1.34.१० वेपते वेदनात्रस्तो रक्तनेत्रश्च जायते । स याति निधनं जन्तुः कालदण्डं विनिर्दिशेत् । । ११ अष्टम्यां च नवम्यां च कृष्णपक्षे चतुर्दशीम् । नागपञ्चमीदष्टानां जीवितस्य च संशयः । । १२ आर्द्राश्लेषामघाभरणीकृत्तिकासु विशेषतः । विशाखां त्रिषु पूर्वासु मूलस्वातीशतात्मके । । सर्पदष्टा न जीवन्ति विषं पीतं च यैस्तथा । । १३ शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च । न जीवन्ति नरा दष्टा नक्षत्रे तिथिसंयुते । । १४ अष्टोत्तरं मर्म शतं प्राणिनां समुदाहृतम् । तेषां मध्ये तु मर्माणि दश द्वे चापि कीर्तिते । । १५ शङ्खे नेत्रे भ्रुवोर्मध्ये बस्तिभ्यां वृषणोत्तरे । कक्षे स्कन्धे हदि मध्ये तालुके चिबुके गुदे । । १६ एषु द्वादशमर्मेषु२ दंशैः शस्त्रेण वा हतः । न जीवति नरो लोके कालदण्डं विनिर्दिशेत् । । १७ अकचटतपयशां वदन्ति प्रोक्ता जीवन्ति न तत्र हि । गतं ब्रूयाद्यदि स्खलति शिरस्तस्य सम्प्राप्तकालः । । १८ भवति च यदि दूतो ह्युत्तमस्याधमो वा यदि भवति च दूत उत्तमो वाधमस्य । आदौ दष्टस्य नाम यदि वदति क्वचिद्वक्ति तस्याथ पश्चात्तं वर्णभेदो यदि भवति समः प्राप्त कालस्य दूतः । । १९ दूतो वा दण्डहस्तो भवति च युगलं पाशहस्तस्तथा वा रक्तवस्त्रं च कृष्णं मुखशिरसि गतमेकवस्त्रश्च दूतः । । तैलाभ्यक्तश्च तद्वद्यदि त्वरितगतिर्मुक्तकेशश्च याति यः कुर्याद्घोरशब्दं करचरणयुगैः प्राप्तकालस्य दूतः । । 1.34.२० नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम् । ब्रह्मणा तु पुरा सृष्टा ग्रहा नागास्त्वनेकशः । । २१ अनन्तं भास्करं विद्यात्सोमं विद्यात्तु वासुकिम् । तक्षकं भूमिपुत्रं तु कर्कोटं च बुधं विदुः । । २२ पद्मं बृहस्पतिं विद्यान्महापद्मं च भार्गवम् । कुलिकः शंखपालश्च द्वावेतौ तु शनैश्चरः । । २३ पूर्वपादः शंखपालो द्वितीयः कुलिकस्तथा । नित्यं भागे यथोद्दिष्टे दिनरात्री तथैव च । । २४ शुक्रसोमौ च मध्याह्ने उदये तु क्षमासुतः । शनिः प्रागष्टमे भागे दिवारात्रे त्विहोच्यते । । २५ ग्रहाश्च भुञ्जते चैव शेषं भागस्य लक्षणम् । रविवारे सदा ज्ञेयौ पादौ दश चतुर्दश । । २६ अष्ट द्वादश वै चन्द्रे दश षष्ठे कुजे तथा । बुधस्य नवमे पादे राहौ च दिवसस्य च । । २७ गुरोर्द्वितीयः षष्ठश्च षोडशस्य तु वर्जयेत् । भास्करस्य दिने प्रोक्ते चतुर्थे दशमेष्टमे । । २८ शनैश्चरदिने पादं त्यजेच्चैव सुदारुणम् । द्वितीयं द्वादशं चैव षोडशस्य तु वर्जयेत् । । २९ मुहूर्तघटिकादूर्द्ध्वं घटिका चतुर्थं भागं विंशतिश्च । कुहूसुतं बुद्बुदं निमेषमेतत्कालस्य लक्षणम् । । 1.34.३० इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे दंशदष्टकदूतलक्षणं नाम चतुस्त्रिंशोऽध्यायः
He trembles, suffers intense pain, and his eyes become red; such a creature meets death—this is known as the rod of time.
