अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः
Now, a man should draw serpents using black and other colored pigments.
पूजयेद्गंधपुष्पैश्च सर्पिः पायसगुग्गुलैः
He should worship them with fragrant flowers, clarified butter, sweet rice, and guggul incense.
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्
For seven generations in his family, there will be no fear arising from serpents.
इति श्रीभविष्ये महापुराणे शतर्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोध्यायः
Thus, in the glorious Bhavishya Mahapurana, in the Brahma section of the compilation of one hundred and fifty thousand verses, in the fifth kalpa of the Bhadrpada month, the description of the Nagapanchami vow is the thirty-seventh chapter.
सुमंतुरुवाच तथा चाश्वयुजे मासि पञ्चम्यां कुरुनंदन
Sumantu said: Likewise, in the month of Ashvayuja, on the fifth day, O descendant of the Kurus,
घृतोदकाभ्यां पयसा स्नपयित्वा विशांपते
After bathing with ghee, water, and milk, O lord of the people,
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः
Whoever, pure and endowed with devotion, properly worships serpents on this day,
नागाः प्रीता भवंतीह शांतिमाप्नोति वा विभो
The serpents become pleased here, O mighty one, and he attains peace.
इत्येष कथितो वीर पञ्चमीकल्प उत्तमः । यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः
Thus has been described, O hero, the excellent Panchami kalpa, in which this mantra is recited, repelling all serpents.
ॐ कुरुकुल्ले फट् स्वाहा
Om Kurukulle Phat Svaha.
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्
One who has lost his kingdom especially regains his own kingdom soon.
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥ उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना । । २ कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः । देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना । । ३ अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः । तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा । । ४ दत्त्वार्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः । दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत । । ५ सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव । रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते । । प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम् । । ६ दत्त्वा विप्राय चात्मान्नं यच्चान्यदपि विद्यते । पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम् । । ७ एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः । तन्निबोध महाराज प्रोच्यमानं मयाखिलम् । । ८ षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति । शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः । । ९ तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम् । पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः । । 1.39.१० यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत् । इह वामुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम् । । स्वर्गे च नियतं वासं लभते नात्र संशयः । । ११ इह चागत्य कालान्ते यथोक्तफलभाग्भवेत् । देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति । । १२ यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह । तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा । । १३ इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः
कार्तिकेयवर्णनम् शतानीक उवाच अहो व्रतं महत्कष्टं संशयो हृदि वर्तते । कार्तिकेयस्य माहात्म्यं श्रुत्वा जन्म तथा द्विज । । १ अनेकजनितस्येह कार्त्तिकेयस्य सुव्रत । माहात्म्यं सुमहद्विप्र कथमेतद्विभाव्यते । । २ जातिः श्रेष्ठा भवेद्वीर उत कर्म भवेद्वरम् । संशयस्तु महानत्र दृष्ट्वा मे कृत्तिकासुतम् । । ३ एतद्वद विनिश्चित्य न यथा संशयो भवेत् । जन्मतः कर्मणश्चैव यज्ज्वायस्तद् ब्रवीहि मे । । ४ सुमन्तुरुवाच इममर्थं पुरा पृष्टो ब्रह्मा शिष्यैर्मनीषिभिः । यदुक्तं तेन तेषां च तत्ते वच्मि निबोध मे । । ५ सुरज्येष्ठं सुखासीनमभिगम्य महर्षयः । प्रणम्य च महाबाहो विश्वामित्रस्य विप्रताम् । । ६ दृष्ट्वा विस्मयमागत्य कौतूहलसमन्विताः । भक्तिं श्रद्धां पुरोधाय प्रणम्यानतकन्धराः । । ७ ऋषय ऊचुः भो ब्रह्मन्नादकल्पे हि ब्राह्मण्यं ब्रूहि किं भवेत् । जात्यध्ययनदेहात्मसंस्काराचारकर्मणाम्
The description of Kartikeya.
८ बाह्याभ्यन्तरसामान्यविशेषा यदि कृत्रिमाः । मनोवाक्कर्मशारीरजातिद्रव्यगुणात्मकाः । । ९ सन्त्यक्तव्याः प्रसिद्धा ये जातिभेदविधायिनः । वस्तुभूताः परोक्षैर्वा प्रमाणैर्न विनिश्चिताः । । 1.40.१० अव्यक्तागमसिद्धश्चेज्जातिभेदविधिर्नृणाम् । विकल्पोऽयं न पुष्णाति भवतः शेमुषीबलम् । । ११ ब्रह्मोवाच एवमेतन्न सन्देहो यथा यूयं वदन्ति१ ह । शृणुध्वं योगिनो वाक्यं सतर्कं शिष्यश्रेयसे । । १२ योगेश्वर उवाच प्रमाणे हि प्रसिद्धे तु भिन्नार्थविषये यतः । स्पष्टयोग्यार्थविषयं प्रत्यक्षं तावदीक्षते । । १३ समान्यातीन्द्रियग्राही सिद्धान्तोऽभ्युपगम्यते । स एव भगवानेकं प्रमाणमिति चेन्न तत् । । १४ यस्माद्विविधमे तत्ते सङ्कटं भद्र वर्तते । वेदस्य पौरुषेयत्वं नित्यजातिसमर्थकम् । । १५ कार्या विशेषा वेदोक्ता न युक्तमकृतं वचः । ताल्वादिकरणानां च व्यापारानन्तरं श्रुतेः । । १६ व्यापारात्परतस्तस्य प्रागभावविशेषतः । तद्भावानुविधायित्वमन्वयव्यतिरकेतः । । १७ तस्माद्धूमाग्निवद्वार्थफलभावोऽवतिष्ठते । न च व्यापारवचसोरन्यथानुपपत्तितः । । १८ पुरुषानुगता जातिर्ब्राह्मणत्वादिकास्ति चेत् । द्विवर्णजातिभेदेन प्रत्याक्षार्थोपलक्षणात् । । १९ गोवर्गमध्यं च गतो यथाश्वो निर्धार्यते ज्ञैः सुविचक्षणत्वात् । मनुष्यभावादविशिष्यमाणस्तद्वद्द्विजः शूद्रगणान्न भिन्नः । । 1.40.२० मनुष्यजातेर्न परो विशेषो यः कल्प्यते सर्वनरानुयायी । संस्कारयुक्ता हि क्रियाविशिष्टा द्विजन्मनां शूद्रविवेकहेतुः । । २१ जीवोऽपि ब्राह्मणः प्रोक्तो यैरतत्त्वज्ञमानवैः । प्रभ्रष्टब्राह्मणत्वास्ते जायन्ते विप्रसङ्गतः । । २२ जराजन्मान्तरक्लेशदुष्टग्राहकुलाकुलम् । नर तिर्यगसच्छूद्र योनिदुःखोर्मिसंकटम् ।। २३ दौस्थित्यरोगशोकार्तिजनावर्तसमन्वितम् । श्वानुशूकरचाण्डालकृमिकूर्मादिकायकम् । । २४ संसारसागरं घोरं मग्नः खलु परिप्लवन् । भूरिपापभराक्रान्तः स जीवो ब्राह्मणः कथम् । । २५ ब्रह्मोवाच सप्तव्याधकथा विप्रा मनुना परिकीर्तिताः । तं निशम्य यदुश्रेष्ठ नित्यं जातिपदं त्यजेत् । । २६ सप्तव्याधा दशार्णेषु१ मृगाः कालञ्जरे गिरौ । चक्रवाकाः सरिद्द्वीपे हंसाः सरसि मानसे । । २७ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः। प्रस्थिता दीर्घमध्वानं मृयं किमवसीदथ । । २८ तस्मान्न जीवे ब्राह्मण्यं पश्यामो हि कथञ्चन । । २९ शस्त्रादिमद्भार्गवजातियुक्तो गजाश्वगोजोष्ट्रखरादिकानाम् । शक्त्या कृतो ह्यङ्गजवर्णधर्मैर्भेदः स्फुटं लक्षणतोऽत्र यद्वत् । । 1.40.३० तदुत्तरान्नैव विकर्तनीया ब्राह्मण्यजातिनृषु नास्ति काचित् । नित्याकृतिर्नानुपभेदरूपा यथा हि भेदः परमोऽत्र सिध्येत् । । सिताद्यसाधारणतुल्यरूपाः सनातनोऽङ्गेषु न वर्णभेदः । । ३१ ब्राह्मण्यमध्रुवमिदं किल कृत्रिमत्वादकृत्रिमं भवति सामयिकत्वयोगात् । साङ्केतिकं सुकृतलेशविशेषलब्धं वाणिज्यभेषजकृतामिव जातिभेदाः । । ३२ किं ब्राह्मणा ये सुकृतं त्यजन्ति किं क्षत्रिया लोकमपालयन्तः .। स्वधर्महीना हि तथैव वैश्याः शूद्राः स्वमुख्यक्रियया विहीनाः । । ३३ तस्मान्न गोश्ववत्कश्चिज्जातिभेदोऽस्ति देहिनाम् । कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् । । ३४ एवं प्रमाणैः प्रतिषिध्यमानां साङ्केतिकीं याति नरो व्यवस्थाम् । स्वकीयसिद्धां स्वमतैर्निषिद्धां न बुध्यते मूढमना वराकः । । ३५ गोमहिष्यजवाज्युष्ट्रवानेयाविगजाधिपाः । प्रेष्यवार्धुषिकाकार्यकरणोद्यतमानसाः । । ३६ वणिक्कारुक्रियाविष्टा१ दिव्यास्तेऽपि च ये द्विजाः । विनष्टास्ते तु विज्ञेयाः क्रव्यादाश्च कुशीलवाः । । ३७ पलाण्डुलशुनादाश्च मृग्युष्ट्रीक्षीरपायिनः । मांससर्वरसक्षीरक्रयविक्रयकारिणः । । ३८ पुनर्भूवृषलीवेश्याचाण्डालस्त्रीनिषेविणः । शूद्रान्नरसपुष्टाङ्गाः प्रेतवस्त्रान्नभोजनाः । । ३९ मृतसूतकलब्धान्नपानाद्यभ्यवहारिणः । ब्रह्मदेवपितृभूतमनुष्येषु बहिष्कृताः । ।1.40.४० मात्सर्यमदविद्वेषतृष्णाकामतमोमयाः । हीनाचारा१ हि ये केचिदपरे पिशुना द्विजाः । । प्रकारैर्बहुभिः सर्वे ते प्रणश्यन्ति नान्यथा । ।४ १ एवं शास्त्रोदितन्यायमार्गभ्रष्टास्तु ये नराः । विशिष्टगोत्रसंस्कारकलापसकलात्मकाः । ।४ २ वेदानध्यापयन्तोऽपि तेऽधीयानाः श्रुतिक्रमात् । ब्राह्मणत्वाद्विहीयन्ते दुराचारविघायिनः । ।४ ३ तस्मान्न जातिरेकत्र भूतात्मास्त्यनपायिनी । नाशित्वादत्र च श्लोकान्मानवाः समधीयते । ।४. सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविकयी । ।४५ गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्धुषिकांश्चैव शूद्रास्तान्मनुरब्रवीत् । ।४६ शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । क्षत्रियो याति विप्रत्वं विद्याद्वैश्यं तथैव च । ।४७ इति श्री भविष्ये महापुराण शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे कार्तिकेयवर्णने जातिवर्णनं नाम चत्वारिंशोऽध्यायः ।४
ब्राह्मणविवेकवर्णनम् ब्रह्मोवाच वेदाध्ययनमप्येतद्ब्राह्मण्यं प्रतिपद्यते । विप्रवद्वैश्यराजन्यौ राक्षसा रावणादयः । । १ श्वादचाण्डालदासाश्च लुब्धकाभीरधीवराः । येन्येऽपि वृषलाः केचित्तेऽपि वेदानधीयते । । २ यदा देशान्तरं गत्वा ब्राह्मण्यं क्षत्रियं श्रिताः । व्यापाराकारभावाद्यैर्विप्रतुल्यैः प्रकल्पितैः । । ३ वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । प्रोद्वहन्ति शुभां कन्यां शुद्धब्राह्मणजा नराः । ।४ अथवाधीत्य वेदांस्तु क्षत्रवैश्यैस्तु१ वा नराः । गौडपूर्वां कृतामेयुर्जातिं वा दाक्षिणात्यजाम् । । ५ अपरिज्ञातशूद्रत्वाद्ब्राह्मण्यं यान्ति कामतः । तस्मान्न ज्ञायते भेदो वेदाध्यायक्रियाकृतः । । ६ शास्त्रकारैस्तथा चोक्तं न्यायमार्गानुसारिभिः । ते साधु मतमाकर्ण्य सन्तः सन्ति विमत्सराः । । ७ आचारहीनान्न पुनंति वेदा यद्यप्यधीताः सह षद्भिरङ्गैः
The description of Brahmin discernment.
