( वसंततिलका ) तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्त-मगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्वद् एकं सपाणिकवलं परमेष्ठ्यचष्ट
दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य । स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्घ्रियुग्मं नत्वा मुदश्रुसुजलैः अकृताभिषेकम्
( अनुष्टुप् ) उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः
( वंशस्था ) शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः । कृताञ्जलिः प्रश्रयवान्समाहितः सवेपथुर्गद्गदयैलतेलया
सूत उवाच । सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्
व्यतीताः कतिचिन्मासाः तदा नायात् ततोऽर्जुनः । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः
कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम्
जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृ दम्पतीनां च कल्कनम्
निमित्तान्यत्यरिष्टानि काले तु अनुगते नृणाम् । लोभादि अधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः
युधिष्ठिर उवाच । सम्प्रेषितो द्वारकायां जिष्णुर्बन्धु दिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्
गताः सप्ताधुना मासा भीमसेन तवानुजः । नायाति कस्य वा हेतोः नाहं वेदेदमञ्जसा
अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः । यदाऽऽत्मनोऽङ्गमाक्रीडं भगवान् उत्सिसृक्षति
यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः । आसन् सपत्नविजयो लोकाश्च यदनुग्रहात्
पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान्शंसतोऽदूराद् भयं नो बुद्धिमोहनम्
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः । वेपथुश्चापि हृदये आरात् दास्यन्ति विप्रियम्
शिवैषोद्यन्तं आदित्यं अभिरौति अनलानना । मामङ्ग सारमेयोऽयं अभिरेभत्यभीरुवत्
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम
मृत्युदूतः कपोतोऽयं उलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैः अनिद्रौ शून्यमिच्छतः
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्सं इव सर्वतः
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैः ज्वलिते इव रोदसी
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्ति ऋषभा व्रजे
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः
मन्य एतैर्महोत्पातैः नूनं भगवतः पदैः । अनन्यपुरुषश्रीभिः हीना भूर्हतसौभगा
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः
तं पादयोः निपतितं अयथापूर्वमातुरम् । अधोवदनं अब्बिन्दून् सृजन्तं नयनाब्जयोः
विलोक्य उद्विग्नहृदयो विच्छायं अनुजं नृपः । पृच्छति स्म सुहृत् मध्ये संस्मरन् नारदेरितम्
युधिष्ठिर उवाच । कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते । मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः
शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः । मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः