मृगव्याधः शिवः क्रुद्धो वीरभद्रो बभूव ह
Shiva, angered, became Virabhadra, the slayer of the beast.
तेनैव पीडिता देवा मुनयः पितरोऽभवन्
By him, the gods, sages, and ancestors were afflicted.
मृगभूतो ययौ तूर्णं दृष्ट्वा व्याधः शिवोभवत्
Having become a beast, he quickly departed; seeing this, Shiva became the hunter.
तदा तु भगवान्ब्रह्मा तुष्टाव मधुरस्वरैः
Then the blessed Brahma praised him with sweet-sounding words.
तुलाराशिस्थिते भानौ तं रुद्रं चन्द्रमण्डले प्रययौ सप्तलोकं वै स रुद्रश्चंद्ररूपवान्
When the sun was in the sign of Libra, that Rudra entered the circle of the moon and went to the seven worlds, appearing in the form of the moon.
इति श्रुत्वा वीरभद्रो रुद्रः संहृष्टमानसः
Hearing this, Virabhadra, Rudra, became delighted in mind.
विप्र भैरवदत्तस्य गेहं गत्वा स वै शिवः
O Brahmin, Shiva went to the house of Bhairavadatta.
स बालश्च गुणी वेत्ता ब्रह्मचारी बभूव ह 3.4.10.
He became a boy, virtuous, learned, and a celibate.
त्रिपुण्ड्रश्चाक्षमाला च मंत्रः पंचाक्षरः शुभः
The three horizontal lines, the rosary, and the auspicious five-syllable mantra.
अथैकादशोऽध्यायः आनन्दगिरिवनशर्मपुरीशर्मउत्पत्तिवर्णनम् बृहस्पतिरुवाच पुरा तु नैमिषारण्ये विप्रश्चाजगरोऽभवत्। वेदान्तशास्त्रनिपुणो ज्ञानवाञ्छम्भुपूजकः
Chapter Eleven: The Origin of Ānandagiri, Vanaśarma, and Purīśarma.
रुद्रमाहात्म्यवर्णनम् बृहस्पतिरुवाच इदं दृश्यं यदा नासीत्सदसदात्सकं च यत् । तदाक्षरमयं तेजो व्याप्तरूपमचिन्त्यकम् । । १ न च स्थूलं न च सूक्ष्णं शीतं नोष्णं च तत्परम् । आदिमध्यान्तरहितं मनागाकारवर्जितम् । । २ योगिदृश्यं परं नित्यं शून्यभूतं परात्परम् । एका वै प्रकृतिर्माया रेखा या तदधः स्मृता । । ३ महत्तत्वमयी ज्ञेया तदधश्चोर्ध्वरेखिकाः । राजस्सत्त्वतमोभूता ओमित्येवसुलक्षणम् । । ४ तत्सद्ब्रह्म परं ज्ञेयं यत्र प्राप्य पुनर्भवः । कियता चैव कालेन तस्येच्छा समपद्यत । । ५ अहङ्कारस्ततो जातस्ततस्तन्मात्रिकाः पराः । पञ्चभूतान्यतोप्यासञ्ज्ञानविज्ञानकान्यतः । । ६ द्वाविंशज्जडभूतांश्च दृष्ट्वा स्वेच्छामयो विभुः । द्वन्द्वभूतश्च सगुणो बुद्धिर्जीवस्समागतः । । ७ पूर्वार्द्धात्सगुणः सोसौ निर्गुणश्च परार्द्धतः । ताभ्यां गृहीतं तत्सर्वं चैतन्यमभवत्ततः । । ८ सविराडितिसंज्ञो वै जीवो जातस्सनातनः । विराडो नाभितो जातं पद्मं तच्छतयोजनम् । । ९ पद्माच्च कुसुमं जातं योजनायाममुत्तमम् । तत्पद्मकुसुमाज्जातो विरञ्चिः कमलासनः । । 3.4.14.