शिल्पं हि वेदाध्ययनं द्विजानां वृत्तं स्मृतं ब्राह्मणलक्षणं तु । । ८ अधीत्य चतुरो वेदान्यदि वृत्ते न तिष्ठति । न तेन क्रियते कार्यं स्त्रीरत्नेनेव षण्ढकः । । ९ शिखाप्रणवसंस्कारसन्ध्योपासनमेखलाः । दण्डाजिनपवित्राद्याः शूद्रेष्वपि निरङ्कुशाः । । 1.41.१० प्रसङ्गोऽपि हि शूद्राणां न शक्यो विनिवारितुम् । देवोत्तमत्रयेणापि निवर्तन्ते नराः स्वयम् । । ११ तस्मान्नैतेऽपि लक्ष्यन्ते विलक्षणतया१ नृणाम् । यज्ञोपवीतसंस्कारमेखलाचूलिकादयः । । १२ आभिचारिकमन्त्राद्यैर्दुर्लभत्वादिभाषणैः । ब्राह्मणस्यैव शक्तिश्चेत्केनास्य विनिहन्यते । । १३ तपः सत्यादिमाहात्म्याद्देवतासमयस्मृतिः । मन्त्रशक्तिर्नृणामेषां सर्वेषामपि विद्यते । । १४ वञ्चनं दुर्वचस्यापि क्रियते सर्वमानवैः । शूद्रब्राह्मणयोस्तस्मान्नास्ति भेदः कथञ्चन । । १५ शापानुग्रहकारित्वं शक्तिभेदो न विद्यते । चौरचाटादिराजन्यदुर्जनाभिहते नृणाम् । । १६ आत्मादुःखोदयापायं स्वेषु जन्तुषु रक्षणम् । कर्तुं न प्रभवेच्छूद्रो ब्राह्मणस्तद्वदेव हि । । १७ मा भूद्युगे कलावेतद्देशे चाकार्यकृद्द्विजे । स्यादन्यदेशकालादौ द्विजानामतिशायिनाम् । । १८ शापानुग्रहसामर्थ्यमन्यद्वाध्यात्मगोचरम् । ब्रह्मसाधनमेतद्धि लिङ्गं केचित्प्रचक्षते । । १९ संसारारक्तचेतस्का मोहान्धतमसावृताः । पतन्त्युन्मार्गगर्तेषु प्रत्यग्नि शलभा यथा । । 1.41.२० जातिधर्मः स्वयं किञ्जिद्विशेषः श्रुतिसङ्गमात् । असिद्धः शूद्रजातीनां प्रसिद्धो विप्रजातिषु । । २१ संस्कारो योनिसाध्यो वा सामग्री प्रभवोऽथ वा । शूद्रेभ्योऽतिशयं धत्ते यः साधारणतागुणः । । २२ विप्राणां पञ्चधा भेदः कल्पनीयस्तु पण्डितैः । न जातिजस्त्रयीजो वा विशेषो युक्तिबाधकात् । । क्रमाक्रमक्रियाः सन्ति न सनातनवस्तुनः । । २३ नित्यो न हेतुर्विगतक्रियत्वाद्धेतुर्भवेद्वेदविशेषतः सः । स तत्समस्तत्प्रतिसन्निधानात्कालात्ययेक्षित्वमयुक्तमेव । । २४ स्वान्तः शरीरवृत्तिस्थः श्रुतियोगादुदेति यः । सोऽनन्यवेदविज्ञातस्वभावोऽन्यैर्न गम्यते । २५ विशिष्टाधीतिधर्मत्वे कृत्रिमा ब्रह्मसङ्गतिः । यस्यास्यतिशयस्तस्य नान्यो नाश्रयते यदि । । २६ दृश्यस्वभावं किमभीष्टमेतद्ब्राह्मण्यमाहोस्विददृष्टरूपम् । सर्वैः प्रतीयेत हि दृश्यरूपं ततोऽन्यथावद्गतिरेव न स्यात् । । २७ सामग्र्यभावात्परमं विशेषं भूदेवगात्रस्थमभूमिदेवाः । स्मरन्ति तेनात्मनि पुण्यपापं यथा तथेत्येतदयुक्तमुक्तम् । । २८ सामग्र्यनुष्ठानगुणैः समग्राः शूद्रा यतः सन्ति समा द्विजानाम् । तस्माद्विशेषो द्विजशूद्रनाम्नोर्नाध्यात्मिको बाह्यनिमित्तको वा । । २९ संस्कारतः सोऽतिशयो यदि स्यात्सर्वस्य पुंसोऽस्त्यतिसंस्कृतस्य । यः संस्कृतो विप्रगणप्रधानो व्यासादिकैस्तेन न तस्य साम्यम्
ब्राह्मणसंस्कारविवेकवर्णनम् ब्रह्मोवाच अपरैश्च सदाचारयोगयुक्तैर्मनीषिभिः । यदकारि महासत्त्वैः सुभाषितमिदं शृणु । । १ बहुवनस्पतिशङ्खपिपीलिकाभ्रमरवारणजातिमुदाहरन्। गतिषु कर्ममितो नटवत्सदा भ्रमति जन्तुरलब्धसुदर्शनः । । २ रूपैश्वर्यज्ञानकुलैर्विभवैर्वर्मितो भूत्वा धर्मपथं चेद्विजहासि । न वक्ष्ये व्रजन्भुवनानि त्वमटिष्यंस्तस्मादभिभस्मीभूते मद आत्मनः । । ३ जातिकुलरूपवयोवर्णानेकश्रुतमदान्धाः क्लीबाः । परत्र चेह च हितमप्यर्थं न पश्यन्ति । ।४ ज्ञात्वा भवपरिवर्ते जातीनां कोटिशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् । । ५ नैकाञ्जातिविशेषानिन्द्रियनिवृत्तिपूर्वकान्सर्वान् । कर्मवशाद्गच्छत्यत्र कस्यैका शाश्वती जातिः । । ६ विद्वत्सदसि योऽप्याह संस्काराद्ब्राह्मणो भवन् । न्यायज्ञैः१ स निराकार्यो वाक्यैर्न्यायानुसारिभिः । । ७ गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा । जातकर्म नामकर्म तथान्नप्राशनं च वै । । ८ चूडोपनयनं चास्य व्रतादेशस्तथैव च । समावर्तनमप्यन्यत्पाणिग्रहणमेव च । । ९ इत्येवमादिसंस्कारविधानैर्येऽतिसंस्कृताः । त एव ब्राह्मणा येषां नैरन्तर्येण२ कामनाः । । 1.42.१० यस्माद्वै ब्राह्मणा जाता ब्राह्मणैः कृतसंस्कृतैः । नायुः शक्तिर्हि कान्त्यादिविशेषो विद्यते स्फुटः । । ११ तौ वा ब्राह्मणगात्रोत्थौ संस्कृतासंस्कृतौ नरौ । इष्टानिष्टाप्त्यनाप्तिभ्यां न भिद्येते परस्परम् । । १२ ज्ञानाध्ययनमीमांसा नियमेन्द्रियनिग्रहैः । विना संस्कारयोगेऽपि पुंसः शूद्रान्न भिन्नता । । १३ संस्कारः क्रियमाणश्च न शूद्रे च प्रवर्तते । संस्कृताङ्गश्च१ पापेभ्यो न पश्यति निवर्तते । । १४ विलासिनीभुजंगादिजनवन्मदविह्वलाः । व्यामुह्यन्ति सदाचाराद्ब्राह्मणत्वात्पतन्ति३ च । । १५ संस्कृतोऽपि दुराचारो नरकं याति मानवः । निःसंस्कारः सदाचारो भवेद्विप्रोत्तमः सदा । । १६ मन्त्रपूतात्मसंस्कारयुक्तोऽपि प्लवते न तु । ब्राह्मण्यादविकल्पं स पश्चाद्दुश्चरितो नरः । । १७ सामर्थ्यात्पतनं तस्माद्ब्राह्मण्यान्मुच्यते ध्रुवम् । दुरनुष्ठानसक्तानां पुंसां पुरुषपुङ्गवैः । । १८ किं क्वचिद्दृष्टमेवैतत्किं वा स्पर्धाविदत्ययम् । तुल्यमुत्सहसे कर्तुमप्यदृष्टं तदा वद । । १९ आचारमनुष्ठिन्तो व्यासादिमुनिसत्तमाः । गर्भाधानादिसंस्कारकलापरहिताः स्फुटम् । । 1.42.२० विप्रोत्तमाः श्रियं प्राप्ताः सर्वलोकनमस्कृताः । बहवः कथ्यमाना ये कतिचित्तान्निबोधत । । २१ जातो व्यासस्तु कैवर्त्याः श्वपाक्याश्च पराशरः । शुक्याः शुकः कणादाख्यस्तथोलूक्याः सुतोऽभवत् । । २२ मृगीजोथर्षशृङ्गोपि वशिष्ठो गणिकात्मजः । मन्दपालो४ मुनिश्रेष्ठो नाविकापत्यमुच्यते
The description of discernment regarding Brahmin rites.
२३ माण्डव्यो मुनिराजस्तु मण्डूकीगर्भसम्भवः । बहवोऽन्येऽपि विप्रत्वं प्राप्ता ये पूर्ववद्द्विजाः । । २४ यच्चैतच्चारुचरितैरर्च्यमुच्चरितं वचः । तद्विचार्याचरन्नुच्चैराचारोपचितद्युतिः । । २५ हरिणीगर्भसम्भूत ऋष्यशृङ्गो महामुनिः । तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २६ श्वपाकीगर्भसम्भूतः पिता व्यासस्य पार्थिव । तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २७ उलूकीगर्भसम्भूतः कणादाख्यो महामुनिः । तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २८ गणिकागर्भसम्भूतो वशिष्ठश्च महामुनिः । तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २९ नाविकागर्भसम्भूतो मन्दपालो महामुनिः । तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । 1.42.३० वेदतन्त्रजसंस्कारकलापनिपुणैरपि । विद्यातपोधनबलादुत्कृष्टं लभ्यते फलम् । ३१ लब्धसंस्कारदेहाश्च महापातकिनो नराः । यस्मान्निवर्तते ब्रह्म तस्मात्साङ्केतिकं विदुः । । ३२ इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे ब्राह्मणसंस्कारविवेकवर्णनं नाम द्वाचत्वारिंशोऽध्यायः
The sage Māṇḍavya, who was born from the womb of a frog, and many others likewise, attained the status of a Brāhmaṇa, just as the twice-born of old.
वर्णव्यवस्थावर्णनम् ब्रह्मोवाच किं चान्यदपरं यूयं वेदमन्त्रविदो जनाः । प्रष्टव्याः कस्य संस्कारे विशेषमुपगच्छत । । १ किं देहस्योत येनासौ निसर्गमलिनः स्थितः । शुक्रशोणितसम्भूतः शमलोद्भवकीटवत् । । २ निषेकादिश्मशानान्तैर्विविधैर्विधिविस्तरैः । देहिनोऽतिशयं केचिदुपगच्छन्ति मानवाः । । ३ तेषां गूढमनः कायवाग्विदुष्टैः सुचेष्टितैः । असंयतमनुष्याणां पक्षोऽयं दूष्यते मया । । ४ वैदिकाखिलसंस्कारसारभूता द्विजातयः । सर्वकार्यकरान्सर्वान्वृषलानतिशेरते । । ५ चण्डकर्मा विकर्मस्थो ब्रह्महा गुरुतल्पगः । स्तेनो गोघ्नः सुरापाणः परस्त्रीरमणप्रियः । । ६ मिथ्यावादी मदोन्मत्तो नास्तिको वेदनिन्दकः । ग्रामयाजकनिर्ग्रन्थौ बहुदोषो दुरासदः । । ७ नि१षिद्धाचारसंसेवी चोरश्चाटो मदोद्धतः । धूर्तो नटः शठः पापी सर्वाशी सर्वविक्रयी । । ८ वाङ्मनः कायजैर्दुष्टैर्हता ये ब्राह्मणाधमाः । ते न शुद्धिं व्रजन्तीह अपि यज्ञशतैरपि
Brahma said: What else, O you who know the Vedas and mantras, should be asked? In whose rite do you see a distinction? By what means does the body, naturally impure, formed from semen and blood, like a worm born from filth, become special? Through various elaborate rites from conception to cremation, some humans attain distinction. But those whose minds, bodies, and speech are corrupted by hidden intentions and improper actions—this group of undisciplined people is condemned by me. The twice-born, who possess the essence of all Vedic rites, surpass all others in every act, even the lowest. But one who commits cruel acts, forbidden deeds, kills a Brahmin, violates a teacher's wife, steals, kills cows, drinks liquor, or delights in another's wife; who speaks falsely, is mad with pride, denies the Veda, abuses the Veda, performs village sacrifices, is a mendicant, full of faults, and hard to approach; who follows forbidden conduct, is a thief, a cheat, intoxicated, a rogue, an actor, deceitful, wicked, eats everything, sells everything—those Brahmins ruined by faults of speech, mind, and body do not attain purity here, even by hundreds of sacrifices.