यमदूतीलक्षणम् कश्यप उवाच सविषा दंष्ट्रयोर्मध्ये यमदूती तु वै भवेत् । न चिकित्सा बुधैः कार्या तं गतासुं विर्निदशेत् । । १ प्रहरार्धं दिवारात्रावेकैकं भुञ्जते बहिः । एकस्य च समानं च द्वितीयं षोडशं तथा । । २ नागोदयो यमुद्दिश्य हतो विद्धो विदारितः । कालदष्टं विजानीयात्कश्यपस्य वचो यथा । । ३ यन्मात्रं पतते बिन्दुर्वालाग्रं सलिलोद्धृतम् । तन्मात्रं स्रवते दंष्ट्रा विषं सर्पस्य दारुणम् । । ४ नाडीशते तु सम्पूर्णे देहे सङ्क्रमते विषम् । यावत्सङ्क्रामयेद्बाहुं कुञ्चितं वा प्रसारयेत् । । ५ अनेन क्षणमात्रेण विषं गच्छति मस्तके । वेपते विषवेगे तु शतशोऽथ सहस्रशः । । ६ वर्धते रक्तमासाद्य ततो वातैः शिखी यथा । तैलबिन्दुर्जलं प्राप्य यथा वेगेन वर्धते । । ७ शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः । ततः स्थानशतं प्राप्य त्वचास्थानं विचेष्टितम् । । ८ त्वचासु द्विगुणं विद्याच्छोणितेषु चतुर्गुणम् । पित्ते तु त्रिगुणं याति श्लेष्मे वै षोडशं भवेत् । । ९ वायौ त्रिंशद्गुणं चैव मज्जाषष्टिगुणं तथा । प्राणे चैकार्णवीभूते सर्वगात्राणि सन्धयेत्
Kaśyapa said: Between the two poisonous fangs is the Yamadūtī type; the wise should not attempt treatment—when life is gone, it is certain.
1.35.१० श्रोत्रे निरुध्यमाने च याति दष्टस्त्वसाध्यताम् । ततोऽसौ म्रियते जन्तुर्निःश्वासोच्छ्वासवर्जितः । । ११ निष्क्रान्ते तु ततो जीवे भूते पञ्चत्वमागते । तानि भूतानि गच्छन्ति यस्य यस्य यथातथम् । । १२ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । इत्येषामेव सङ्घातः शरीरमभिधीयते । । १३ पृथिवी पृथिवीं याति तोयं तोयेषु लीयते । तेजो गच्छति चादित्यं मारुतो मारुतं व्रजेत् । । १४ आकाशं चैवमाकाशे सह तेनैव गच्छति । स्वस्थानं ते प्रपद्यन्ते परस्परनियोजिताः । । १५ न जीवेदागतः कश्चिदिह जन्मनि सुव्रत । विषार्तं न उपेक्षेत त्वरितं तु चिकित्सयेत् । । १६ एकमस्ति विषं लोके द्वितीयं चोपपद्यते । यथा नानाविधं चैव स्थावरं तु तथैव च । । १७ प्रथमे विषवेगे तु रोमहर्षोऽभिजायते । द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते । । १८ तृतीये विषवेगे तु कम्पो गात्रेषु जायते । चतुर्थे विषवेगे तु श्रोत्रान्तरनिरोधकृत् । । १९ पञ्चमे विषवेगे तु हिक्का गात्रेषु जायते । षष्ठे च विषवेगे तु प्राणेभ्योऽपि प्रमुच्यते । । सप्तधातुवहा ह्येते वैनतेयेन भाषिताः । । 1.35.२० त्वचः स्थाने विषे प्राप्ते तस्य रूपाणि मे शृणु । अङ्गानि तिमिरायन्ते तपन्ते च मुहुर्मुहुः । । २१ एतानि यस्य चिह्नानि तस्य त्वचि गतं विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २२ अर्कमूलमपामार्गं प्रियङ्गुं तगरं२ तथा । एतदालोड्य दातव्यं ततः सम्पद्यते सुखम् । । २३ ततस्तस्मित्कृते विप्र न निवर्तेत चेद्विषम् । त्वचः स्थानं ततो भित्त्वा रक्तस्थानं प्रधावति । । २४ विषे च रक्तं संप्राप्ते तस्य रूपाणि मे शृणु । दह्यते मुह्यते१ चैव शीतलं बहु मन्यते । । २५ एतानि यस्य रूपाणि तस्य रक्तगतं विषम् । तत्रागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २६ उशीरं चन्दनं कुष्ठमुत्पलं तगरं तथा । महाकालस्य मूलानि सिन्दुवारनगस्य च । । हिङ्गुलं मरिचं चैव पूर्ववेगे तु दापेयत् । । २७ बृहती वृश्चिका काली इन्द्र वारुणिमूलकम्
When the sense of hearing is blocked, the person bitten becomes incurable; then that creature dies, devoid of breath and respiration.
