arka is praised and satisfied, in proper order. Salutations to Sūrya, the eternal one; to Ravi, the shining sun; to Bhāskara, Mataṅga, Mārtaṇḍa, and Vivasvat. Salutations to Āditya, the first of the gods, to you adorned with rays; to Divākara, the radiant one, to Agni, and to Mihira. Salutations to Prabhākara, to Mitra, to you born of Aditi; salutations always to the lord of cattle and to the lord of the directions. Salutations to Dhātṛ, Vidhātṛ, Aryaman, and Varuṇa; to Pūṣan, Bhaga, Mitra, Parjanya, and Aṃśu. Salutations always to the benefactor, to Dharma, to Tapana; to Hara, to the one with green horses, and to the lord of the universe. Salutations always to Viṣṇu, to Brahmā, to Tryambaka, and to the Self; salutations to the lord of the seven worlds and to the seven sevens. Salutations to the One, to you with a single-wheeled chariot; to the lord of the luminaries, always to the sustainer of all beings. Salutations to the benefactor of all creatures, to the auspicious one, to the remover of distress; salutations to the awakener of the lotus and to the form at the origin of the Vedas. Salutations to Kādhija, to you, and to the son of Tārā; salutations to Bhīmaja and to Pāvaka. Salutations always to Dhiṣaṇa, to Kṛṣṇa always; salutations to the son of Aditi, and always to Lakṣya. These names of Āditya have been spoken by me of old, O virtuous one, for the worship of the god and for all desires. Whoever, being pure, recites these attentively in the evening and morning, attains all desires, just as I attained them before. By the grace of that god, the great-souled Bhāskara, one who desires wealth obtains wealth, one who seeks righteousness obtains righteousness. The afflicted is freed from disease, the bound is freed from bondage, one who desires a kingdom obtains a kingdom, one who desires pleasure obtains pleasure. This is to be recited secretly, as well as at the time of twilight worship; by merely reciting this, a person is freed from sin.
Sumantu said: At that very time, the venerable sage Nārada, the mind-born son of Brahmā, renowned in all three worlds, ever-roaming among all realms, came to the city of Dvāravatī to see Vāsudeva, always accompanied by other sages, the great sage filled with wrath. When he arrived, all the sons of the Yadu dynasty, including Pradyumna and the others, stood humbly with bowed heads. They greeted him with offerings of water for washing the feet and hands, and honored him in every way. But Sāmba, due to the inevitable effect of a curse, constantly showed disrespect to the great-souled Nārada. Always absorbed in play, proud of his beauty and youth, he was undisciplined; seeing this, Nārada pondered. 'I shall bring about proper discipline for this unruly one.' Thus resolved, he spoke to Vāsudeva: 'O best of the Yadus, these sixteen thousand women always have their hearts set on Sāmba, O Lord. Sāmba is unmatched in beauty in this world, among all beings; all these women always desire to see him. Hearing these words from Nārada, Keśava pondered: "What else could Nārada mean by this?" It is said in the world that women are fickle; these two verses were formerly sung by wise Brāhmaṇas, knowers of the mind of women: "Because of their inconstant hearts and lack of natural affection, even when guarded on all sides, women act contrary to their husbands. They do not judge by beauty, nor do they decide by age; whether a man is handsome or not, they enjoy him all the same." Thinking thus in his mind, Kṛṣṇa said to Nārada: 'I do not believe what you have said.'