वर्णविभागविवेकवर्णनम् ब्रह्मोवाच हेयोपादेयतत्त्वज्ञास्त्यक्तान्यायपथागमाः । जितेन्द्रियमनोवाचः सदाचारपरायणाः । । १ नियमाचारवृत्तस्था हितान्वेषणतत्पराः । संसाररक्षणोपायक्रियायुक्तमनोरथाः । । २ सम्यग्दर्शनसम्पन्नाः समाधिस्था हतक्रुधः । स्वाध्यायभक्तहृदयास्त्यक्तसङ्गा विमत्सराः । । ३ विशोका विमदाः शान्ता सर्वप्राणिहितैषिणः । सुखदुःखसमालोका विविक्तस्थानवासिनः । । ४ व्रतोपयुक्तसर्वाङ्गा धार्मिकाः पापभीरवः । निर्ममा निरहङ्कारा दानशूरा दयापराः । । ५ सत्यब्रह्मविदः शान्ता सर्वशास्त्रेषु निष्ठिताः । सर्वलोकहितोपायप्रवृत्तेन स्वयंभुवा । । ६ वागीश्वरेण देवेन नाभेयेन भवच्छिदा । ब्रह्मणा कृतमर्यादास्त एवं ब्राह्मणाः स्मृताः । । ७ महातपोधनैरार्यैः सर्वसत्त्वाभयप्रदैः । सर्वलोकहितार्थाय निपुणं सुप्रतिष्ठितम् । । ८ वृहत्त्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः । भक्त्यासक्ताः प्रपन्नाश्च ब्राह्मणास्ते प्रकीर्तिताः । । ९ क्षत्रियास्तु क्षतत्राणाद्वैश्या वार्ताप्रवेशनात् । ये तु श्रुतेर्द्रुतिं प्राप्ताः शूद्रास्तेनेह कीर्तिताः । । 1.44.१० ये चाचाररताः प्राहुर्ब्राह्मण्यं ब्रह्मवादिनः । ते तु फलं प्रशंसन्ति यत्सदा मनसेप्सितम् । । ११ क्षमा दमो दया दानं सत्यं शौचं धृतिर्घृणा । मार्दवार्जवसन्तोषानहङ्कारतपःशमाः. । । १२ धर्मो ज्ञानमपैशुन्यं ब्रह्मचर्यममूढता । ध्यानमास्तिक्यमद्वेषो वैराग्यं च शमात्मता । । १३ पापभीरुत्वमस्तेयममात्सर्यमतृष्णता । नैःसङ्ग्यं गुरुशुश्रूषा मनोवाक्काय संयमः । । १४ य एवम्भूतमाचारमनुतिष्ठन्ति मानवाः । ब्राह्मण्यं पुष्कलं तेषां नित्यमेव प्रवर्धते । । १५ ते स्वमतास्वादलब्धवर्णाचारा महौजसः । सर्वशास्त्राविरोधेन पवित्रीकृतमानसाः । । १६ सज्जनाभिमताः प्राज्ञाः पुराणागमपण्डिताः । गीतगीतागमाचाराः स्मृतिकाराः पठन्ति च । । १७ मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः । वर्णाश्रमाचारकृतं कर्म सिद्ध्यत्यनुत्तमम् । । १८ संसिद्धायां तु वार्तायां ततस्तेषां स्वयं प्रभुः । मर्यादां स्थापयामास यथारब्धं परस्परम् । । १९ ये वै परिगृहीतारस्तेषां सत्त्वबलाधिकाः । इतरेषां क्षतत्राणान्स्थापयामास क्षत्रियान् । । 1.44.२० उपतिष्ठन्ति ये तान्वै याचन्तो नर्मदाः सदा । सत्यब्रह्म सदाभूतं वदन्तो ब्राह्मणास्तु ते । । २१ ये चान्येप्यबलास्तेषां वैश्यकर्मणि संस्थिताः । कीलानि नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः । । वैश्यानेव तु तानाह कीनाशान्वृत्तिमाश्रितान् । । २२ शोचन्तश्व द्रवन्तश्च परिचर्यासु ये नराः । निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः । । २३ ब्राह्मणक्षत्रियविशां शूद्राणां च परस्परम् । कर्माणि प्रविभक्तानि स्यभावप्रभवैर्गुणैः । । २४ शमस्तपो दमः शौचं क्षांतिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् । । २५ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् । । २६ कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । । २७ योगस्तपो दया दानं सत्यं धर्मश्रुतिर्घृणा । ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् । । २८ शिखा ज्ञानमयी यस्य पवित्रं च तपोमयम् । ब्राह्मण्यं पुष्कलं तस्य मनुः स्वायम्भुवोऽब्रवीत् । । २९ यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः । निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३० शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् । ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् । । ३१ न सुरां सन्धयेद्यस्तु आपणेषु गृहेषु च । न विक्रीणाति च तथा सच्छूद्रो हि स उच्यते । । ३२ यद्येका स्फुटमेव जातिरपरा कृत्यात्परं भेदिनी । यद्वा व्याहृतिरेकतामधिगता यच्चान्यधर्मं ययौ । । एकैकाखिलभावभेदनिधनोत्पत्तिस्थितिव्यापिनी । किं नासौ प्रतिपत्तिगोचरपथं यायाद्विभक्त्या नृणाम् । । ३३ इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णविभागविवेकवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
कार्तिकेयवर्णनम् ब्रह्मोवाच इदं श्रुणु मयाख्यातं तर्कपूर्वमिदं वचः । युष्माकं संशये जाते कृते वै जातिकर्मणोः । । १ पुनर्वच्मि निबोधध्वं समासान्न तु विस्तरात् । संसिद्धिं यान्ति मनुजा जातिकर्मसमुच्चयात् । । २ सिद्धिं गच्छेद्यथा कार्यं दैवकर्मसमुच्चयात् । एवं संसिद्धिमायाति पुरुषो जातिकर्मणोः । । ३ इत्येवमुक्तवान्पूर्वं शिष्याणां बोधने पुरा । योगीश्वरो महातेजाः समासान्न तु विस्तरात् । । ४ सुमन्तुरुवाच इति पृष्टः पुरा ब्रह्मा ऋषीन्प्रोवाच भारत । सवितर्कमिदं वाक्यं विप्रर्षे जातिकर्मणोः । । ५ तस्मात्त्वया महाबाहो न कार्यो विस्मयो नृप । कार्तिकेयं प्रति सदा देवानां दुर्विदा गतिः । । ६ इति श्रीभविष्ये महापुराणे शतार्धसाहहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे कार्तिकेयवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः
Description of Kārtikeya
ब्रह्मपर्ववर्णनम् सुमन्तुरुवाच येयं भाद्रपदे मासि षष्ठी च भरतर्षभ । सुपुण्येयं पापहरा शिवा शान्ता गुहप्रिया । । १ स्नानदानादिकं सर्वं यस्यामक्षय्यमुच्यते । येऽस्यां पश्यन्ति गाङ्गेयं दक्षिणापथमाश्रितम् । । २ ब्रह्महत्यादिभिः पापैर्मुच्यन्ते नात्र संशयः । तस्मादस्यां सदा पश्येत्कार्त्तिकेयं नृपोत्तम । । ३ पूजयन्ति गुहं येऽस्यां नरा भक्तिसमन्विताः । प्राप्येह ते सुखान्कामान्गच्छन्तीन्द्रसलोकताम् । । ४ यस्तु कारयते वेश्म सुदृढं सुप्रतिष्ठितम् । दार्वं शैलमयं चापि भक्तया श्रद्धासमन्वितः । । गाङ्गेयं यानमारुह्य गच्छेद्गाङ्गेयसद्म वै । । ५ सम्मार्जनादि यः कर्म कुर्याद्गुहगृहे नरः । ध्वजस्यारोपणं राजन्स गच्छेद्रुद्रसद्म वै । । ६ चन्दनागरुकर्पूरैर्यश्च पूजयते गुहम् । गजाश्वरथयानाढ्यं सैनापत्यमवाप्नुते । । ७ राज्ञां पूज्यः सदा प्रोक्तः कार्तिकेयो महीपते । कार्त्तिकेयमृते नान्यं राज्ञां पूज्यं प्रचक्षते । । ८ सङ्ग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम् । स शत्रुं जयते वीर यथेन्द्रो दानवान्रणे । । ९ तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्कारात्मजम् । पूजमानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप । । मुच्यते सर्वपापेभ्यस्तदा गच्छेच्छिवालयम् । । 1.46.१० तैलं षष्ठ्यां न भुञ्जीत न दिवा कुरुनन्दन । यस्तु षष्ठ्यां नरो नक्तं कुर्याद्धि भरतर्षभ । । सर्वपापैः स निर्मुक्तो गाङ्गेयस्य सदो व्रजेत् । । ११ त्रिकृत्वो दक्षिणामाशां गत्वा यः श्रद्धयान्वितः । पूजयेद्देवदेवेशं स गच्छेच्छान्तिमन्दिरम् । । १२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां षष्ठीकल्पे कार्त्तिकेयमाहात्मयवर्णनं नाम षट्चत्वारिंशोऽध्यायः
Description of the Brahma festival
शाकसप्तमीव्रतवर्णनम् सुमन्तुरुवाच सप्तम्यां सोपवासस्तु नक्ताहारोऽपि वा भवेत् । सप्तम्यां देवदेवेन लब्धं स्वं रूपमादरात् । । १ अण्डेन सह जातो वै अण्डस्थो बुद्धिमाप्तवान् । अण्डस्थस्यैव दक्षेण भार्यां दत्त्वा स्वकां सुताम् ।। २ नाम्ना रूपेति रूपेण नान्या नारी तथा १ भवेत् । अण्डस्थ एव सुचिरं स्थितो मार्तण्ड इत्यतः । । ३ दक्षाज्ञया विश्वकर्मा वपुरस्य प्रकाशयन् । प्रकाशतस्ततो नाम तस्य जातं नराधिप । । अण्डस्थस्यैव सञ्जातो यमुना यम एव च । ।४ दाक्षायणी तस्य भार्या वैराग्यात्तनुमध्यमा । चिन्तयामास सा देवी दुःखान्निर्वेदमागता । । ५ अहो तेजोमयं रूपं कान्तं कान्तस्य कान्तिमत् । न चास्य किञ्चित्पश्यामि अङ्गं तेजोविमोहितम् । । ६ शुभं कनकतुल्यं मे रूपं कान्तं सुकान्तिमत् । साम्प्रतं श्यामतां यातं दग्धमेतस्य तेजसा । । ७ तस्मात्तप्स्ये तपश्चाहं गत्वा वै उत्तरान्कुरून् । स्वां छायामत्र निक्षिप्य भयाच्छापस्य रूपिणी । । ८ निक्षिप्योवाच तां बालां मा चास्मै वै वदिष्यसि । एवं सा निश्चयं कृत्वा गता वै उत्तरान्कुरून् । । ९ स्वरूपं तत्र निक्षिप्य वडवारूपधारिणी । चचार सा मृगैः सार्धं बहून्वर्षगणान्नृप । । 1.47.१० असावपि च मार्तण्डश्छायां भार्याममन्यत् । शनिं च तपतीं चैव द्वे अपत्ये च जज्ञिवान् । । ११ अथ च्छायात्मापत्यानि स्नेहेन परिपालयेत् । नातिस्नेहेन चापश्यद्यमुनां यममेव च । । १२ अथ ताभ्यां विवादोऽभूदादित्यदुहित्रोर्द्वयोः । ते उभे विवदन्त्यौ तु परस्परमसम्मतम् । । यमुना तपती चोभे निम्नगे सम्बभूवतुः । । १३ यमोऽपि यमुनाभ्राता छायया ताडितो भृशम् । पादमुद्यम्य तस्या वै तस्थौ सम्मुख एव सः । । १४ छाया शशाप तं रोषाद्यस्मात्पादोद्यतो मम। तस्मात्ते कर्म बीभत्सं प्राणिनां प्राणहिंसनम् । । १५ भविष्यति चिरं मूढ आचन्द्रार्कं न संशयः । पादं च यदि भूमौ त्वमिमं संस्थापयिष्यसि । । १६ कृमयो भक्षयिष्यन्ति मच्छापकलुषीकृतम् । । १७ तेषां विवदमानानां मार्तण्डोऽभ्यागमत्ततः । यमोऽप्याह महात्मानं मार्तण्डं लोकपावनम् । । १८ तात नित्यमियं चापि क्रूरभावेन पश्यति । न चास्याः सुसमा दृष्टिरस्मास्वस्तीति लक्ष्यते । । १९ प्रोवाचाथ स तां छायां मार्तण्डो भृशकोपनः । १समे अपत्ये किं मूढे समत्वं नानुपश्यसि । । 1.47.२० यमः प्रोवाच पितरं नेयं माता पितर्मम । मातुश्छाया त्वियं पापा शप्तोऽहमनया पितः । । यमुना तपती वृत्तं तत्सर्वं विन्यवेदयत् । । २१ अथ प्रोवाच मार्तण्डो मा ते पादो महीतले । मांसं रुधिरमादाय कृमयो यान्तु भूतलम् । । २२ यमुनायाश्च यत्तोयं गङ्गातुल्यं भविष्यति । नर्मदायास्तपत्याश्च समं पुण्येन वै द्विज । । २३ विन्ध्यस्य दक्षिणेनेह तपती प्रवहिष्यति । तत्सायुज्यतया साग्रं गङ्गा यास्यति शोभना । । २४ गङ्गामासाद्य यमुना गङ्गा सैव भविष्यति । सौरसौम्ये उभे पुण्ये सर्वपापप्रणाशने । । २५ १सौरी च वैष्णवी चोभे महापापभयापहे । त्वं पुत्र लोकपालत्वं ब्रह्मणोऽज्ञां सभाजयन् । । अद्यप्रभृति च्छायेयं स्वदेहस्था भविष्यति । । २६ एवं संस्थाप्य स्वां भार्यामपत्यानि तथैव च । आजगाम सकाशं वै दक्षस्याह च कारणम्
