यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम्
यन्मन्यसे ध्रुवं लोकं अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहात् अन्यत्र मोहजात्
तस्माज्जह्यङ्ग वैक्लव्यं अज्ञानकृतमात्मनः । कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना
कालकर्म गुणाधीनो देहोऽयं पाञ्चभौतिकः । कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम्
अहस्तानि सहस्तानां अपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम्
तदिदं भगवान् राजन् एक आत्मात्मनां स्वदृक् । अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा
सोऽयमद्य महाराज भगवान् भूतभावनः । कालरूपोऽवतीर्णोऽस्यां अभावाय सुरद्विषाम्
निष्पादितं देवकृत्यं अवशेषं प्रतीक्षते । तावद् यूयं अवेक्षध्वं भवेद् यावदिहेश्वरः
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणां आश्रमं गतः
स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते
स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन्यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः
जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः । हरिभावनया ध्वस्तः अजःसत्त्वतमोमलः
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः
स वा अद्यतनाद् राजन् परतः पञ्चमेऽहनि । कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति
दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे । बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः
इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः
किमेतद् अद्भुतमिव वासुदेवेऽखिलात्मनि । व्रजस्य सात्मनस्तोकेषु अपूर्वं प्रेम वर्धते
यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः । मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम्
( वसंततिलका ) तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्त-मगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्वद् एकं सपाणिकवलं परमेष्ठ्यचष्ट
दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य । स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्घ्रियुग्मं नत्वा मुदश्रुसुजलैः अकृताभिषेकम्
( अनुष्टुप् ) उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः
( वंशस्था ) शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः । कृताञ्जलिः प्रश्रयवान्समाहितः सवेपथुर्गद्गदयैलतेलया
सूत उवाच । सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्
व्यतीताः कतिचिन्मासाः तदा नायात् ततोऽर्जुनः । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः
कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम्
जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृ दम्पतीनां च कल्कनम्
निमित्तान्यत्यरिष्टानि काले तु अनुगते नृणाम् । लोभादि अधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः
युधिष्ठिर उवाच । सम्प्रेषितो द्वारकायां जिष्णुर्बन्धु दिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्