१० द्विभुजस्स चतुर्वक्त्रो द्विपादो भगवान्विधिः । ज्ञेयः सप्तवितत्यङ्गो महाचिन्तामवाप्तवान् । । ११ कोऽहं कस्मात्कुत आयातः का मे जननी को मे तातः । इत्यधिचिन्तय तं हृदि देवं शब्दमहत्त्वमयेन स आह । । १२ तपश्चैव तु कर्तव्यं संशयस्यापनुत्तये । तदाकर्ण्य विधिस्साक्षात्तपस्तेपे महत्तरम् । । १३ सहस्राब्दं प्रयत्नेन ध्यात्वा विष्णुं सनातनम् । चतुर्भुजं योगगम्यं निर्गुणं गुणविस्तरम् । । १४ समाधिनिष्ठो भगवान्बभूव कमलासनः । एतस्मिन्नन्तरे विष्णुर्बालो भूत्वा चतुर्भुजः । । १५ श्यामाङ्गो बलवानस्त्री दिव्यभूषणभूषितः । ब्रह्मणोऽङ्के हरिस्तस्थौ यथा बालः पितुः स्वयम् । । १६ तदा प्रबुद्धश्च विधिस्तं दृष्ट्वा मोहमागतः । वत्सवत्सेति वचनं विधिः प्राह प्रसन्नधीः । । १७ विहस्याह तदा विष्णुरहं ब्रह्मन्पिता तव । तयोर्विवदतोरेवं रुद्रो जातस्तमोमयः । । १८ ज्योतिर्लिङ्गश्च भयदो योजनानन्तविस्तरः । हंसरूपं तदा ब्रह्मा वराहो भगवान्प्रभु । । १९ शताब्दं तौ प्रयत्नेन जातौ चोर्ध्वमधः क्रमात् । लज्जितौ पुनरागत्य तदा तुष्टुवतुर्मुदा । । 3.4.14.२० ताभ्यां स्तुतो हरः साक्षाद्भवो नाम्ना समागतः । कैलासनिलयं कृत्वा समाधिस्थो बभूव ह । । २१ जातं पञ्चयुगं तत्र दिव्यं रुद्रस्य योगिनः । एतस्मिन्नन्तरे घोरो दानवस्तारकासुरः । । २२ सहस्राब्दं तपः कृत्वा ब्रह्मणो वरमाप्तवान् । भववीर्योद्भवः पुत्रः स ते मृत्युं करिष्यति । । २३ इति मत्वा सुराञ्जित्वा महेन्द्रश्च तदाभवत् । ते सुराश्चैव कैलासं गत्वा रुद्रं प्रतुष्टुवुः । । २४ वरं ब्रूहीति वचनं सुरान्प्राह तदा शिवः । ते तु श्रुत्वा प्रणम्योचुर्वचनं नम्रकन्धराः । । २५ भगवन्ब्रह्मणा दत्तो वरो वै तारकाय च । शिववीर्योद्भवः पुत्र स ते मृत्युर्भविष्यति । । अतोऽस्मान्रक्ष भगवन्विवाहं कुरु शङ्कर । । २६ स्वायम्भुवेऽन्तरे पूर्वं दक्षश्चासीत्प्रजापतिः । षष्टिकन्यास्ततो जातास्तासां मध्ये सती वरा । । २७ वर्षमात्रं भवन्तं सा पार्थिवैः समपूजयत् । तस्यै त्वया वरो दत्तः सा बभूव तव प्रिया । । २८ तत्पित्रा या कृता निन्दा भवतोऽज्ञानचक्षुषा । तस्य दोषात्सती देवी तत्याज स्वं कलेवरम् । । २९ सतीतेजस्तदा दिव्यं हिमाद्रौ घोरमागमत् । पीडितस्तेन गिरिराड् बभूव स्मरविह्वलः । । 3.4.14.३० पित्रीश्वरं स तुष्टाव कामव्याकुलचेतनः । अर्यमा तु तदा तुष्टो ददौ तस्मै सुता निजाम् । । मेनां मनोहरां शुद्धां स दृष्ट्वा हर्षितोऽभवत् । । ३१ नररूपं शुभं कृत्वा देवतुल्यं च तत्प्रियम् । स रेमे च तया सार्द्धं चिरं कालं महावने । । ३२ गर्भो जातस्तदा रम्यो नववर्षान्तमुत्तमः । कन्या जाता तदा सुभ्रूर्गौरी गौरमयी सती । । ३३ जातमात्रा च सा कन्या बभूव नवहायिनी । तुष्टाव शङ्करं