पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः । आत्मा च जरया ग्रस्तः परगेहमुपाससे
अहो महीयसी जन्तोः जीविताशा यया भवान् । भीमापवर्जितं पिण्डं आदत्ते गृहपालवत्
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत्
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिः जह्यात् स वै धीर उदाहृतः
यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः
अथोदीचीं दिशं यातु स्वैरज्ञात गतिर्भवान् । इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः
एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः । छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा
पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहारः
अजातशत्रुः कृतमैत्रो हुताग्निः विप्रान् नत्वा तिलगोभूमिरुक्मैः । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः । गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः
अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया । आशंसमानः शमलं गङ्गायां दुःखितोऽपतत्
पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् । अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः
सूत उवाच । कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः । आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः
विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना । अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन्
सञ्जय उवाच । नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन । गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः
अथाजगाम भगवान् नारदः सहतुम्बुरुः । प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन् मुनिम्
युधिष्ठिर उवाच । नाहं वेद गतिं पित्रोः भगवन् क्व गतावितः । अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी
कर्णधार इवापारे भगवान् पारदर्शकः । अथाबभाषे भगवान् नारदो मुनिसत्तमः
यथा गावो नसि प्रोताः तन्त्यां बद्धाः स्वदामभिः । वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः
यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम्
यन्मन्यसे ध्रुवं लोकं अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहात् अन्यत्र मोहजात्
तस्माज्जह्यङ्ग वैक्लव्यं अज्ञानकृतमात्मनः । कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना
कालकर्म गुणाधीनो देहोऽयं पाञ्चभौतिकः । कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम्
अहस्तानि सहस्तानां अपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम्
तदिदं भगवान् राजन् एक आत्मात्मनां स्वदृक् । अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा
सोऽयमद्य महाराज भगवान् भूतभावनः । कालरूपोऽवतीर्णोऽस्यां अभावाय सुरद्विषाम्
निष्पादितं देवकृत्यं अवशेषं प्रतीक्षते । तावद् यूयं अवेक्षध्वं भवेद् यावदिहेश्वरः
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणां आश्रमं गतः
स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते