वर्णविभागविवेकवर्णनम् ब्रह्मोवाच हेयोपादेयतत्त्वज्ञास्त्यक्तान्यायपथागमाः । जितेन्द्रियमनोवाचः सदाचारपरायणाः । । १ नियमाचारवृत्तस्था हितान्वेषणतत्पराः । संसाररक्षणोपायक्रियायुक्तमनोरथाः । । २ सम्यग्दर्शनसम्पन्नाः समाधिस्था हतक्रुधः । स्वाध्यायभक्तहृदयास्त्यक्तसङ्गा विमत्सराः । । ३ विशोका विमदाः शान्ता सर्वप्राणिहितैषिणः । सुखदुःखसमालोका विविक्तस्थानवासिनः । । ४ व्रतोपयुक्तसर्वाङ्गा धार्मिकाः पापभीरवः । निर्ममा निरहङ्कारा दानशूरा दयापराः । । ५ सत्यब्रह्मविदः शान्ता सर्वशास्त्रेषु निष्ठिताः । सर्वलोकहितोपायप्रवृत्तेन स्वयंभुवा । । ६ वागीश्वरेण देवेन नाभेयेन भवच्छिदा । ब्रह्मणा कृतमर्यादास्त एवं ब्राह्मणाः स्मृताः । । ७ महातपोधनैरार्यैः सर्वसत्त्वाभयप्रदैः । सर्वलोकहितार्थाय निपुणं सुप्रतिष्ठितम् । । ८ वृहत्त्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः । भक्त्यासक्ताः प्रपन्नाश्च ब्राह्मणास्ते प्रकीर्तिताः । । ९ क्षत्रियास्तु क्षतत्राणाद्वैश्या वार्ताप्रवेशनात् । ये तु श्रुतेर्द्रुतिं प्राप्ताः शूद्रास्तेनेह कीर्तिताः । । 1.44.१० ये चाचाररताः प्राहुर्ब्राह्मण्यं ब्रह्मवादिनः । ते तु फलं प्रशंसन्ति यत्सदा मनसेप्सितम् । । ११ क्षमा दमो दया दानं सत्यं शौचं धृतिर्घृणा । मार्दवार्जवसन्तोषानहङ्कारतपःशमाः. । । १२ धर्मो ज्ञानमपैशुन्यं ब्रह्मचर्यममूढता । ध्यानमास्तिक्यमद्वेषो वैराग्यं च शमात्मता । । १३ पापभीरुत्वमस्तेयममात्सर्यमतृष्णता । नैःसङ्ग्यं गुरुशुश्रूषा मनोवाक्काय संयमः । । १४ य एवम्भूतमाचारमनुतिष्ठन्ति मानवाः । ब्राह्मण्यं पुष्कलं तेषां नित्यमेव प्रवर्धते । । १५ ते स्वमतास्वादलब्धवर्णाचारा महौजसः । सर्वशास्त्राविरोधेन पवित्रीकृतमानसाः । । १६ सज्जनाभिमताः प्राज्ञाः पुराणागमपण्डिताः । गीतगीतागमाचाराः स्मृतिकाराः पठन्ति च । । १७ मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः । वर्णाश्रमाचारकृतं कर्म सिद्ध्यत्यनुत्तमम् । । १८ संसिद्धायां तु वार्तायां ततस्तेषां स्वयं प्रभुः । मर्यादां स्थापयामास यथारब्धं परस्परम् । । १९ ये वै परिगृहीतारस्तेषां सत्त्वबलाधिकाः । इतरेषां क्षतत्राणान्स्थापयामास क्षत्रियान् । । 1.44.२० उपतिष्ठन्ति ये तान्वै याचन्तो नर्मदाः सदा । सत्यब्रह्म सदाभूतं वदन्तो ब्राह्मणास्तु ते । । २१ ये चान्येप्यबलास्तेषां वैश्यकर्मणि संस्थिताः । कीलानि नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः । । वैश्यानेव तु तानाह कीनाशान्वृत्तिमाश्रितान् । । २२ शोचन्तश्व द्रवन्तश्च परिचर्यासु ये नराः । निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः । । २३ ब्राह्मणक्षत्रियविशां शूद्राणां च परस्परम् । कर्माणि प्रविभक्तानि स्यभावप्रभवैर्गुणैः । । २४ शमस्तपो दमः शौचं क्षांतिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् । । २५ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् । । २६ कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । । २७ योगस्तपो दया दानं सत्यं धर्मश्रुतिर्घृणा । ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् । । २८ शिखा ज्ञानमयी यस्य पवित्रं च तपोमयम् । ब्राह्मण्यं पुष्कलं तस्य मनुः स्वायम्भुवोऽब्रवीत् । । २९ यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः । निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३० शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् । ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् । । ३१ न सुरां सन्धयेद्यस्तु आपणेषु गृहेषु च । न विक्रीणाति च तथा सच्छूद्रो हि स उच्यते । । ३२ यद्येका स्फुटमेव जातिरपरा कृत्यात्परं भेदिनी । यद्वा व्याहृतिरेकतामधिगता यच्चान्यधर्मं ययौ । । एकैकाखिलभावभेदनिधनोत्पत्तिस्थितिव्यापिनी । किं नासौ प्रतिपत्तिगोचरपथं यायाद्विभक्त्या नृणाम् । । ३३ इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णविभागविवेकवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
Description of the discernment of caste distinctions
कार्तिकेयवर्णनम् ब्रह्मोवाच इदं श्रुणु मयाख्यातं तर्कपूर्वमिदं वचः । युष्माकं संशये जाते कृते वै जातिकर्मणोः । । १ पुनर्वच्मि निबोधध्वं समासान्न तु विस्तरात् । संसिद्धिं यान्ति मनुजा जातिकर्मसमुच्चयात् । । २ सिद्धिं गच्छेद्यथा कार्यं दैवकर्मसमुच्चयात् । एवं संसिद्धिमायाति पुरुषो जातिकर्मणोः । । ३ इत्येवमुक्तवान्पूर्वं शिष्याणां बोधने पुरा । योगीश्वरो महातेजाः समासान्न तु विस्तरात् । । ४ सुमन्तुरुवाच इति पृष्टः पुरा ब्रह्मा ऋषीन्प्रोवाच भारत । सवितर्कमिदं वाक्यं विप्रर्षे जातिकर्मणोः । । ५ तस्मात्त्वया महाबाहो न कार्यो विस्मयो नृप । कार्तिकेयं प्रति सदा देवानां दुर्विदा गतिः । । ६ इति श्रीभविष्ये महापुराणे शतार्धसाहहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे कार्तिकेयवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः
Description of Kārtikeya
ब्रह्मपर्ववर्णनम् सुमन्तुरुवाच येयं भाद्रपदे मासि षष्ठी च भरतर्षभ । सुपुण्येयं पापहरा शिवा शान्ता गुहप्रिया । । १ स्नानदानादिकं सर्वं यस्यामक्षय्यमुच्यते । येऽस्यां पश्यन्ति गाङ्गेयं दक्षिणापथमाश्रितम् । । २ ब्रह्महत्यादिभिः पापैर्मुच्यन्ते नात्र संशयः । तस्मादस्यां सदा पश्येत्कार्त्तिकेयं नृपोत्तम । । ३ पूजयन्ति गुहं येऽस्यां नरा भक्तिसमन्विताः । प्राप्येह ते सुखान्कामान्गच्छन्तीन्द्रसलोकताम् । । ४ यस्तु कारयते वेश्म सुदृढं सुप्रतिष्ठितम् । दार्वं शैलमयं चापि भक्तया श्रद्धासमन्वितः । । गाङ्गेयं यानमारुह्य गच्छेद्गाङ्गेयसद्म वै । । ५ सम्मार्जनादि यः कर्म कुर्याद्गुहगृहे नरः । ध्वजस्यारोपणं राजन्स गच्छेद्रुद्रसद्म वै । । ६ चन्दनागरुकर्पूरैर्यश्च पूजयते गुहम् । गजाश्वरथयानाढ्यं सैनापत्यमवाप्नुते । । ७ राज्ञां पूज्यः सदा प्रोक्तः कार्तिकेयो महीपते । कार्त्तिकेयमृते नान्यं राज्ञां पूज्यं प्रचक्षते । । ८ सङ्ग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम् । स शत्रुं जयते वीर यथेन्द्रो दानवान्रणे । । ९ तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्कारात्मजम् । पूजमानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप । । मुच्यते सर्वपापेभ्यस्तदा गच्छेच्छिवालयम् । । 1.46.१० तैलं षष्ठ्यां न भुञ्जीत न दिवा कुरुनन्दन । यस्तु षष्ठ्यां नरो नक्तं कुर्याद्धि भरतर्षभ । । सर्वपापैः स निर्मुक्तो गाङ्गेयस्य सदो व्रजेत् । । ११ त्रिकृत्वो दक्षिणामाशां गत्वा यः श्रद्धयान्वितः । पूजयेद्देवदेवेशं स गच्छेच्छान्तिमन्दिरम् । । १२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां षष्ठीकल्पे कार्त्तिकेयमाहात्मयवर्णनं नाम षट्चत्वारिंशोऽध्यायः
Description of the Brahma festival
शाकसप्तमीव्रतवर्णनम् सुमन्तुरुवाच सप्तम्यां सोपवासस्तु नक्ताहारोऽपि वा भवेत् । सप्तम्यां देवदेवेन लब्धं स्वं रूपमादरात् । । १ अण्डेन सह जातो वै अण्डस्थो बुद्धिमाप्तवान् । अण्डस्थस्यैव दक्षेण भार्यां दत्त्वा स्वकां सुताम् ।। २ नाम्ना रूपेति रूपेण नान्या नारी तथा १ भवेत् । अण्डस्थ एव सुचिरं स्थितो मार्तण्ड इत्यतः । । ३ दक्षाज्ञया विश्वकर्मा वपुरस्य प्रकाशयन् । प्रकाशतस्ततो नाम तस्य जातं नराधिप । । अण्डस्थस्यैव सञ्जातो यमुना यम एव च । ।४ दाक्षायणी तस्य भार्या वैराग्यात्तनुमध्यमा । चिन्तयामास सा देवी दुःखान्निर्वेदमागता । । ५ अहो तेजोमयं रूपं कान्तं कान्तस्य कान्तिमत् । न चास्य किञ्चित्पश्यामि अङ्गं तेजोविमोहितम् । । ६ शुभं कनकतुल्यं मे रूपं कान्तं सुकान्तिमत् । साम्प्रतं श्यामतां यातं दग्धमेतस्य तेजसा । । ७ तस्मात्तप्स्ये तपश्चाहं गत्वा वै उत्तरान्कुरून् । स्वां छायामत्र निक्षिप्य भयाच्छापस्य रूपिणी । । ८ निक्षिप्योवाच तां बालां मा चास्मै वै वदिष्यसि । एवं सा निश्चयं कृत्वा गता वै उत्तरान्कुरून् । । ९ स्वरूपं तत्र निक्षिप्य वडवारूपधारिणी । चचार सा मृगैः सार्धं बहून्वर्षगणान्नृप । । 1.47.१० असावपि च मार्तण्डश्छायां भार्याममन्यत् । शनिं च तपतीं चैव द्वे अपत्ये च जज्ञिवान् । । ११ अथ च्छायात्मापत्यानि स्नेहेन परिपालयेत् । नातिस्नेहेन चापश्यद्यमुनां यममेव च । । १२ अथ ताभ्यां विवादोऽभूदादित्यदुहित्रोर्द्वयोः । ते उभे विवदन्त्यौ तु परस्परमसम्मतम् । । यमुना तपती चोभे निम्नगे सम्बभूवतुः । । १३ यमोऽपि यमुनाभ्राता छायया ताडितो भृशम् । पादमुद्यम्य तस्या वै तस्थौ सम्मुख एव सः । । १४ छाया शशाप तं रोषाद्यस्मात्पादोद्यतो मम। तस्मात्ते कर्म बीभत्सं प्राणिनां प्राणहिंसनम् । । १५ भविष्यति चिरं मूढ आचन्द्रार्कं न संशयः । पादं च यदि भूमौ त्वमिमं संस्थापयिष्यसि । । १६ कृमयो भक्षयिष्यन्ति मच्छापकलुषीकृतम् । । १७ तेषां विवदमानानां मार्तण्डोऽभ्यागमत्ततः । यमोऽप्याह महात्मानं मार्तण्डं लोकपावनम् । । १८ तात नित्यमियं चापि क्रूरभावेन पश्यति । न चास्याः सुसमा दृष्टिरस्मास्वस्तीति लक्ष्यते । । १९ प्रोवाचाथ स तां छायां मार्तण्डो भृशकोपनः । १समे अपत्ये किं मूढे समत्वं नानुपश्यसि । । 1.47.२० यमः प्रोवाच पितरं नेयं माता पितर्मम । मातुश्छाया त्वियं पापा शप्तोऽहमनया पितः । । यमुना तपती वृत्तं तत्सर्वं विन्यवेदयत् । । २१ अथ प्रोवाच मार्तण्डो मा ते पादो महीतले । मांसं रुधिरमादाय कृमयो यान्तु भूतलम् । । २२ यमुनायाश्च यत्तोयं गङ्गातुल्यं भविष्यति । नर्मदायास्तपत्याश्च समं पुण्येन वै द्विज । । २३ विन्ध्यस्य दक्षिणेनेह तपती प्रवहिष्यति । तत्सायुज्यतया साग्रं गङ्गा यास्यति शोभना । । २४ गङ्गामासाद्य यमुना गङ्गा सैव भविष्यति । सौरसौम्ये उभे पुण्ये सर्वपापप्रणाशने । । २५ १सौरी च वैष्णवी चोभे महापापभयापहे । त्वं पुत्र लोकपालत्वं ब्रह्मणोऽज्ञां सभाजयन् । । अद्यप्रभृति च्छायेयं स्वदेहस्था भविष्यति । । २६ एवं संस्थाप्य स्वां भार्यामपत्यानि तथैव च । आजगाम सकाशं वै दक्षस्याह च कारणम्
दक्षो विज्ञाय तत्सर्वं मार्तण्डमिदमाह वै । । २७ रूपं न पश्यती तुभ्यं सा भार्या उत्तरान्गता । । २८ रूपं ते प्रकटिष्यामि यदि शक्ष्यसि वेदनाम् । असौ प्रोवाच शक्ष्येऽहं प्रकाशी कुरु मे वपुः । । २९ अथ सस्मार तक्षाणं स्मृत एवाजगाम सः । प्रोवाच दक्षस्तक्षाणं मार्तण्डं वै प्रकाशय । । 1.47.३० तक्षा प्रोवाच मार्तण्डं वेदना विसहिष्यसे । विसहिष्येथ प्रोवाच तक्षाणं दक्षचोदितः । । ३१ अथ तक्षा प्रकाशं वै तस्य रूपं विभावसौ । मुखादारभ्य पादान्तं ततक्षकरणैः स्वकैः । । किरणैस्तुद्यमानेषु तस्याङ्गेषु पुनः पुनः । क्षणेक्षणे मूर्छयति मार्तण्डो वेदनातुरः । । ३२ तस्य शापभयात्तक्षा पादौ गुल्फादियावतः । चकाराथो निराकारा अङ्गुल्यो न प्रकाशयत् । । ३३ पर्याप्तं तक्षकर्मेदं वेदना मम बाधते । तक्षा प्रोवाच मार्तण्डं वेदनां जहि गोपते । । ३४ करवीरस्य पुष्पाणि रक्तचन्दनमेव च । करादारभ्य गात्राणि विलिम्पे देहजानि ते । । ३५ तत्तत्कृतं तथा तेन स रुजं त्यक्तवान्रविः । अतश्चेमानि चेष्टानि मार्तण्डस्येह भूपते । । ३६ करवीरस्य पुष्पाणि तथा वै रक्तचन्दनम् । इदमाह पुरा देवो ह्यनूरोरग्रतो नृप । । ३७ करवीरस्य पुष्पाणि रक्तचन्दनमेव हि । इतिहासपुराणाभ्यां सुपर्णगुग्गुलं तथा । । ३८ यः प्रयच्छति मे भक्त्या स मे प्राणान्प्रयच्छति । तस्मान्न देयमन्यन्मे भक्तियुक्तेन जानता । । ३९ मार्तण्डस्याण्डजं तेजो गृहीत्वा किल भारत । चकार वज्रमजरं १ शत्रुलेखादिनाशनम् । । 1.47.४० मार्तण्डः परितुष्टोऽभूल्लब्ध्वा रूपं गतव्यथः । जगाम स कुरून्वेगात्स्वभार्यादर्शनोत्सुकः । । ४१ मृगमध्यगतां दृष्ट्वा वडवारूपधारिणीम् । अश्वरूपं ततः कृत्वा स्वभार्यामधिरुह्य सः । । अवासृजत्स्वकं तेजो वेगेनारुह्य सोऽश्ववत् । ।४ २ परपुरुषाशङ्कया सा स्थिता देवस्य संमुखी । तेजो नासापुटाभ्यां तु युगपत्साक्षिपत्पुनः । ।४ ३ तत्र जातौ देवभिषजौ नासत्यावश्विनाविति । रेतसोऽन्ते तु रेवन्तो विरोचनसुतो महान् । । ४४ तपती शनिश्च सावर्णिश्छायापत्यानि वै विदुः । यमुना यमश्च पूर्वोक्तौ संज्ञा २ याश्च तथात्मजौ । । ४५ भार्या लब्धा वपुर्दिव्यं तथा पुत्राश्च भारत । सप्तम्यां देवदेवस्य सर्वमेवमिदं यतः । । अनेन कारणेनेष्टा सदा देवस्य सप्तमी । । ४६ सप्तम्यां सोपवासस्तु रात्रौ भुञ्जीत यो नरः । कृत्वोपवासं षष्ठ्यां तु पञ्चम्यामेककालभुक् । । ४७ दत्त्वा सुसंस्कृतं शाकं भक्ष्यभोज्यैः समन्वितम् । देवाय ब्राह्मणेभ्यश्च रात्रौ भुञ्जीत वाग्यतः । । ४८ यावज्जीवं नरः कश्चिद्व्रतमेतच्चरेदिति । तस्य श्रीर्विजयश्चैव त्रिवर्गश्चापि वर्धते । । ४९ मृतश्च स्वर्गमायाति १ विमानवरमास्थितः । सूर्यलोके स रमते मन्वन्तरगणान्बहून् । । इह चागत्य कालान्ते नृपः शान्ति समन्वितः । । 1.47.५० पुत्रपौत्रैः परिवृतो दाता स्यान्नृपतिश्चिरम् । भुनक्ति हि धरां राजन्विग्रहैश्चाजितः परै । । ५१ ये नरा राजशार्दूल शाकाहारेण सप्तमीम् । उपोष्य लब्धं तत्तीर्थं पित्र्यं वै राजसंज्ञिकम् । । ५२ कुरुणा तव पूर्वेण शाकाहारेण सप्तमीम् । धर्मक्षेत्रं कुरुक्षेत्रं कृतं तस्य विवस्वता । । ५३ सप्तमी नवमी षष्ठी तृतीया पञ्चमी नृप । कामदास्तिथयो ह्येता इहैव नरयोषिताम् । । ५४ सप्तमी माघमासे तु नवम्याश्वयुजे मता । षष्ठी भाद्रपदे धन्या वैशाखे तु तृतीयिका । । ५५ पुण्या भाद्रपदे प्रोक्ता पञ्चमी नागपञ्चमी । इत्येतास्तेषु मासेषु विशेषास्तिथयः स्मृताः । । ५६ शाकं सुसत्कृतं कृत्वा यश्च भक्त्या समन्वितः । दत्त्वा विप्रे यथाशक्त्या पश्चाद्भुङ्क्ते निशि व्रती । । ५७ कार्तिके शुक्लपक्षस्य ग्राह्येयं कुरुनन्दन । चतुभिर्वापि मासैस्तु पारणं प्रथमं स्मृतम् । । ५८ अगस्त्यकुसुमैश्चात्र पूजा कार्या विभावसोः । विलेपनं कुङ्कुमं तु धूपश्चैवापराजितैः । । ५९ स्नानं च पञ्चगव्येन तमेव प्राशयेत्ततः । नैवेद्यं पायसं चात्र देवदेवस्य कीर्तितम् । । 1.47.६० तदेव देयं विप्राणां शाकं भक्ष्यमथात्मना । शुभशाकसमायुक्तं भक्ष्यपेयसमन्वितम् । । ६१ द्वितीये पारणे राजञ्छुभगन्धानि यानि वै । पुष्पाणि तानि देवस्य तथा श्वेतं च चन्दनम् । । ६२ अगुरुश्चापि धूपोऽत्र नैवेद्यं गुडपूपकाः । स्नानं कुशोदकेनात्र प्राशनं गोमयस्य तु । । ६३ तृतीये करवीराणि तथा रक्तं च चन्दनम् । धूपानां गुग्गुलश्चात्र प्रियो देवस्य सर्वदा । । ६४ शाल्योदनं तु नैवेद्यं दधिमिश्रं महामते । तमेव ब्राह्मणानां च भक्ष्यलेह्यसमन्वितम् । । कालशाकेन च विभो युक्तं दद्याद्विचक्षणः । । ६५ गौरसर्षपकल्केन स्नानं चात्र विदुर्बुधाः । तस्यैव प्राशनं धन्यं सर्वपापहरं शुभम् । । ६६ तृतीये पारणस्यान्ते महद्ब्राह्मणभोजनम् । श्रवणं च पुराणस्य वाचनं चापि शस्यते । । ६७ दैवस्य पुरतस्तात ब्राह्मणानां तथाग्रतः । ब्राह्मणाद्वाचकाच्छ्राव्यं नान्यवर्णसमुद्भवात् । । अथ तान्ब्राह्मणान्सर्वान्भक्त्या शक्त्या च पूजयेत् । । ६८ वाचकस्यामले राजन्वाससी सन्निवेदयेत् । वाचके पूजिते देवः सदा तुष्यति भास्करः । । ६९ करवीरं यथेष्टं तु तथा रक्तं च चन्दनम् । यथेष्टं गुग्गुलं तस्य यथेष्टं पायसं सदा । । 1.47.७० यथेष्टा मोदकास्तस्य यथा वै ताम्रभाजनम् । यथेष्टं च घृतं तस्य यथेष्टो वाचकः सदा । । पुराणं च यथेष्टं वै सवितुः कुरुनन्दन । । ७१ इत्येषा सप्तमी पुण्या शाकाह्वा गोपतेः सदा । यामुपोष्य नरो भक्त्या भाग्यवांश्च१ प्रजायते । । ७२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे शाकसप्तमीव्रतवर्णनंनाम सप्तचत्वारिंशोऽध्यायः
आदित्यमाहात्म्यवर्णनम् शतानीक उवाच विस्तराद्वद विप्रेन्द्र सप्तमीकल्पमुत्तमम् । महाभाग्यं च देवस्य भास्करस्य महात्मनः । । १ सुमन्तुरुवाच अत्रैवाहुर्महात्मानः सम्वादं पुण्यमुत्तमम् । कृष्णेन सह सत्त्वेन स्वपुत्रेण महीपते । । २ भक्त्या प्रणम्य विधिवद्वासुदेवं जगद्गुरुम् । इहामुत्र हितं शांबः पप्रच्छ ज्ञानमुत्तमम् । । ३ जातो जन्तुः कथं दुःखैर्जन्मनीह न बाध्यते । प्राप्नोति विविधान्कामान्कथं च मधुसूदन । । ४ परत्र स्वर्गमाप्नोति सुखानि विविधानि च । अनुभूयोचितं कालं कथं मुक्तिमवाप्नुते । । ५ दृष्ट्वैवं मम निर्वेदो जातो व्याधिर्जनार्दन । दृष्ट्वेमं जीविताशापि रोचते न हि मे क्षणम् । । ६ किं त्वेवमकृतार्थोऽस्मि यन्मे प्राणा न यान्ति हि । संसारे न पतिष्यामि जराव्याधिसमन्विते । । ७ येनोपायेन तन्मेऽद्य प्रसादं कुरु सुव्रत । आधिव्याधिविनिर्मुक्तो यथाहं स्यां तथा वद । । ८ वासुदेव उवाच देवतायाः प्रसादोऽन्यः सर्वस्य परमो मतः । उपायः शाश्वतो नित्य इति मे निश्चिता मतिः । । ९ अनुमानागमाद्यैश्च सम्यगुत्पादिता मया । कदाचिदन्यथा कर्तुं धीयते केनचित्क्वचित् । । 1.48.१० प्रसादो जायते तस्य सम्यगाराधनक्रिया । यदा तां च समुद्दिश्य कृता तद्वेदिना तथा । । ११ विशिष्टा देवता सम्यग्विशिष्टेनैव देहिना । आराधिता विशिष्टं च ददाति फलमीहितम् । । १२ शाम्ब उवाच अस्तित्वे न च सन्देहः केषाञ्चिद्देवतां प्रति । नास्तीति निश्चयोऽन्येषां विशिष्टास्त्वं कथाः कुरुः । । १३ वासुदेव उवाच सिद्धं तु देवतास्तित्वमागमेषु बहुष्वथ । प्रमाणमागमो यस्य तस्यास्तित्वं च विद्यते । । १४ अनुमानेन वाप्यद्य तदस्तित्वं प्रसाध्यते । प्रमाणमस्ति यस्येदं सिद्धा यस्येह चास्तिता । । १५ प्रत्यक्षेणापि चास्तित्वं देवतायां प्रसाध्यते । तच्चावश्यं प्रमाणं च दृष्टं सर्वशरीरिणाम् । । १६ यदि नामा विविक्तास्तु तिर्यग्योनिगता अपि । नोत्पद्यते तथा ह्यस्ति व्यवहारो यथा स्थितः । । १७ शाम्ब उवाच प्रत्येक्षेणोपलभ्यन्ते सम्यग्वै यदि देवताः । अनुमानागमाभ्यां च तदर्थं .न प्रयोजनम् । । १८ वासुदेव उवाच प्रत्यक्षेणोपलभ्यन्ते न सर्वा देवताः क्वचित् । अनुमानागमैर्गम्याः सन्ति चान्याः सहस्रशः । ।१९ शाम्ब उवाच या चाक्षगोचरा काचिद्विशिष्टेष्टफलप्रदा । तामेवादौ ममाचक्ष्व कथयिष्यस्यथापराम् । । 1.48.२० वासुदेव उवाच प्रत्यक्षं देवता सूर्यो जगच्चक्षुर्दिवाकरः । तस्मादभ्यधिका काचिद्देवता नास्ति शाश्वती । । २१ यस्मादिदं जगज्जातं लयं यास्यति यत्र च । कृतादिलक्षणः कालः स्मृतः साक्षाद्दिवाकरः । । २२ ग्रहनक्षत्रयोगाश्च राशयः १ करणानि च । आदित्या वसवो रुद्रा अश्विनौ वायवोऽनलः । । २३ शक्रः प्रजापतिः सर्वे भूर्भुवःस्वस्तथैव च । लोकाः सर्वे नगा नागाः सरितः सागरास्तथा । । भूतग्रामस्य सर्वस्य स्वयं हेतुर्दिवाकरः । । २४ अस्येच्छया जगत्सर्वमुत्पन्नं सचराचरम् । स्थितं प्रवर्तते चैव स्वार्थे चानुप्रवर्तते । । २५ प्रसादादस्य लोकोऽयं चेष्टमानः प्रदृश्यते । अस्मिन्नभ्युदिते सर्वमुदेदस्तमिते सति । । अस्तं यातीत्यदृश्येन किमेतत्कथ्यते मया । ।२ ६ तस्मादतः परं नास्ति न भूतं न भविष्यति । यो वै वेदेषु सर्वेषु परमात्मेति गीयते । । २७ इतिहासपुराणेषु अन्तरात्मेति गीयते । बाह्यात्मैति सुषुम्णास्थः स्वप्नस्थो जाग्रतः स्थितः । । २८ अस्तं यातीत्यदृष्टेन किमेतत्कथ्यते मया । तस्मादतः परं नास्ति न भूतं न भविष्यति । । २९ यन्न वाह इति ख्यातः प्रेरकः सर्वदेहिनाम् । नानेन रहितं किञ्चिद्भूतमस्ति चराचरम् । । 1.48.३० यो वेदैर्वेदविद्भिश्च विस्तरेणेह शक्यते । वक्तुं वर्षशतैर्नासौ शक्यः संक्षेपतो मया । । ३१ १तस्माद्गुणाकरः ख्यातः सर्वत्रायं दिवाकरः । सर्वेशः सर्वकर्तायं सर्वभर्तायमव्ययः । । ३२ जाता मत्स्यादयः सम्यग्गतिमन्तो महेश्वरात् । मण्डलव्यतिरिक्तं च जानामि परमार्थतः । । ३३ तथास्य मण्डलं कृत्वा२ यो ह्येनमुपतिष्ठते । प्रातः सायं च मध्याह्ने स याति परमां गतिम् । । ३४ किं पुनर्मण्डलस्थं यो जपते परमार्थतः । विविधाः सिद्धयस्तस्य भवन्ति न तदद्भुतम् । । ३५ मण्डले च स्थितं देवं देहे चैनं व्यवस्थितम् । स्वबुद्ध्यैवमसम्मूढो य- पश्यति स पश्यति । । ३६ ध्यात्वैवं १ पूजयेद्यस्तु जपेद्यो जुहुयाच्च यः । स सर्वान्प्राप्नुयात्कामान्गच्छेद्धर्मध्वजं तथा । । ३७ तस्मात्त्वमिह दुःखानामन्तं कर्तुं यदीच्छसि । इहामुत्र च भोगानां भुक्तिं मुक्तिं च शाश्वतीम् । । ३८ आराधयार्कमर्कस्थो मन्त्रैरिह तदात्मनि । अङ्गैर्वृतं वृते चैव स्थाने शास्त्रेण शोधिते । । ३९ कवचेन च सङ्गुस्ते सर्वतोऽस्त्रेण रक्षिते । एवं प्राप्स्यसि यत्नेन सर्वदा फलमीप्सितम् । । 1.48.४० दुःखमाध्यात्मिकं नेह तथा चैवाधिभौतिकम् । आधिदैविकमत्युग्रं न भविष्यति ते सदा । । ४१ न भयं विद्यते तेषां प्रपन्ना ये दिवाकरम् । इहामुत्र सुखं तेषामच्छिद्रं जायते सुखम् । । ४२ सूर्येणेदं ममोद्दिष्टं साक्षाद्यज्ज्ञानमुत्तमम् । आराधितेन विधिवत्कालेन बहुना तथा । । ४३ प्राप्यते परमं स्थानं यत्र धर्मध्वजः स्थितः । एतत्संक्षिप्तमुद्दिष्टं क्षिप्रसिद्धिकरं परम् । । यथा नान्यदतोऽस्तीति स्वयं तूर्येण भाषितम् । । ४४ उपायोऽयं समाख्यातस्तव संक्षेपतस्त्विह । यस्मात्परतरो नास्ति हितोपायः शरीरिणाम् । । ४५ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः
सूर्यमाहात्म्यवर्णनम् वासुदेव उवाच अथार्चनविधिं वक्ष्ये धर्मकेतोरनुत्तमम् । सर्वकामप्रदं पुण्यं विघ्नघ्नं दुरितापहम् । । १ सूर्यमन्त्रैः पुरः स्नातो यजेत्तेनैव भास्करम् । यतस्ततः प्रवक्ष्यामि स्नानमादौ समासतः । । २ आचान्तस्तमुपालभ्य मुद्रया शुचिशुद्धया । कृत्वा नीराजनं पुत्र संशोध्य च जलं ततः । । ३ स्नानाद्धृदयपूतेन १ मन्त्रेण मत्कुलोद्वह । उत्थायाचम्य तेनैव वाससी परिधाय च । । ४ द्विराचम्याथ सम्प्रोक्ष्य तनुं सप्ताक्षरेण च । उत्थायाचम्य तेनैवं रवेः कृत्वार्घ्यमेव च । । ५ दत्त्वा तेन जपित्वा तं स्वकं ध्यात्वार्कवद्धृदि । गत्वा चायतनं शुभ्रमार्कमार्की तनुं यजेत् । । ६ पूरकं कुम्भकं कृत्वा रेचकं च समाहितः । कृत्वोङ्कारेण दोषांस्तु हन्यात्कायादिसम्भवान् । । ७ वायव्याग्नेयमाहेन्द्रवारुणीभिर्यथाक्रमम् । किल्विषं वारुणाद्भिश्च हन्यात्सिद्ध्यर्थमात्मनः । । ८ शोषणं दहनं स्तम्भं प्लावनं च यथाक्रमात् । वाय्वग्नीन्द्रजनाख्याभिर्धारणाभिः कृते सति । । ९ ध्यात्वा विशुद्धमात्मानं प्रणमेदर्कमास्थितम् । देहं तेनैव सञ्चिन्त्य पञ्चभूतमयं परम् । । 1.49.१० सूक्ष्मं स्थूलं तथाक्षाणि स्वस्थानेषु प्रकम्य च । विन्यस्याङ्गानि खादीनि हृदाद्यानि हृद्यादिषु । । ११ खस्वाहा हदयं भानोः खमर्काय शिरस्तथा । उल्का स्वाहा शिखार्कस्य यै च हुं कवचं परम् । । खां फडस्त्रं च संहाराश्चादितः प्रणवः कृतः । । १२ स पूर्वे प्रणवस्याथो मन्त्रकर्मप्रसिद्धये । एभिर्जलं त्रिधा जप्त्वा स्नानद्रव्याणि तेन च । । १३ सम्प्रोक्ष्य पूजयेत्सूर्यं गन्धपुष्पादिभिः शुभैः । ततो मूर्तिषु सर्वासु रात्रावग्नौ प्रपूजयेत् । । १४ प्राक्पश्चिमोदगभ्यग्रां प्रातः सायं निशासु वै । सप्ताक्षरेण तन्मन्त्रं ध्यात्वा च पद्मकर्णिकाम् । । १५ आदित्यमण्डलान्तस्थं तत्र देहं प्रकल्पयेत् । प्रभामण्डलमध्यस्थं ध्यात्वा देहं यथा पुरा । । सर्वलक्षणसम्पूर्णं सहस्रकिरणोज्ज्वलम् । । १६ रक्तैर्गन्धैश्च पुष्पैश्च चरुभिर्बलिभिस्तथा । रक्तचन्दनमिश्रैर्वा वस्त्रैरावरणैः शुभैः । । १७ आवाहनादिकर्माणि रक्षां तु हृदयेन च । तच्चित्तश्च सदा कुर्याज्ज्ञात्वा कर्मक्रमं बुधः । । १८ कृत्वा चावाहनं मन्त्रैरेकत्र स्थापनं ततः । यावद्यागावसानं तु सान्निध्यं तत्र कल्प्य च । । १९ दत्त्वा पाद्यादिकां पूजां शक्त्या वार्घ्यं निवेद्य च । जपित्वा विधिवद्ध्यात्वा ततो देवीं विसर्जयेत् । । 1.49.२० एष कर्म क्रमः प्रोक्तः सर्वेषां यजनक्रमात् । प्रवक्ष्यामि जपस्थानं पद्मेशावरणे तथा । । २१ आदित्यं कर्णिकासंस्थं दलेष्वङ्गानि पूर्वशः । सोमादीन्राहुपर्यंतान्ग्रहांश्चैवोदगादितः । । २२ मूर्तिमल्लोकपालांश्च क्रमादावरणेष्वथ । तदस्त्राणि च रक्षार्थं स्वमन्त्रैः पूजयेत्क्रमात् । । २३ प्रणवैश्चाभिधानैश्च चतुर्थ्यां ह्यभियोजितैः । सर्वेषां कथिता मन्त्रा मुद्राश्च कथयाम्यतः । । २४ व्योममुद्रा रतिः पद्मा महाश्वेतास्त्रमेव च । पञ्चमुद्राः समाख्याताः सर्वकर्मप्रसिद्धये । । २५ उत्तानौ तु करौ कृत्या अङ्गुल्यो ग्रथिताः क्रमात् । तर्जनीं यन्ति यावत्ताः समे वाधोमुखे स्थिते । । २६ तर्जन्यो १ मध्यमस्यैव ज्येष्ठाग्रे वानुगोपरि । मुद्रेयं सर्वमुद्राणां व्योम मुद्रेति कीर्तिता । । सर्वकर्मसु योगोऽयं तथा स्थानं प्रकल्पते । । २७ पद्मवत्प्रसृताः सर्वा महाश्वेता रवेः स्मृता । जवसंनिहितो नित्यं रथारूढो रविः स्मृतः । । २८ हस्तावूर्ध्वमुखौ कृत्वा वामाङ्गुष्ठेन योजितौ । द्रव्याणां शोधने योज्या रक्षार्थं च विशेषतः । । २९ अनया मुद्रया सर्वं रक्षितं शोधितं भवेत् । अर्घ्यं दत्वा प्रयोक्तव्या पूजान्ते च विशेषतः । । 1.49.३० जपध्यानावसाने च यदीच्छेत्सिद्धिमात्मनः । अनेन विधिना नित्यं जपेदब्दमतन्द्रितः । । ३१ स लभेतेप्सितान्कामानिहामुत्र न संशयः । रोगार्तो मुच्यते रोगाद्धनहीनो धनं लभेत् । । ३२ राज्यभ्रष्टो लभेद्राज्यमपुत्रः पुत्रमाप्नुयात् । प्रज्ञामेधासमृद्धीश्च चिरं जीवति मानवः । । सुरूपां लभते कन्यां कुलीना पुरुषो ध्रुवम् । । ३३ सौभाग्यं स्त्री कुलीनापि कन्या च पुरुषोत्तमम् । अविद्यो लभते विद्यामित्युक्तं भानुना पुरा । । ३४ नित्ययागः स्मृतो ह्येष धनधान्यसुखावहः । प्रजापशुविवृद्धिश्च निष्कामस्यापि जायते । । ३५ तदैकः स्तूयते स्वर्गे शब्द्यते च नरोत्तमः । भक्त्या तं पूजयेद्यस्तु नरः पुण्यतरः सदा । । ३६ इह वै कामिकं प्राप्य ततो गच्छेन्मनोः पदम् । द्विजस्तस्य प्रसादेन तेजसा बुधसन्निभः । । ३७ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः
सप्तमीमाहात्म्यवर्णनम् वासुदेव उवाच नैमित्तिकं ततो वक्ष्ये यज्ज्ञात्वा च समासतः । सप्तम्यां ग्रहणे चैव संक्रान्तिषु विशेषतः । । १ शुक्लपक्षस्य सप्तम्यां हविर्भुक्त्वैकदा दिवा । सम्यगाचम्य सन्ध्यायां वारुणं प्रणिपत्य च । । २ इन्द्रियाणि च संयम्य कृतं ध्यात्वा स्वपेदधः । दर्भशय्यागतो रात्रौ प्रातः स्नातः सुसंयतः । । ३ ततः सन्ध्यामुपास्याथ पूर्वोक्तं च मनुं जपेत् । जुहुयाच्च तदा वह्निं सूर्याग्नी परिकल्प्य च । ।४ सूर्याग्निकरणं वक्ष्ये तर्पणं च समासतः । अर्चनागारमुल्लिख्य प्रविश्यार्च्य जनैर्जनम् । । ५ प्रक्षिप्यास्तीर्य दर्भश्च पात्राद्यालभ्य च क्रमात् । पवित्रं द्विकुशं कृत्वा साग्रं प्रादेशसम्मितम् । । ६ तेन पात्राणि सम्प्रोक्ष्य संशोध्याध विलोक्य च । उदगग्रे स्थिते पात्रे प्रज्वाल्याथोल्मुकेन च । । ७ पर्यग्निकरणं कृत्वा तथाज्योत्यवनं त्रिधा । परिमृज्य स्रुवादींश्र दर्भैः सम्प्रोक्षयेत्ततः । । ८ जुहुयात्प्रोक्ष्य तान्वह्नौ तत्रार्कं पूर्ववद् व्रजेत् । अभूमौ स्थितपात्रेण विष्टरेण तु पाणिना । । दानेन यदुशार्दूल नान्तरिक्षे स्थले क्वचित् । । ९ दक्षिणेन स्रुवं गृह्य जुहुयात्पावकं बुधः । हदयेन क्रियाः सर्वाः कर्तव्याः पूर्वचोदिताः । । 1.50.१० अर्कादारभ्य संज्ञार्थं दद्यात्तूष्णीं हुतिं स्थितः । वरुणाय शतैर्माघे सप्तम्यां वरुणं यजेत् । । ११ यथाशक्त्या तु विप्रेभ्यः प्रदद्यात्खण्डवेष्टकान् । दद्याच्च दक्षिणां शक्त्या प्राप्नोति याचितं फलम् । । १२ एवं वै फाल्गुने सूर्यं चैत्रे वैशाख एव च । वैशाखे मासि धातारमिन्द्रं ज्येष्ठे यजेद्रविम् । । १३ आषाढे श्रावणे मासि नभं भाद्रपदे यमम् । तथाश्वयुजि पर्जन्यं त्वष्टारं कार्तिके यजेत् । । १४ मार्गशीर्षे च मित्रं च पौषे विष्णुं यजेद्यदि । संवत्सरेण यत्प्रोक्तं फलमिष्टं दिनेदिने । । तत्सर्वमाप्नुयात्क्षिप्रं भक्त्या श्रद्धान्वितो व्रती । । १५ एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम् । सप्तभिर्वाजिभिर्युक्तं नानारत्नोपशोभितम् । । १६ आदित्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम् । रत्नैरलङ्कृतां कृत्वा हेमपद्मोपरिस्थिताम् । । १७ तस्मिन् रथवरे कृत्वा सारथिं चाग्रतः स्थितम् । वृतं द्वादशभिर्विप्रैः क्रमान्मासाधिपात्मभिः । । १८ मध्ये कृत्वा स्वमाचार्यं पूजयित्वा यथाश्रुतिः । सञ्चिन्त्यादित्यवर्णं वै वस्त्ररत्नादिनार्हयेत् । । १९ एवं मासाधिपान्विप्रान्सम्पूज्याथ निवेदयेत् । आचार्याय रथं छत्रं ग्रामं गाश्च महीं शुभाम् । । 