सप्तगन्धघृतं चैव द्वितीये परिकीर्तितम् । । २८ सिन्दुवारं तथा हिङ्गुं तृतीये कारयेद्बुधः । तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा । । २९ एतेनैवोपचारेण ततः सम्पद्यते सुखम् । रक्तस्थानं ततो गत्वा पित्तस्थानं प्रधावति । । 1.35.३० पित्तस्थानगते विप्र विषरूपाणि मे शृणु । उत्तिष्ठते निपतते दह्यते मुह्यते तथा । । ३१ गात्रतः पीतकः स्याद्वै दिशः पश्यति पीतिका । प्रबला च भवन्मूर्च्छा न चात्मानं विजानते । । विषक्रियां तस्य कुर्याद्यथा सम्पद्यते सुखम् । । ३२ पित्तस्थानमतिक्रम्य श्लेष्मस्थानं च गच्छति । । ३३ पिप्पल्यो मधुकं चैव मधु खण्डं घृतं तथा । मधुसारमलाबूं च जातिं शङ्करवालुकाम् । । इन्द्रवारुणिकामूलं गवां मूत्रेण पेषयेत् । । ३४ नस्यं तस्य प्रयुञ्जीत पानमालेपनाञ्जनम् । एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३५ श्लेष्मस्थानं ततः प्राप्ते तस्य रूपाणि मे शृणु । गात्राणि१ तस्य रुध्यन्ते निःश्वासश्च न जायते । । लाला च स्रवते तस्य कण्ठो घुरुघुरायते । । ३६ एतानि यस्य रूपाणि तस्य श्लेष्मगतं विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ३७ त्रिकुटकी श्लेष्मातको लोध्रञ्च मधुसारकम् । एतानि समभागानि गवां मूत्रेण पेषयेत् । । ३८ तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा । एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३९ श्लेष्मस्थानमतिक्रम्य वायुस्थानं च गच्छति । तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे । । 1.35.४० आध्मायते च जठरं बान्धवांश्च न पश्यति । ईदृशं कुरुते रूपं वृष्टिभङ्गश्च जायते । । ४१ एतानि यस्य रूपाणि तस्य वायुगतं विषम् । तस्यागदं प्रक्ष्यामि येन सम्पद्यते सुखम् । ।४ २ शोणामूलं प्रियालं च रक्तं च गजपिप्पलीम् । भार्ङ्गीं वचां पिप्पलीं च देवदारुं मधूककम् । । ४३ मधूकसारं सहसिन्दुवारं हिङ्गुं च पिष्टा गुटिकां च कुर्यात् । दद्याच्च तस्याञ्जनलेपनादि एषोऽगदः सर्पविषाणि हन्यात् । । ४४ अञ्जनं चैव नस्यं च क्षिप्रं दद्याद्विषान्विते । वायुस्थानं ततो मुक्त्वा मज्जास्थानं प्रधावति । ।४५ विषे मज्जागते विप्र तस्य रूपाणि मे शृणु । दृष्टिश्च हीयते तस्य भृशमङ्गानि मुञ्चति । ।४ ६ एतानि यस्य रूपाणि तस्य मज्जागतं विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ४७ घृतमधुशर्करान्वितमुशीरं चंदनं तथा
The clarified butter prepared with seven fragrances is prescribed for the second stage.
ततः प्रणश्यते दुःखं ततः संपद्यते सुखम्
Then suffering is destroyed, and happiness is attained.
मज्जास्थानं ततो गत्वा मर्मस्थानं प्रधावति 1.35.