दक्षो विज्ञाय तत्सर्वं मार्तण्डमिदमाह वै । । २७ रूपं न पश्यती तुभ्यं सा भार्या उत्तरान्गता । । २८ रूपं ते प्रकटिष्यामि यदि शक्ष्यसि वेदनाम् । असौ प्रोवाच शक्ष्येऽहं प्रकाशी कुरु मे वपुः । । २९ अथ सस्मार तक्षाणं स्मृत एवाजगाम सः । प्रोवाच दक्षस्तक्षाणं मार्तण्डं वै प्रकाशय । । 1.47.३० तक्षा प्रोवाच मार्तण्डं वेदना विसहिष्यसे । विसहिष्येथ प्रोवाच तक्षाणं दक्षचोदितः । । ३१ अथ तक्षा प्रकाशं वै तस्य रूपं विभावसौ । मुखादारभ्य पादान्तं ततक्षकरणैः स्वकैः । । किरणैस्तुद्यमानेषु तस्याङ्गेषु पुनः पुनः । क्षणेक्षणे मूर्छयति मार्तण्डो वेदनातुरः । । ३२ तस्य शापभयात्तक्षा पादौ गुल्फादियावतः । चकाराथो निराकारा अङ्गुल्यो न प्रकाशयत् । । ३३ पर्याप्तं तक्षकर्मेदं वेदना मम बाधते । तक्षा प्रोवाच मार्तण्डं वेदनां जहि गोपते । । ३४ करवीरस्य पुष्पाणि रक्तचन्दनमेव च । करादारभ्य गात्राणि विलिम्पे देहजानि ते । । ३५ तत्तत्कृतं तथा तेन स रुजं त्यक्तवान्रविः । अतश्चेमानि चेष्टानि मार्तण्डस्येह भूपते । । ३६ करवीरस्य पुष्पाणि तथा वै रक्तचन्दनम् । इदमाह पुरा देवो ह्यनूरोरग्रतो नृप । । ३७ करवीरस्य पुष्पाणि रक्तचन्दनमेव हि । इतिहासपुराणाभ्यां सुपर्णगुग्गुलं तथा । । ३८ यः प्रयच्छति मे भक्त्या स मे प्राणान्प्रयच्छति । तस्मान्न देयमन्यन्मे भक्तियुक्तेन जानता । । ३९ मार्तण्डस्याण्डजं तेजो गृहीत्वा किल भारत । चकार वज्रमजरं १ शत्रुलेखादिनाशनम् । । 1.47.४० मार्तण्डः परितुष्टोऽभूल्लब्ध्वा रूपं गतव्यथः । जगाम स कुरून्वेगात्स्वभार्यादर्शनोत्सुकः । । ४१ मृगमध्यगतां दृष्ट्वा वडवारूपधारिणीम् । अश्वरूपं ततः कृत्वा स्वभार्यामधिरुह्य सः । । अवासृजत्स्वकं तेजो वेगेनारुह्य सोऽश्ववत् । ।४ २ परपुरुषाशङ्कया सा स्थिता देवस्य संमुखी । तेजो नासापुटाभ्यां तु युगपत्साक्षिपत्पुनः । ।४ ३ तत्र जातौ देवभिषजौ नासत्यावश्विनाविति । रेतसोऽन्ते तु रेवन्तो विरोचनसुतो महान् । । ४४ तपती शनिश्च सावर्णिश्छायापत्यानि वै विदुः । यमुना यमश्च पूर्वोक्तौ संज्ञा २ याश्च तथात्मजौ । । ४५ भार्या लब्धा वपुर्दिव्यं तथा पुत्राश्च भारत । सप्तम्यां देवदेवस्य सर्वमेवमिदं यतः । । अनेन कारणेनेष्टा सदा देवस्य सप्तमी । । ४६ सप्तम्यां सोपवासस्तु रात्रौ भुञ्जीत यो नरः । कृत्वोपवासं षष्ठ्यां तु पञ्चम्यामेककालभुक् । । ४७ दत्त्वा सुसंस्कृतं शाकं भक्ष्यभोज्यैः समन्वितम् । देवाय ब्राह्मणेभ्यश्च रात्रौ भुञ्जीत वाग्यतः । । ४८ यावज्जीवं नरः कश्चिद्व्रतमेतच्चरेदिति । तस्य श्रीर्विजयश्चैव त्रिवर्गश्चापि वर्धते । । ४९ मृतश्च स्वर्गमायाति १ विमानवरमास्थितः । सूर्यलोके स रमते मन्वन्तरगणान्बहून् । । इह चागत्य कालान्ते नृपः शान्ति समन्वितः । । 1.47.५० पुत्रपौत्रैः परिवृतो दाता स्यान्नृपतिश्चिरम् । भुनक्ति हि धरां राजन्विग्रहैश्चाजितः परै । । ५१ ये नरा राजशार्दूल शाकाहारेण सप्तमीम् । उपोष्य लब्धं तत्तीर्थं पित्र्यं वै राजसंज्ञिकम् । । ५२ कुरुणा तव पूर्वेण शाकाहारेण सप्तमीम् । धर्मक्षेत्रं कुरुक्षेत्रं कृतं तस्य विवस्वता । । ५३ सप्तमी नवमी षष्ठी तृतीया पञ्चमी नृप । कामदास्तिथयो ह्येता इहैव नरयोषिताम् । । ५४ सप्तमी माघमासे तु नवम्याश्वयुजे मता । षष्ठी भाद्रपदे धन्या वैशाखे तु तृतीयिका । । ५५ पुण्या भाद्रपदे प्रोक्ता पञ्चमी नागपञ्चमी । इत्येतास्तेषु मासेषु विशेषास्तिथयः स्मृताः । । ५६ शाकं सुसत्कृतं कृत्वा यश्च भक्त्या समन्वितः । दत्त्वा विप्रे यथाशक्त्या पश्चाद्भुङ्क्ते निशि व्रती । । ५७ कार्तिके शुक्लपक्षस्य ग्राह्येयं कुरुनन्दन । चतुभिर्वापि मासैस्तु पारणं प्रथमं स्मृतम् । । ५८ अगस्त्यकुसुमैश्चात्र पूजा कार्या विभावसोः । विलेपनं कुङ्कुमं तु धूपश्चैवापराजितैः । । ५९ स्नानं च पञ्चगव्येन तमेव प्राशयेत्ततः । नैवेद्यं पायसं चात्र देवदेवस्य कीर्तितम् । । 1.47.६० तदेव देयं विप्राणां शाकं भक्ष्यमथात्मना । शुभशाकसमायुक्तं भक्ष्यपेयसमन्वितम् । । ६१ द्वितीये पारणे राजञ्छुभगन्धानि यानि वै । पुष्पाणि तानि देवस्य तथा श्वेतं च चन्दनम् । । ६२ अगुरुश्चापि धूपोऽत्र नैवेद्यं गुडपूपकाः । स्नानं कुशोदकेनात्र प्राशनं गोमयस्य तु । । ६३ तृतीये करवीराणि तथा रक्तं च चन्दनम् । धूपानां गुग्गुलश्चात्र प्रियो देवस्य सर्वदा । । ६४ शाल्योदनं तु नैवेद्यं दधिमिश्रं महामते । तमेव ब्राह्मणानां च भक्ष्यलेह्यसमन्वितम् । । कालशाकेन च विभो युक्तं दद्याद्विचक्षणः । । ६५ गौरसर्षपकल्केन स्नानं चात्र विदुर्बुधाः । तस्यैव प्राशनं धन्यं सर्वपापहरं शुभम् । । ६६ तृतीये पारणस्यान्ते महद्ब्राह्मणभोजनम् । श्रवणं च पुराणस्य वाचनं चापि शस्यते । । ६७ दैवस्य पुरतस्तात ब्राह्मणानां तथाग्रतः । ब्राह्मणाद्वाचकाच्छ्राव्यं नान्यवर्णसमुद्भवात् । । अथ तान्ब्राह्मणान्सर्वान्भक्त्या शक्त्या च पूजयेत् । । ६८ वाचकस्यामले राजन्वाससी सन्निवेदयेत् । वाचके पूजिते देवः सदा तुष्यति भास्करः । । ६९ करवीरं यथेष्टं तु तथा रक्तं च चन्दनम् । यथेष्टं गुग्गुलं तस्य यथेष्टं पायसं सदा । । 1.47.७० यथेष्टा मोदकास्तस्य यथा वै ताम्रभाजनम् । यथेष्टं च घृतं तस्य यथेष्टो वाचकः सदा । । पुराणं च यथेष्टं वै सवितुः कुरुनन्दन । । ७१ इत्येषा सप्तमी पुण्या शाकाह्वा गोपतेः सदा । यामुपोष्य नरो भक्त्या भाग्यवांश्च१ प्रजायते । । ७२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे शाकसप्तमीव्रतवर्णनंनाम सप्तचत्वारिंशोऽध्यायः
आदित्यमाहात्म्यवर्णनम् शतानीक उवाच विस्तराद्वद विप्रेन्द्र सप्तमीकल्पमुत्तमम् । महाभाग्यं च देवस्य भास्करस्य महात्मनः । । १ सुमन्तुरुवाच अत्रैवाहुर्महात्मानः सम्वादं पुण्यमुत्तमम् । कृष्णेन सह सत्त्वेन स्वपुत्रेण महीपते । । २ भक्त्या प्रणम्य विधिवद्वासुदेवं जगद्गुरुम् । इहामुत्र हितं शांबः पप्रच्छ ज्ञानमुत्तमम् । । ३ जातो जन्तुः कथं दुःखैर्जन्मनीह न बाध्यते । प्राप्नोति विविधान्कामान्कथं च मधुसूदन । । ४ परत्र स्वर्गमाप्नोति सुखानि विविधानि च । अनुभूयोचितं कालं कथं मुक्तिमवाप्नुते । । ५ दृष्ट्वैवं मम निर्वेदो जातो व्याधिर्जनार्दन । दृष्ट्वेमं जीविताशापि रोचते न हि मे क्षणम् । । ६ किं त्वेवमकृतार्थोऽस्मि यन्मे प्राणा न यान्ति हि । संसारे न पतिष्यामि जराव्याधिसमन्विते । । ७ येनोपायेन तन्मेऽद्य प्रसादं कुरु सुव्रत । आधिव्याधिविनिर्मुक्तो यथाहं स्यां तथा वद । । ८ वासुदेव उवाच देवतायाः प्रसादोऽन्यः सर्वस्य परमो मतः । उपायः शाश्वतो नित्य इति मे निश्चिता मतिः । । ९ अनुमानागमाद्यैश्च सम्यगुत्पादिता मया । कदाचिदन्यथा कर्तुं धीयते केनचित्क्वचित् । । 1.48.१० प्रसादो जायते तस्य सम्यगाराधनक्रिया । यदा तां च समुद्दिश्य कृता तद्वेदिना तथा । । ११ विशिष्टा देवता सम्यग्विशिष्टेनैव देहिना । आराधिता विशिष्टं च ददाति फलमीहितम् । । १२ शाम्ब उवाच अस्तित्वे न च सन्देहः केषाञ्चिद्देवतां प्रति । नास्तीति निश्चयोऽन्येषां विशिष्टास्त्वं कथाः कुरुः । । १३ वासुदेव उवाच सिद्धं तु देवतास्तित्वमागमेषु बहुष्वथ । प्रमाणमागमो यस्य तस्यास्तित्वं च विद्यते । । १४ अनुमानेन वाप्यद्य तदस्तित्वं प्रसाध्यते । प्रमाणमस्ति यस्येदं सिद्धा यस्येह चास्तिता । । १५ प्रत्यक्षेणापि चास्तित्वं देवतायां प्रसाध्यते । तच्चावश्यं प्रमाणं च दृष्टं सर्वशरीरिणाम् । । १६ यदि नामा विविक्तास्तु तिर्यग्योनिगता अपि । नोत्पद्यते तथा ह्यस्ति व्यवहारो यथा स्थितः । । १७ शाम्ब उवाच प्रत्येक्षेणोपलभ्यन्ते सम्यग्वै यदि देवताः । अनुमानागमाभ्यां च तदर्थं .न प्रयोजनम् । । १८ वासुदेव उवाच प्रत्यक्षेणोपलभ्यन्ते न सर्वा देवताः क्वचित् । अनुमानागमैर्गम्याः सन्ति चान्याः सहस्रशः । ।१९ शाम्ब उवाच या चाक्षगोचरा काचिद्विशिष्टेष्टफलप्रदा । तामेवादौ ममाचक्ष्व कथयिष्यस्यथापराम् । । 1.48.२० वासुदेव उवाच प्रत्यक्षं देवता सूर्यो जगच्चक्षुर्दिवाकरः । तस्मादभ्यधिका काचिद्देवता नास्ति शाश्वती । । २१ यस्मादिदं जगज्जातं लयं यास्यति यत्र च । कृतादिलक्षणः कालः स्मृतः साक्षाद्दिवाकरः । । २२ ग्रहनक्षत्रयोगाश्च राशयः १ करणानि च । आदित्या वसवो रुद्रा अश्विनौ वायवोऽनलः । । २३ शक्रः प्रजापतिः सर्वे भूर्भुवःस्वस्तथैव च । लोकाः सर्वे नगा नागाः सरितः सागरास्तथा । । भूतग्रामस्य सर्वस्य स्वयं हेतुर्दिवाकरः । । २४ अस्येच्छया जगत्सर्वमुत्पन्नं सचराचरम् । स्थितं प्रवर्तते चैव स्वार्थे चानुप्रवर्तते । । २५ प्रसादादस्य लोकोऽयं चेष्टमानः प्रदृश्यते । अस्मिन्नभ्युदिते सर्वमुदेदस्तमिते सति । । अस्तं यातीत्यदृश्येन किमेतत्कथ्यते मया । ।२ ६ तस्मादतः परं नास्ति न भूतं न भविष्यति । यो वै वेदेषु सर्वेषु परमात्मेति गीयते । । २७ इतिहासपुराणेषु अन्तरात्मेति गीयते । बाह्यात्मैति सुषुम्णास्थः स्वप्नस्थो जाग्रतः स्थितः । । २८ अस्तं यातीत्यदृष्टेन किमेतत्कथ्यते मया । तस्मादतः परं नास्ति न भूतं न भविष्यति । । २९ यन्न वाह इति ख्यातः प्रेरकः सर्वदेहिनाम् । नानेन रहितं किञ्चिद्भूतमस्ति चराचरम् । । 1.48.३० यो वेदैर्वेदविद्भिश्च विस्तरेणेह शक्यते । वक्तुं वर्षशतैर्नासौ शक्यः संक्षेपतो मया । । ३१ १तस्माद्गुणाकरः ख्यातः सर्वत्रायं दिवाकरः । सर्वेशः सर्वकर्तायं सर्वभर्तायमव्ययः । । ३२ जाता मत्स्यादयः सम्यग्गतिमन्तो महेश्वरात् । मण्डलव्यतिरिक्तं च जानामि परमार्थतः । । ३३ तथास्य मण्डलं कृत्वा२ यो ह्येनमुपतिष्ठते । प्रातः सायं च मध्याह्ने स याति परमां गतिम् । । ३४ किं पुनर्मण्डलस्थं यो जपते परमार्थतः । विविधाः सिद्धयस्तस्य भवन्ति न तदद्भुतम् । । ३५ मण्डले च स्थितं देवं देहे चैनं व्यवस्थितम् । स्वबुद्ध्यैवमसम्मूढो य- पश्यति स पश्यति । । ३६ ध्यात्वैवं १ पूजयेद्यस्तु जपेद्यो जुहुयाच्च यः । स सर्वान्प्राप्नुयात्कामान्गच्छेद्धर्मध्वजं तथा । । ३७ तस्मात्त्वमिह दुःखानामन्तं कर्तुं यदीच्छसि । इहामुत्र च भोगानां भुक्तिं मुक्तिं च शाश्वतीम् । । ३८ आराधयार्कमर्कस्थो मन्त्रैरिह तदात्मनि । अङ्गैर्वृतं वृते चैव स्थाने शास्त्रेण शोधिते । । ३९ कवचेन च सङ्गुस्ते सर्वतोऽस्त्रेण रक्षिते । एवं प्राप्स्यसि यत्नेन सर्वदा फलमीप्सितम् । । 1.48.४० दुःखमाध्यात्मिकं नेह तथा चैवाधिभौतिकम् । आधिदैविकमत्युग्रं न भविष्यति ते सदा । । ४१ न भयं विद्यते तेषां प्रपन्ना ये दिवाकरम् । इहामुत्र सुखं तेषामच्छिद्रं जायते सुखम् । । ४२ सूर्येणेदं ममोद्दिष्टं साक्षाद्यज्ज्ञानमुत्तमम् । आराधितेन विधिवत्कालेन बहुना तथा । । ४३ प्राप्यते परमं स्थानं यत्र धर्मध्वजः स्थितः । एतत्संक्षिप्तमुद्दिष्टं क्षिप्रसिद्धिकरं परम् । । यथा नान्यदतोऽस्तीति स्वयं तूर्येण भाषितम् । । ४४ उपायोऽयं समाख्यातस्तव संक्षेपतस्त्विह । यस्मात्परतरो नास्ति हितोपायः शरीरिणाम् । । ४५ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः
सूर्यमाहात्म्यवर्णनम् वासुदेव उवाच अथार्चनविधिं वक्ष्ये धर्मकेतोरनुत्तमम् । सर्वकामप्रदं पुण्यं विघ्नघ्नं दुरितापहम् । । १ सूर्यमन्त्रैः पुरः स्नातो यजेत्तेनैव भास्करम् । यतस्ततः प्रवक्ष्यामि स्नानमादौ समासतः । । २ आचान्तस्तमुपालभ्य मुद्रया शुचिशुद्धया । कृत्वा नीराजनं पुत्र संशोध्य च जलं ततः । । ३ स्नानाद्धृदयपूतेन १ मन्त्रेण मत्कुलोद्वह । उत्थायाचम्य तेनैव वाससी परिधाय च । । ४ द्विराचम्याथ सम्प्रोक्ष्य तनुं सप्ताक्षरेण च । उत्थायाचम्य तेनैवं रवेः कृत्वार्घ्यमेव च । । ५ दत्त्वा तेन जपित्वा तं स्वकं ध्यात्वार्कवद्धृदि । गत्वा चायतनं शुभ्रमार्कमार्की तनुं यजेत् । । ६ पूरकं कुम्भकं कृत्वा रेचकं च समाहितः । कृत्वोङ्कारेण दोषांस्तु हन्यात्कायादिसम्भवान् । । ७ वायव्याग्नेयमाहेन्द्रवारुणीभिर्यथाक्रमम् । किल्विषं वारुणाद्भिश्च हन्यात्सिद्ध्यर्थमात्मनः । । ८ शोषणं दहनं स्तम्भं प्लावनं च यथाक्रमात् । वाय्वग्नीन्द्रजनाख्याभिर्धारणाभिः कृते सति । । ९ ध्यात्वा विशुद्धमात्मानं प्रणमेदर्कमास्थितम् । देहं तेनैव सञ्चिन्त्य पञ्चभूतमयं परम् । । 1.49.१० सूक्ष्मं स्थूलं तथाक्षाणि स्वस्थानेषु प्रकम्य च । विन्यस्याङ्गानि खादीनि हृदाद्यानि हृद्यादिषु । । ११ खस्वाहा हदयं भानोः खमर्काय शिरस्तथा । उल्का स्वाहा शिखार्कस्य यै च हुं कवचं परम् । । खां फडस्त्रं च संहाराश्चादितः प्रणवः कृतः । । १२ स पूर्वे प्रणवस्याथो मन्त्रकर्मप्रसिद्धये । एभिर्जलं त्रिधा जप्त्वा स्नानद्रव्याणि तेन च । । १३ सम्प्रोक्ष्य पूजयेत्सूर्यं गन्धपुष्पादिभिः शुभैः । ततो मूर्तिषु सर्वासु रात्रावग्नौ प्रपूजयेत् । । १४ प्राक्पश्चिमोदगभ्यग्रां प्रातः सायं निशासु वै । सप्ताक्षरेण तन्मन्त्रं ध्यात्वा च पद्मकर्णिकाम् । । १५ आदित्यमण्डलान्तस्थं तत्र देहं प्रकल्पयेत् । प्रभामण्डलमध्यस्थं ध्यात्वा देहं यथा पुरा । । सर्वलक्षणसम्पूर्णं सहस्रकिरणोज्ज्वलम् । । १६ रक्तैर्गन्धैश्च पुष्पैश्च चरुभिर्बलिभिस्तथा । रक्तचन्दनमिश्रैर्वा वस्त्रैरावरणैः शुभैः । । १७ आवाहनादिकर्माणि रक्षां तु हृदयेन च । तच्चित्तश्च सदा कुर्याज्ज्ञात्वा कर्मक्रमं बुधः । । १८ कृत्वा चावाहनं मन्त्रैरेकत्र स्थापनं ततः । यावद्यागावसानं तु सान्निध्यं तत्र कल्प्य च । । १९ दत्त्वा पाद्यादिकां पूजां शक्त्या वार्घ्यं निवेद्य च । जपित्वा विधिवद्ध्यात्वा ततो देवीं विसर्जयेत् । । 1.49.२० एष कर्म क्रमः प्रोक्तः सर्वेषां यजनक्रमात् । प्रवक्ष्यामि जपस्थानं पद्मेशावरणे तथा । । २१ आदित्यं कर्णिकासंस्थं दलेष्वङ्गानि पूर्वशः । सोमादीन्राहुपर्यंतान्ग्रहांश्चैवोदगादितः । । २२ मूर्तिमल्लोकपालांश्च क्रमादावरणेष्वथ । तदस्त्राणि च रक्षार्थं स्वमन्त्रैः पूजयेत्क्रमात् । । २३ प्रणवैश्चाभिधानैश्च चतुर्थ्यां ह्यभियोजितैः । सर्वेषां कथिता मन्त्रा मुद्राश्च कथयाम्यतः । । २४ व्योममुद्रा रतिः पद्मा महाश्वेतास्त्रमेव च । पञ्चमुद्राः समाख्याताः सर्वकर्मप्रसिद्धये । । २५ उत्तानौ तु करौ कृत्या अङ्गुल्यो ग्रथिताः क्रमात् । तर्जनीं यन्ति यावत्ताः समे वाधोमुखे स्थिते । । २६ तर्जन्यो १ मध्यमस्यैव ज्येष्ठाग्रे वानुगोपरि । मुद्रेयं सर्वमुद्राणां व्योम मुद्रेति कीर्तिता । । सर्वकर्मसु योगोऽयं तथा स्थानं प्रकल्पते । । २७ पद्मवत्प्रसृताः सर्वा महाश्वेता रवेः स्मृता । जवसंनिहितो नित्यं रथारूढो रविः स्मृतः । । २८ हस्तावूर्ध्वमुखौ कृत्वा वामाङ्गुष्ठेन योजितौ । द्रव्याणां शोधने योज्या रक्षार्थं च विशेषतः । । २९ अनया मुद्रया सर्वं रक्षितं शोधितं भवेत् । अर्घ्यं दत्वा प्रयोक्तव्या पूजान्ते च विशेषतः । । 1.49.३० जपध्यानावसाने च यदीच्छेत्सिद्धिमात्मनः । अनेन विधिना नित्यं जपेदब्दमतन्द्रितः । । ३१ स लभेतेप्सितान्कामानिहामुत्र न संशयः । रोगार्तो मुच्यते रोगाद्धनहीनो धनं लभेत् । । ३२ राज्यभ्रष्टो लभेद्राज्यमपुत्रः पुत्रमाप्नुयात् । प्रज्ञामेधासमृद्धीश्च चिरं जीवति मानवः । । सुरूपां लभते कन्यां कुलीना पुरुषो ध्रुवम् । । ३३ सौभाग्यं स्त्री कुलीनापि कन्या च पुरुषोत्तमम् । अविद्यो लभते विद्यामित्युक्तं भानुना पुरा । । ३४ नित्ययागः स्मृतो ह्येष धनधान्यसुखावहः । प्रजापशुविवृद्धिश्च निष्कामस्यापि जायते । । ३५ तदैकः स्तूयते स्वर्गे शब्द्यते च नरोत्तमः । भक्त्या तं पूजयेद्यस्तु नरः पुण्यतरः सदा । । ३६ इह वै कामिकं प्राप्य ततो गच्छेन्मनोः पदम् । द्विजस्तस्य प्रसादेन तेजसा बुधसन्निभः । । ३७ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः
सप्तमीमाहात्म्यवर्णनम् वासुदेव उवाच नैमित्तिकं ततो वक्ष्ये यज्ज्ञात्वा च समासतः । सप्तम्यां ग्रहणे चैव संक्रान्तिषु विशेषतः । । १ शुक्लपक्षस्य सप्तम्यां हविर्भुक्त्वैकदा दिवा । सम्यगाचम्य सन्ध्यायां वारुणं प्रणिपत्य च । । २ इन्द्रियाणि च संयम्य कृतं ध्यात्वा स्वपेदधः । दर्भशय्यागतो रात्रौ प्रातः स्नातः सुसंयतः । । ३ ततः सन्ध्यामुपास्याथ पूर्वोक्तं च मनुं जपेत् । जुहुयाच्च तदा वह्निं सूर्याग्नी परिकल्प्य च । ।४ सूर्याग्निकरणं वक्ष्ये तर्पणं च समासतः । अर्चनागारमुल्लिख्य प्रविश्यार्च्य जनैर्जनम् । । ५ प्रक्षिप्यास्तीर्य दर्भश्च पात्राद्यालभ्य च क्रमात् । पवित्रं द्विकुशं कृत्वा साग्रं प्रादेशसम्मितम् । । ६ तेन पात्राणि सम्प्रोक्ष्य संशोध्याध विलोक्य च । उदगग्रे स्थिते पात्रे प्रज्वाल्याथोल्मुकेन च । । ७ पर्यग्निकरणं कृत्वा तथाज्योत्यवनं त्रिधा । परिमृज्य स्रुवादींश्र दर्भैः सम्प्रोक्षयेत्ततः । । ८ जुहुयात्प्रोक्ष्य तान्वह्नौ तत्रार्कं पूर्ववद् व्रजेत् । अभूमौ स्थितपात्रेण विष्टरेण तु पाणिना । । दानेन यदुशार्दूल नान्तरिक्षे स्थले क्वचित् । । ९ दक्षिणेन स्रुवं गृह्य जुहुयात्पावकं बुधः । हदयेन क्रियाः सर्वाः कर्तव्याः पूर्वचोदिताः । । 1.50.१० अर्कादारभ्य संज्ञार्थं दद्यात्तूष्णीं हुतिं स्थितः । वरुणाय शतैर्माघे सप्तम्यां वरुणं यजेत् । । ११ यथाशक्त्या तु विप्रेभ्यः प्रदद्यात्खण्डवेष्टकान् । दद्याच्च दक्षिणां शक्त्या प्राप्नोति याचितं फलम् । । १२ एवं वै फाल्गुने सूर्यं चैत्रे वैशाख एव च । वैशाखे मासि धातारमिन्द्रं ज्येष्ठे यजेद्रविम् । । १३ आषाढे श्रावणे मासि नभं भाद्रपदे यमम् । तथाश्वयुजि पर्जन्यं त्वष्टारं कार्तिके यजेत् । । १४ मार्गशीर्षे च मित्रं च पौषे विष्णुं यजेद्यदि । संवत्सरेण यत्प्रोक्तं फलमिष्टं दिनेदिने । । तत्सर्वमाप्नुयात्क्षिप्रं भक्त्या श्रद्धान्वितो व्रती । । १५ एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम् । सप्तभिर्वाजिभिर्युक्तं नानारत्नोपशोभितम् । । १६ आदित्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम् । रत्नैरलङ्कृतां कृत्वा हेमपद्मोपरिस्थिताम् । । १७ तस्मिन् रथवरे कृत्वा सारथिं चाग्रतः स्थितम् । वृतं द्वादशभिर्विप्रैः क्रमान्मासाधिपात्मभिः । । १८ मध्ये कृत्वा स्वमाचार्यं पूजयित्वा यथाश्रुतिः । सञ्चिन्त्यादित्यवर्णं वै वस्त्ररत्नादिनार्हयेत् । । १९ एवं मासाधिपान्विप्रान्सम्पूज्याथ निवेदयेत् । आचार्याय रथं छत्रं ग्रामं गाश्च महीं शुभाम् । । 1.50.२० अश्वान्मासाधिपेभ्यस्तु द्वादशभ्यो निवेदयेत् । एवं भक्त्या यथाशक्त्या हेमरत्नादिभूषणम् । । २१ दत्त्वा तस्य नमस्कृत्य व्रतं पूर्णं निवेदयेत् । अत ऊर्ध्वं न दोषोऽत्र व्रतस्याकरणेष्वपि ।। २२ एवमस्त्विति विप्रेन्द्रैः सहाचार्यः पुनः पुनः । बह्वीश्चैवाशिषो दत्त्वा प्रवदेत्प्रीयतामिति । । २३ आदित्यो येन कामेन त्वया आराधितो व्रतैः । तुभ्यं ददातु तं कामं सम्पूर्णं भवतु व्रतम् । । २४ आचार्यान्विप्ररूपैस्तु प्रविष्टो भास्करः स्वयम् । दास्यत्येव परं कर्तुमित्युक्तं भानुना स्वयम् । । २५ विप्रेभ्यो गुणवद्भ्यश्च निस्वेभ्यश्च विशेषतः । दीनान्धकृपणेभ्यश्च शक्त्या दत्त्वा च दक्षिणाम् । । ब्राह्मणान्भोजयित्वा च व्रतमेतत्समापयेत् । । २६ कृत्वैवं सप्तमीमब्दं राजा भवति धार्मिकः । पुरुषः स्त्री भवेद्राज्ञां तादृशामथ वल्लभा । । २७ शतयोजनविस्तीर्णं निःसपत्नमकण्टकम् । निष्पन्नमण्डलं भुङ्क्ते साग्रं वर्षशतं सुखी । । २८ वित्तहीनोऽपि यो १ भक्त्या कृत्त्वा ताम्रमयं रथम् । दद्याद्व्रतावसाने तु कृत्वा सर्वं यथोदितम् । । सोऽशीतियोजनं भुङ्क्ते विस्तीर्णं मण्डलं नृपः । । २९ एवं पिष्टमयं योऽपि वित्तहीनः करोति ना । आषष्टियोजनं भुङ्क्ते दीर्घायुर्नीरुजः सुखी । । सूर्यलोके च कल्पान्तं यावत्स्थित्वेदमाप्नुयात् । । 1.50.३० मनसापि च यो भक्त्या यजेदर्कमतन्द्रितः । सर्वावस्थासु सोऽप्यत्र व्याधिभिर्मुच्यते भृशम् । । ३१ आपदो न स्पृशन्त्येनं नीहारा इव भास्करम् । किं पुनर्व्रतसम्पन्नं भक्तं १ मन्त्रैश्च रक्षितम् । । ३२ यत एवं ततो ज्ञात्वा विधानं कल्पचोदितम् । सुखेन फलसिद्ध्यर्थं कुर्यात्सर्वमशेषतः । । ३३ इत्येतत्कथितं साम्ब पुरा सूर्येण मे शुभम् । कल्पोऽयं प्रथमे कल्पे सर्वदा गोपितो मया । । ३४ अनेन विधिना वत्स विशुद्धेनान्तरात्मना । भानुमाराधयेत्क्षिप्रं यदीच्छेत्फलमुत्तमम् । । ३५ मयास्यैव प्रसादेन प्राप्ताः पुत्राः सहस्रशः । असुरा निर्जिताश्चैव सुराः सर्वे वशीकृताः । । ३६ त्वयाप्ययं गोपितव्यः कल्पः सूर्यस्य सम्मतः । प्रसादादस्य कल्पस्य सदा सन्निहितो रविः । । चक्रेऽस्मिन्निर्जिता येन सुरा सुरनरोरगाः । । ३७ यदिनाधिष्ठितं चक्रमिदं सूर्यांशुभिः स्वयम् । सततं स्यात्प्रभायुक्तं कथमध्याहतं भवेत् । । ३८ अहमेतं जपन्नित्यं यजन्ध्यायंश्च शक्तितः । जातोऽस्मि सर्वकामानां पूज्यः श्रेष्ठश्च तेजसा । ३९ त्वमभ्यस्यैव मनसा वाचा वा कर्मणापि वा । कुरु भक्तिमनेनैव विधिना फलसिद्धये । । 1.50.४० शृणुयाद्भक्तियुक्तो यो नरः श्रद्धासमन्वितः । विधानमादितः पुत्र सप्तमीं कुरुते च यः । । ४१ सेह १ प्राप्याऽखिलं काममारोग्यं च जयं तथा । भार्गव्या परया युक्तो गच्छेद्वैरोचनं सदः । । ४२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सप्तमीमाहात्म्यवर्णनं नाम पञ्चाशत्तमोऽध्यायः