देवं भवन्तं तपसा चिरम् । । ३४ शताब्दं च जले मग्ना शताब्दवह्निसंस्थिता । शताब्दे च स्थिता वायौ शताब्दं नभसि स्थिता । । ३५ शताब्दं च स्थिता चन्द्रे शताब्दं रविमण्डले । शताब्दं गर्भभूम्यां च स्थिता सा गिरिजा सती । । ३६ शताब्दं च महत्तत्वे गत्वा योगबलेन सा । भवन्तं शङ्करं शुद्धं तत्र दृष्ट्वा स्थिताद्य वै । । ३७ त्रिशताब्दमतो जातं तस्मात्त्वं पार्वतीं शिवाम्
रङ्कणवैश्योत्पत्तिवर्णनम् बृहस्पतिरुवाच स्वायम्भुवेऽन्तरे पूर्वं ध्रुववंशसमुद्भवः । राजा प्राचीनबर्हिश्च बभूव मखकारकः । । १ नारदस्योपदेशेन त्यक्त्वा हिंसामयं मखम् । ज्ञानवान् वैष्णवो भूत्वा दशपुत्रानजीजनत् । । २ प्रचेतानाम तेषां वै जातं ते चैकरूपिणः । पितुराज्ञां पुरस्कृत्य जलमध्ये तपोऽर्थिनः । । रत्नाकरस्य सिन्धोश्च मग्नभूता बभूविरे । । ३ तेषां तु तपसा तुष्टः स्वयम्भूश्चतुराननः । सप्ताब्धिषु स तान्सप्त सुतान्संस्थाप्य लोकराट् । । ४ रत्नाकरेऽष्टमं पुत्रं नवमं मानसोत्तरे । दशमं मेरुशाखायां सुतं कृत्वा मुमोद ह । । ५ आपो वहति यो लोके स आपव इति स्मृतः । द्वितीयो वरुणो नाम यादसां पतिरप्पतिः । । ६ ददौ पाशं तदा ब्रह्मा दैत्यबन्धनहेतवे । पाशी नाम ततो जातं वरुणस्य महात्मनः । । ७ स तु पूर्वभवे चासीद्ब्राह्मणः शक्तिपूजकः. । आपवो नाम विख्यातो वारुणीपानतत्परः । । ८ भद्रकाल्याः प्रियो भक्तो नित्यं पूजनतत्परः । नानारक्तमयैः पुष्पैर्गुण्ठितां रक्तमालिकाम् । । ९ रक्तचन्दनसंयुक्तां गृहीत्वा मन्त्रसंयुतः । भद्रकाल्यै निवेद्याशु नवार्णवपरोऽभवत् । । 3.4.16.१० धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैर्ऋतुजैः फलैः । पूजयित्वा महालक्ष्मीं भद्रकालीं सनातनीम् । । ११ तिलैः शर्करया युक्तं मधुना च हविः स्वयम् । वह्निद्वारेण संहृत्य तुष्टाव जगदम्बिकाम् । । १२ चरित्रं मध्यमं देव्या विष्णुदेवेन निर्मितम् । नवार्णवेन तेनैव प्रत्यहं जाप्यतत्परः । । १३ एवं वर्षत्रयं जातं तस्य पूजां प्रकुर्वतः । प्रसन्नाभूत्तदा देवी वरदा सर्वमङ्गला । । वरं ब्रूहीति वचनं तमाह द्विजसत्तमम् । । १४ इति वाक्यं प्रियं श्रुत्वा द्विज आपव नम्रधीः । तुष्टाव दण्डवद् भूत्वा भद्रकालीं सनातनीम् । । १५ आपव उवाच विष्णुकल्पे पुरा चासीद्दानवो महिषासुरः । कोटिकोटिसहस्रैस्तु रथैर्वाजिगजैर्युतः । । १६ त्रैलोक्यं स्ववशे कृत्वा महेन्द्रस्स तदाभवत् । स्वारोचिषान्तरः कालो गतो राज्यं प्रकुर्वतः । । १७ ततस्स भगवान्विष्णुस्सर्वदेवसमन्वितः । समुत्पाद्य मुखात्तेजो ज्वालामाली बभूव ह । । १८ ज्योतिर्लिङ्गात्तदा देवी भवती स्वेच्छया भुवि । सम्भूय महिषं हन्त्री तस्यै देव्यै नमोनमः । । १९ रूद्रकल्पे पुरा चासीद्रुदच्छम्भुमुखाद्दिवि । रावणश्च सहस्रास्यो जातो ब्रह्माण्डरावणः । । 