1.50.२० अश्वान्मासाधिपेभ्यस्तु द्वादशभ्यो निवेदयेत् । एवं भक्त्या यथाशक्त्या हेमरत्नादिभूषणम् । । २१ दत्त्वा तस्य नमस्कृत्य व्रतं पूर्णं निवेदयेत् । अत ऊर्ध्वं न दोषोऽत्र व्रतस्याकरणेष्वपि ।। २२ एवमस्त्विति विप्रेन्द्रैः सहाचार्यः पुनः पुनः । बह्वीश्चैवाशिषो दत्त्वा प्रवदेत्प्रीयतामिति । । २३ आदित्यो येन कामेन त्वया आराधितो व्रतैः । तुभ्यं ददातु तं कामं सम्पूर्णं भवतु व्रतम् । । २४ आचार्यान्विप्ररूपैस्तु प्रविष्टो भास्करः स्वयम् । दास्यत्येव परं कर्तुमित्युक्तं भानुना स्वयम् । । २५ विप्रेभ्यो गुणवद्भ्यश्च निस्वेभ्यश्च विशेषतः । दीनान्धकृपणेभ्यश्च शक्त्या दत्त्वा च दक्षिणाम् । । ब्राह्मणान्भोजयित्वा च व्रतमेतत्समापयेत् । । २६ कृत्वैवं सप्तमीमब्दं राजा भवति धार्मिकः । पुरुषः स्त्री भवेद्राज्ञां तादृशामथ वल्लभा । । २७ शतयोजनविस्तीर्णं निःसपत्नमकण्टकम् । निष्पन्नमण्डलं भुङ्क्ते साग्रं वर्षशतं सुखी । । २८ वित्तहीनोऽपि यो १ भक्त्या कृत्त्वा ताम्रमयं रथम् । दद्याद्व्रतावसाने तु कृत्वा सर्वं यथोदितम् । । सोऽशीतियोजनं भुङ्क्ते विस्तीर्णं मण्डलं नृपः । । २९ एवं पिष्टमयं योऽपि वित्तहीनः करोति ना । आषष्टियोजनं भुङ्क्ते दीर्घायुर्नीरुजः सुखी । । सूर्यलोके च कल्पान्तं यावत्स्थित्वेदमाप्नुयात् । । 1.50.३० मनसापि च यो भक्त्या यजेदर्कमतन्द्रितः । सर्वावस्थासु सोऽप्यत्र व्याधिभिर्मुच्यते भृशम् । । ३१ आपदो न स्पृशन्त्येनं नीहारा इव भास्करम् । किं पुनर्व्रतसम्पन्नं भक्तं १ मन्त्रैश्च रक्षितम् । । ३२ यत एवं ततो ज्ञात्वा विधानं कल्पचोदितम् । सुखेन फलसिद्ध्यर्थं कुर्यात्सर्वमशेषतः । । ३३ इत्येतत्कथितं साम्ब पुरा सूर्येण मे शुभम् । कल्पोऽयं प्रथमे कल्पे सर्वदा गोपितो मया । । ३४ अनेन विधिना वत्स विशुद्धेनान्तरात्मना । भानुमाराधयेत्क्षिप्रं यदीच्छेत्फलमुत्तमम् । । ३५ मयास्यैव प्रसादेन प्राप्ताः पुत्राः सहस्रशः । असुरा निर्जिताश्चैव सुराः सर्वे वशीकृताः । । ३६ त्वयाप्ययं गोपितव्यः कल्पः सूर्यस्य सम्मतः । प्रसादादस्य कल्पस्य सदा सन्निहितो रविः । । चक्रेऽस्मिन्निर्जिता येन सुरा सुरनरोरगाः । । ३७ यदिनाधिष्ठितं चक्रमिदं सूर्यांशुभिः स्वयम् । सततं स्यात्प्रभायुक्तं कथमध्याहतं भवेत् । । ३८ अहमेतं जपन्नित्यं यजन्ध्यायंश्च शक्तितः । जातोऽस्मि सर्वकामानां पूज्यः श्रेष्ठश्च तेजसा । ३९ त्वमभ्यस्यैव मनसा वाचा वा कर्मणापि वा । कुरु भक्तिमनेनैव विधिना फलसिद्धये । । 1.50.४० शृणुयाद्भक्तियुक्तो यो नरः श्रद्धासमन्वितः । विधानमादितः पुत्र सप्तमीं कुरुते च यः । । ४१ सेह १ प्राप्याऽखिलं काममारोग्यं च जयं तथा । भार्गव्या परया युक्तो गच्छेद्वैरोचनं सदः । । ४२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सप्तमीमाहात्म्यवर्णनं नाम पञ्चाशत्तमोऽध्यायः
सूर्यवर्णनम् ब्रह्मोवाच तत्रारुणो मया पूर्वं सारथ्ये सन्नियोजितः । इन्द्रेण माठरो नाम वायुना कल्मषेण तु । । १ वैनतेयेन तार्क्ष्योपरि विमलो नखतुण्डप्रहरणः पुरोगामी नियुक्त इति । । कालेन दण्डो महादण्डायुधो भवता शेषा महागणाधिपः । । २ वैशाखेन राज्ञा वसुभिदायुधाङ्गारिकौ द्वौ अग्निना पिङ्गलः । संयन्ता महादण्डायुधो भवता शेषो महागणाधिपः । । ३ हस्तो यमेन पाशहस्तोम्बुपतिना समिन्धनः । अलकाधिपतिना विष्णुः । । ४ अश्विभ्यां कालोपकालौ वाक्षप्रधानकौ । नरनारायणाभ्यां क्षारौ धारौ धिषणकृष्णौ।। ५ वैराजशङ्खपालपर्जन्यरजसां दिशासु विदिशासु दिशां पालनं विश्वेदेवा ददुः । । ६ सप्तैता लोकमातरः सर्वमरुतोऽददन् । ओंकारो वषट्कारो वेदनिस्वनः पिनाकी विनायकः शेषोऽनन्तो वासुकिश्च नागसहस्रेणात्मतुल्येनादित्यस्य रथमनुयान्ति
Brahmā said: There, Aruṇa was previously appointed by me as charioteer; by Indra, Māṭhara by name, and by Vāyu, Kalmaṣa. By Garuḍa, Tārkṣya was placed in front, pure, armed with claws and beak, as the leader. By Time, Daṇḍa was made the wielder of the great staff; Śeṣa, the chief of the great hosts. In Vaiśākha, by the king, Vasubhida and Ayudhāṅgārika, two, by Agni, Piṅgala; the controller is the wielder of the great staff, and Śeṣa, the chief of the great hosts. The hand by Yama, holding the noose, by Ambupati, as fuel; by the lord of Alaka, Viṣṇu. By the two Aśvins, Kālopakāla and Vākṣapradhāna; by Nara and Nārāyaṇa, Kṣāra and Dhāra, Dhiṣaṇa and Kṛṣṇa. The guardianship of directions and sub-directions was given by the Viśvedevas, with Vairāja, Śaṅkhapāla, Parjanya, and Rajas. These seven are mothers of the worlds; all the Maruts were given. Oṃkāra, Vaṣaṭkāra, the sound of the Veda, Pinākī, Vināyaka, Śeṣa, Ananta, and Vāsuki, along with a thousand Nāgas equal to himself, follow the chariot of the Sun.
७ गायत्री सावित्री रथे स्थिते उभे सन्ध्ये सदा सा देवता या रविमण्डलं नापैति
Gāyatrī and Sāvitrī, both stationed in the chariot, are always present at both twilights; that goddess never departs from the Sun's orb.
भगवन्तं सहस्रकिरणमवलम्बितुम् । । ८ एतद्वै सर्वदैवत्यं मण्डलं ब्रह्मवादिनं ब्रह्मयज्ञवादिनीं यज्ञः । भगवद्भक्तानां परमादित्योयं विष्णुर्माहेश्वराणाम् । । ९ स्थानाभिमानिनो ह्येते सदा वै वृषभध्वज । सूर्यमाप्याययन्त्येते तेजसां तेज उत्तमम् । । 1.53.१० ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ते ऋषयो रविम् । गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते । । ११ वियद्भ्रमणतो रक्षां कुर्वंति स्म इषुग्रहम् । सर्पा वहन्ति वै सूर्यं यातुधानास्तु यान्ति च । । १२ वालखिल्या १नमन्त्येतं परिचार्योदयाद्रविम् । दिवस्पतिः स्वभूश्चोभौ अग्रगौ योजनस्य तु । । १३ भर्गोऽथ दक्षिणे पार्श्वे कञ्जजो वामतः स्थितः । सर्वे ते पृष्ठगा ज्ञेया ग्रहा लोकेषु पूजिताः. । । १४ उपरागशिखी चोभावग्रतो नात्र संशयः । मनुष्यधर्मा दक्षिणत उत्तरेण प्रचेतसः । । १५ सम्भवन्ति तथा कृष्ण उभावेतौ सदाग्रगौ । वामेन वीतिहोत्रस्तु पृष्ठतस्तु हरिः सदा । । १६ रथपीठे क्षमा ज्ञेया अन्तराले नभस्तथा । आश्रित्य रथजां कान्तिं खं दिवः समयः स्थितः । । १७ ध्वजो दण्डश्च विज्ञेयो ध्वजाग्रे वृष एव च । ऋद्धिर्वृद्धिस्तथा श्रीश्च पताका पार्वतीप्रिय । । १८ ध्वजदण्डाग्रे गरुडस्तदग्रे वरुणालयः । मैनाकश्छत्रदण्डस्तु हिमवांश्छत्रमुच्यते । । १९ केचिदेवं वदन्तीह लोके चान्ये महामते । छत्रदण्डस्तथा क्लेशः क्लेशं छत्रं विदुर्बुधाः । । 1.53.२० एतेषामेव देवानां यथा वीर्यं तथा तपः । यथायोगं तथा सत्त्वं यथा सत्त्वं तथा बलम् । । २१ तथा तपत्यसौ सूर्यस्तेषां सिद्धः स्वतेजसा । एते तपन्ति वर्षन्ति यान्ति विश्वं सृजन्ति च । । २२ भूतानामशुभं कर्म व्यपोहन्ति च कीर्तिताः । एते सहैव सूर्येण भ्रमन्ते सानुगा दिवि । । २३ तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै द्विजाः । गोपायन्ति स्म भूतानि इह ते ह्यनुकम्पया । । २४ प्रीणाति देवानमृतेन सूर्यः सोमेन सूक्तेन विवर्धयित्वा । शुक्लेन पूर्णा दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति । । २५ पीतं हि सोमं द्विकलावशेषं कृष्णे तु पक्षे रुचिभिर्ज्वलन्तम् । सुधामृतं तत्पितरः पिबन्ति ऊर्जाश्च सौम्याश्च तथैव कल्पाः । । २६ सूर्येण गोभिश्च समृद्धिताभिरद्भिः पुनश्चैव समुज्जिताभिः । तथौषधीभिः सततं पिबन्ति अत्यन्तपानेन क्षुधा जयन्ति । । २७ मासार्धतृप्तिस्तु मताभिरद्भिर्मासेन तृप्तिः स्वधया पितॄणाम् । अन्नेन शश्वद्विदधाति मर्त्यं त्वयं जगच्चैव बिभर्ति गोभिः । । २८ अहोरात्रं रथेनासावेकचक्रेण वै भ्रमन् । सप्तद्वीपसमुद्रान्तां सप्तभिश्च हयैः सह । । २९ छन्दोभिर्वाजिरूपैस्तैर्यतश्चक्रं ततः स्थितैः । कामरूपैः सकृद्युक्तैरन्तरस्थैर्मनोजवैः । । 1.53.३० हरिभिरव्ययैर्वश्यै क्षुधाश्रमविवर्जितैः । द्व्यशीतिमण्डलशतमीहन्त्यब्देन वै हयाः । । ३१ बाह्यतोऽभ्यन्तरं चैव मण्डलं दिवसक्रमात् । कल्पादौ सम्प्रयुक्तास्ते वहन्त्याभूतसम्प्लवम् । । ३२ आवृता बालखिल्यैस्तैर्भ्रमन्ति तान्यहानि तु । ग्रथितैः स्वैर्वचोभिस्तु स्तूयमानो महर्षिभिः । । ३३ सेव्यते नृत्यगीतैश्च गन्धर्वैरप्सरोगणैः । पतङ्गः पतगैरश्वैर्वसते भ्रमयन्दिवि । । ३४ वीथ्याग्र्यया विचरते नक्षत्राणि यथा शशी । मध्यगाश्चामरावत्यां यदा भवति भास्करः । । ३५ वैवस्वते संयमने उत्तिष्ठन्दृश्यते तदा । सुखायामर्धरात्रं तु विभायामस्तमेति च । । ३६ वैवस्वते संयमने मध्यमस्तु रविर्यदा । सुखायामथ वारुण्यामुत्तिष्ठन्दृश्यते तदा । । ३७ रात्र्यर्धं चामरावत्यामस्तमेति यमस्य वै । सोमपुर्यां विभायां तु मध्यगश्चार्यमा यदा । । ३८ माहेन्द्रस्यामरावत्यामुत्तिष्ठति दिवाकरः । अर्धरात्रं संयमने वारुण्यामस्तमेति च । । ३९ एवं चतुर्षु पार्श्वेषु मेरोः कुर्वन्प्रदक्षिणम् । उदयास्तमने चासावुत्तिष्ठति पुनः पुनः । । 1.53.४० पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ पुनः । तपत्येकं तु मध्याह्ने ताभिरेव गभस्तिभिः । । ४१ उदितो वर्धमानाभिरामध्याह्नात्तपेद्रविः । ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति । । ४२ यत्रोद्यन्दृश्यते सूर्यः स तेषामुदयः स्मृतः । प्रणाशं गच्छते यत्र स तेषामस्तमुच्यते । । ४३ एवं पुष्करमध्येन तदा सर्पति भास्करः । त्रिंशद्भागं तु मेदिन्या मुहूर्तेन स गच्छति । । ४४ योजनाग्रेण सङ्ख्यां १ तु मुहूर्तस्य निबोध मे । पूर्णं शतसहस्राशं सहस्रं तु त्रिलोचन । । ४५ पञ्चाशच्च तथाल्पानि सहस्राण्यधिकानि तु । मौहूर्तिको गतिर्ह्येषा सूर्यस्य तु विधीयते । । ४६ योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । निमेषान्तरमात्रेण दिवि सूर्यः प्रसर्पति । । ४७ स शीघ्रमेव पर्येति भास्करोऽलातचक्रवत् । भ्रमन्वै भ्रममाणेषु ऋक्षेषु विचरत्यसौ । । ४८ इन्द्रः पूजयते सूर्यमुत्तिष्ठन्तं दिने दिने । मध्याह्ने च यमः पश्चादस्तं यान्तमपां पतिः । । ४९ सोमस्तथार्धरात्रे तु सदा पूजयते रविम् । विष्णुर्भवानहं रुद्रः पूजयाम निशाक्षये । । 1.53.५० एवमग्निर्निर्ऋतिश्च वायुरीशान एव च । पूजयन्ति क्रमेणैव भ्रममाणं दिवाकरम् । । श्रेयोऽर्थं देवशार्दूल सर्वे ब्रह्मादयः सुराः । । ५१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे सूर्यगतिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः
सूर्यमहिमवर्णनम् रुद्र उवाच अहो हंसस्य माहात्म्यं वर्णितं भवतेदृशम् । कथ्यतां पुनरेवेदं माहात्म्यं भास्करस्य तु । । १ ब्रह्मोवाच आदित्यमन्त्रमखिलं त्रैलोक्यं सचराचरम् । भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् । । २ रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् । महाद्युतिमतां कृत्स्नं तेजो यत्सार्वलौकिकम् । । ३ सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । सूर्य एष त्रिलोकस्य मूलं परमदैवतम् । । ४ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । । ५ सूर्यात्प्रसूयते १सर्वं तत्र चैव प्रलीयते । भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा । । ६ एतत्तु ध्यानिनां ध्यानं मोक्षं चाप्येष मोक्षिणाम् । अत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात्पुनः प्रजाः । । ७ क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च नित्यशः । मासाः संवत्सराश्चैव ऋतवोऽथ युगानि च । । ८ सदादित्यादृते ह्येषा कालसङ्ख्या न विद्यते । कालादृते न नियमो २ नाग्निर्न हवनक्रिया । । ९ ३ऋतूनामविभागाच्च, पुष्पमूलफलं कुतः । कुतः सस्यविनिष्पत्तिस्तृणौषधिगणाः ४ कुतः । । 1.54.१० अभावो व्यवहाराणां जन्तूनां दिवि चेह च । जगत्प्रतपनमृते भास्करं वारितस्करम् । । ११ नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविश्यते । नावृष्ट्या विकृतिं धत्ते वारिणा दीप्यते रविः । । १२ वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः । श्वेतो वर्णेन वर्षासु पाण्डुः शरदि भास्करः । । १३ हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः । इति वर्णाः समाख्याताः शृणु वर्णफलं हर । । १४ कृष्णोभयाय जगतस्ताम्रः सेनापतिं विनाशयति । पीतो नरेन्द्रपुत्रं५ श्वेतस्तु पुरोहितं हन्ति । । १५ चित्रोऽथ वापि धूम्रो रवी रश्मिव्याकुलं करोत्युच्चैः । तस्करशस्त्रनिपातैर्यदि न सलिलमाशु पातयति । । १६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे सूर्यमहिमवर्णनं नाम चतुष्पञ्चाशत्तमोऽध्यायः
Description of the greatness of the Sun. Rudra said: The greatness of the swan has been described by you in this way; now tell again the greatness of Bhaskara (the Sun). Brahma said: The entire Aditya-mantra, and all the three worlds, with moving and unmoving beings, arise from him; all this world, with gods, asuras, and humans, comes from him.
सूर्यरथयात्रावर्णनम् रुद्र उवाच रथयात्रा कथं कार्या भास्करस्येह मानवैः । फलं च किं भवेत्तेषां यात्रां कुर्वन्ति ये रवेः
Description of the Sun's chariot procession. Rudra said: How should the chariot procession of Bhaskara be performed by humans? And what is the result for those who conduct the procession of Ravi?
१ विधिना केन कर्तव्या कस्मिन्काले सुरोत्तम । कथं च भ्रामयेद्देवं रथारूढं२ दिवाकरम् । । २ देवस्य ये रथं भक्त्या भ्रामयन्ति वहन्ति च । तेषां च किं फलं प्रोक्तं ये च नृत्यकरा नराः । । ३ भ्रमन्ति ये न च देवेन नृत्यगीतपरायणाः । प्रजागरं च कुर्वन्ति भक्त्या श्रद्धासमन्विताः । । ४ तेषां च किं फलं प्रोक्तं. रथं यच्छन्ति ३ ये रवेः । बलिं भक्तं च ये भक्त्या दिशन्त्याहि(?)कभोजनम् । । ५ एतन्मे ब्रूहि निखिलं सुरज्येष्ठ सविस्तरम् । लोकानां श्रेयसे देव परं कौतूहलं हि मे । । ६ ब्रह्मोवाच साधु पृष्टोऽस्मि भूतेश गणेशोऽसि त्रिलोचन । शृणुष्वैकमना वच्मि यथाप्रश्नं सविस्तरम् । । ७ देवस्य रथयात्रेयं भास्करस्य महात्मनः । इन्द्रोत्सवस्तथा रुद्र मया ह्येतौ प्रकीर्तितौ । । ८ मर्त्यलोके शान्तिहेतोर्लोकानां लोकपूजित । प्रवर्तितावुभौ यस्मिन्देशे देवमहोत्सवौ । । ९ न तत्रोपद्रवाः सन्ति राजतस्करसम्भवाः । तस्मात्कार्याविमौ भक्त्या दुर्भिक्षस्येह शान्तये । । 1.55.१० शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदे हर । घृतेनाभ्यङ्गयेद्देवं पञ्चपूताङ्गजेन वै । । ११ अभ्यङ्गयेद्महेशं यः सर्षपैः श्रद्धयान्वितः । दिने दिने जगन्नाथं प्रविष्टं वर्णके रविम् । । १२ स गच्छेद्यानमारूढो गैरिकं किङ्किणीकृतम् । वैश्वानरपुरं दिव्यं गन्धर्वाप्सरशोभितम् । । १३ शाल्योदनं खण्डमिश्रं वज्रं वज्रसमन्वितम् । वर्णभक्तं प्रयच्छेद्यो भास्कराय दिने दिने । । १४ आरूढः स विमानं तु ज्वालामालाकुलं शुभम् । गच्छेन्मम पुरं देव स्तूयमानो महर्षिभिः । । १५ तस्मात्सर्वप्रयत्नेन भास्कराय नरः शिव । वर्णभक्तं प्रदातव्यं प्रविष्टस्येह वर्णकम् । । १६ घृतपूर्णं खण्डवेष्टं कासारं मोदकं पयः । दध्योदनं पायसं च संयावं गुडपूपकान् । । १७ ये प्रयच्छन्ति देवस्य भास्करस्येह वर्णकम् । ते गच्छन्ति न सन्देहो नरा वै मन्दिरं मम । । १८ अहन्यहनि यो भक्त्या भास्कराय प्रयच्छति । अभ्यङ्गाय घृतं देयं स याति परमां गतिम् । । १९ तथा यो वर्णभक्तं च अहन्यहनि भक्तितः । स प्राप्येह शुभान्कामान्गच्छेत्स भवसालयम् । । 1.55.२० चूर्णमुद्वर्तनायेह यः प्रयच्छेच्छुभं रवेः । स याति परमं स्थानं यत्र देवो दिवाकरः । । २१ ततस्तं स्नापयेद्देवं पौषे मासि विधानतः । सप्तम्यां शुक्लपक्षस्य शृणुष्वैकमनास्तथा । । २२ तीर्थोदकमुपानीय अन्यद्वाथ जलं शुभम् । वेदोक्तेन विधानेन प्रतिमां स्थापयेद्बुधः । । २३ यजेद्धि तीर्थनामानि मनसा संस्मरन्बुधः । प्रयागं पुष्करं देवं कुरुक्षेत्रं च नैमिषम् । । २४ पृथूदकं चन्द्रभागां शौरं गोकर्णमेव च । ब्रह्मावर्तं कुशावर्तं बिल्वकं नीलपर्वतम् । । २५ गङ्गाद्वारं तथा पुण्यं गङ्गासागरमेव च। कालप्रियं मित्रवनं शुण्डीरस्वामिनं तथा । । २६ चक्रतीर्थं तथा पुण्यं रामतीर्थं तथा शिवम् । वितस्ता हर्षपंथा वै तथा वै देविका स्मृता । । २७ गङ्गा सरस्वती सिन्धुश्चन्द्रभागा सनर्मदा । विपाशा यमुना तापी शिवा वेत्रवती तथा । । २८ गोदावरी पयोष्णी च कृष्णा वेण्या तथा नदी । शतरुद्रा पुष्करिणी कौशिकी सरयूस्तथा । । २९ तथान्ये सागराश्चैव सान्निध्यं कल्पयन्तु वै । तथाश्रमाः पुण्यतमा दिव्यान्यायतनानि च । । 1.55.३० एवं स्नानविधिं कृत्वा अर्चयित्वा प्रणम्य च । धूपमर्घ्यं प्रदत्त्वा तु प्रतिमामधिवासयेत् । । ३१ त्रिरात्रं सप्तरात्रं वा मासं मासार्धमेव च । स्थितं स्नानगृहे देवं पूजयेद्भक्तितो नरः । । ३२ चत्वरे लेपयेद्वेदिं चतुरस्रां शुभे कृताम् । चतुर्दिशं श्वेतकुम्भैर्वितानवरशोभिताम् । । ३३ कृष्णपक्षे तु माघस्य सप्तम्यां त्रिपुरांतक । कृत्वाग्निकार्यं विधिवत्कृत्वा ब्राह्मणभोजनम् । । ३४ शङ्खभेरीनिनादैस्तु ब्रह्मघोषैश्च पुष्कलैः । पुण्याहघोषविविधैर्ब्राह्मणान्स्वस्ति वाच्य च । । ३५ ततोऽस्य परया भक्त्या सूर्यस्य परमात्मनः । रथेन दर्शनीयेन किङ्किणीजालमालिना । । सूर्यश्च भ्रामयेद्देवं महोत्सवपुरःसरम् । । ३६ शुक्लपक्षे तु माघस्य रथमारोपयेद्रविम् । कृत्वाग्निहोमं विधिवत्तथा ब्राह्मणभोजनम् । । ३७ प्रीणयित्वा जनं सर्वं दक्षिणाभोजनादिना । प्रपूज्य ब्राह्मणान्दिव्यान्भौमांश्चापि सुवाचकान् । । ३८ इतिहासपुराणाभ्यां वाचको ब्राह्मणोत्तमः । ततो देवश्च इष्टश्च सम्पूज्यो यत्नतस्तदा । । ३९ माघस्य शुक्लपक्षस्य पञ्चम्यामेकभक्तकम् । अयाचितं चतुर्थ्यां तु षष्ठ्यां नक्तं प्रकीर्तितम् । । 1.55.४० सप्तम्यामुपवासं तु आश्रमाद्रोपयेद्रथम् । अग्निकार्यं तु वै कृत्वा रथस्य पुरतः शिव । । ४१ षष्ठ्यां च रात्रौ भूतेश रथस्येहाधिवासनम् । ब्राह्मणान्भोजयित्वा तु दिव्यान्भौमांश्च वाचकान् । । ४२ रथमारोपयेद्देवं सप्तम्यां भूतभावनम् । सितायां माघमासे तु तस्य देवालयाग्रतः । । ४३ तत्रस्थस्यैव देवस्य कुर्याद्रात्रौ प्रजागरम् । नानाविधैः प्रेक्षणकैर्दीपवृक्षोपशोभितैः । ।४४ शंखतूर्यनिनादैश्च ब्रह्मघोषैश्च पुष्कलैः । कुर्यात्प्रजागरं भक्त्या देवस्य पुरतो निशि । ।४५ ततोऽष्टम्यां च यत्नेन देवं रथगतं नयेत् । नगरस्योत्तरं द्वारं शङ्खभेरी निनादितम् । । ४६ ततः पूर्वं दक्षिणं च द्वारं चापि तथा परम् । एवं हि क्रियमाणायां यात्रायां वत्सरावधौ । । ४७ मानवाः सुखमेधन्ते राजा जयति चाहितान् । नीरुजश्च जनाः सर्वे गवां शान्तिर्भवेत्तथा । ।४८ कर्तारभ्रापि यात्रायाः स्यर्गभागो भवन्ति हि । वोढारश्च तथा वत्स सूर्यलोकं यजन्ति वै । । ४९ रुद्र उवाच कथं सञ्चाल्यते ब्रह्मन्स्थापिता प्रतिभा सकृत् । एतन्मे वद देवेश सुमहान्संशयो हि मे । । 1.55.५० ब्रह्मोवाच पूर्वमेव सहस्रांशोर्यानहेतोर्महात्मनः । संवत्सरस्यावयवैः १कल्पितोऽस्य रथो मया । । ५१ सर्वेषां तु रथानां वै स रथः प्रथमः स्मृतः । तं दृष्ट्वा तु ततस्त्वन्ये स्यन्दना विश्वकर्मणा । । ५२ कल्पिताः सर्वदेवानां सोमादीनामनेकशः । विश्वकर्मकृतं प्राप्य रथं देवेन पुत्रक । । ५३ पूजार्थमात्मनो दत्तं मनवे सत्कुलोद्वह । मनुनेक्ष्वाकवे दत्तं मर्त्यैः सम्पूज्यतां रविः । । ५४ अतस्तु रथयानेन १चालनं विहितं रवेः । तस्मान्न चालने दोषः सवितुश्चल एव सः । । ५५ यस्माद्रथेन पर्येति भास्करः पृथिवीमिमाम् । गच्छन्न दृश्यते चैतन्मण्डलं सवितुस्तथा । । ५६ अदृष्टं चलते यस्मात्तस्माद्वै पार्वतीप्रिय । तदेवं रथयात्रासु दृष्टं भानोर्मनीषिभिः । । ५७ अन्येषां चालनं नेष्टं देवानां पार्वतीप्रिय । ब्रह्मविष्णुशिवादीनां स्थापितानां विधानतः । । ५८ तस्माद्रथेन देवस्य यात्रा कार्या विधानतः । प्रजानामिह शान्त्यर्थं प्रतिसंवत्सरं सदा । । ५९ काञ्चनो वाथ रौप्यो वा दृढदारुमयोऽपि वा । दृढाक्षयुगचक्रश्च रथः कार्यः सुयन्त्रितः । । 1.55.६० तस्मिन् रथवरे श्रेष्ठे कल्पिते सुमनोरमे । आरोप्य प्रतिमां यत्नाद्योजयेद्वाजिनः शुभान् । । ६१ हरिल्लक्षणसम्पन्नान्सुमुखान्वशवर्तिनः । कुङ्कुमेन समालब्धांश्चामरस्रग्विभूषितान् । । ६२ सदश्वान्योजयित्वा तु रथस्यार्घ्यं प्रदाय च । विबुधाम्पूजयित्या तु धूपमाल्यानुलेपनैः । । ६३ आहारैर्विविधैश्चापि भोजयित्वा द्विजोत्तमान् । दीनान्धकृपणादींश्च सर्वान्संतर्प्य शक्तितः
तस्मान्नानाविधैः कामैर्भक्ष्यलेह्यसमन्वितैः । । ६७ पूजयित्वा जनं सर्वमिममुच्चारयेन्मनुम् । बलिं गृह्णन्तु मे देवा आदित्या वसवस्तथा । । ६८ मरुतोथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः । असुरा यातुधानाश्च२ रथस्था यास्तु देवताः । । ६९ दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः । जगतः स्वस्ति कुर्वंतु ये च दिव्या महर्षयः । । 1.55.७० मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः । सौम्या भवन्तु तृप्ताश्च देवा भूतगणास्तथा । । ७१ वामदेव्यैः पवित्रैश्च मानस्तोकरथन्तरैः । आकृष्णेन रजसा ऋचमेकामुदाहरेत् । । ७२ ततः पुण्याहशब्देन कृतवादित्रनिःस्वनैः । रथक्रमणकं कुर्याद्वर्त्मना सुसमेन तु । । पुरुषैश्चापि वोढव्यः सूर्यभक्तिसमन्वितैः । । ७३ सुकृतैः च ३प्रग्रहैर्दान्तैर्बलीवर्द्दैरथापि वा । यथा पर्यटनं च स्याद्विषमे पथि गच्छतः । । ७४ उपवासस्थितैर्विप्रैर्दिव्यैर्भौमैश्च सुव्रतैः । त्रिंशद्भिः षोडशैर्वापि प्रतिमां भास्करस्य तु । । ७५ स्थानात्प्रचाल्यं वै रुद्र रथमारोपयेच्छनैः । राज्ञी च निक्षुभा रुद्र भार्ये तस्य महात्मनः । । ७६ शनैरारोपयेद्रुद्र उभयोः पार्श्वयो रथे । निक्षुभां दक्षिणे पार्श्वे राज्ञीं चाप्युत्तरे तथा । ७७ द्वावेव ब्राह्मणौ तस्मिन्दिव्यो भौमश्च पार्श्वयोः । ब्रह्मकल्पस्तथा भौमः कूबरस्योपरि स्थितः । ७८ गरुडं पृष्ठतश्चास्य वल्गमानं प्रकल्पयेत् । आतपत्रं तथा श्वेतं स्वर्णदण्डमनौपमम् । । ७९ सुवर्णबिन्दुभिश्चित्रं मणिमुक्ताफलोज्ज्वलम् । ततस्त्विन्द्रधनुःप्रख्यं स्वर्णदण्डमथाव्रणम् । । 1.55.८० ध्वजं प्रकल्पयेत्तस्य पताकाभिरलङ्कृतम् । भूतेशनानावर्णाभिस्सप्तभिः कामनाशनः । । ८१ ध्वजोपरिचरं१ व्योम अरुणाधिष्ठितं भवेत् । रथतुण्डगतान्विप्रान्नयेद्रथवरं रवेः । । ८२ सारथ्यं रुद्र कुर्याद्वै श्रेयोऽर्थमात्मनः सदा । नारुहेत रथेऽश्रद्धो यदीच्छेच्छ्रेय आत्मनः । । ८३ रथमारोहतस्तस्य क्षयं गच्छति सन्ततिः । स रथो देवदेवस्य वोढव्यो ब्राह्मणैः सदा । । ८४ क्षत्रियैश्चापि वैश्यैश्च न तु शूद्रैः कदाचन । ये त्वन्यदेवताभक्ता ये च मद्यप्रवर्तकाः । । ८५ नैतैः शूद्रैश्च वोढव्य इतरैस्तु सदोह्यते । उपवासव्रतोपेतैर्वोढव्यः पार्वतीप्रिय । । ८६ स्वस्थानाच्चलितो रुद्र पूर्वद्वारं व्रजेत३ वै । दिनमेकं वसेत्तत्र पूज्यमानो नृपेण वै । । ८७ नानाविधैः प्रेक्षणकैः पुराणश्रवणेन च । नानाविधैर्ब्रह्मघोषैर्ब्राह्मणानां च तर्पणैः । । ८८ स्थित्वा तु तत्राष्टम्यन्तं नवम्यां चलते पुनः । व्रजेत दक्षिणं द्वारं नगरस्य त्रिलोचन । । ८९ तत्रापि दिनमेकं तु तिष्ठन्तेन्धकसूदन । स्थितेऽत्र तैः पूज्यमानो यथा राज्ञा तथा नृपैः । । 1.55.९० तस्मादपि चलेद्भद्र द्वारं पश्चात्ततोत्तरम् । तत्रापि पूज्यः शूद्रैस्तु विधिवत्प्रियदर्शन । । ९१ तस्माच्च चलते रुद्र व्रजेन्मध्यं पुरस्य तु । तत्रस्थं पूजयन्ति स्म ब्राह्मणाः श्रद्धयान्विताः । । ९२ शंखवादित्रनिर्घोषैस्तथा प्रेक्षणकैर्वरैः । ब्रह्मघोषैश्च विविधैः समन्ताद्दीपकैः शुभैः । । ९३ नानाविधैर्वित्तदानैर्ब्राह्मणानां च तर्पणैः । दीनान्धकृपणानां च तर्पणैस्त्रिपुरान्तक । । ९४ पुरमध्यात्तु चलितस्तिष्ठेत्प्राप्य स्वमंदिरम् । इत्थं प्राप्य स्थितो देवः पुरतो मंदिरस्य तु । । ९५ तत्र स्थितः पूजनीयो भवेत्पौरेण कृत्स्नशः । पूज्यमानस्त्वहोरात्रं रथारूढस्तु तिष्ठति । । ९६ अपरे दिने व्रजेत्स्थानं तच्चिरन्तनमादरात् । त्रयोदश्यां व्यतीतायां चतुर्दश्यां त्रिलोचन । । ९७ सदैवं भ्रामयेद्देवं ग्रहेशं दुरितापहम् । परिवारयुतं रुद्र सानुगं परमेश्वरम् । । ९८ इति श्रोभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे रथयात्रावर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः
कार्पासबीजलवणतुषैर्दुर्दृष्टिशान्तये । । २८ वेदीमारोपयेत्पश्चात्पत्नीभ्यां सह सुव्रत । तत्रस्थं पूजयेद्देवं दिनानि दश सुव्रत । । २९ दशाहिकेति विख्याता या पूजा भूतले हर । तया सम्पूयेद्देवं चतुर्थेऽह्नि तथा हर । । 1.57.३० चतुर्थेऽहनि कर्तव्यं यत्नाद्धि स्नपनं रवेः । अभ्यङ्गभोजनाद्यैस्तु पूजासत्कारमण्डलैः । । ३१ अनेन विधिना पूज्य दशाहानि दिवाकरम् । ततो नयेत्परं स्थानं यत्तत्पूर्वमथालयम् । । ३२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्प आदित्यमहिमवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः
For the pacification of the evil eye, one should build an altar with cotton seeds, salt, and husks, together with one's wives, O virtuous one. There, the god should be worshipped for ten days, O virtuous one. This ten-day worship on earth is renowned, O Hara. By this, the god should be fully honored, and on the fourth day, O Hara, the ritual bathing of the Sun should be performed with care, along with anointing, feeding, and other acts of worship and hospitality. In this way, the Sun should be worshipped for ten days. Then he should be taken to his former abode, that is, the previous temple.
सूर्यदिण्डीसंवादम् सुमन्तुरुवाच अथान्यं सरहस्यं तु संवादं वच्मि तेऽखिलम् । सूर्यस्य दिण्डिना सार्धं सर्वपापप्रणाशनम् । । १ ब्रह्महत्याभिभूतस्तु परा दिंडिर्महातपाः । आराधनाय देवस्य स्तोत्रं चक्रे महात्मनः । । २ श्रुत्वा तस्यार्थतः स्तोत्रं तुतोष भगवान्रविः । उवाच देवदेवस्तं दिण्डिनं गणनायकम् । । ३ आदित्य उवाच हंत दिण्डे प्रसन्नोऽस्मि भक्त्या स्तोत्रेण तेऽनघ
Sumantu said: Now I shall tell you another secret conversation in its entirety—the dialogue between the Sun and Diṇḍi, which destroys all sins. Overwhelmed by the sin of killing a brāhmaṇa, the great ascetic Diṇḍi composed a hymn to worship the great deity. Hearing the meaning of that hymn, the blessed Sun was pleased, and the Lord of gods spoke to Diṇḍi, the leader of the Gaṇas. The Sun said: 'O Diṇḍi, I am pleased with you, sinless one, because of your devotion and this hymn.'
वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते । । ४ दिण्डिरुवाच एष एव वरः श्लाघ्यो यत्प्राप्तोऽसि ममान्तिकम् । त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि च दुर्लभम् । । ५ यथैषा ब्रह्महत्या मे आगता लोकगर्हिता । भवाञ्जानाति सर्वेशो हदिस्थः सर्वदेहिनाम् । । ६ त्वत्प्रसादान्ममेशान३ नाशमाशु प्रयातु वै । तथा च दुरितं सर्वं यच्चान्यल्लोकगर्हितम् । । ७ यद्यदिच्छाम्यहं तत्तत्सर्वमस्तु दिवस्पते । एतेनैवानुमानेन प्रसन्नो भगवन्निति । । ८ ज्ञातं मया हि मार्तण्डे नाप्रसन्ने विभूतयः । एवं सर्वसुखाह्लादमध्यस्थोऽपि हि भानुमान् । । ९ त्वं मामगाधे संसारे मग्नमुद्धर्तुमर्हसि । सुखानि तानि चैवान्ते तेषां दुःखं न तत्सुखम् । । 1.62.१० यदा तु दुःखमागामि किं४ वा कस्यैव भक्षणात् । तत्प्रसादं कुरु विभो जगतां त्वं जगत्पते । । ११ ज्ञानदानेन येनैवमुत्तरेयं भवार्णवम् । इत्युक्तस्तेन मार्तण्डः कथयामास योगवित् । । १२ योगं निर्बीजमत्यन्तं दुःखसंयोगभेषजम् । श्रुत्वा योगं तु तं दिण्डिर्निर्बीजं निष्कलं बभौ । । १३ प्रणिपत्य महातेजा इदं वचनमब्रवीत् । देवदेव त्वया योगो यः प्रोक्तो ध्वान्तनाशन । । नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः । । १४ विषया दुर्जयाः पुंभिरिन्द्रियाकर्षिणः सदा । इन्द्रियाणां जयो युक्तः कः शक्तानां करिष्यति । । १५ अहंममेतिविख्यातिर्दुर्जयं चञ्चलं मनः । रागादयस्तथा त्यक्तुं शक्या जन्मान्तरैर्यदि
१६ सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः । रागादिभिरमर्त्यत्वं प्रापुः प्रक्षीणकल्मषाः । । १७ आदित्य उवाच यद्येवं मुक्तिकामस्त्वं गणनाथ शृणुष्व तम् । क्रियायोगं समस्तानां क्लेशानां हानिकारकम्
'Therefore, O Lord of gods, I desire, by your grace, that even those who have not conquered passion and the rest may attain immortality, their impurities destroyed.' The Sun said: 'If you desire liberation, O Lord of Gaṇas, then listen—I shall teach you the yoga of action, which removes all afflictions.'
१८. मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः । । १९ मद्भावना मद्यजना मद्भक्ता मत्परायणाः । मम पूजाकराश्चैव मयि यान्ति लयं नराः । । 1.62.२० सर्वभूतेषु मां पश्यन्ममवस्थितमीश्वरम्
'Fix your mind on me, be devoted to me, sacrifice to me, bow to me. Thus, making me your supreme goal, you will surely come to me. Those whose thoughts are fixed on me, who are devoted to me, who worship me, and who are intent on me—such people merge into me. Seeing me, the Lord, present in all beings—'
कर्त्तासि केन चैव त्वमेवं दोषान्प्रहास्यसि
By whom, and how, will you abandon these faults, being their agent yourself?