From the marrow, it proceeds to the vital spots.
निश्चेष्टः पतते भूमौ कर्णाभ्यां बधिरो भवेत्
He falls motionless to the ground and becomes deaf in both ears.
दंडेन हन्यमानस्य दंडराजी न जायते
When one is struck with a rod, the rod does not become a king.
केशेषु लुच्यमानेषु नैव केशान्प्रवेदते शिथिलानि भवंतीह स गतासुरिति श्रुतिः
When the hair is being plucked out, she does not feel the hair; here, the limbs become slack, and the tradition says she has departed from life.
एतानि यस्य रूपाणि विपरीतानि गौतम
O Gautama, these are the forms whose characteristics are reversed.
वैद्यास्तस्य न पश्यंति ये भवंति कुशिक्षिताः
The physicians who are well-trained do not recognize these signs.
तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम्
I will declare to you the antidote, as spoken by Rudra himself.
कुंकुमं तगरं कुष्ठं कासमर्दत्वचं तथा
Kumkuma, tagara, kuṣṭha, and the bark of kāsamarda—
एतानि समभागानि गोमूत्रेण तु पेषयेत् कालाहिनापि दष्टेन क्षिप्रं भवति निर्विषः
These, in equal parts, should be ground with cow's urine; even one bitten by a black snake quickly becomes free from poison.
क्षिप्रमेव प्रदा तव्यं मृतसंजीवनौषधम्
The life-restoring medicine should be administered immediately.
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे धातुगतविषक्रियावर्णनं नाम पंचत्रिंशोऽध्यायः
Thus, in the glorious Bhavishya Mahapurana, in the Brahma Parvan, in the fifth Kalpa, in the section of one and a half hundred thousand verses, this is the thirty-fifth chapter named 'Description of Actions for Poison in the Body.'
कुमारदष्टः कीदृक्स्यात्सूतिकादंशितस्य च
What are the symptoms when a boy is bitten, and likewise when a woman in childbirth is bitten?
रूपं नपुंसकेनेह व्यंतरेण च कीदृशम्
What is the appearance when bitten by a neuter or by an internal snake?
कश्यप उवाच अतः परं प्रवक्ष्यामि नागानां रूपलक्षणम्
Kaśyapa said: Next, I will describe the forms and marks of the snakes.
अथ सर्पेण दष्टस्य ऊर्ध्व दृष्टिः प्रजायते
When bitten by a snake, the gaze turns upward.
कन्यादष्टस्य वामा स्यादृष्टिर्द्विजवरोत्तम
When a maiden is bitten, O best of twice-born, the gaze turns to the left.
गर्भिण्या वाथ दष्टस्य तथा स्वेदश्च जायते नपुंसकेन दष्टस्य अंगमर्दः प्रजायते
Or when a pregnant woman is bitten, sweating occurs; when bitten by a neuter, there is aching of the limbs.
पन्नग्यः प्रभवो रात्रौ दिवा सर्पो विषाधिकः
The offspring of serpents are more potent with poison at night, and snakes are more poisonous by day.
अंधकारे तु दष्टो य उदके गहने वने दष्टरूपाण्यजानन्वै कथं वैद्यचिकित्सितम्
If one is bitten in darkness, or in water, or in a dense forest, how can the physician treat without knowing the form of the biter?
चतुर्विधा इह प्रोक्ताः पन्नगास्तु महात्मना
Here, four kinds of serpents are described by the great sage.
दर्वीकरा वातविषा मंडला पैत्तिकाः स्मृताः 1.36.
They are known as darvikara (wooden-spoon-shaped), vātaviṣa (wind-poisoned), maṇḍala (ringed), and paittika (bile-poisoned).
रक्तं परीक्षयेदेषां सर्पाणां तु पृथक्पृथक्
The blood of these snakes should be examined separately, one by one.
रक्तं घनं च बहुशः शोणितं मंडली कृतम्
Their blood is often thick, and the venom forms a red circle.
सर्पा ज्ञेयास्तु चत्वारः पंचमो नोपलभ्यते
There are known to be four types of snakes; the fifth is not found.
ब्राह्मणे मधुरं दद्यात्तिक्तं दद्यात्तथोत्तरे
To a Brāhmaṇa, give something sweet; to the next, give something bitter.