The sixth lunar day, O great king, always grants all desires. It should be observed with effort at all times by those seeking victory. This great sixth day is beloved of Kartikeya. On it, the great soul attained the leadership of the divine army. Because Skanda became foremost among the gods through its merit, one who eats only at night on the sixth day always obtains his desired goal. Offering water to Kartikeya, facing south, with curds, ghee, water, and flowers, using this mantra, O virtuous one: 'O offspring of the seven sages, Skanda, born of the lord of Svaha, O Rudra, Aryaman, Agni, O mighty one, O son of Ganga, salutations to you. May the commander of the divine army be pleased and fulfill what is in the heart.' Giving one's own food to a Brahmin, and whatever else is available, afterwards he eats at night, using the earth as his plate. Thus, the vow of the sixth day has been lovingly declared by Skanda with effort. Hear it all, O great king, as I am about to speak. Whoever on the sixth day eats only fruit or only at night, remaining disciplined in both bright and dark fortnights, practicing celibacy and concentration, Skanda grants him accomplishment, resolve, satisfaction, kingdom, long life, freedom from disease, and both spiritual and worldly rewards, without doubt. One who fasts at night becomes a true observer of the vow; here or hereafter, he attains the highest fame. He certainly obtains residence in heaven, without doubt. Returning here after time, he receives the promised fruits. He becomes worshipped even by the gods and will be king among kings. Whoever hears the kalpa of the sixth day, O best of the Kurus, attains accomplishment, satisfaction, resolve, and fame.
Shatanika said: Ah, this vow is very difficult; doubt remains in my heart. Having heard the greatness and birth of Kartikeya, O twice-born, of his many births here, O virtuous one, how can such greatness be understood? Is birth superior, O hero, or is action better? This doubt is great for me, seeing the son of the Krittikas. Tell me this decisively so that no doubt remains; speak to me of what is superior, birth or action. Sumantu said: This question was formerly asked of Brahma by his wise disciples. What he said to them, I will tell you; listen to me. The great sages approached the chief of the gods, seated comfortably, and, after bowing, O mighty one, to the priesthood of Vishvamitra, they came with wonder and curiosity, placing devotion and faith before them, bowing with bent necks. The sages said: O Brahman, in the Nadakalpa, what constitutes Brahminhood? Is it from birth, study, body, self-purification, conduct, or action?
Brahma said: Even the study of the Vedas leads to Brahminhood. The Vaishyas and Kshatriyas, like the Brahmins, and even the Rakshasas such as Ravana, the dog-eaters, outcastes, slaves, hunters, Bhillas, fishermen, and others who are low-born, some of them also study the Vedas. When they go to another land, Brahminhood and Kshatriyahood are adopted, through occupations and forms similar to those of Brahmins. Studying the Vedas, or even one Veda, according to order, they marry a pure girl, men born of Brahmin families. Or, having studied the Vedas, even by Kshatriyas and Vaishyas, they may acquire the Gauḍa or Dakshinatya caste. Because of unknown Shudra status, they attain Brahminhood at will. Therefore, the distinction created by Vedic study and practice is not known. The authors of the scriptures have said this, following the path of reason. Hearing this view, the good, free from envy, accept it. The Vedas do not purify those without proper conduct, even if studied along with the six limbs.
९ शूद्राणां यान्यनिष्टानि सम्पद्यन्ते स्वभावतः । विप्राणामपि तान्येव निर्विघ्नानि भवन्ति न । । 1.43.१० तस्मान्मन्त्रोग्निहोत्रं वा वेद्यां पशुवधोऽपि वा । हेतवो न हि विप्रत्वे शूद्रैः शक्या क्रिया यथा । । ११ ये चापि कर्मबन्धेन बद्धाः सीदन्ति जन्तवः । संसारानलसन्तापविक्लवीकृतमानसाः । । १२ ते जन्ममरणाटव्यां सुखामृतपिपासवः । कृपणस्याश्रयेऽटन्तो लभन्ते नैव निर्वृतिम् । । १३ चतुर्वर्णा नरा ये तु तत्तद्वीर्ये नराधमाः । तेषां सर्वात्मना सर्वैर्धर्मैः साङ्कर्यमीक्ष्यते ।। १४ शूद्रविप्रादयो योनौ न भिद्यन्ते परस्परम् । सर्वधर्मसमानत्वात्संस्कारादि निरर्थकम् ।। १५ तदनुष्ठानवैधर्म्यवियोगमरणादिभिः । असेव्यसेवनैरन्यैः शूद्रविप्रादयः समाः ।। १६ बुद्ध्या शक्त्या स्वभावेन धर्मैर्जात्या१दिभिः श्रिया । कर्तव्यैः पुण्यपापाभ्यां शनैः२ सर्वशरीरगैः ।। १७ बन्धनै रोधनैर्नानायातनोपायपीडनैः । दण्डैरदण्डकरणैर्विषादपरिवेदनैः ।। १८ सात्त्विकः प्रतिधर्माद्यै राजसैश्चित्रवेष्टितैः । तामसैस्तापमोहाद्यैर्दूयमानाः पुनः१ पुनः ।। १९ श्लेश्ममारुतपित्ताद्यैर्महाबीभत्सदर्शनैः । क्वचिद्वृत्तिनिवृत्तिभ्याममृतानृतहिताहितैः ।।1.43.२० अलङ्कारोपयोगेन मन्मथाद्यैर्विचेष्टितैः । धनलाभाशयानैकजन्तुसङ्घातपातनैः ।।२ १ अधिसिद्धिगतिं याति नानाविधमनोरथैः । आत्मस्नेहपरद्वेषस्वीकृतद्रवरक्षणैः ।।२२ अतिक्षीबत्वसंक्षोभक्षुतक्षामक्षमामयैः । यातनोपायपैशुन्यशून्यत्वोपशमैस्तथा ।।२३ अप्रशस्तैरनुष्ठानैः समीपस्थापदः समाः । हिंसकाः प्राणिनः पापवितथालापभाषिणः ।।२४ साधूनांभाषकाः स्तेना निर्दयाः पारदारिकाः । नीचकर्मसमाचाराः सर्वभक्षाः पिशाचवत् ।।२५ दुष्कुलीना दुराचारा नृपाणामुपजीविनः । विप्रकार्या विकर्मस्था धनिनो दुष्टचेतसः ।।२६ लुब्धका हरिणान्हत्वा वासं कृत्वा यथा वने । तथा खादन्ति पिशुना बहवश्च३ क्रियावशात् ।।२७ वेदवादमधीयानाः१ प्राणिघाताभिशंसिनः । पुष्णन्ति कपटैरर्थान्वेदविक्रयिणोऽधमाः । । २८ मायिनो मत्सरग्रस्ता लुब्धा मुग्धा मदोद्धताः । चाटाः कार्पटिकाः कूराः कदर्याः कलहप्रियाः । । २९ वाचाटदुष्टकुलटा अटन्तो भाटकैः सह । भण्डमान्या भटाटोपैः संक्रुद्धाः सुविलुण्ठकाः । । 1.43.३० पर्यटा भाटका जीवाः कण्ठकश्लोकभाषिणः । विक्रीणते ह्यविक्रेयमभक्ष्यद्रव्यभक्षिणः । । ३१ शूद्रकर्मानुतिष्ठन्तो निस्तपास्ते नराधमाः । सेवाध्यापनवाणिज्यकृष्याद्यारम्भलम्भिताः । । गृह्णन्तः सम्पदो बाहयाद्द्रव्यधान्यधनादिकाः । । ३२ क्रोधादाभ्यन्तरान्दोषांस्तथा दुष्टमनोरथान् । अत्यजन्तो विशिष्टानां श्रेष्ठास्ते कचमर्दिनः । । ३३ नोपदेयानि वस्त्राणि नित्यमाददते द्विजाः । हापयन्ति न हेयानि कथं ते गुरवः क्षितौ । । ३४ दन्तिका दिण्डिका भण्डाश्चण्डाश्चण्डालचेष्टिता । वैतण्डकास्ते निघ्नन्ति यथा सिंहो मृगान्पशून् । । ३५ निर्ग्रन्थं मुनिमालोक्य मन्यमानाः समुन्नतम् । परिभूयावतिष्ठन्ते धिक्तान्रिक्तान्सवैरिणः । । ३६ तस्मात्संसारिकाः सत्त्वाश्चित्तक्लेशकलङ्किताः । दौःशील्यदौर्मनस्याद्यैस्तुल्यजातीयबन्धनात् । । ३७ शूद्रां प्ररोचते विप्रो रागिणीं मैथुनं प्रति । सा कामदुःखविगमे गर्भं धत्ते समागमे ।।३८ कामकामातुराभ्यस्तु रोचन्ते शूद्रमानवाः । मैथुनं प्रति ब्राह्मण्ये तेऽपि तासां सुखावहाः ।।३९ ये तु जात्यादिभिर्भिन्ना गवाश्वोष्ट्मतङ्गजाः । ते विजातिषु नो गर्भं कुर्वतेऽपि सुखार्थिनः ।।1.43.४० अनड्वानेव गोरेव कामं पुष्णाति सङ्गमे । घोटकाश्च रतिं सम्यक्कुर्वते वडवासु च ।।४१ पतिं करभमेवाप्य करभी रमते मुदा । गजमेव पतिं लब्ध्वा सुखं तिष्ठति हस्तिनी ।।४२ तिर्यग्जातिः स्त्रिया साकं कुर्वाणाऽपि हि मैथुनम् । न तस्याः कुरुते गर्भं नरो नापि सुखासिकाम् ।।४३ तिरश्चा सह कुर्वाणा मैथुनं मनुजाङ्गना । नाधत्ते तत्कृतं गर्भं न युक्तं मैथुनं तयोः ।।४४ नैवं कश्चिद्विभागोस्ति मैथुने स्त्रीमनुष्ययोः । येन संक्षीयते भेदः प्रस्फुटं द्विजशूद्रयोः ।।४५ वेदपाठच्छलेनायं न क्रियाभिः प्रपद्यते । बहुभिर्जडसङ्घातैरविशिष्टे पदेऽहनि ।।४६ देहे देहिनि चामुष्मिन्नशुचावनवस्थिते । रागद्वेषादिभिर्दोषैरधिकं परिपीडिते ।।४७ कुलालचक्रवद्भ्रान्तमानसे विषयार्णवे । घोरदुःखभयाक्रान्ते समाजेऽनीश्वरात्मनि ।।४८ जन्ममृत्युजराशोकानिष्टयोगाग्निपीडिते । हीनसत्त्वशरीरादौ न विशेषो विभाव्यते ।।४९ तस्मान्मनुष्यभेदोऽयं सङ्केतबलनिर्मितः । ब्राह्मण्यं ब्राह्मणासङ्गाद्ब्राह्मणी चोपसेवते ।।1.43.५० पतिं त्यक्त्वा मुखस्वादलालसैर्मदलालसैः । आसेव्यते विटं गत्वा बन्धकी चेटकैरपि । । ५१ ब्राह्मण्यात्प्रच्यवन्तेऽन्ये महापातकसेविताः । व्यलीककल्पनैवैषा तस्माज्जात्यादिकल्पना । । ५२ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णव्यवस्थावर्णनं नाम त्रिचत्वारिंशोऽध्यायः
Whatever is considered inauspicious by nature among Shudras is also found among Brahmins, but for them it is not without obstacles. Therefore, neither mantras, nor fire offerings, nor even animal sacrifice at the altar—none of these are causes for Brahminhood, just as Shudras cannot perform such acts. Those bound by the bonds of karma, whose minds are disturbed by the fires of worldly suffering, wander in the forest of birth and death, thirsting for happiness, but, relying on the unfortunate, never find peace. Those men of the four classes who are base in their actions are seen to have a mixture of all dharmas. Shudras and Brahmins and others are not different in birth; because all dharmas are equal, rites and initiations are meaningless. By differences in practice, separation, death, and so on, by associating or not associating with others, Shudras and Brahmins are the same. By intellect, ability, nature, dharma, birth, wealth, duties, merit and demerit, and all bodily qualities, through bonds, restraints, various means of suffering, punishments, and the lack thereof, and by the pain of poison and other afflictions, those of sattvic, rajasic, and tamasic nature are repeatedly tormented. By phlegm, wind, bile, and other dreadful conditions, sometimes by loss of livelihood, by nectar and poison, by