सूत उवाच । विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाt हास्तिनपुरं तयावाप्तविवित्सितः
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिः गोविन्दे तेभ्यश्चोपरराम ह
तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामयः पाण्डोः ज्ञातयः ससुताः स्त्रियः
प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः
मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्य कातराः । राजा तमर्हयां चक्रे कृतासन परिग्रहम्
तं भुक्तवन्तं विश्रान्तं आसीनं सुखमासने । प्रश्रयावनतो राजा प्राह तेषां च श्रृण्वताम्
युधिष्ठिर उवाच । अपि स्मरथ नो युष्मत् पक्षच्छायासमेधितान् । विपद्गणाद् विषाग्न्यादेः मोचिता यत्समातृकाः
कया वृत्त्या वर्तितं वः चरद्भिः क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले
भवद्विधा भागवताः तीर्थभूताः स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता
अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः । दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते
इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् । यथानुभूतं क्रमशो विना यदुकुलक्षयम्
नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् । नावेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः
कञ्चित् कालमथ अवात्सीत् सत्कृतो देववत्सुखम् । भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखमावहन्
अबिभ्रदर्यमा दण्डं यथावत् अघकारिषु । यावद् दधार शूद्रत्वं शापात् वर्षशतं यमः
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैः मुमुदे परया श्रिया
एवं गृहेषु सक्तानां प्रमत्तानां तदीहया । अत्यक्रामत् अविज्ञातः कालः परमदुस्तरः
विदुरस्तत् अभिप्रेत्य धृतराष्ट्रं अभाषत । राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम्
प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । स एष भगवान् कालः सर्वेषां नः समागतः
येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि । जनः सद्यो वियुज्येत किमुतान्यैः धनादिभिः
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः । आत्मा च जरया ग्रस्तः परगेहमुपाससे
अहो महीयसी जन्तोः जीविताशा यया भवान् । भीमापवर्जितं पिण्डं आदत्ते गृहपालवत्
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत्
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिः जह्यात् स वै धीर उदाहृतः
यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः
अथोदीचीं दिशं यातु स्वैरज्ञात गतिर्भवान् । इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः
एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः । छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा
पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहारः
अजातशत्रुः कृतमैत्रो हुताग्निः विप्रान् नत्वा तिलगोभूमिरुक्मैः । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च