3.4.16.२० राक्षसो बलवान्घोरो लोकालोकगिरेरधः । न्यवसद्देवदैत्यानां मनुष्याणां च भक्षकः । । षष्ठे मन्वन्तरे तेन ब्रह्माण्डं राज्यसात्कृतम् । । २१ ततो वैवस्वते प्राप्ते त्रेताष्टाविंशके प्रभुः । स जातो राघवगृहे रामस्सङ्कर्षणः स्वयम् । । २२ षोडशाब्दवपुर्भूत्वा स गतो जनकालये । धनुश्चाजगवं घोरं प्रभग्नं तेन धीमता । । २३ तदा ब्रह्मादयो देवा ज्ञात्वा रामं सनातनम् । सहस्रवदनस्यैव वर्णयामास कारणम् । । २४ तच्छुत्वा हंसयानं च समारुह्य स सीतया । लोकालोकगिरौ प्राप्य घोरयुद्धमचीकरत् । । २५ हंसयानपताकायां संस्थितो हनुमान्कपिः । वेदाश्च वाजिनस्तत्र नेता ब्रह्मा सनातनः । । २६ दिव्यवर्षमभूद्घोरः सङ्ग्रामस्तेन रक्षसा । रावणस्स तदा क्रुद्धो द्विसहस्रैश्च बाहुभिः । । २७ अपरौ मूर्छयित्वा तौ भ्रातरौ रामलक्ष्मणौ । जगर्ज बलवान्घोरस्स च ब्रह्माण्डरावणः । । २८ ब्राह्मणा संस्तुता माता भवती ब्रह्मरूपिणी । सीता शान्तिमयी नित्या तया ब्रह्माण्डरावणः । । विनाशितो नमस्तस्यै नमस्तस्यै नमो नमः । । २९ ब्रह्मकल्पे पुरा चासीत्तालजंघान्वयोद्भवः । मुरो नाम महादैत्यो ब्रह्मणो बलदर्पितः । । 3.4.16.३० ब्रह्माण्डेशं महारुद्रं महेन्द्रादिसमन्वितम् । स बभूव पराजित्याधिकारी रौद्र आसने । । ३१ देवैस्सार्द्धं महादेवो माधवं क्षीरशायिनम् । गत्वा निवेदयामास स विष्णुः क्रोधसंयुतः । । ३२ जगाम गरुडारूढो यत्र दैत्यो मुरः स्थितः । तेन सार्द्धमभूद्युद्धं तस्य देवस्य दारुणम् । ३३ सहस्राब्दमतो जातं दृष्ट्वा ब्रह्मा भयान्वितः । परां तु प्रकृतिं नित्यां तुष्टाव श्लक्ष्णया गिरा । । ३४ प्रसन्ना सा तदा देवी कुमारी सप्तहायिनी । चतुर्भुजास्त्रसहिता भूत्वा दैत्यमुवाच ह । । ३५ पराजितोऽयं भगवान्दैत्यराजेन वै त्वया । विजया नाम मे रम्या कैश्चिन्नाहं पराजिता । । ३६ उन्मीलिनी विञ्चुली च त्रिस्पृशा पक्षवर्द्धिनी । जया जयन्ती विजया वर्षेवर्षे क्रमादहम् । । ३७ एकादशशुभाचारा विष्णवस्तनया मम । एकादशीति विख्याता वेदमध्ये सदा ह्यहम् । । ३८ अतो मां बलवाञ्जित्वा विजयां विष्णुमातरम् । पाणिं ग्रहाण मे रम्यं सर्वपूज्यो भवान्भवेत् । । ३९ इति श्रुत्वा मुरो दैत्यस्तस्या रूपेण मोहितः । युयुधे स तया सार्द्धं क्षणार्द्धेन लयङ्गतः । । 3.4.16.