गताः सप्ताधुना मासा भीमसेन तवानुजः । नायाति कस्य वा हेतोः नाहं वेदेदमञ्जसा
अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः । यदाऽऽत्मनोऽङ्गमाक्रीडं भगवान् उत्सिसृक्षति
यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः । आसन् सपत्नविजयो लोकाश्च यदनुग्रहात्
पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान्शंसतोऽदूराद् भयं नो बुद्धिमोहनम्
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः । वेपथुश्चापि हृदये आरात् दास्यन्ति विप्रियम्
शिवैषोद्यन्तं आदित्यं अभिरौति अनलानना । मामङ्ग सारमेयोऽयं अभिरेभत्यभीरुवत्
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम
मृत्युदूतः कपोतोऽयं उलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैः अनिद्रौ शून्यमिच्छतः
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्सं इव सर्वतः
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैः ज्वलिते इव रोदसी
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्ति ऋषभा व्रजे
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः
मन्य एतैर्महोत्पातैः नूनं भगवतः पदैः । अनन्यपुरुषश्रीभिः हीना भूर्हतसौभगा
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः
तं पादयोः निपतितं अयथापूर्वमातुरम् । अधोवदनं अब्बिन्दून् सृजन्तं नयनाब्जयोः
विलोक्य उद्विग्नहृदयो विच्छायं अनुजं नृपः । पृच्छति स्म सुहृत् मध्ये संस्मरन् नारदेरितम्
युधिष्ठिर उवाच । कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते । मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः
शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः । मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः
सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः । आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम्
कच्चित् राजाऽऽहुको जीवति असत्पुत्रोऽस्य चानुजः । हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः
आसते कुशलं कच्चित् ये च शत्रुजिदादयः । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः
प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः । गम्भीररयोऽनिरुद्धो वर्धते भगवानुत
सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः
तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः
अपि स्वस्त्यासते सर्वे रामकृष्ण भुजाश्रयाः । अपि स्मरन्ति कुशलं अस्माकं बद्धसौहृदाः
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः
मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधौ आद्योऽनन्तसखः पुमान्
यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः । क्रीडन्ति परमानन्दं महापौरुषिका इव