२१ जङ्गमाजङ्गमे ज्ञाते मय्यासक्ते समन्ततः । रागलोभादिनाशेन भवित्री कृतकृत्यता । । २२ भक्त्यातिप्रणयस्यापि चञ्चलत्वान्मनो यदि । मय्यावेशं दधद् भूयः कुरु मद्रूपिणीं तनुम् । । २३ सुवर्णरजताद्यैस्त्वं शैलमृद्दारुलेखनम् । पूजोपहारैर्विविधैः सम्पूजय त्रिलोचनम् । । २४ तस्याश्रितं समाविश्य सर्वभावेन सर्वदा । पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी । । २५ गच्छंस्तिष्ठन्स्वपन्भुञ्जस्तामेवाग्रे च पृष्ठतः । उपर्यधस्तथा पार्श्वे चिन्तयंस्तन्मयश्च वै । । २६ स्नानैस्तीर्थोदकैर्हद्यैः १पुष्पैर्गन्धानुलेपनैः । वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोरमैः । । २७ यच्च यच्च तवेष्टं वै किञ्चिद्भोज्यादिकं तव । भक्तिनम्रो गणश्रेष्ठ प्रीणयस्व कृतिं२ मम । । २८ रागेणाकृष्यते तात गन्धर्वाभिमुखं यदि । मयि बुद्धिं समावेश्य गायेथा याः कथा मम । । २९ कथया रमते चेतो यदि तद्भवतो मम । श्रोतव्याः प्रीतियोगेन मत्स्वरूपोदयाः कथाः । । 1.62.३० एवं समर्पितमनाश्चेतसो येऽथ आश्रयाः । हेयास्तान्निखिलान्दिण्डे परित्यज्य सुखी भव । । ३१ अक्षीणरागद्वेषोऽपि मत्प्रियः परमः परम् । पदमाप्नोषि मा भैषीर्मय्यर्पितमना भव । । ३२ मयि संन्यस्य सर्वं त्वमात्मानं यत्नवान्भव । मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् । । ३३ एवं व्यपोह्य हत्यास्त्वं ब्रह्मण मोक्ष्यसे भवात् । एतेनैवोपदेशेन व्याख्यातमखिलं तव । । ३४ क्रियायोगं समास्थाय मदर्पितमना भव । । ३५ दिण्डिरुवाच मद्धिताय जगन्नाथ क्रियायोगामृतं मम । विस्तरेण समाख्याहि प्रसन्नस्त्वं हि दुःखहा । । ३६ त्वामृते न हि तद्वक्तुं समर्थोऽन्यो१ जगद्गुरो । गुह्यमेतत्पवित्रं च तदाचक्ष्व प्रसीद मे । । ३७ आदित्य उवाच आख्यास्यते तदखिलं निर्विकल्पं गणाधिप । इत्युक्त्वान्तर्दधे देवः सर्वलोकप्रदीपकः । । ३८ स च दिण्डिर्महातेजा जगामाशु नभोगतिम् । । ३९ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि दिण्ड्यादित्यसंवादवर्णनं नाम द्विषष्टितमोऽध्याय
When one knows both the moving and unmoving beings, and is wholly attached to Me, with the destruction of passion, greed, and the like, fulfillment is attained.
Description of the Śāka Saptamī vow
On the seventh day, having observed a fast on the sixth, and having eaten only once on the fifth, a man should give well-prepared vegetables accompanied by edibles and food to the god and to Brahmins, and at night, he should eat, observing silence.
Description of the greatness of the Sun: Shatānīka said: O foremost of Brahmins, describe in detail the excellent observance of the seventh day, and the great fortune of the god Bhāskara, the great soul.
Description of the greatness of the Sun: Vāsudeva said: Now I will explain the supreme method of worship for the banner of righteousness, which grants all desires, is meritorious, removes obstacles, and destroys sins.
Description of the greatness of the Seventh Day: Vāsudeva said: Next, I will explain the occasional rite, which, when known, should be performed especially on the seventh day during eclipses and solstice transitions.
महासप्तमीव्रतवर्णनम् वासुदेव उवाच माघस्य शुक्लपक्षे तु पञ्चम्यां मत्कुलोद्वह । एकभक्तं सदाख्यातं षष्ट्यां नक्तमुदाहृतम् । । १ सप्तम्यामुपवासं तु केचिदिच्छन्ति सुव्रत । षष्ठ्यां केचिद्वदन्तीह सप्तम्यां पारणं किल । । २ कृतोपवासः षष्ठ्यां तु पूजयेद्भास्करं बुधः । रक्तचन्दनमिश्रैस्तु करवीरैश्च सुव्रत । । ३ गुग्गुलेन महाबाहो संयावेन च सुव्रत । पूजयेद्देवदेवेशं शङ्करं २ भास्करं रविम् । । ४ एवं हि चतुरो मासान्माघादीन्पूजयेद्रविम् । आत्मनश्चापि शुध्यर्थं प्राशनं गोमयस्य च । । ५ स्नानं च गोमयेनेह कर्तव्यं चात्मशुद्धये । ब्राह्मणान्दिव्यभौमांश्च भोजयेच्चापि शक्तितः । । ६ ज्येष्ठादिष्वथ मासेषु श्वेतचन्दनमुच्यते । श्वेतानि चापि पुष्पाणि शुभगन्धान्वितानि वै । । ७ कृष्णागरुस्तथा धूपो नैवेद्यं पायसं स्मृतम् । तेनैव ब्राह्मणांस्तुष्टान्भोजयेच्च महामते । । ८ प्राशयेत्पञ्चगव्यं तु स्नानं तेनैव पुत्रक । कार्तिकादिषु मासेषु अगस्तिकुसुमैः स्मृतम् । । ९ पूजयेन्नरशार्दूल धूपैश्चैवापराजितैः । नैवेद्यं गुडपूपास्तु तथा चेक्षुरसं स्मृतम् । । 1.51.१० तेनैव ब्राह्मणांस्तात भोजयस्व स्वशक्तितः । कुशोदकं प्राशयेथाः स्नानं च कुरु शुद्धये । । ११ तृतीये पारणास्यान्ते माघे मासि महामते । भोजनं तत्र दानं च द्विगुणं समुदाहृतम् । । १२ देवदेवस्य पूजा च कर्तव्या शक्तितो बुधैः । रथस्य चापि दानं तु रथयात्रा तु सुव्रत । । १३ व्रतस्य प्राप्तिहेतोर्वै कर्तव्या विभवे सति । दानं स्वर्णरथस्येह यथोक्तं विभवे सति । । इत्येषा कथिता पुत्र रथाह्वा सप्तमी शुभा । । १४ महासप्तमी विख्याता महापुण्या महोदया । यामुपोष्य धनं पुत्रान्कीर्तिं विद्यामवाप्नुयात् । । १५ तथाखिलं कुवलयं चन्द्रेण च समोर्चिषा । । १६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे महासप्तमीव्रतवर्णनं नामैकपञ्चाशत्तमोऽध्यायः
Description of the Mahāsaptamī vow. Vāsudeva said: In the bright fortnight of Māgha, on the fifth day, O best of the lineage, one should eat only once; on the sixth day, night fasting is prescribed. On the seventh day, some wish to fast, O virtuous one; some say the breaking of the fast should be on the seventh day. Having fasted on the sixth day, the wise should worship Bhāskara with red sandalwood and oleander, O virtuous one. With guggul incense and fragrant substances, O mighty-armed, one should worship the lord of gods, Śaṅkara, and Bhāskara, the Sun. In this way, for four months beginning with Māgha, one should worship the Sun for self-purification, and also partake of cow dung. Bathing with cow dung here should be done for self-purification; one should feed Brāhmaṇas, both divine and earthly, according to one's ability. In months from Jyeṣṭha onward, white sandalwood is prescribed, and also white flowers with auspicious fragrance. Black aloe incense and offering of rice pudding are prescribed; with these, O wise one, one should satisfy Brāhmaṇas and feed them. One should partake of pañcagavya and bathe with it, O child; in months from Kārtika onward, agasti flowers are prescribed. One should worship, O best of men, with incense and aparājita flowers; offerings of jaggery cakes and sugarcane juice are prescribed. With these, O father, feed Brāhmaṇas according to your ability; drink water with kuśa grass and bathe for purification. On the third day after breaking the fast, in the month of Māgha, O wise one, eating and giving charity are said to be twice as meritorious. Worship of the lord of gods should be performed by the wise according to their ability; the donation of a chariot is prescribed, and the chariot procession, O virtuous one. For attaining the vow, donation of a golden chariot should be made if wealth permits, as prescribed. Thus, O son, the auspicious Saptamī called the chariot festival has been described. The Mahāsaptamī is renowned, greatly meritorious, and brings great prosperity; by observing it, one attains wealth, sons, fame, and knowledge. Likewise, the whole world is illuminated equally by the moon.
सूर्यपूजावर्णनम् सुमन्तुरुवाच इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः । अन्तर्धानं गतो वीरं शाम्बस्येह प्रपश्यतः । । १ शाम्बोऽपि कृत्वा विधिवत्सप्तमीं रथसप्तमीम् । आधि(दि?)भिर्व्याधिभिर्मुक्तो जगामाशु स्वमन्दिरम् । । २ शतानीक उवाच रथयात्रा कथं कार्या रथः कार्यः रथं रवेः । केनेह मर्त्यलोकेषु रथयात्रा प्रवर्तिता । । ३ सुमन्तुरुवाच इममर्थं पुरा पृष्टः पद्मयोनिः प्रजापतिः । रुद्रेण कुरुशार्दूल आसीनः काञ्चने गिरौ । । ४ पद्मासनं पद्मयोनिं सुखासीनं प्रजापतिम् । प्रणम्य शिरसा देवो रुद्रो वाचमुदैरयत् । । ५ श्रीरुद्र उवाच य एष भगवान्देवो भास्करो लोकभास्करः । कथमेष भ्रमेद्देवो रथस्थो विमलः सदा । । ६ ब्रह्मोवाच यथा दिवि भ्रमेत्तात रथारूढो रविः सदा । तथा ते वर्तयिष्येऽहं रथं चास्य त्रिलोचन । । ७ रथेन ह्येकचक्रेण पञ्चारेण त्रिणाभिना । हिरण्यमयेन कान्तेन अष्टबन्धैकनेमिना । । ८ चक्रेण भास्वता चैव दिवि सूर्यः प्रसर्पति । दशयोजनसाहस्रो विस्तारोऽप्यस्य कथ्यते । । ९ त्रिगुणा च रथोपस्थादीषा दण्डप्रमाणतः । युगमस्य तु विस्तीर्णमरुणो१ यत्र सारथिः । । 1.52.१० प्रासङ्गः कांचनो दिव्यो युक्तः पवनगैर्हयैः । छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः । । ११ येनासौ पर्यटेद्व्योम्नि भास्वता तु दिवस्पतिः । अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु । । १२ संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् । १नाभ्यस्तिस्रस्तु चक्रस्य त्रयः कालाः प्रकीर्तिताः । । १३ आराः पञ्चर्तवस्तस्य नेम्यः षडृतवः स्मृताः । रथवेदी स्मृते तस्य अयने दक्षिणोत्तरे । । १४ मुहूर्ता २ इषवस्तस्य शम्याश्चास्य कलाः स्मृताः । तस्य काष्ठाः स्मृताः कोणा अक्षदण्डः क्षणाः स्मृताः । । १५ निमेषाश्चास्य कर्षाः स्यादीषादण्डो लवाः स्मृताः । रात्रिर्वरूथो धर्मोऽस्य ध्वज ऊर्ध्वं प्रतिष्ठितः । । १६ युगाक्षिकोटी ते तस्य अर्थकामावुभौ स्मृतौ । अश्वरूपाणि च्छन्दांसि वहन्ते वामतो धुरम् । । १७ गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुबेव च । पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमी । । १८ चक्रमक्षनिबद्धं तु ध्रुवे चाक्षः समर्पितः । सहचक्रो भ्रमत्यक्षः स चाक्षो भ्रमति ध्रुवे । । १९ अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवे स्थितः । एवमक्षवशात्तस्य ३ सन्निवेशो रथस्य तु । । 1.52.२० तथा संयोगभावेन संसिद्धो भास्करो रथः । तेन चासौ रविर्देवो नभः संसर्पते सदा । । २१ युगाक्षकोटीसम्बद्धे द्वे रश्मी स्यन्दनस्य तु । ध्रुवे ते भ्रमतो रश्मी न चक्रयुगयोस्तु वै । । २२ भ्रमतो मण्डलान्यस्य रवेरस्य रथस्य तु । कुलालचक्रवद्याति मण्डलं सर्वतोदिशम् । । २३ युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु । ऋग्यजुर्भ्यां गृहीतेन विचक्राश्वेन वै ध्रुवे । । २४ ह्रसेते तस्य रश्मी तु मण्डलेषूत्तरायणे । दक्षिणेऽथ समृद्धे तु भ्रमतो मण्डलानि तु । । २५ युगाक्षकोटी ते तस्य भ्रमेते स्यन्दनस्य तु । सक्तासक्तं च भ्रमते मण्डलं सर्वतोदिशम् । । २६ आकृष्येते ध्रुवेणेह समं तिष्ठति सुव्रत । तदा साभ्यन्तरं देवो भ्रमते मण्डलानि तु । । २७ ध्रुवेण मुच्यमाने तु पुना रश्मियुगेन वै । तथैव १ बाह्यतः सूर्यो भ्रमते मण्डलानि तु । । २८ अशीतिमण्डलशतं काष्ठयोरुभयोरपि । सरथोऽधिष्ठितो देवैर्विभ्रमेदृषिभिः सह । । २९ गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः । एतैर्वसति वै सूर्ये मासौ द्वौ द्वौ क्रमेण तु । । 1.52.३० धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः । खण्डको वासुकिश्चैव सकर्णो रश्मिरेव च । । ३१ तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ । क्रतुस्थलाप्सरश्चैव या च सा पुञ्जिकस्थला । । ३२ ग्रामणीरथकृत्स्नश्च रथौजाश्वतरावुभौ । रक्षो हेतिः प्रहेतिश्च यातुधानौ च तावुभौ । । ३३ मधुमाधवयोरेष गणो वसति भास्करे । तथा ग्रीष्मौ तु द्वौ मासौ मित्रश्च वरुणश्च ह । । ३४ ऋषिरत्रिर्वशिष्ठश्च तक्षकोऽनन्त एव च । मेनका सहजन्या च गंधर्वो च हहा हूहूः । । ३५ रथस्वनश्च ग्रामण्यौ रथचित्रश्च तावुभौ । पौरुषेयो वधश्चैव यातुधानौ महाबलौ । । ३६ शुचिशुक्रौ तु द्वौ मासौ वसन्त्येते दिवाकरे । इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । । ३७ एलापर्णस्तथा सर्पः शङ्खपालश्च पन्नगाः । प्रम्लोचा दुन्दुकाश्चैव गन्धर्वौ भानुदर्दुरौ । । ३८ यातुधानौ तथा सर्पस्तथा ब्राह्मश्च तावुभौ । एते नभो नभस्यौ च निवसन्ति दिवाकरे । । ३९ शरद्येते पुनः शुभ्रा निवसन्ति स्म देवताः । पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः । । 1.52.४० चित्रसेनश्च गन्धर्वस्तथा वसुरुचिश्च यः । विश्वाची च घृताची च ते उभे पुण्यलक्षणे । । ४१ नागस्त्वैरावतश्चैव विश्रुतश्च धनञ्जयः । सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीस्तथा । । ४२ आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ । वसन्त्येते तु वै सूर्ये इषोर्जौ कालपर्ययात् । । ४३ हेमंतिकौ तु द्वौ मासौ वसन्त्येते दिवाकरे । अंशौ भगश्च द्वावेतौ कश्यपश्च क्रतुस्तथा । । ४४ भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा । आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ । । ४५ चित्राङ्गदश्च गन्धर्वोरुणायुश्चैव तावुभौ । सहे चैव सहस्ये च वसन्त्येते दिवाकरे ।.। ४६ पूषा जिष्णुर्जमदग्निर्विश्वामित्रस्तथैव च । काद्रवेयौ महानागौ कम्बलाश्वतरावुभौ । । ४७ गन्धर्वो धृतराष्ट्रश्च सूर्यवार्चाश्च तावुभौ । तिलोत्तमा च रम्भा च सर्वलोके च विश्रुते । । ४८ १ग्रामणीः सेनजिच्चैव सत्यजिच्च महातपाः । ब्रह्मोपेतश्च वै रक्षो यज्ञो यज्ञस्तथैव च । । एते तपस्तपस्यै च निवसन्ति दिवाकरे । । ४९ अन्येऽपि ये मन्देहा राक्षसाधिपतयो देवदेवगुह्यतमस्य रक्षार्थं सकल देवैरस्मदादिभिः सन्नियुक्तास्तान्भवते कथयामि । । 1.52.५० रुद्र उवाच वद ब्रह्मन्कथां दिव्यां यामहं प्रष्टुमागतः । तामेव विस्तरेणैव कथयाशु मम प्रभो । । ५१ दिविष्ठं भास्करं दृष्ट्वा नमेत्केन विधानतः । किं फलं तस्य वा देव समाप्ते भवति कर्मणि । । ५२ ब्रह्मोवाच शृणु रुद्र समासेन भास्करस्य नतिक्रियाम् । यां कृत्वा रोगदुःखार्ता मुच्यन्ते पापसञ्चयात् । । ५३ स्थण्डिले मण्डलं कृत्वा द्वादशाङ्गुलमानतः । सद्यो गोमयलिप्ते च तत्रैवावाहयेद्रविम् । । ५४ पूजयित्वा गणेशादीन्वासुदेवं च सात्यकिम् । सत्यभामां तथा लक्ष्मीमुमां देवीं च शङ्करम् । । ५५ मण्डलस्य समीपस्थान्पूर्वोक्तान्वेदमन्त्रवित् । ततः प्रदक्षिणीकृत्य दण्डवत्प्रणमेत्सकृत् । । ५६ शतं सहस्रमयुतं लक्षं वा निजपापतः । दृष्ट्वा शक्तिं प्रणम्याथ सदा संयतमानसः । । ५७ विप्राय दक्षिणां दद्यान्निरुच्छ्वासः समाहितः । रक्तिके च हिरण्यस्य शतमात्रे सहस्रके । । ५८ माषकाणां चतुष्कं चायुतं दशगुणं दिशेत् । दक्षे दशगुणं प्रोक्तं दद्याद्रोगविमुक्तये । । ५९ एवं कृते विरूपाक्ष सर्वरोगाद्विमुच्यते । इदं रहस्यं परमं शृणुयाद्यो हि मानवः । । 1.52.६० तस्य रोगा विनश्यन्ति मार्तण्डस्य प्रसादतः । अन्यच्च ते प्रवक्ष्यामि यच्चापृष्टमुमापते । । तच्छृणुष्व मया प्रोक्तं रथयन्तृनियामकम् । । ६१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः
Description of Sun worship. Sumantu said: Having spoken thus, the blessed lord, bearer of conch, discus, and mace, vanished before the valiant Śāmba. Śāmba, having properly performed the Saptamī, the chariot Saptamī, was freed from ailments and quickly returned to his home. Śatānīka said: How should the chariot procession be performed? How should the chariot for the Sun be made? By whom was the chariot procession established among mortals? Sumantu said: This matter was formerly asked of Padmayoni, the progenitor, by Rudra, O tiger among Kurus, as he sat on the golden mountain. Rudra, bowing his head to Padmayoni, seated on a lotus seat, addressed him. Śrī Rudra said: This blessed god, Bhāskara, illuminator of worlds—how does this pure god move, always seated in a chariot? Brahmā said: Just as the Sun moves in the sky, always riding a chariot, so I shall describe his chariot to you, O three-eyed one. The chariot has one wheel, five spokes, three hubs, made of gold, beautiful, with a single rim bound by eight bands. With a shining wheel, the Sun moves in the sky; its breadth is said to be ten thousand yojanas. The chariot's platform is three times the measure of the staff; its yoke is broad, where Aruṇa is the charioteer. The shaft is golden and divine, yoked to horses driven by wind; the horses are in the form of meters, stationed where the wheel is. By this, the radiant lord of day moves in the sky. Now, the parts of the Sun's chariot are arranged according to the divisions of the year. The three hubs of the wheel are called the three times; the five spokes are the five seasons; the six rims are the six seasons. The chariot's altar is said to be the solstices, southern and northern. The moments are the arrows; the chariot's rails are the lunar phases. The chariot's planks are the corners; the axle staff is the instants. The chariot's nimeshas are the measures; the axle staff is the fractions. The night is the chariot's body; righteousness is its banner, established upright. The ends of the axle and yoke are called the two aims, wealth and desire. The meters, in the form of horses, bear the yoke on the left side. Gāyatrī, Triṣṭubh, Jagatī, Anuṣṭubh, Paṅkti, Bṛhatī, and Uṣṇik are the seven Saptamī. The wheel is bound to the axle; the axle is fixed in the pole. The wheel rotates with the axle; the axle rotates in the pole. The axle rotates with the wheel, fixed in the pole. Thus, the arrangement of the chariot is according to the axle's motion. By their union, the Sun's chariot is perfected; by it, the Sun god always moves through the sky. The two rays attached to the ends of the axle and yoke move in the chariot; they rotate at the pole, not at the wheel and yoke. The Sun's chariot moves in circles, like a potter's wheel, in all directions. The ends of the axle and yoke are on the right side of the chariot; with Ṛg and Yajur Veda, the wheel is held by the horse at the pole. The rays decrease in the circles during the northern course; in the southern, they increase as the chariot moves in circles. The ends of the axle and yoke rotate in the chariot; attached and detached, the chariot moves in circles in all directions. Drawn by the pole, it stands still, O virtuous one; then the god moves within, rotating in circles. When released from the pole, again by the rays and yoke, likewise, the Sun moves in circles outside. Eighty hundred circles are counted on both sides; the chariot, occupied by gods, rotates with sages. With Gandharvas, Apsarases, serpent chiefs, and Rākṣasas, the Sun resides with these, two months at a time. Dhātā, Aryaman, Pulastya, Pulaha, the progenitor, Khaṇḍaka, Vāsuki, Sakarṇa, and the ray. Tumburu and Nārada, the two Gandharvas, Kratusthala and the Apsaras Puñjikasthalā. Grāmaṇī, Rathakṛtsna, Rathaujā, and Aśvatarā; Rākṣasas Heti and Praheti, and the two Yātudhānas. In the months of Madhu and Mādhava, this group resides in the Sun. In the two summer months, Mitra and Varuṇa; the sages Atri and Vasiṣṭha, Takṣaka and Ananta; Menakā and Sahajanyā, Gandharva Hahā and Hūhū. Rathasvana and Grāmaṇī, Rathacitra, the two; Pauruṣeya and Vadha, the two mighty Yātudhānas. In the two months of Śuci and Śukra, these reside in the Sun. Indra and Vivasvān, Aṅgiras and Bhṛgu; Elāparṇa and Śaṅkhapāla, the serpents; Pramlocā and Dundukā, Gandharvas Bhānu and Dardura. Yātudhānas and serpents, and the two Brāhmaṇas; these reside in the Sun in the months of Nabhas and Nabhasya. In the autumn months, these pure deities reside: Parjanya and Pūṣā, Bhāradvāja and Gautama. Citrāsena, Gandharva, Vasuruci; Viśvācī and Ghṛtācī, both of auspicious mark. Nāga Airāvata and Dhanañjaya, Senajit and Suṣeṇa, Senānī and Grāmaṇī. Āpo and Vāta, the two Yātudhānas, reside in the Sun in the months of Iṣorja, according to time. In the two winter months, these reside in the Sun: Aṃśa and Bhaga, Kaśyapa and Kratu. Bhujaṅga, Mahāpadma, serpent Karkoṭaka; Āpo and Vāta, the two Yātudhānas. Citrāṅgada and Gandharva Uruṇāyu, the two; Sahe and Sahasya, these reside in the Sun. Pūṣā, Jiṣṇu, Jamadagni, Viśvāmitra; Kādraveya and Mahānāga, Kambala and Aśvatara. Gandharva Dhṛtarāṣṭra and Sūryavārcas, the two; Tilottamā and Rambhā, renowned in all worlds. Grāmaṇī, Senajit, Satyajit, the ascetic; Brahmopeta, the Rākṣasa, Yajña and Yajñasta. These, devoted to austerity, reside in the Sun. Others, the Mandehas, chiefs of Rākṣasas, appointed by all the gods, including ourselves, for the protection of the most secret lord of gods—I shall tell you of them. Rudra said: Tell me, Brahman, the divine story I have come to ask; narrate it to me in detail, O lord. Seeing Bhāskara in the sky, by whom should he be worshipped, and what fruit does one gain when the rite is completed, O god? Brahmā said: Listen, Rudra, in brief, to the rite of bowing to Bhāskara; by performing it, those afflicted by disease and sorrow are freed from accumulated sin. Drawing a circle on the ground, twelve fingers wide, freshly smeared with cow dung, one should invoke the Sun there. Having worshipped Gaṇeśa and others, Vāsudeva, Sātyaki, Satyabhāmā, Lakṣmī, Umā, the goddess, and Śaṅkara, those near the circle should be worshipped as previously mentioned, by one versed in Vedic mantras. Then, circumambulating, one should bow down once. Whether a hundred, a thousand, ten thousand, or a hundred thousand sins, seeing one's capacity, one should bow with a controlled mind. One should give a gift to a Brāhmaṇa, silent and focused; a hundred or a thousand red coins of gold. Four beans, or ten thousand, should be given; ten times the amount should be given for relief from disease. By doing so, O Virūpākṣa, one is freed from all diseases. This is the supreme secret; whoever hears it, O mortal, his diseases are destroyed by the grace of Mārtāṇḍa. I shall tell you further, O Umāpati, what you have not asked; listen to what I say about the chariot driver and controller.
The blessed one, the thousand-rayed, is the refuge of all; this is the circle of all the gods, the sphere of the knowers of Brahman, the sacrifice of those who speak of the Brahma-yajña; this supreme Sun is Vishnu for the devotees of Bhagavan, and for the followers of Maheshvara.
By what procedure should it be done, and at what time, O best of gods? How should the god, mounted on the chariot, the Sun, be paraded? What is the result declared for those who, with devotion, parade or carry the god's chariot, and for those who dance? What is the result for those who do not parade the god, but are devoted to dance and song, and who keep vigil with faith? What is the result for those who offer the chariot to Ravi, and who, with devotion, offer food and gifts? Tell me all this in detail, O best of gods, for the welfare of the worlds, O god; I have great curiosity. Brahma said: Well asked, O Lord of beings, O Ganesha, O three-eyed one; listen with one-pointed mind as I speak in detail according to your question.
Therefore, after honoring all people with various kinds of desirable foods, both to eat and to lick, one should recite this mantra: 'May the gods accept my offering—Adityas, Vasus, Maruts, Ashvins, Rudras, Suparnas, Serpents, Planets, Asuras, Yatudhanas, and the deities who reside in chariots; the guardians of the directions, the protectors of the worlds, and the removers of obstacles; may the divine sages bring welfare to the world. May there be no obstacles, no sin, and no hindrances for me. May the gentle gods and hosts of spirits be satisfied.'
सूर्यरथयात्रावर्णनम् श्रीरुद्र उवाच कथं प्रचालयेद्ब्रह्मन् रथस्थं तमनाशनम् । अनुगाश्च कथं चास्य के च ते अनुगा क्रमात् । । १ भूयोभूयः सुरश्रेष्ठ विस्तरान्मम श्रेयसे । १ वद सर्वं जगन्नाथ परं कौतूहलं हि मे । । २ ब्रह्मोवाच शनैर्नयेद्रथं रुद्र वर्त्मना सु समेन तु । यथा पर्यटनं तु स्याद्विषमे पथि गच्छतः । । ३ प्रतीहाररथं पूर्वं नयेन्मार्गविशुद्धये । तस्मादनन्तरं रुद्र दण्डनायकमादरात् । । ४ पिङ्गलं च ततस्तस्य पृष्ठगं चादरान्नयेत् । रक्षको द्वारको यस्माद्रथारूढौ तु पृष्ठतः । । ५ रथारूढस्तथा दिण्डी देवस्य पुरतः स्थितः । तस्मादपि तथा रुद्र लेखको भास्करप्रियः । । ६ शनैःशनैर्नयेद्रुद्र रथं देवस्य यत्नतः । युगाक्षचक्रभङ्गो वा यथा न स्यात्त्रिलोचन । । ७ ईषाभङ्गे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः । तुलाभङ्गे तु वैश्यानां शय्याशूद्रक्षयो भवेत् । । ८ युगभङ्गे त्वनावृष्टिः पीठभङ्गे प्रजाभयम् । परचक्रागमं १ विद्याच्चक्रभङ्गे रथस्य तु । । ९ ध्वजस्य पतने चापि नृपभङ्गं विनिर्दिशेत् । २व्यङ्गितप्रतिमायां तु राज्ञो मरणमादिशेत् । । 1.56.१० छत्रभङ्गाद्भयं रुद्र युवराज्ञो विनिर्दिशेत् । उत्पन्नेष्वेवमाद्येषु उत्पातेष्वशुभेषु च । । ११ बलिकर्म पुनः कुर्याच्छांतिहोमं तथैव च । ब्राह्मणान्वाचयेद्भूयो दद्याद्दानानि चैव हि । । १२ पूर्वोत्तरे च दिग्भागे रथस्याग्निं प्रकल्पयेत् । समिद्भिस्तु घृताक्ताभिर्होमयेज्जातवेदसम् । । १३ स्वाहाकारान्वदन्सम्यग्दैवतेभ्यस्त्वनुक्रमात् । ग्रहेभ्यश्च प्रजाभ्यश्च नामान्युद्दिश्य होमयेत् । । १४ प्रथमं चाग्नये स्वाहा स्वाहा सोमाय चैव हि । स्वाहा प्रजापतये च देया आहुतयः क्रमात् । । १५ स्वस्त्यस्त्विह च विप्रेभ्यः स्वस्ति राज्ञे तथैव च । गोभ्यः स्वस्ति प्रजाभ्यश्च जगतः शान्तिरस्तु वै । । १६ शं नोऽस्तु द्विपदे नित्यं शान्तिरस्तु चतुष्पदे । शं प्रजाभ्यस्तथैवास्तु शं सदात्मनि चास्तु वै । । १७ भूः शान्तिरस्तु देवेश भुवः शान्तिस्तथैव च । स्वश्चैवास्तु तथा शान्तिः सर्वत्रास्तु तथा रवेः । । १८ त्वं देव जगतः स्रष्टा पोष्टा चैव त्वमेव हि । प्रजापाल ग्रहेशान शान्तिं कुरु दिवस्पते । । १९ इदमन्यच्च वक्ष्यामि शान्त्या परमकारणम् । यात्राकारणभूतस्य पुरुषस्य स्वजन्मनः । । 1.56.२० दुःस्थान्ग्रहांश्च विज्ञाय ग्रहशान्तिं समाचरेत् । प्रादेशमात्राः कर्त्तव्याः समिधोऽथ प्रमाणतः । । २१ thumb|अर्क thumb|पलाश thumb|खदिर thumb|अपामार्ग thumb|अश्वत्थ thumb|उदुम्बर thumb|शमी thumb|दूर्वा thumb|कुशा अर्कमय्यो रवेः कार्या पालाश्यः शशिनः स्मृताः । खादिर्यश्चैव भौमाय आपामार्ग्योऽब्जसूनवे । । २२ आश्वत्थ्यश्चाथ जीवाय औदुम्बर्यः सिताय च । असिताय शमीमय्यो दूर्वा कार्यस्तु राहवे । ।२ ३ केतवे तु कुशाः कार्याः दक्षिणाश्चाप्यतः शृणु । सूर्याय शोभनां धेनुं शंखं दद्यादथेन्दवे । । २४ रक्तमनड्वाहं भौमाय काञ्चनं सोमसूनवे । जीवाय वाससी देये शुक्रायाश्वं सितं हर । । २५ शनैश्चराय गां नीलां राहवे भाण्डपायसम् । छागं तु केतवे दद्याच्छृण्वेषां भोजनान्यपि । । २६ गुडौदनं तु सूर्याय सोमाय घृतपायसम् । हविष्यमन्नं भौमाय क्षीरान्नं सोमसूनवे । । २७ दध्योदनं तु जीवाय शुक्रायाथ घृताशनम् । तिलपिष्टांश्च माषाश्च सूर्यपुत्राय दापयेत् । । २८ राहवे दापयेन्मांसं केतवे चित्रमोदनम् । सौवीरमारनालं च स्विन्नबीजं च काञ्जिकम् । । २९ यथा बाणप्रहाराणां वारणं कवचं स्मृतम् । तथा दैवोपघातानां शान्तिर्भवति वारणम् । । 1.56.३० अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च । नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः । । ३१ ग्रहाः पूज्याः सदा रुद्र इच्छता विपुलं यशः । श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । । ३२ वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्पुनः । यानपत्या भवेन्नारी दुष्प्रजाश्चापि या भवेत् । । ३३ बाला यस्याः प्रम्रियन्ते या च कन्याप्रजा भवेत् । राज्यभ्रष्टो नृपो यस्तु दीर्घरोगी च यो भवेत् । । ३४ ग्रहयज्ञः स्मृतस्तेषां मानवानां मनीषिभिः । तस्मादसौ सदा कार्यः श्रेयोऽर्थं जानता हर । । ३५ दत्तपुष्पः क्रूरदृक्च पुष्पजो धिषणस्तथा । सितासितौ तथा रुद्र उपरागः शिखी तथा । । ३६ एते ग्रहा महाबाहो विद्वद्भिः पूजिताः सदा । ताम्रकात्स्फाटिकाद्रक्तचन्दनात्स्वर्णकादपि । ३७ राजतादायसात्सीसाद्ग्रहाः कार्याः२ प्रयत्नतः । स्वर्णे वाथ पटे लेख्या यथाशास्त्रं महेश्वर । । ३८ यथावर्णं प्रदेयानि वासांसि कुसुमानि च । गंधाश्च बलयश्चैव धूपो देयश्च गुग्गुलः । । ३९ कर्तव्या मन्त्र३वंतश्च चरवः प्रतिदैवतम् । आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । । 1.56.४० उद्बुध्यस्व यथासंख्यमृच एताः प्रकीर्तिताः । बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः । । ४१ शं नो देवी तथा कांडात्केतुं कृण्वन्निमाः क्रमात् । पूर्वोक्ताः समिधस्त्वत्र यथाशास्त्रं प्रहोमयेत् । ।४ २ एकैकस्याष्टशतकमष्टाविंशतिरेव वा । होतव्या मधुसर्पिभ्यां दध्ना चैव समन्विताः । ।४ ३ पूर्वोक्तभोजनं यद्धि ब्राह्मणेभ्यो निवेदयेत् । शक्तितो वा यथालाभं दक्षिणा तु१ विधानतः । । ४४ यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । मयैषा हि वरो दत्तः पूजिताः पूजयिष्यथ । । ४५ ग्रहाधीना नरेंद्राणामुच्छ्रयाः पतनानि च । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः । । ४६ ग्रहा गावो नरेन्द्राश्च गुरवो ब्राह्मणास्तथा । पूजितः पूजयन्त्येते निर्दहन्त्यपमानिताः । । ४७ यथा समुत्थितं यन्त्रं यन्त्रेणैव प्रहन्यते । तथा समुत्थितां पीडां ग्रहशान्त्या ३ प्रशामयेत् । । ४८ यज्वनां सत्यवाक्यानां तथा नित्योपवासिनाम् । जपहोमपराणां च सर्वं दुष्टं प्रशाम्यति । । ४ ९ एवं कृत्वा प्रजाशान्तिं कृत्वा च स्वस्तिवाचनम् । पुनः सज्जं रथं कृत्वा कुर्यात्प्रकमणं हर । । 1.56.५० मार्गं शेषं नयित्वा तु नयेद्देवालयं रविम् । पूजयित्वा ततः ४पूर्वा याः प्रोक्ता रथदेवताः । । ५१ यथा पूज्या ग्रहाः सर्वे उत्पातेषु त्रिलोचन । रथदेवास्तथा५ पूज्या याः स्थिता रथमाश्रिताः । । ५२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमहिमवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः
Description of the Sun's chariot procession. Shri Rudra said: 'O Brahman, how should one move the chariot bearing that destroyer of evil? Who are his attendants, and in what order do they follow? Tell me everything in detail again, O best of gods, for my benefit, for I am greatly curious.' Brahma said: 'O Rudra, the chariot should be led gently along a smooth path, so that the journey proceeds even on uneven roads. First, the forerunner chariot should be led to clear the way, then, with respect, the chariot of the chief of guards. After that, the tawny one should be led behind with care, as a protector and doorkeeper, following the chariot. The announcer stands before the god's chariot, and after him, O Rudra, the scribe dear to Bhaskara. Carefully and slowly, O Rudra, the chariot of the god should be moved, so that there is no breaking of the yoke, axle, or wheel, O Three-eyed One. If the pole breaks, it is a danger for the Brahmins; if the axle breaks, it is ruin for the Kshatriyas; if the balance breaks, it is loss for the Vaishyas; if the bed breaks, it is ruin for the Shudras. If the yoke breaks, there will be drought; if the seat breaks, it is a threat to the people; if the enemy's wheel comes, it is a sign of invasion; if the chariot's wheel breaks, it is a sign of loss of knowledge. If the flag falls, it foretells the king's downfall; if the image is damaged, it indicates the king's death. If the umbrella breaks, it is a danger for the crown prince. When such inauspicious omens occur, one should perform the offering ritual and a pacifying fire sacrifice, summon the Brahmins again, and give gifts. In the northeast direction of the chariot, one should establish a fire and offer oblations to Jatavedas with sticks smeared with ghee, reciting the Svaha formula in order to the deities, the planets, and the people, naming each as appropriate. First, offer to Agni with 'Svaha,' then to Soma, then to Prajapati, in order. May there be welfare here for the Brahmins, for the king, for the cows, for the people; may there be peace for the world. May there always be peace for bipeds, for quadrupeds, for the people, and for the eternal soul. O Lord of gods, may there be peace on earth, in the atmosphere, and in heaven; may there be peace everywhere for the Sun. You, O god, are the creator and nourisher of the world; O protector of beings, lord of planets, grant peace, O lord of the day. Now I will tell you another supreme cause of peace, concerning the journey and the person's own birth. Knowing the malefic planets, one should perform the planetary pacification. The sticks for the fire should be of a hand's length, measured properly: arka wood for the Sun, palasha for the Moon, khadira for Mars, apamarga for Mercury, ashvattha for Jupiter, udumbara for Venus, shami for Saturn, durva grass for Rahu, and kusa grass for Ketu. For the Sun, a beautiful cow should be given; for the Moon, a conch; for Mars, a red bull; for Mercury, gold; for Jupiter, garments; for Venus, a white horse; for Saturn, a blue cow; for Rahu, a vessel of milk-rice; for Ketu, a goat. Listen also to their foods: jaggery rice for the Sun, ghee rice for the Moon, sacrificial food for Mars, milk rice for Mercury, curd rice for Jupiter, ghee food for Venus, sesame flour and black gram for Saturn, meat for Rahu, and mixed rice for Ketu, as well as sour gruel and fermented drinks. Just as armor is protection against arrows, so is pacification a defense against celestial afflictions. For one who is non-violent, self-controlled, and whose wealth is earned by righteousness, and who always observes discipline, the planets are always favorable. The planets should always be worshipped by those desiring great fame, prosperity, or peace, by performing the planetary sacrifice. Those desiring rain, long life, or strength, or those afflicted by sorcery, or women who are childless or have lost children, or kings who have lost their kingdoms, or those who are chronically ill— for all these, the planetary sacrifice is prescribed by the wise. Therefore, it should always be performed by one seeking welfare. The planets called Dattapushpa, Kruradrik, Pushpaja, Dhishana, Sita, Asita, Uparaga, and Shikhi—these should always be worshipped by the learned, using copper, crystal, red sandalwood, gold, silver, iron, or lead, or drawn on gold or cloth as prescribed in the scriptures, O Maheshvara. Garments, flowers, scents, offerings, and incense of guggul should be given according to their color. Mantra-infused offerings should be made for each deity: the hymn 'ākṛṣṇena imaṃ devā agnirmūrdhā divaḥ kakut' and the other verses as enumerated. For each, eight or twenty-eight oblations should be offered with honey, ghee, and curd. The previously mentioned foods should be offered to the Brahmins, and gifts given as one is able, according to rule. Whoever is afflicted by any planet should worship that one with effort. This boon has been given by me: 'Those who are worshipped will bless the worshipper.' The rise and fall of kings depend on the planets; so too the existence and non-existence of the world—therefore, the planets are most worthy of worship. The planets, cows, kings, teachers, and Brahmins—when worshipped, they bless; when insulted, they destroy. Just as a machine is countered by another machine, so should planetary afflictions be pacified by planetary rites. For those who are truthful, always fasting, devoted to recitation and sacrifice, all evil is pacified. Having thus established peace for the people and recited the benediction, one should prepare the chariot again and proceed, O Hara. After leading the rest of the way, the Sun should be brought to the temple, and the chariot deities previously mentioned should be worshipped as the planets are worshipped in times of calamity, O Three-eyed One; so too should the chariot deities who reside on the chariot be worshipped.
