वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः । यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम्
श्रीसूत उवाच । ( इंद्रवंशा ) इत्थं स्म पृष्टः स तु बादरायणिः तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात् पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम
इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः । लीलावतारकर्माणि कीर्तितानीह सर्वशः
पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् । हरये नम इत्युच्चैः मुच्यते सर्वपातकात्
(उपेंद्रवज्रा) सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः
(मिश्र-१२) मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम्
तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् । तदेव शोकार्णवशोषणं नृणां यदुत्तमःश्लोकयशोऽनुगीयते
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः
तद्वाग्विसर्गो जनताघसंप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः
नैष्कर्म्यमप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम्
यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु । अविस्मृतिः श्रीधरपादपद्मयोः गुणानुवादश्रवणादरादिभिर्हरेः
(मिश्र-११,१२) अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति च । सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम्
(इंद्रवज्रा) यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् । नारायणं देवमदेवमीशं अजस्रभावा भजताविवेश्य
(मिश्र-११,१२) अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च श्रृण्वताम्
(अनुष्टुप्) एतद्वः कथितं विप्राः कथनीयोरुकर्मणः । माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम्
य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः । श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः
द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् । पठत्यनश्नन् प्रयतः ततो भवत्यपातकी
पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् । उपोष्य संहितामेतां पठित्वा मुच्यते भयात्
देवता मुनयः सिद्धाः पितरो मनवो नृपाः । यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात्
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते । मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम्
पुराणसंहितां एतां अधीत्य प्रयतो द्विजः । प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत्
विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् । वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात्
(unknown) कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् । इह तु पुनर्भगवानशेषमूर्तिः परिपठितोऽनुपदं कथाप्रसङ्गैः
(पुष्पिताग्रा) तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम् । द्युपतिभिरजशक्रशङ्कराद्यैः दुरवसितस्तवमच्युतं नतोऽस्मि
उपचितनवशक्तिभिः स्व आत्मनि उपरचितस्थिरजङ्गमालयाय । भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमः सनातनाय
(मालिनी) स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि अजितरुचिरलीलाकृष्टसारस्तदीयम् । व्यतनुत कृपया यः तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि
सूत उवाच । विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाt हास्तिनपुरं तयावाप्तविवित्सितः
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिः गोविन्दे तेभ्यश्चोपरराम ह
तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामयः पाण्डोः ज्ञातयः ससुताः स्त्रियः