साष्टाङ्गं च हरेः साम्बो विधिवद्वल्लभस्य च । । २४ एतस्मिन्नन्तरे तत्र यास्तु वै स्वल्पसात्त्विकाः । तं दृष्ट्वा सुन्दरं साम्बं सर्वाश्चुक्षुभिरे स्त्रियः । । २५ न स दृष्टः पुरा याभिरन्तःपुरनिवासिभिः । मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा नृप । । २६ स्वभावतोल्पसत्त्वानां जघनानि विसुस्रुवुः । श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ । । २७ ब्रह्मचर्येऽपि वर्तन्त्याः साध्व्या ह्यपि च श्रूयते । हृद्यं हि पुरुषं दृष्ट्वा योनिः संक्लिद्यते स्त्रियाः । । २८ लोकेऽपि दृश्यते ह्येतन्मद्यस्यात्यर्थसेवनात् । लज्जां मुञ्चन्ति निःशङ्का ह्रीमत्यो ह्यपि हि स्त्रियः । । २९ समांसैर्भोजनैः स्निग्धैः यानैः सीधुसुरासवैः । गन्धैर्मनोज्ञैर्वस्त्रैश्च२ कामः स्त्रीषु विजृम्भते । । 1.73.३० ३सीधुप्रयुक्तं शुक्रेण सततं साधु हीच्छता । मद्यं .न पेयमत्यर्थ पुरुषेण विपश्चिता । । ३१ नारदोप्यथ तं साम्बं प्रेषयित्वा त्वरान्वितः । आजगामाथ तत्रैव साम्बस्यानुपदेन तु । । ३२ आयान्तं ताश्च तं दृष्ट्वा प्रियं सौमनसमृषिम् । सहसैवोत्थिताः सर्वाः स्त्रियस्तं मदविह्वलाः । । ३३ तासामथोत्थितानां तु वासुदेवस्य पश्यतः । भित्त्वा वासांसि शुभ्राणि पत्रेषु पतितानि तु । । ३४ ता दृष्ट्वा तु हरिः क्रुद्धः सर्वास्ता शप्तवान्स्त्रियः । यस्माद्गतानि चेतांसि मां मुक्त्वान्यत्र च स्त्रियः । । ३५ ४तस्मात्पतिकृताँल्लोकानायुषोंन्ते न यास्यथ । पतिलोकपरिभ्रष्टाः स्वर्गमार्गात्तथैव च । । ३६ भूत्वा चाशरणा यूयं दस्युहस्तं गमिष्यथ । । ३७ सुमन्तुरुवाच शापदोषात्ततस्तस्मात्ताः स्त्रियः स्वर्गते हरौ । हृताः पाञ्जनदैश्चौरैरर्जुनस्य तु पश्यतः । । अल्पसत्त्वास्तु यास्त्वासन्गतास्ता दूषणं स्त्रियः । । ३८ रुक्मिणी सत्यभामा च तथा जाम्बवती प्रिया । नैता गता दस्युहस्तं स्वेन सत्त्वेन रक्षिताः । । ३९ शप्त्वैव ताः स्त्रियः कृष्णः साम्बमप्यशपत्ततः । यस्मादतीव ते कान्तं रूपं दृष्ट्वा इमाः स्त्रियः । । 1.73.४० क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि । तस्य तद्वचनं श्रुत्वा साम्बः कृष्णस्य भारत । । ४१ उवाच प्रहसन्राजन्संस्मरन्नृषिभाषितम् । अनिमित्तमहं तात भावदोषविवर्जितः । । शप्तो न मेऽत्र वै क्रुद्धो दुर्वासा अन्यथा वदेत् । । ४२ सुमन्तुरुवाच अस्मिच्छप्तेऽनिमित्तेऽसौ पित्रा जाम्बवतीसुतः । प्राप्तवान्कुष्ठरोगित्वं विरूपत्वं च भारत । । ४३ साम्बेन पुनरप्येव दुर्वासाः कोपितो मुनिः । तच्छापान्मुसलं जातं कुलं येनास्य घातितम् । । ४४ श्रुत्वा ह्यविनयाद्दोषान्साम्बेनाप्तान्क्षमाधिप । नित्यं भाव्यं विनीतेन गुरुदेवद्विजातिषु । । ४५ प्रियं च वाक्यं वक्तव्यं सर्वप्रीतिकरं विभो । किं त्वया न श्रुतौ श्लोकौ यावुक्तौ वेधसा पुरा । । १शृण्वतो देवदेवस्य व्योमकेशस्य भारत । । ४६ यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी । स्वदारतुष्टः परदारवर्जितो न तस्य लोके भयमस्ति किञ्चित् । । ४७ न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया । प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी । । ४८ ततः शापाभिभूतेन सम्यगाराध्य भास्करम् । साम्बेनाप्तं तथारोग्यं रूपं१ च परमं पुनः । । ४९ रूपमाप्य तथाऽऽरोग्यं भास्कराद्धरिसूनुना । निवेशितो रविर्भक्त्या स्वनाम्ना क्ष्माधिपेश्वर । । 1.73.५० इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बकृतसूर्याराधनवर्णनं नाम त्रिसप्ततितमोऽध्यायः