good and bad, by adornment, by the acts of love and desire, by the hope of gaining wealth, by the fall of many groups of beings, one attains various states of accomplishment, driven by desires of self-love and hatred, and the urge to protect what is accepted. By excessive agitation, disturbance, hunger, emaciation, and disease, by means of suffering, cunning, emptiness, and peace, by unworthy actions, those nearby are considered the same. Harming creatures, speaking falsehoods, associating with the wicked, being heartless, adulterous, practicing low deeds, eating everything like ghosts, being of bad family, evil conduct, living off kings, harming Brahmins, doing forbidden acts, being wealthy but wicked—hunters kill deer in the forest for clothing, and in the same way, many wicked people eat flesh by their acts. Some study Vedic arguments but wish for the killing of creatures, and the lowest sell the Veda for gain by deceit. Deceitful, consumed by envy, greedy, foolish, intoxicated, flatterers, beggars, cruel, miserly, fond of quarrels, wicked women wandering with hired men, braggarts, violent, and skilled in plunder, wandering hirelings, speakers of harsh words, selling what should not be sold, eating what should not be eaten, those who perform Shudra's work are the lowest of men, engaged in service, teaching, trade, agriculture, and so on, seizing wealth from outside, goods, grain, and money. They do not abandon internal faults born of anger, nor evil intentions; the best among them are those who crush glass. The twice-born do not always accept clothes, nor do they give up what should be abandoned; how then are they teachers on earth? Elephants, wrestlers, braggarts, fierce in their actions, those who kill like lions kill animals—seeing a mendicant sage, they, thinking themselves superior, insult and despise the poor and the hostile. Therefore, worldly beings, stained by mental afflictions, bound by similar birth, bad character, and sorrow, are the same. A Brahmin who desires a passionate Shudra woman for intercourse—she, in the fulfillment of desire, conceives from union. Men and women overcome by desire are attracted to Shudras for intercourse, and Brahmins too bring them pleasure. But those who are different by birth, like cows, horses, camels, and elephants, do not conceive among different species, even if they desire pleasure. Just as a bull mates with a cow, and a stallion mates with a mare, so too does a she-camel delight with a camel, and a female elephant is happy with an elephant. But when a woman of another species has intercourse with a man, she does not conceive, nor does she find pleasure. When a human woman has intercourse with an animal, she does not conceive from that act, and such union is not proper. There is no such distinction in sexual union between a woman and a man by which the difference between Brahmin and Shudra is clearly diminished. By reciting the Veda alone, one does not attain the goal, nor by rituals, but by many groups of dull-witted people in an undistinguished state. In the body and the embodied, impure and unstable, afflicted by faults like desire and hatred, the mind, whirling like a potter's wheel in the ocean of sense objects, tormented by terrible suffering and fear, in a society without a true master, afflicted by the fire of birth, death, old age, sorrow, and misfortune, in a lowly body, no distinction is perceived. Therefore, the division among humans is established by the force of convention. Brahminhood comes from association with Brahmins, and a Brahmin woman serves accordingly. Having abandoned her husband, driven by the desire for sweet words and intoxication, a courtesan serves a gallant or even servants. Others fall from Brahminhood by committing great sins; thus, the notion of caste and such distinctions is merely a fabrication.
Description of the discernment of caste distinctions
Description of the Śāka Saptamī vow
On the seventh day, having observed a fast on the sixth, and having eaten only once on the fifth, a man should give well-prepared vegetables accompanied by edibles and food to the god and to Brahmins, and at night, he should eat, observing silence.
Description of the greatness of the Sun: Shatānīka said: O foremost of Brahmins, describe in detail the excellent observance of the seventh day, and the great fortune of the god Bhāskara, the great soul.
Description of the greatness of the Sun: Vāsudeva said: Now I will explain the supreme method of worship for the banner of righteousness, which grants all desires, is meritorious, removes obstacles, and destroys sins.
Description of the greatness of the Seventh Day: Vāsudeva said: Next, I will explain the occasional rite, which, when known, should be performed especially on the seventh day during eclipses and solstice transitions.
महासप्तमीव्रतवर्णनम् वासुदेव उवाच माघस्य शुक्लपक्षे तु पञ्चम्यां मत्कुलोद्वह । एकभक्तं सदाख्यातं षष्ट्यां नक्तमुदाहृतम् । । १ सप्तम्यामुपवासं तु केचिदिच्छन्ति सुव्रत । षष्ठ्यां केचिद्वदन्तीह सप्तम्यां पारणं किल । । २ कृतोपवासः षष्ठ्यां तु पूजयेद्भास्करं बुधः । रक्तचन्दनमिश्रैस्तु करवीरैश्च सुव्रत । । ३ गुग्गुलेन महाबाहो संयावेन च सुव्रत । पूजयेद्देवदेवेशं शङ्करं २ भास्करं रविम् । । ४ एवं हि चतुरो मासान्माघादीन्पूजयेद्रविम् । आत्मनश्चापि शुध्यर्थं प्राशनं गोमयस्य च । । ५ स्नानं च गोमयेनेह कर्तव्यं चात्मशुद्धये । ब्राह्मणान्दिव्यभौमांश्च भोजयेच्चापि शक्तितः । । ६ ज्येष्ठादिष्वथ मासेषु श्वेतचन्दनमुच्यते । श्वेतानि चापि पुष्पाणि शुभगन्धान्वितानि वै । । ७ कृष्णागरुस्तथा धूपो नैवेद्यं पायसं स्मृतम् । तेनैव ब्राह्मणांस्तुष्टान्भोजयेच्च महामते । । ८ प्राशयेत्पञ्चगव्यं तु स्नानं तेनैव पुत्रक । कार्तिकादिषु मासेषु अगस्तिकुसुमैः स्मृतम् । । ९ पूजयेन्नरशार्दूल धूपैश्चैवापराजितैः । नैवेद्यं गुडपूपास्तु तथा चेक्षुरसं स्मृतम् । । 1.51.१० तेनैव ब्राह्मणांस्तात भोजयस्व स्वशक्तितः । कुशोदकं प्राशयेथाः स्नानं च कुरु शुद्धये । । ११ तृतीये पारणास्यान्ते माघे मासि महामते । भोजनं तत्र दानं च द्विगुणं समुदाहृतम् । । १२ देवदेवस्य पूजा च कर्तव्या शक्तितो बुधैः । रथस्य चापि दानं तु रथयात्रा तु सुव्रत । । १३ व्रतस्य प्राप्तिहेतोर्वै कर्तव्या विभवे सति । दानं स्वर्णरथस्येह यथोक्तं विभवे सति । । इत्येषा कथिता पुत्र रथाह्वा सप्तमी शुभा । । १४ महासप्तमी विख्याता महापुण्या महोदया । यामुपोष्य धनं पुत्रान्कीर्तिं विद्यामवाप्नुयात् । । १५ तथाखिलं कुवलयं चन्द्रेण च समोर्चिषा । । १६ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे महासप्तमीव्रतवर्णनं नामैकपञ्चाशत्तमोऽध्यायः
Description of the Mahāsaptamī vow. Vāsudeva said: In the bright fortnight of Māgha, on the fifth day, O best of the lineage, one should eat only once; on the sixth day, night fasting is prescribed. On the seventh day, some wish to fast, O virtuous one; some say the breaking of the fast should be on the seventh day. Having fasted on the sixth day, the wise should worship Bhāskara with red sandalwood and oleander, O virtuous one. With guggul incense and fragrant substances, O mighty-armed, one should worship the lord of gods, Śaṅkara, and Bhāskara, the Sun. In this way, for four months beginning with Māgha, one should worship the Sun for self-purification, and also partake of cow dung. Bathing with cow dung here should be done for self-purification; one should feed Brāhmaṇas, both divine and earthly, according to one's ability. In months from Jyeṣṭha onward, white sandalwood is prescribed, and also white flowers with auspicious fragrance. Black aloe incense and offering of rice pudding are prescribed; with these, O wise one, one should satisfy Brāhmaṇas and feed them. One should partake of pañcagavya and bathe with it, O child; in months from Kārtika onward, agasti flowers are prescribed. One should worship, O best of men, with incense and aparājita flowers; offerings of jaggery cakes and sugarcane juice are prescribed. With these, O father, feed Brāhmaṇas according to your ability; drink water with kuśa grass and bathe for purification. On the third day after breaking the fast, in the month of Māgha, O wise one, eating and giving charity are said to be twice as meritorious. Worship of the lord of gods should be performed by the wise according to their ability; the donation of a chariot is prescribed, and the chariot procession, O virtuous one. For attaining the vow, donation of a golden chariot should be made if wealth permits, as prescribed. Thus, O son, the auspicious Saptamī called the chariot festival has been described. The Mahāsaptamī is renowned, greatly meritorious, and brings great prosperity; by observing it, one attains wealth, sons, fame, and knowledge. Likewise, the whole world is illuminated equally by the moon.