रथयात्रावर्णनम् ब्रह्मोवाच क्षीरं यवागूर्ब्रह्मणे स्यात्परमान्नं त्रिलोचन । फलानि कार्तिकेयस्य दद्याद्भूतेशप्रीतये । । विवस्वते मधु मांसं तथा मद्यं च सुव्रत । । १ पुरुहूताय भक्ष्याणि सानुगाय निवेदयेत् । हविरन्नमग्नये स्यादग्रान्नं विष्णवे तथा । । २ राक्षसेभ्यः समैरेयं दद्यान्मांसौदनं हर । संस्कृतं पिशितान्नं च रेवताय निवेदयेत् । । ३ तिलान्नं पितृराजाय दद्यात्त्रिपुरसूदन । आश्विनाभ्यामपूपांस्तु वसुभ्यो मांसमोदनम् । । ४ पितृभ्यः पायसं दद्याद्घृताक्तं मधुना सह । कात्यायन्यै यवागूं च श्रियै दद्यात्तथा दधि । । ५ सरस्वत्यै त्रिमधुरं वरुणायेक्षुरसौदनम् । १खाडवान्नं धनपतावेवं मित्रे त्रिलोचन । । ६ सस्नेहेन तु तक्रेण मरुद्भ्यस्तर्पणं स्मृतम् । मांसान्नभक्तसूपांश्च मातृभ्यो वै निवेदयेत् । । ७ उल्लेपिकाश्च भूतेभ्यो जलं सूर्याय वै हर । दद्याद्गणाधिपतये मोदकांस्त्रिपुरान्तक । । ८ शष्कुल्यस्तु नैर्ऋताय देयाः स्युर्गणनायक । सर्वभक्ष्याणि विश्वेभ्यो दातव्यानि समन्ततः । । ९ क्षीरौदनमृषिभ्यस्तु क्षीरं नागेभ्य एव हि । सूर्यरथाय बलिं दद्यात्कुर्याद्वै सार्वभौतिकम् । । 1.57.१० उद्वर्तनं सुरा मांसं तद्वाहेभ्यश्च भारत । आज्यं च ब्रह्मणे दद्यात्त्र्यम्बकाय तिलांस्तथा । । ११ स्वाहातनये वै लाजा दातव्यास्त्रिपुरान्तक । भास्कराय सदा दद्यात्कोविदारं त्रिलोचन । । १२ राजवृक्षं तथेन्द्राय हविष्यं पावकाय च । चक्रिणे सप्तधान्यं च गरुडे मत्स्यमोदनम् । । १३ यक्षेभ्यो विविधान्नानि निर्यासं रेवते त्यजेत् । वैकंकतस्रजो रुद्र यमाय परिकीर्तिताः । । १४ देयं स्यात्कर्णिकारं तु अश्विभ्यां वृषभध्वज । श्रियै पद्मानि देयानि चंडिकाय सुचंदनम् । । १५ नवनीतं सरस्वत्यै विनतायै तथामिषम् । पुष्पाण्यप्सरसां रुद्र मालत्याः परिकीर्त्तितम् । । १६ वरुणायाग्निमन्थं तु फलं मूलं निर्ऋतये । बिल्वं दद्यात्कुबेराय कपित्थं मरुतां तथा । । १७ गंधर्वेभ्यस्त्वारग्वधं दद्यात्त्रिपुरसूदन । वासवेभ्यस्तु कर्पूरं दद्याद्दारु गणाधिपे । । १८ पितृभ्यः पिण्डमूलानि भूतेभ्यश्च बिभीतकम् । गोभ्यो यवान्प्रदद्याद्वै मातृभ्यश्चाक्षतान्हर । । १९ गुग्गुलं विघ्नपतये विश्वेभ्यो देयमोदनम् । ऋषिभ्यो ब्रह्मवृक्षं तु नागेभ्यो विषमुत्तमम् । । 1.57.२० भास्करस्येह देयानि सकलानि गणाधिप
Description of the chariot procession. Brahma said: 'Milk porridge should be given to Brahma, and the finest food, O Three-eyed One. Fruits should be offered to Kartikeya for the satisfaction of Bhutesha. To Vivasvat, offer honey, meat, and wine, O virtuous one. To Puruhuta and his attendants, offer edible foods. Sacrificial food should be given to Agni, and the first portion of food to Vishnu. To the Rakshasas, offer mead and meat-rice, and to Revata, offer prepared meat dishes. Sesame rice should be given to the lord of ancestors, O Tripurasudana. To the Ashvins, offer cakes; to the Vasus, meat-rice. To the ancestors, offer milk-rice mixed with ghee and honey. To Katyayani, offer barley porridge, and to Shri, curd. To Sarasvati, offer three-sweet delicacies; to Varuna, sugarcane rice. To Dhanapati, offer khadava rice, and to Mitra, O Three-eyed One. For the Maruts, the offering is with clarified butter and buttermilk. To the Mothers, offer meat, rice, and soup. To the Bhutas, offer condiments; to Surya, water, O Hara. To the lord of the Ganas, offer sweet dumplings, O Tripurantaka. To Nairrita, offer fried cakes, O lord of the Ganas. All kinds of foods should be given to the Vishvedevas all around. To the sages, offer milk-rice; to the Nagas, milk. To the Sun's chariot, offer the general oblation for all beings. For the chariot-pullers, offer ointment, wine, and meat, O Bharata. To Brahma, offer clarified butter; to Tryambaka, sesame seeds. To the daughter of Svaha, offer popped grains, O Tripurantaka. To Bhaskara, always offer the kovidara tree, O Three-eyed One. To Indra, the royal tree; to Agni, sacrificial food. To Vishnu, seven kinds of grains; to Garuda, fish-rice. To the Yakshas, various foods; to Revata, resin. To Rudra, vaikaṅkata garlands; to Yama, karṇikāra flowers. To the Ashvins, offer karṇikāra flowers, O bull-bannered one. To Shri, lotuses; to Chandika, fine sandalwood. To Sarasvati, fresh butter; to Vinata, meat. To the Apsaras, flowers—mālatī is mentioned, O Rudra. To Varuna, the fire-drill; to Nirriti, fruits and roots. To Kubera, offer bilva; to the Maruts, kapittha. To the Gandharvas, aragvadha, O Tripurasudana. To the Vasus, camphor; to the lord of the Ganas, wood. To the ancestors, tuberous roots; to the Bhutas, bibhitaka. To the cows, offer barley; to the Mothers, unbroken rice, O Hara. To Vighnapati, guggul; to the Vishvedevas, rice. To the sages, the Brahma tree; to the Nagas, the best poison. All these should be given to Bhaskara, O lord of the Ganas.
रथ-यात्रावर्णनम् ब्रह्मोवाच अनेन विधिना यस्तु कुर्याद्वा कारयेत वा । यात्रां भगवतो भक्त्या भास्करस्यामितौजसः । । १ स परार्धं तु वर्षाणां सूर्यलोके महीयते । कुले न जायते तस्य दरिद्रो व्याधितोऽपि वा । । २ अभ्यङ्गाय घृतं यस्तु भास्कराय प्रयच्छति । कृते तु वर्णतिलके स गच्छेत्सुरभी १ पुरम् । । ३ तीर्थोदकं तु यो भक्त्या गंगायाश्च तथोदकम् । स्नानार्थमानयेद्यस्तु भास्करस्य त्रिलोचन । ।४ भक्त्या वर्णत्रयं दद्याद्भास्करस्य त्रिलोचन । समाप्येहाखिलान्कामान्प्राप्नुयाद्वरुणालयम् । । ५ रक्तवर्णं तु यो दद्याद्धविष्यान्नं गुडौदनम् । स गच्छेद्दीप्तिमान्रुद्र सूर्यलोकं पुरं वरम् । । ६ गच्छेत्पुरवरे रुद्र यत्र देवः प्रजापतिः । स्नापयेद्यस्तु वा भक्त्या भास्करं पूजयेत्तथा । । ७ स गच्छेद्दीप्तिमान्रुद्र सूर्यलोकं न संशयः । २रथमारोपयेद्यस्तु रथमार्गं प्रमार्जति । । ८ स याति वातसालोक्यं वाततुल्यपराक्रमः । रथस्य गच्छतो यस्तु मार्गे कुर्यात्सुमण्डलम् । । ९ स लोकं प्राप्नुयात्पुण्यं मारुतं नात्र संशयः । सूर्यस्य गच्छतो यस्तु मार्गं कुर्यात्सुमण्डलम् । । 1.58.१० स लोकं प्राप्नुयात्पुण्यं यः कुर्यान्मार्गमादरात् । पुष्पप्रकरशोभाढ्यं ३शुभतोरणमण्डितम् । । ११ शंखतूर्यनिनादाढ्यं तथा४ प्रेक्षणकान्वितम् । स याति परमं स्थानं यत्र देवो विभावसुः । । १२ देवेन सहितो यस्तु नृत्यन्गायंस्तथार्चयन् । कुर्यान्महोत्सवं भक्त्या स याति परमं पदम् । । १३ प्रजागरं यस्तु कुर्याद्देवे रथगते रवौ । स सुखी पुण्यवान्नित्यं मोदते शाश्वतीः समाः । । १४ भक्तदासादिकं १ सर्वं यो ददाति रवेर्नरः । सम्प्राप्येहाखिलान्कामान्सूर्यलोकमवाप्नुयात् । । १५ रथारूढस्य सूर्यस्य भ्रमतो दर्शनं हर । दुर्लभं देवशार्दूल विशेषात्पुरतो व्रजन् । । १६ उत्तराभिमुखं यान्तं तथा वै दक्षिणामुखम् । धन्यः पश्यति देवेशं भास्करं भक्तवत्सलम् । । १७ अथ संवत्सरे प्राप्ये भानोर्यात्रादिने यदि । रथप्रकमणं तत्र न कथञ्चित्कृतं भवेत् । । १८ ततो वै द्वादशे वर्षे कर्तव्यं भूतिमिच्छता । इन्द्रध्वजस्य चाप्येवं यदि नोत्थापनं कृतम् । । १९ ततो वै द्वादशे वर्षे कर्तव्यं नान्तरा पुनः । यात्रायाश्चापि ये भङ्गं कुर्वन्ति वृषभध्वज । । 1.58.२० मन्देहा नाम ते ज्ञेया राक्षसा नात्र संशयः । ये कुर्वन्ति तथा यात्रां नरा धर्मध्वजस्य तु । । २१ इन्द्रादिदेवास्ते ज्ञेया गताश्च परमं पदम् । पुनर्यात्राविधिं चेमं समासात्कथयामि ते । । २२ यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । वर्तमाने तु वै माघे रथे २देवगणाश्रिते । । २३ स तस्मिन्नेव मनसा स्थापनीयो रथोपरि । द्यौर्मही च द्विमूर्तिस्थे यथापूर्वं प्रतिष्ठिते । । २४ तथैव राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता । एताभ्यामपि देवीभ्यां यथैव सवितुस्तथा । । २५ दिण्डिनः पिंगलादीनां पृथुः कार्यो रथक्रमः । मनसा चिन्तयेदन्यां यथास्थानेषु देवताम् । । २६ दिक्पालांल्लोकपालांश्च कल्पयेत्मनसैव तु । देवो वेदमयश्चायं सर्वदेवमयस्तथा । । २७ मंडलमृङ्मयं चैव छन्दांस्यास्यं प्रकीर्तितम् । गायत्री चैव त्रिष्टुप्च जगत्यनुष्टुबेव च । । २८ पंक्तिश्च बृहती चैव उष्णिगेव च सप्तमी । ततो देवमयात्वाच्च च्छन्दसां चैव कल्पनात् । । २९ ततो वेदमयात्वाच्च तरणिर्लोकपूजितः । १रथप्रकमणात्सूर्यो वोढव्यो ब्रह्मवादिभिः । । 1.58.३० उपवासपरैर्युक्तैर्वेदवेदांगपारगैः । रथं तु नारुहेच्छूद्रो भास्करस्य त्रिलोचन । । ३१ आरुह्य तरणेर्यानं व्रजेच्छूद्रो ह्यधोगतिम् । यथोक्तकरणाद्रुद्र सदा शान्तिर्भवेन्नृणाम् । । ३२ नायकश्चापि सर्वेषां देवानां तु२ दिवाकरः । विन्यसेत्तु रथानां तु देवतायतनेषु च । । ३३ ततो धूपोपहारैस्तु पूजयेत्प्रथमं रविम् । दिग्देवानुचरांश्चैव पूजयेत्पूज्यते श्रिया । । ३४ अपूज्य प्रथमं सूर्यमपरान्यस्तु पूजयेत् । ३तत्तद्भूतकृतं पाद्यं न प्रगृह्णन्ति देवताः । । ३५ यात्राकाले तु सम्प्राप्ते ४सवितुर्दीक्षितां तनुम् । ये द्रक्ष्यंति नरा भक्त्या ते भविष्यन्त्यकल्मषाः । । ३६ पौर्णमास्याममायां च दर्शनं पुण्यदं स्मृतम् । सप्तम्यां च तथा षष्ठ्यां दिने तस्य रवेस्तथा । । ३७ आषाढी कार्त्तिकी माघी तिथ्यः पुण्यतमाः स्मृताः । महाभाग्यं तिथे पुण्यं यथा शास्त्रेषु गीयते । । ३८ कार्त्तिक्यां तु विशेषेण महाकार्तिक्युदाहृता । एवं कालसमायोगाद्यात्राकालो विशिष्यते । । ३९ दर्शनं च महापुण्यं सर्वपापहरं भवेत् । उपवासपरो यस्तु तस्मिन्काले यतव्रतः । ।1.58.४ ० पूजयेत्तु१ रविं भक्त्या स गच्छेत्परमां गतिम् । देवोऽयं यज्ञपुरुषो लोकानुग्रहकांक्षया । । ४१ प्रतिमावस्थितो भूत्वा पूजां गृह्णात्यनुग्रहात् । स्नानाद्दानाज्जपाद्धोमात्संयोगाद्देवकर्मणः । । ४२ कूर्चानां वपनाच्चैव दीक्षितः पुरुषो भवेत् । कचानां वापनं कार्यं सूर्यभक्तैः सदा नरैः । । ४३ सूर्यक्रतौ शुचिस्त्वेवं दीक्षितः पुरुषो भवेत् । चतुर्णामपि वर्णानां भक्त्या सूर्यस्य नित्यदा । । ४४ एवं येऽत्र करिष्यन्ति ते नरा नित्यदीक्षिताः । चीर्णव्रता महात्मानस्ते यास्यन्ति परां गतिम् । । ४५ इत्येषा कथिता रुद्र रथयात्रा दिवस्पतेः । यां श्रुत्वा वाचयित्वा सर्वरोगैर्विमुच्यते । । ४६ कृत्वा च विधिवद्भक्त्या याति सूर्यसदो नरः । रथाह्वा कथिता रुद्र समासात्सप्तमी शुभा । । ४७ भूयोऽपि श्रूयतां रुद्र सप्तमी गदतो मम । ।४८ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे रथयात्रा वर्णनं नामाष्टपञ्चाशत्तमोऽध्याय
Description of the Chariot Festival Brahma said: Whoever, with this procedure, either performs or causes to be performed the festival of the glorious Sun, of boundless radiance, with devotion— He is honored for a hundred million years in the world of the Sun; in his lineage, there is never born one who is poor or afflicted with disease. Whoever offers ghee for anointing to the Sun, with proper marks of color, goes to the city of Surabhi. Whoever, with devotion, brings water from sacred places or from the Ganga for the Sun's bath, O Three-eyed One— Whoever, with devotion, gives three colors to the Sun, O Three-eyed One, having fulfilled all desires here, attains the abode of Varuna. Whoever gives red-colored cooked rice with jaggery to the Sun, O Rudra, attains the radiant, excellent city of the Sun. He goes, O Rudra, to the excellent city where the god Prajapati resides; whoever bathes the Sun with devotion and worships him likewise— He, radiant, goes to the world of the Sun, O Rudra, without doubt. Whoever places the deity on the chariot or sweeps the chariot's path— He attains the world of Vata and becomes equal in valor to Vata. Whoever, as the chariot moves, makes a beautiful circle on the path— He attains the virtuous world of Marut; there is no doubt of this. Whoever, as the Sun moves, makes a beautiful path— He attains a virtuous world, who prepares the path with care, adorned with heaps of flowers, auspicious arches, and decorations— Resounding with conches and drums, and provided with places for viewing, he attains the supreme abode where the radiant god dwells. Whoever, together with the deity, dances, sings, and worships, and celebrates the festival with devotion, attains the highest state. Whoever keeps vigil for the deity as the Sun rides the chariot, always rejoices happily for countless years. Whoever gives all service, including that of devoted servants, to the Sun, having attained all desires here, reaches the world of the Sun. To see the Sun, mounted on the chariot and moving, O Hara, is rare, O tiger among gods, especially when approaching in front. Whoever sees the Lord of gods, the Sun, compassionate to devotees, as he moves northward or southward, is blessed. If, in a year, on the festival day of the Sun, the chariot procession is not performed in any way— Then, in the twelfth year, it must be done by one desiring prosperity; likewise, if the raising of Indra's banner is not done— Then, in the twelfth year, it must be performed; not again in between. Those who disrupt the procession, O bull-bannered one— Are to be known as demons called Mandehas; there is no doubt of this. Those who perform the procession of the Dharma-banner— Are to be known as the gods beginning with Indra, who have attained the supreme state. Again, I will briefly tell you the procedure for the procession— Hearing which, one is freed from all sins; there is no doubt of this. When, in the present Magha month, the chariot is occupied by the hosts of gods— One should mentally install them on the chariot itself. Heaven and earth, in dual form, are to be established as before. Likewise, the queen is to be known as heaven, and the agitated earth is remembered; these two goddesses are to be established as for Savitar. For Dindina, Pingala, and others, the order of the chariot is to be made broad; one should mentally contemplate the other deities in their proper places. The guardians of the directions and the world-protectors are to be conceived mentally; the god is composed of the Vedas and of all the gods. The circle is made of Rigveda; the meters are declared as his mouth: Gayatri, Trishtubh, Jagati, and Anushtubh, Pankti, Brihati, Ushnik, and Saptami. Thus, from the divinity and arrangement of the meters— And from the Vedic nature, the Sun, honored by the worlds, is to be carried by the knowers of Brahman from the start of the chariot procession— By those engaged in fasting, skilled in the Vedas and Vedangas. A Shudra must not mount the chariot of the Sun, O Three-eyed One. If a Shudra mounts the vehicle of the Sun, he goes to a lower state. By performing as prescribed, O Rudra, there is always peace for people. The Sun is the leader of all the gods; he should be established in the shrines of the chariots. Then, with offerings of incense and gifts, one should first worship Ravi; one should worship the attendant deities of the directions, who are to be honored with splendor. If one worships other deities before worshiping the Sun, the water offered by such beings is not accepted by the gods. At the time of the procession, those who see the consecrated form of Savitar with devotion become free from all sin. On the full moon, new moon, and especially on the sixth and seventh days, the sight of the Sun is considered meritorious. The Ashadha, Karttika, and Magha lunar days are considered most auspicious; the great fortune and merit of these days are sung in the scriptures. Especially in Karttika, the great Karttika is declared; thus, by the conjunction of time, the festival time is distinguished. The sight of the Sun is highly meritorious and removes all sins. Whoever, devoted to fasting and vows, worships Ravi at that time with devotion, attains the highest state. This god is the person of sacrifice, wishing to bestow grace upon the worlds; taking form as an image, he accepts worship out of compassion. By bathing, giving, reciting, and offering, and by the conjunction of divine acts, and by the shaving of hair, a person becomes consecrated. The cutting of hair should always be done by devotees of the Sun. In the Sun's sacrifice, thus purified, a person becomes consecrated. Of all four classes, those who always worship the Sun with devotion are ever consecrated; those great souls who have observed vows attain the supreme state. Thus, O Rudra, the description of the Sun's chariot festival has been told; hearing and reciting it, one is freed from all diseases. By performing it properly with devotion, a person goes to the Sun's abode. The auspicious Saptami, called the chariot festival, has been described, O Rudra. Again, hear further, O Rudra, as I speak about the Saptami.