४० तं मुरं निहतं दृष्ट्वानुजस्तन्नरकासुरः । दैत्यमायां महाघोरां चकार सुरनाशिनीम् । । ४१ एकादशी स्वयं माया हुङ्कारेणैव तं तदा । नरकेण समं हत्वा जगर्ज जगदम्बिका । । ४२ तयोस्तेजो महाघोरमन्नमध्येषु चागमत् । दुष्टभूतममूदन्नं नृणां रोगभयप्रदम् । । ४३ दृष्ट्वा चैकादशी नाम्ना रविशुक्रावुवाच ह । कुरुतां शुद्धमेवान्तर्भवन्तौ लोकविश्रुतौ । । ४४ तदाज्ञया तथा कृत्वा देव पूज्यौ बभूवतुः । एवं मातस्त्वया सर्वं कृतं तस्यै नमो नमः । । ४५ इति श्रुत्वा भद्रकाली स्तोत्रं दिव्यं कथामयम् । आपवं प्राह सा देवी ब्राह्मणं वेदकोविदम् । । ४६ प्रलये च तदा प्राप्ते नष्टे स्थावरजङ्गमे । एकार्णवे पुरा त्वं वै मत्प्रसादात्सुखी भव । । ४७ स्तोत्रेणानेन सुप्रीता वरदाहं सदा नरान्
इत्युक्त्यान्तर्हिता देवी स विप्रो वरुणोऽभवत् । । ४८ सूत उवाच इति श्रुत्वा गुरोर्वाक्यं भगवान्द्वितियो२ वसुः । वरुणः स्वमुखात्तेजो जनयामास भूतले । । ४९ देहल्यां स तु वै जातो धर्मभक्तस्य वै गृहे । विधवा तस्य या कन्या गर्भं धत्ते हरेः स्वयम् । । 3.4.16.५० इति ज्ञात्वा धर्मभक्तो मुमुदे सुतजन्मनि । नामदेव इति ख्यातः साङ्ख्ययोगपरायणः । । ५१ आब्रह्मस्तम्बपर्यन्तं सर्वं विष्णुमयं जगत् । ज्ञात्वा दृष्ट्वा गतः काश्यां रामानन्दं हरिप्रियम् । । ५२ नत्वा तच्छिष्यतां प्राप्य तत्र वासमकारयत् । सिकन्दरो म्लेच्छपतिर्देहलीराज्यमास्थितः । । ५३ नामदेवं समाहूय सम्परीक्ष्य तदा सुखी । अर्धकोटिमितं द्रव्यं ददौ तस्मै कलिप्रियः । । ५४ नामदेवस्तु तद्द्रव्यैर्गङ्गारोहणमुत्तमम् । कारयामास वै काश्यां शुभ्रं सर्वं शिलामयम् । । ५५ दशविप्रान्पञ्च नृपान्पञ्च वैश्याञ्छतं गवाम् । पुनरुज्जीवयामास शवभूतान्स योगवान् । । ५६ बृहस्पतिरुवाच विश्वानरः पुरा चासीद्ब्राह्मणो वेदकोविदः । अनपत्यो विधातारं तुष्टाव बहुपूजनैः । । ५७ वर्षमात्रेण भगवान्परमेष्ठी प्रजापतिः । समागत्य वचः प्राह वरं ब्रूहि द्विजोत्तम । । ५८ इति श्रुत्वा स होवाच भगवँस्ते नमो नमः । प्रकृतेश्च परः पुत्रो भूयान्मम वरात्तव । । ५९ इति श्रुत्वा तदा ब्रह्मा विस्मितः प्राह तं द्विजम् । एका वै प्रकृतिर्माया त्रिलिङ्गजननी स्वयम् । । 3.4.16.६० तया दृश्यं जगत्सर्वं समुत्पादितमात्मना । प्रकृतेश्च परो यो वै परमात्मा स चाव्ययः । । ६१ अबुद्धिर्बोधनिरतो ह्यश्रुतिश्च शृणोति वै । अदेहः स स्पृशत्येतदचक्षुः पश्यति स्वयम् । । ६२ अजिह्वोन्नं स गृह्णाति स जिघ्रति न सा विना । अमुखो वेदवक्ता च कर्मकारः करं विना । । ६३ अपदो गच्छति ह्येतदलिङ्गो नारिभोगवान् । अगुह्यो हि करोत्येतां सतत्त्वां गुह्यभूतिनीम् । । ६४ शब्दब्रह्म स्पर्शमयं रूपब्रह्म रसात्मकम् । गन्धब्रह्म परं ज्ञेय तस्मै तद्ब्रह्मणे नमः । । ६५ प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् । । ६६ एकार्थौ तौ च शब्दैकौ रूपैकौ नित्यविग्रहौ । आदिमध्यान्तरहितौ नित्यशुद्धौ सनातनौ । । ६७ पुंस्त्रीनपुंस्कजननी ज्ञेया सा प्रकृतिः परा । पुरुषश्च कविः सूक्ष्मः कूटस्थो ज्ञानवान्परः