सूर्यपूजावर्णनम् सुमन्तुरुवाच इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः । अन्तर्धानं गतो वीरं शाम्बस्येह प्रपश्यतः । । १ शाम्बोऽपि कृत्वा विधिवत्सप्तमीं रथसप्तमीम् । आधि(दि?)भिर्व्याधिभिर्मुक्तो जगामाशु स्वमन्दिरम् । । २ शतानीक उवाच रथयात्रा कथं कार्या रथः कार्यः रथं रवेः । केनेह मर्त्यलोकेषु रथयात्रा प्रवर्तिता । । ३ सुमन्तुरुवाच इममर्थं पुरा पृष्टः पद्मयोनिः प्रजापतिः । रुद्रेण कुरुशार्दूल आसीनः काञ्चने गिरौ । । ४ पद्मासनं पद्मयोनिं सुखासीनं प्रजापतिम् । प्रणम्य शिरसा देवो रुद्रो वाचमुदैरयत् । । ५ श्रीरुद्र उवाच य एष भगवान्देवो भास्करो लोकभास्करः । कथमेष भ्रमेद्देवो रथस्थो विमलः सदा । । ६ ब्रह्मोवाच यथा दिवि भ्रमेत्तात रथारूढो रविः सदा । तथा ते वर्तयिष्येऽहं रथं चास्य त्रिलोचन । । ७ रथेन ह्येकचक्रेण पञ्चारेण त्रिणाभिना । हिरण्यमयेन कान्तेन अष्टबन्धैकनेमिना । । ८ चक्रेण भास्वता चैव दिवि सूर्यः प्रसर्पति । दशयोजनसाहस्रो विस्तारोऽप्यस्य कथ्यते । । ९ त्रिगुणा च रथोपस्थादीषा दण्डप्रमाणतः । युगमस्य तु विस्तीर्णमरुणो१ यत्र सारथिः । । 1.52.१० प्रासङ्गः कांचनो दिव्यो युक्तः पवनगैर्हयैः । छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः । । ११ येनासौ पर्यटेद्व्योम्नि भास्वता तु दिवस्पतिः । अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु । । १२ संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् । १नाभ्यस्तिस्रस्तु चक्रस्य त्रयः कालाः प्रकीर्तिताः । । १३ आराः पञ्चर्तवस्तस्य नेम्यः षडृतवः स्मृताः । रथवेदी स्मृते तस्य अयने दक्षिणोत्तरे । । १४ मुहूर्ता २ इषवस्तस्य शम्याश्चास्य कलाः स्मृताः । तस्य काष्ठाः स्मृताः कोणा अक्षदण्डः क्षणाः स्मृताः । । १५ निमेषाश्चास्य कर्षाः स्यादीषादण्डो लवाः स्मृताः । रात्रिर्वरूथो धर्मोऽस्य ध्वज ऊर्ध्वं प्रतिष्ठितः । । १६ युगाक्षिकोटी ते तस्य अर्थकामावुभौ स्मृतौ । अश्वरूपाणि च्छन्दांसि वहन्ते वामतो धुरम् । । १७ गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुबेव च । पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमी । । १८ चक्रमक्षनिबद्धं तु ध्रुवे चाक्षः समर्पितः । सहचक्रो भ्रमत्यक्षः स चाक्षो भ्रमति ध्रुवे । । १९ अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवे स्थितः । एवमक्षवशात्तस्य ३ सन्निवेशो रथस्य तु । । 1.52.२० तथा संयोगभावेन संसिद्धो भास्करो रथः । तेन चासौ रविर्देवो नभः संसर्पते सदा । । २१ युगाक्षकोटीसम्बद्धे द्वे रश्मी स्यन्दनस्य तु । ध्रुवे ते भ्रमतो रश्मी न चक्रयुगयोस्तु वै । । २२ भ्रमतो मण्डलान्यस्य रवेरस्य रथस्य तु । कुलालचक्रवद्याति मण्डलं सर्वतोदिशम् । । २३ युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु । ऋग्यजुर्भ्यां गृहीतेन विचक्राश्वेन वै ध्रुवे । । २४ ह्रसेते तस्य रश्मी तु मण्डलेषूत्तरायणे । दक्षिणेऽथ समृद्धे तु भ्रमतो मण्डलानि तु । । २५ युगाक्षकोटी ते तस्य भ्रमेते स्यन्दनस्य तु । सक्तासक्तं च भ्रमते मण्डलं सर्वतोदिशम् । । २६ आकृष्येते ध्रुवेणेह समं तिष्ठति सुव्रत । तदा साभ्यन्तरं देवो भ्रमते मण्डलानि तु । । २७ ध्रुवेण मुच्यमाने तु पुना रश्मियुगेन वै । तथैव १ बाह्यतः सूर्यो भ्रमते मण्डलानि तु । । २८ अशीतिमण्डलशतं काष्ठयोरुभयोरपि । सरथोऽधिष्ठितो देवैर्विभ्रमेदृषिभिः सह । । २९ गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः । एतैर्वसति वै सूर्ये मासौ द्वौ द्वौ क्रमेण तु । । 1.52.३० धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः । खण्डको वासुकिश्चैव सकर्णो रश्मिरेव च । । ३१ तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ । क्रतुस्थलाप्सरश्चैव या च सा पुञ्जिकस्थला । । ३२ ग्रामणीरथकृत्स्नश्च रथौजाश्वतरावुभौ । रक्षो हेतिः प्रहेतिश्च यातुधानौ च तावुभौ । । ३३ मधुमाधवयोरेष गणो वसति भास्करे । तथा ग्रीष्मौ तु द्वौ मासौ मित्रश्च वरुणश्च ह । । ३४ ऋषिरत्रिर्वशिष्ठश्च तक्षकोऽनन्त एव च । मेनका सहजन्या च गंधर्वो च हहा हूहूः । । ३५ रथस्वनश्च ग्रामण्यौ रथचित्रश्च तावुभौ । पौरुषेयो वधश्चैव यातुधानौ महाबलौ । । ३६ शुचिशुक्रौ तु द्वौ मासौ वसन्त्येते दिवाकरे । इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । । ३७ एलापर्णस्तथा सर्पः शङ्खपालश्च पन्नगाः । प्रम्लोचा दुन्दुकाश्चैव गन्धर्वौ भानुदर्दुरौ । । ३८ यातुधानौ तथा सर्पस्तथा ब्राह्मश्च तावुभौ । एते नभो नभस्यौ च निवसन्ति दिवाकरे । । ३९ शरद्येते पुनः शुभ्रा निवसन्ति स्म देवताः । पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः । । 1.52.४० चित्रसेनश्च गन्धर्वस्तथा वसुरुचिश्च यः । विश्वाची च घृताची च ते उभे पुण्यलक्षणे । । ४१ नागस्त्वैरावतश्चैव विश्रुतश्च धनञ्जयः । सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीस्तथा । । ४२ आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ । वसन्त्येते तु वै सूर्ये इषोर्जौ कालपर्ययात् । । ४३ हेमंतिकौ तु द्वौ मासौ वसन्त्येते दिवाकरे । अंशौ भगश्च द्वावेतौ कश्यपश्च क्रतुस्तथा । । ४४ भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा । आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ । । ४५ चित्राङ्गदश्च गन्धर्वोरुणायुश्चैव तावुभौ । सहे चैव सहस्ये च वसन्त्येते दिवाकरे ।.। ४६ पूषा जिष्णुर्जमदग्निर्विश्वामित्रस्तथैव च । काद्रवेयौ महानागौ कम्बलाश्वतरावुभौ । । ४७ गन्धर्वो धृतराष्ट्रश्च सूर्यवार्चाश्च तावुभौ । तिलोत्तमा च रम्भा च सर्वलोके च विश्रुते । । ४८ १ग्रामणीः सेनजिच्चैव सत्यजिच्च महातपाः । ब्रह्मोपेतश्च वै रक्षो यज्ञो यज्ञस्तथैव च । । एते तपस्तपस्यै च निवसन्ति दिवाकरे । । ४९ अन्येऽपि ये मन्देहा राक्षसाधिपतयो देवदेवगुह्यतमस्य रक्षार्थं सकल देवैरस्मदादिभिः सन्नियुक्तास्तान्भवते कथयामि । । 1.52.५० रुद्र उवाच वद ब्रह्मन्कथां दिव्यां यामहं प्रष्टुमागतः । तामेव विस्तरेणैव कथयाशु मम प्रभो । । ५१ दिविष्ठं भास्करं दृष्ट्वा नमेत्केन विधानतः । किं फलं तस्य वा देव समाप्ते भवति कर्मणि । । ५२ ब्रह्मोवाच शृणु रुद्र समासेन भास्करस्य नतिक्रियाम् । यां कृत्वा रोगदुःखार्ता मुच्यन्ते पापसञ्चयात् । । ५३ स्थण्डिले मण्डलं कृत्वा द्वादशाङ्गुलमानतः । सद्यो गोमयलिप्ते च तत्रैवावाहयेद्रविम् । । ५४ पूजयित्वा गणेशादीन्वासुदेवं च सात्यकिम् । सत्यभामां तथा लक्ष्मीमुमां देवीं च शङ्करम् । । ५५ मण्डलस्य समीपस्थान्पूर्वोक्तान्वेदमन्त्रवित् । ततः प्रदक्षिणीकृत्य दण्डवत्प्रणमेत्सकृत् । । ५६ शतं सहस्रमयुतं लक्षं वा निजपापतः । दृष्ट्वा शक्तिं प्रणम्याथ सदा संयतमानसः । । ५७ विप्राय दक्षिणां दद्यान्निरुच्छ्वासः समाहितः । रक्तिके च हिरण्यस्य शतमात्रे सहस्रके । । ५८ माषकाणां चतुष्कं चायुतं दशगुणं दिशेत् । दक्षे दशगुणं प्रोक्तं दद्याद्रोगविमुक्तये । । ५९ एवं कृते विरूपाक्ष सर्वरोगाद्विमुच्यते । इदं रहस्यं परमं शृणुयाद्यो हि मानवः । । 1.52.६० तस्य रोगा विनश्यन्ति मार्तण्डस्य प्रसादतः । अन्यच्च ते प्रवक्ष्यामि यच्चापृष्टमुमापते । । तच्छृणुष्व मया प्रोक्तं रथयन्तृनियामकम् । । ६१ इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः
Description of Sun worship. Sumantu said: Having spoken thus, the blessed lord, bearer of conch, discus, and mace, vanished before the valiant Śāmba. Śāmba, having properly performed the Saptamī, the chariot Saptamī, was freed from ailments and quickly returned to his home. Śatānīka said: How should the chariot procession be performed? How should the chariot for the Sun be made? By whom was the chariot procession established among mortals? Sumantu said: This matter was formerly asked of Padmayoni, the progenitor, by Rudra, O tiger among Kurus, as he sat on the golden mountain. Rudra, bowing his head to Padmayoni, seated on a lotus seat, addressed him. Śrī Rudra said: This blessed god, Bhāskara, illuminator of worlds—how does this pure god move, always seated in a chariot? Brahmā said: Just as the Sun moves in the sky, always riding a chariot, so I shall describe his chariot to you, O three-eyed one. The chariot has one wheel, five spokes, three hubs, made of gold, beautiful, with a single rim bound by eight bands. With a shining wheel, the Sun moves in the sky; its breadth is said to be ten thousand yojanas. The chariot's platform is three times the measure of the staff; its yoke is broad, where Aruṇa is the charioteer. The shaft is golden and divine, yoked to horses driven by wind; the horses are in the form of meters, stationed where the wheel is. By this, the radiant lord of day moves in the sky. Now, the parts of the Sun's chariot are arranged according to the divisions of the year. The three hubs of the wheel are called the three times; the five spokes are the five seasons; the six rims are the six seasons. The chariot's altar is said to be the solstices, southern and northern. The moments are the arrows; the chariot's rails are the lunar phases. The chariot's planks are the corners; the axle staff is the instants. The chariot's nimeshas are the measures; the axle staff is the fractions. The night is the chariot's body; righteousness is its banner, established upright. The ends of the axle and yoke are called the two aims, wealth and desire. The meters, in the form of horses, bear the yoke on the left side. Gāyatrī, Triṣṭubh, Jagatī, Anuṣṭubh, Paṅkti, Bṛhatī, and Uṣṇik are the seven Saptamī. The wheel is bound to the axle; the axle is fixed in the pole. The wheel rotates with the axle; the axle rotates in the pole. The axle rotates with the wheel, fixed in the pole. Thus, the arrangement of the chariot is according to the axle's motion. By their union, the Sun's chariot is perfected; by it, the Sun god always moves through the sky. The two rays attached to the ends of the axle and yoke move in the chariot; they rotate at the pole, not at the wheel and yoke. The Sun's chariot moves in circles, like a potter's wheel, in all directions. The ends of the axle and yoke are on the right side of the chariot; with Ṛg and Yajur Veda, the wheel is held by the horse at the pole. The rays decrease in the circles during the northern course; in the southern, they increase as the chariot moves in circles. The ends of the axle and yoke rotate in the chariot; attached and detached, the chariot moves in circles in all directions. Drawn by the pole, it stands still, O virtuous one; then the god moves within, rotating in circles. When released from the pole, again by the rays and yoke, likewise, the Sun moves in circles outside. Eighty hundred circles are counted on both sides; the chariot, occupied by gods, rotates with sages. With Gandharvas, Apsarases, serpent chiefs, and Rākṣasas, the Sun resides with these, two months at a time. Dhātā, Aryaman, Pulastya, Pulaha, the progenitor, Khaṇḍaka, Vāsuki, Sakarṇa, and the ray. Tumburu and Nārada, the two Gandharvas, Kratusthala and the Apsaras Puñjikasthalā. Grāmaṇī, Rathakṛtsna, Rathaujā, and Aśvatarā; Rākṣasas Heti and Praheti, and the two Yātudhānas. In the months of Madhu and Mādhava, this group resides in the Sun. In the two summer months, Mitra and Varuṇa; the sages Atri and Vasiṣṭha, Takṣaka and Ananta; Menakā and Sahajanyā, Gandharva Hahā and Hūhū. Rathasvana and Grāmaṇī, Rathacitra, the two; Pauruṣeya and Vadha, the two mighty Yātudhānas. In the two months of Śuci and Śukra, these reside in the Sun. Indra and Vivasvān, Aṅgiras and Bhṛgu; Elāparṇa and Śaṅkhapāla, the serpents; Pramlocā and Dundukā, Gandharvas Bhānu and Dardura. Yātudhānas and serpents, and the two Brāhmaṇas; these reside in the Sun in the months of Nabhas and Nabhasya. In the autumn months, these pure deities reside: Parjanya and Pūṣā, Bhāradvāja and Gautama. Citrāsena, Gandharva, Vasuruci; Viśvācī and Ghṛtācī, both of auspicious mark. Nāga Airāvata and Dhanañjaya, Senajit and Suṣeṇa, Senānī and Grāmaṇī. Āpo and Vāta, the two Yātudhānas, reside in the Sun in the months of Iṣorja, according to time. In the two winter months, these reside in the Sun: Aṃśa and Bhaga, Kaśyapa and Kratu. Bhujaṅga, Mahāpadma, serpent Karkoṭaka; Āpo and Vāta, the two Yātudhānas. Citrāṅgada and Gandharva Uruṇāyu, the two; Sahe and Sahasya, these reside in the Sun. Pūṣā, Jiṣṇu, Jamadagni, Viśvāmitra; Kādraveya and Mahānāga, Kambala and Aśvatara. Gandharva Dhṛtarāṣṭra and Sūryavārcas, the two; Tilottamā and Rambhā, renowned in all worlds. Grāmaṇī, Senajit, Satyajit, the ascetic; Brahmopeta, the Rākṣasa, Yajña and Yajñasta. These, devoted to austerity, reside in the Sun. Others, the Mandehas, chiefs of Rākṣasas, appointed by all the gods, including ourselves, for the protection of the most secret lord of gods—I shall tell you of them. Rudra said: Tell me, Brahman, the divine story I have come to ask; narrate it to me in detail, O lord. Seeing Bhāskara in the sky, by whom should he be worshipped, and what fruit does one gain when the rite is completed, O god? Brahmā said: Listen, Rudra, in brief, to the rite of bowing to Bhāskara; by performing it, those afflicted by disease and sorrow are freed from accumulated sin. Drawing a circle on the ground, twelve fingers wide, freshly smeared with cow dung, one should invoke the Sun there. Having worshipped Gaṇeśa and others, Vāsudeva, Sātyaki, Satyabhāmā, Lakṣmī, Umā, the goddess, and Śaṅkara, those near the circle should be worshipped as previously mentioned, by one versed in Vedic mantras. Then, circumambulating, one should bow down once. Whether a hundred, a thousand, ten thousand, or a hundred thousand sins, seeing one's capacity, one should bow with a controlled mind. One should give a gift to a Brāhmaṇa, silent and focused; a hundred or a thousand red coins of gold. Four beans, or ten thousand, should be given; ten times the amount should be given for relief from disease. By doing so, O Virūpākṣa, one is freed from all diseases. This is the supreme secret; whoever hears it, O mortal, his diseases are destroyed by the grace of Mārtāṇḍa. I shall tell you further, O Umāpati, what you have not asked; listen to what I say about the chariot driver and controller.