Sāmba bowed down with full prostration to Hari and his beloved, according to proper rite. At that moment, all the women there who had little purity, seeing the handsome Sāmba, were agitated. He had not been seen before by the women of the inner apartments; due to the effect of wine, they lost their memory, O king. Because of their naturally low purity, their garments slipped from their hips. There is also this verse, famous in the Purāṇas: 'Even a virtuous woman, living in chastity, when she sees a pleasing man, her womb is stirred.' It is also seen in the world that from excessive drinking, even modest women shamelessly abandon their reserve. By rich foods, unctuous dishes, vehicles, wine, liquors, pleasant scents, and fine garments, desire is aroused in women. When wine is mixed with semen, it always greatly increases desire; therefore, a wise man should not drink wine excessively. Then Nārada, after sending Sāmba ahead, quickly followed in his footsteps. Seeing him coming, all the women, their minds disturbed by passion, suddenly rose up in his presence. As they rose, in the sight of Vāsudeva, their fine garments fell to the ground. Seeing this, Hari grew angry and cursed all the women: 'Because your minds have gone elsewhere, leaving me, you shall not attain the worlds gained by husbands at the end of life; deprived of your husbands' worlds, you shall also fall from the path to heaven. Becoming helpless, you will fall into the hands of robbers.' Sumantu said: Because of this curse, after Hari went to heaven, those women were carried off by the black-faced thieves, in the sight of Arjuna. Those of little purity who had associated with them were also corrupted. But Rukmiṇī, Satyabhāmā, and the beloved Jāmbavatī did not fall into the hands of robbers, protected by their own virtue. Having cursed those women, Kṛṣṇa also cursed Sāmba: 'Because all these women, seeing your exceedingly handsome form, were agitated, therefore you shall contract leprosy.' Hearing Kṛṣṇa's words, Sāmba laughed and, recalling the sage's words, said: 'Father, I am blameless, without fault in thought or deed; I have been cursed without cause. If the angry Durvāsas had spoken otherwise, it would not have happened.' Sumantu said: Though cursed without cause by his father, Jāmbavatī's son Sāmba became afflicted with leprosy and disfigurement. Again, Sāmba angered the sage Durvāsas, and from his curse the club was born, by which his clan was destroyed. Hearing of the faults arising from Sāmba's lack of discipline, one should always be humble toward teachers, gods, and Brāhmaṇas. One should always speak pleasant words that bring joy to all, O Lord. Have you not heard the verses formerly spoken by the Creator, O Bhārata, as the Lord of gods, Vyomakeśa, listened? 'He who is righteous, self-controlled, free from anger, learned and humble, does not harm others, is content with his own wife, and avoids other women—such a man has nothing to fear in this world. Not cool water, nor sandal paste, nor soothing shade delights a man as much as sweet speech.' Then, afflicted by the curse, Sāmba properly worshipped the Sun, and thus regained health and supreme beauty. Having regained his form and health from the Sun by devotion, Sāmba established a temple to the Sun in his own name, O lord of the earth.