रथसप्तमीमाहात्म्यवर्णनम् ब्रह्मोवाच माघे मासि तथा देव सिते पक्षे जितेन्द्रियः । षष्ठ्यामुपोषितो भूत्वा गन्धपुष्पोपहारतः । । १ पूजयित्वा दिनकरं रात्रौ तस्याग्रतः स्वपेत् । विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् । । २ ब्राह्मणान्भोजयेत्पश्चाद्वित्तशाठ्यं१ विवर्जयेत् । खण्डवेष्टैर्मोदकैश्च तथेक्षुगुडपूपकैः । । ३ अथ संवत्सरे पूर्णे सप्तम्यां कारयेद्बुधः । देवदेवस्य वै यात्रां पूर्वोक्तविधिना हर । । ४ कृष्णपक्षे तु यः कृत्वा रथमारोहितं रविम् । पश्येद्भक्त्या जगन्नाथं स याति परमां गतिम् । । ५ तृतीयायामैकभक्तं चतुर्थ्यां नक्तमुच्यते । पञ्चम्यामयाचितं स्यात्षष्ठ्यां चैवमुपोषणम् । । ६ सप्तम्यां पारणं कुर्याद्दृष्ट्वा देवं रथे स्थितम् । पूजयित्वा च विधिना शक्त्या भक्त्या त्रिलोचन । । ७ सौवर्णं तु रथं कृत्वा ताम्रपात्रोपरि स्थितम् । रथमध्ये न्यसेद्व्योम पूजितं मणिभिर्हर । । ८ पद्मरागं न्यसेन्मध्ये मौक्तिकं पूर्वतो न्यसेत् । इंद्रनीलमथो याम्यां वारुण्यां मरकतं हर । । ९ प्रवालमुत्तरे रुद्र सवज्रं विन्यसेद् बुधः । श्वेतं पीतासितं चापि रक्तं चान्धकसूदन । । 1.59.१० एतानि तात वस्त्राणि दिक्षु सर्वासु विन्यसेत् । पताकाकारसंस्थानं घण्टाभरणभूषितम् । । ११ पुष्पैर्दामैरलंकृत्य रथं रुद्र समन्ततः । यथान्यायं पूजयित्वा भास्कराय निवेदयेत् । । १२ भोजयित्वाथ वा विप्रानाचार्याय निवेदयेत् । योऽधीते सप्तमीकल्पं सोपाख्यानं च भारत । । १३ आचार्यः स द्विजो ज्ञेयो वर्णानामनुपूर्वशः । सौराणां वैष्णवानां तु शैवानां पार्वतीप्रिय । । १४ अलाभे तु सुवर्णस्य रथं राजतमादिशेत् । तदलाभे ताम्रमयं रथं व्योम च कारयेत् । । १५ अभावे चापि ताम्रस्य रथः पिष्टमयः स्मृतः । सहिरण्यो १महादेव ताम्रभाजनमाश्रितः । । १६ २कौशेययुग्मसहितं ब्राह्मणाय निवेदयेत् । पूर्वोक्ताय महादेव वाचकाय महात्मने । । १७ पञ्चरत्नसमायुक्तं गुभगन्धाधिवासितम् । स्वशक्त्या तु विरूपाक्ष वित्तशाठ्यं विवर्जयेत् । । १८ एषा पुण्या पापहरा रथाह्वा सप्तमी हर । कथिता ते मया रुद्र महतीयं प्रकीर्तिता । । १९ स्नानं दानमथो होमः पूजा ग्रहपतेर्हर । शतसाहस्रं भवेदस्यां कृतं भूधरविद्यते । । 1.59.२० एवमेषा पुण्यतमा माघे प्रोक्ता तु सप्तमी । यामुपोष्य नरो भक्त्या सूर्यस्यानुचरो भवेत् । । २१ ब्राह्मणो याति देवत्वं क्षत्रियो विप्रतां व्रजेत् । वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वमेति च । । २२ विद्याविनयसम्पन्नं भर्त्तारं ३ कन्यका लभेत् । अपुत्रा स्त्री सुतं विन्देत्सौमाग्यं च गणाधिप । । २३ विधवा चाप्युपोष्येमां सप्तमीं त्रिपुरान्तक । नान्यजन्मसु वैधव्यं प्राप्नुयात्पार्वतीप्रिय । । २४ बहुपुत्रा बहुधना पत्युर्वल्लभतां व्रजेत् । यावद्वै सप्त जन्मानि स्त्रियस्तु पुरुषास्तथा । । २५ एवंविधा सप्तमी ते कथिता वृषभध्वज । यां श्रुत्वा मानवो भक्त्या मुच्यते ब्रह्महत्यया । । २६ इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे रथसप्तमीमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः
The Glory of Ratha Saptami Brahma said: In the month of Magha, O god, in the bright fortnight, one who has conquered his senses, having fasted on the sixth day and offered fragrant flowers— Having worshipped the Sun, should sleep before him at night; then, awakened on the Saptami, he should worship Bhanu with devotion. Afterwards, he should feed Brahmins, avoiding miserliness with wealth, with cakes wrapped in leaves, sweetmeats, and sugarcane-jaggery cakes. When the year is complete, on Saptami, the wise should perform the festival of the Lord of gods, as previously described, O Hara. Whoever, in the dark fortnight, sees the Sun mounted on the chariot with devotion, attains the highest state. On the third day, one meal is prescribed; on the fourth, night-fasting; on the fifth, one should beg; on the sixth, fasting is enjoined. On the seventh, one should break the fast after seeing the god seated on the chariot, having worshipped him properly, with ability and devotion, O Three-eyed One. One should make a golden chariot, placing it on a copper vessel; in the middle of the chariot, place the sky, worshipped with jewels, O Hara. Place a ruby in the center, a pearl to the east, an indranila gem to the south, and an emerald to the west, O Hara. Place coral to the north, O Rudra, and a diamond as well, O wise one; white, yellow, black, and red cloths, O slayer of Andhaka— These, O dear one, should be placed in all directions, in the form of banners, adorned with bells and ornaments. Decorate the chariot all around with garlands of flowers, O Rudra; having worshipped properly, offer it to Bhaskara. After feeding Brahmins, offer it to the teacher; whoever recites the Saptami procedure with its story, O Bharata— That teacher, that twice-born, is to be known as foremost among the classes: among Saura, Vaishnava, and Shaiva devotees, O beloved of Parvati. If gold is not available, a silver chariot is prescribed; if that is not available, a copper chariot should be made, with the sky as before. If copper is not available, the chariot should be made of flour, together with gold, O Mahadeva, and placed on a copper vessel. With a pair of silk garments, offer it to a Brahmin, as previously described, O Mahadeva, to the great teacher. Adorned with five jewels, and scented with incense, according to one's ability, O Virupaksha, avoiding miserliness with wealth. This auspicious Ratha Saptami, O Hara, has been told to you by me, O Rudra, and is declared to be great. Bathing, giving, offering, and worship of the lord of planets, O Hara, performed on this day is equal to a hundred thousand. Thus, this most meritorious Saptami in Magha has been described; whoever fasts with devotion on this day becomes a follower of the Sun. A Brahmin attains divinity, a Kshatriya becomes a Brahmin, a Vaishya attains Kshatriyahood, and a Shudra attains Vaishyahood. A maiden obtains a learned and virtuous husband; a woman without a son obtains a son, and good fortune, O Lord of Ganas. A widow who fasts on this Saptami, O Tripurāntaka, does not experience widowhood in future births, O beloved of Parvati. She becomes blessed with many sons, much wealth, and the love of her husband for seven births, as do men likewise. Thus, O bull-bannered one, the Saptami has been described to you; hearing it with devotion, a person is freed from the sin of killing a Brahmin.
रथयात्रावर्णनम् सुमन्तुरुवाच इत्युक्त्वा स जगामाशु सुरज्येष्ठं त्रिलोचनम् । रथयात्रा महाबाहो सूर्यस्येत्यमितौजसः । । १ शतानीक उवाच यमाराध्य जगन्नाथं मम पूर्वपितामहाः । तुष्ट्यर्थं ब्राह्मणानां तु अन्नमापुश्चतुर्विधम् । । २ तस्य देवस्य माहात्म्यं श्रुतं च बहुशो मया । देवर्षिसिद्धमनुजैः स्तुतस्य हि दिनेदिने । । २ कः स्तोतुमीशस्तमजं१ यस्यैतत्सचराचरम् । अव्ययस्याप्रमेयस्य विबुध्येतोदयाज्जगत् । । ४ कराभ्यां यस्य देवेशौ कविष्णू लोकपूजितौ । उत्पन्नौ द्विजशार्दूल ललाटात्त्रिपुरान्तकः । । ५ तस्य देवस्य कैः शक्या वक्तुं सर्वा विभूतयः । सोऽहमिच्छामि देवस्य तस्य सर्वात्मना द्विज । । ६ श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् । केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया । । ७ दानैर्वृतोपवासैर्वा होमैर्जाप्यैरथापि वा । आराधितः समस्तानां क्लेशानां हानिदो भवेत् । । ८ सैका विद्या हि विद्यानां यया तुष्यति सर्वकृत् । श्रुतानामपि तत्पुण्यं यत्र भानोः प्रकीर्तनम् । । ९ रहस्यानां रहस्यं तद्येन हंसः प्रसीदति । एकः श्रेष्ठतमो मंत्रस्तदेकं परमं व्रतम् । । 1.60.१० उपोषितं च तच्छ्रेष्ठं येन भानुः प्रसीदति । सा चैका रसना धन्या मार्तण्डं स्तौति या सदा । । ११ तदेकं निर्मलं चित्तं १यद्गतं सततं रवौ । श्लाघ्यानामपि तौ श्लाघ्याविह लोके परत्र च । । १२ यो सदा द्विजशार्दूल भानोः पूजाकरौ करौ । तदेकं केवलं धन्यं शरीरं सर्वजन्तुषु । । १३ यदेव पुलकोद्भासि भानोर्नामानुकीर्तने । सा जिह्वा कण्ठतालूकमथ वा प्रतिजिह्विका । । १४ अथ वा सापरो रोगो या न वक्ति रवेर्गुणम् । नवद्वाराणि सन्त्यस्मिन्पुरे पुरुषसत्तम । । १५ प्राकारैस्त्वावृते विष्वग्वृथा तानि विदुर्बुधाः । दत्त्वावधानं यच्छब्दे विनैव रविसंस्तुतिम् । । १६ श्रेयसां न हि. सम्प्राप्तौ पुरुषाणां विचेष्टितम् । जन्मन्यविफला सेवा कृता याश्रित्य भास्करम् । । १७ दुर्गसंसारकांतारमपारमभिधावताम् । एको भानुनमस्कारः संसारार्णवतारकः । । १८ रत्नानामाकरो मेरुः सर्वाश्चर्यमयं नभः । तीर्थानामाश्रयो गंगा देवानामाश्रयो रविः । । १९ एवमादिगुणो भोगो भानोरमिततेजसः । श्रुतो मे बहुशः सिद्धैर्गीयमानैस्तथामरैः । । 1.60.२० सोऽहमिच्छामि तं देवं सप्तलोकपरायणम् । दिवाकरमशेषस्य जगतो हृद्यवस्थितम् । । २१ आराधयितुमीशेशं भास्करं चामितौजसम् । मार्तण्डं भुवनाधारं स्मृतमात्राघदारिणम् । । २२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यपरिचर्यावर्णनं नाम षष्टितमोऽध्यायः
Description of the Chariot Festival Sumantu said: Having spoken thus, he quickly approached the elder among the gods, the three-eyed one, for the chariot festival of the Sun, of boundless radiance. Shatanika said: By worshipping the Lord of the universe, as my ancestors did before me, for the satisfaction of Brahmins, they obtained four kinds of food. I have often heard the greatness of that god, praised daily by gods, sages, perfected beings, and men. Who is able to praise that unborn one, by whom this entire moving and unmoving world is pervaded, who is imperishable, immeasurable, and from whom the world awakens? From whose forehead, O best of twice-born, the two lords of gods, Kavi and Vishnu, revered by the worlds, were produced, O Tripurāntaka. Who can describe all the powers of that god? Yet I desire, O twice-born, to hear the worship of that god, by which I may cross the ocean of existence. By what means, with mantras, secrets, or service, by gifts, vows, fasts, offerings, or recitations, when worshipped, does he become the remover of all suffering? There is one knowledge among all knowledges, by which the all-creator is pleased; the merit of all that is heard is where the Sun is praised. That is the secret of secrets, by which the Swan is pleased; that one mantra is supreme, that one vow is highest. The best fast is that by which Bhanu is pleased; that one tongue is blessed which always praises Martanda. That one pure mind, always fixed on Ravi, is praiseworthy among the praiseworthy, here and hereafter. Those hands are truly blessed, O best of twice-born, which always perform worship of Bhanu; that one body among all creatures is blessed, Which is thrilled in reciting the names of Bhanu; that tongue, palate, or even the uvula is blessed. But that tongue is diseased which does not speak the virtues of Ravi. There are nine gates in this body, O best of men, Surrounded on all sides by walls, as the wise know; if attention is given to sound but not to the praise of Ravi, There is no attainment of the highest good for men; service done in vain in life, if not dedicated to Bhaskara. For those who rush into the boundless, difficult ocean of worldly existence, a single salutation to Bhanu is the raft to cross the ocean of samsara. Meru is the mine of jewels, the sky is full of wonders, the Ganga is the refuge of holy places, and Ravi is the refuge of the gods. Thus, the Sun, of boundless radiance, is the source of all enjoyments; I have often heard this from the perfected ones and the immortals. Therefore, I desire to worship that god, the goal of the seven worlds, the Sun, who dwells in the heart of all creation. To worship the Lord, Bhaskara, of boundless radiance, Martanda, the support of the worlds, who destroys sin at the mere thought.
सूर्य-महिमावर्णनम् सुमन्तुरुवाच तमेकमक्षरं धाम परं सदसतोर्महत् । भेदाभेदस्वरूपस्थं प्रणिपत्य रविं नृप । । १ प्रवक्ष्यामि यथापूर्वं विरिञ्चेन महात्मना । ऋषीणां कथितं पूर्वं तं निबोध नराधिप । । २ आराधनाय सवितुर्महात्मा पद्मसंभवः । योगं ब्रह्मपरं प्राह महर्षीणां यथा प्रभुः । । ३ समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् । तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः । ।४ सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् । योयं योगो भगवता प्रोक्तो वृत्तिनिरोधजः । । ५ प्राप्तुं शक्यः स त्वनेकैर्जन्मभिर्जगतः पते । विषया दुर्जया नॄणामिन्द्रियाकर्षिणः प्रभो । । ६ वृत्तयश्चेतसश्चापि चञ्चलस्यापि दुर्धरा । रागादयः कथं जेतुं शक्या वर्षशतैरपि । । ७ न योगयोग्यं भवति मन एभिरनिर्जितैः । अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेप्यमी । । ८ त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे । भगवंस्त्वामुपासीनान्प्रसन्नो वक्तुमर्हसि । । ९ अनायासेन येनैव उत्तरेम भवार्णवम् । दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्मन्महाप्लवम् । । 1.61.१० उत्तरेम भवाम्भोधिं तथा त्वमनुचिंतय । एवमुक्तस्तदा ब्रह्माक्रियायोगं महात्मनाम् । । ११ तेषामृषीणामाचष्ट नराणां हितकाम्यया । आराधयत विश्वेशं दिवाकरमतन्द्रिताः । । १२ बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् । इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम् । । १३ व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणं । तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः । । १४ अपरिच्छेद्यमाहात्म्यमाराधयत भास्करम् । तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः । । १५ तद्दृष्टयस्तन्मनसः सर्वस्मिन्त्स१ इति स्थिताः । समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि । । १६ संन्यसध्वं स वः कर्त्ता समस्तावरणक्षयम् । एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ । । १७ २यतो यस्मिन्यथा चोभौ सर्वय्यापिन्यवस्थितौ । परः पराणां परमः सैकः सुमनसां परः । । १८ यस्माद्भिन्नमिदं सर्वं ३यच्चेदं यच्च नेङ्गति । मोक्षकारणमव्यक्तमचिन्त्यमपरिग्रहम् । । समाराध्य जगन्नाथं क्रियायोगेन मुच्यते । । १९ इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः । । 1.61.२० नराणामुपकाराय योगशास्त्राणि चक्रिरे । क्रियायोगपराणीह मुक्तिकारीण्यनेकशः । । २१ आराध्यते जगन्नाथस्तदनुष्ठानतत्परैः । परमात्मा स मार्तण्डः सर्वेशः सर्वभावनः । । २२ यान्युक्तानि पुरा तेन ब्रह्मणा कुरुनन्दन । तानि ते कुरुशार्दूल सर्वपापहराण्यहम् । । २३ वक्ष्यामि श्रूयतामद्य रहस्यमिदमुत्तमम् । संसारार्णवमग्नानां विषयाक्रांतचेतसाम् । । २४ हंसपोतं विना नान्यत्किंचिदस्ति परायणम् । उत्तिष्ठंश्चिंतय रविं व्रजंश्चिंतय गोपतिम् । । २५ भुञ्जंश्चिंतय मार्तंडं स्वपांश्चिंतय भास्करम् । एवमेकाग्रचित्तस्त्वं संश्रितः सततं रविम् । । २६ जन्ममृत्युमहाग्राहं संसाराम्भस्तरिष्यसि । । २७ ग्रहेशमीशं वरदं पुराणं जगद्विधातारमजं च नित्यम् । समाश्रिता ये रविमीशितारं तेषां भवो नास्ति विमुक्तिभाजाम् । । २८ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्ययोगमहिमवर्णनं नामैकषष्टितमोऽध्यायः
Description of the Sun's Greatness Sumantu said: Having bowed to that one imperishable abode, supreme, beyond being and non-being, vast, abiding in the form of difference and non-difference, to Ravi, O king— I will declare, as formerly spoken by the great-souled Brahma, what was told to the sages of old; listen, O lord of men. For the worship of Savitar, the great-souled, the lotus-born spoke the supreme yoga to the great sages, as the Lord. By restraining all activities, it leads to liberation; then the Lord of the world, Brahma, having bowed with the sages, Was addressed by the self-born Lord, for the benefit of creatures: 'This yoga, taught by the Blessed One, arising from restraint of the mind, Can be attained only after many births, O Lord of the world; for the senses are difficult to conquer for men, O Lord, drawing the mind outward. The activities of the mind, even though restless, are hard to restrain; how can passions and the like be conquered, even in a hundred years? The mind does not become fit for yoga when these are unconquered; men are short-lived, O Brahman, even in the Krita age. What then in Treta and Dvapara, and especially now in Kali Yuga? O Lord, be gracious to those who worship you and speak, By what easy means may men, sunk in the ocean of suffering, cross over, O Brahman, having found a great raft? Thus, by thinking of you, we may cross the ocean of worldly existence. Thus addressed, Brahma then taught the yoga of action to the great sages, For the benefit of men: 'Worship the Lord of the universe, the Sun, tirelessly, With external supports, worshipping the unborn Lord of the world, day and night, with offerings, worship, salutations, and service. With various vows and fasts, and by satisfying Brahmins, with those desires that bring joy to the mind, Worship Bhaskara, whose greatness is immeasurable; being devoted to him, with minds fixed on him, performing actions for him, taking refuge in him, Seeing him, thinking of him, they are established in him. All actions are to be renounced there, in the Supreme Self, the Self of all. Renounce; he is the doer, the destroyer of all obstacles. This is that imperishable Brahman, both Pradhana and Purusha. From whom, in whom, and as whom both are pervaded; he is the supreme among the supreme, the highest among the good. From whom all this is distinct, and yet not distinct; the cause of liberation, unmanifest, inconceivable, and unattainable. By worshipping the Lord of the universe with the yoga of action, one is liberated.' Having heard this secret from Brahma, the best of sages composed treatises on yoga for the benefit of men, Focusing on the yoga of action, which brings liberation in many ways. The Lord of the universe is worshipped by those devoted to its practice; The Supreme Self, Martanda, Lord of all, creator of all beings. Whatever was taught before by Brahma, O descendant of Kuru, those things, O tiger among the Kurus, I will tell you, which remove all sins. Listen today to this supreme secret, for those sunk in the ocean of worldly existence, whose minds are overcome by sense objects. There is no other refuge but the swan-boat; when standing, think of Ravi; when going, think of the protector of cows; When eating, think of Martanda; when sleeping, think of Bhaskara. Thus, with single-minded devotion, always take refuge in Ravi. You will cross the great crocodile of birth and death, the ocean of worldly existence. Those who take shelter in Ravi, the Lord of planets, the bestower of boons, the ancient, the creator of the world, the unborn and eternal, have no rebirth, being liberated.
'Ask for a boon, O knower of dharma, whatever is in your heart.' Diṇḍi said: 'This alone is the praiseworthy boon—that you have come before me. For those who are impure, even seeing you in a dream is rare. Just as this sin of killing a brāhmaṇa, condemned by the world, has come upon me, you, Lord of all, who dwell in the Sun, know everything about embodied beings. By your grace, O Lord, may this sin quickly be destroyed, and likewise all other faults that are condemned by the world. Whatever I desire, O Lord of the day, let all that come to be—by this very assurance, O blessed one, I know you are pleased. Indeed, O Sun, I have understood that when you are not pleased, there is no prosperity. Even though you are in the midst of all joy and delight, O radiant one, you remain detached. You must lift me up, who am sunk in the deep ocean of worldly existence. Those pleasures, in the end, are not happiness, for their result is suffering. When suffering comes, what is its cause, and by whose consumption does it arise? Grant your favor, O Lord of the universe, for you are the master of all. By the gift of knowledge alone can one cross this ocean of becoming. Thus addressed, the Sun, who knows yoga, began to teach him the supreme seedless yoga, which is the remedy for union with suffering. Hearing that seedless, formless yoga, Diṇḍi became radiant. Bowing down, the great-souled one spoke these words: 'O God of gods, the yoga you have taught, which destroys darkness, cannot be attained by me or by other men who have not conquered their senses. The objects of sense are hard to overcome for men, for the senses are always drawing them outward. Who among the strong is able to conquer the senses? The notion of "I" and "mine" is difficult to overcome, and the mind is restless. Passions and the like can only be abandoned, if at all, over many lifetimes.'