That supreme Prakriti is to be known as the mother of male, female, and neuter beings; and Purusha is the wise, subtle, unchanging, and supreme knower.
अजन्मा जन्म चाप्नोति मया जातः स जन्मवान्
Though unborn, he attains birth; by me he is born, thus he becomes one who is born.
अतो विश्वानर मुने मायाभूतो हरिः स्वयम् 3.4.16.
Therefore, O sage Viśvānara, Hari himself, through the power of Māyā, is manifested.
इत्युक्त्वान्तर्दधे देवः पावकस्तद्वरादभूत्
Having spoken thus, the god vanished, and by that boon, Pāvaka was born.
वैश्वानर इति ख्यातोऽभवत्स्वाहापतिः प्रभुः
Vaiśvānara, the lord of the oblation, became renowned by that name.
नैषधो ब्राह्मणो धीमान्यथा राजा नलस्तथा
The wise Brahmin from the land of the Nishadhas, as well as King Nala, were present.
स्वपितुर्गेहमासाद्यान्वेषयामास भूपतिम्
Having reached her father's house, she began to search for the king.
दृष्ट्वा तं मोहमापन्ना दमयंती शुभानना
Seeing him, Damayantī of beautiful face fell into bewilderment.
नायं नलस्तव पतिर्ब्राह्मणोयं सुमोहितः
This is not Nala, your husband; this is a Brahmin, greatly deluded.
महासरस्वतीं देवीं तुष्टाव स तु मोहितः
He, being deluded, praised the great goddess Sarasvatī.
स्वमुखात्स्वांशमुत्पाद्य संजातस्तु ततो वसुः
Then, producing his own portion from his own mouth, Vasu was born.
रंकणो नाम विख्यातो लक्ष्मीदत्तस्य वै सुतः
He became renowned as Raṅkaṇa, the son of Lakṣmīdatta.
यंकणा नाम तत्पत्नी बभूव च पतिव्रता 3.4.16.
His wife was named Yamkana, and she was devoted to her husband.
काष्ठमानीय विक्रीय बुभुजाते परस्परम्
They brought wood, sold it, and sustained themselves together.
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये वसुमाहात्म्ये रंकण वैश्योत्पत्तिवर्णनो नाम षोडशोऽध्यायः
She said to that best of twice-born, 'Ask for a boon.'
संहतौ तु दितिर्ज्ञात्वा कश्यपं समपूजयत्
At the time of the destruction, Diti, having understood, honored Kaśyapa.
द्वादशाब्दांतरे स्वामी कश्यपो भगवानृषिः सा तु श्रुत्वा नमस्कृत्य वचनं प्राह हर्षिता
After twelve years, the revered sage Kaśyapa became master; she, having heard, bowed and joyfully spoke.
अदितिर्मम या देवी सपत्नी पुत्रसंयुता
Aditi, who is my co-wife, is surrounded by sons.
Description of the greatness of Rudra.
Description of the origin of Raṅkaṇa and Vaiśya.