स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च । पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ
उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव । तथापि चिन्तां मुञ्च त्वं उपायं चिन्तयाम्यहम्
कलिना सदृशः कोऽपि युगो नास्ति वरानने । तस्मिन् त्वां स्थापयिष्यामि गेहे गेहे जने जने
अन्यधर्मान् तिरस्कृत्य पुरस्कृत्य महोत्सवान् । तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये
त्वद् अन्विताश्च ये जीवा भविष्यन्ति कलौ इह । पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम्
येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी । नते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः
न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा । भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत्
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा । हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः
नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते । कलौ भक्तिः कलौ भक्तिः भक्त्या कृष्णः पुरः स्थितः
भक्तिद्रोअकरा ये च ते सीदन्ति जगत्त्रये । दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः
अलं व्रतैः अलं तीर्थैः अलं योगैरलं मखैः । अलं ज्ञानकथालापैः भक्तिरेकैव मुक्तिदा
सूत उवाच - इति नारदनिर्णीतं स्वमायात्म्यं निशम्य सा । सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमव्रवीत्
भक्तिरुवाच - अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला । न कदाचिद् विमुञ्चामि चित्ते स्थास्यामि सर्वदा
कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् । पुत्रयोश्चेतना नास्ति ततो बोधय बोधय
सूत उवाच - तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः । तयोर्बोधनमारेभे कराग्रेण विमर्दयन्
मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् । ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम्
वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः । बोध्यमानौ तदा तेन कथंचित् चोत्थितौ बलात्
नेत्रैः अनवलोकन्तौ जृम्भन्तौ सालसावुभौ । बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ । ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च
अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् । चिन्तयन् इति गोविन्दं स्मारयामास भार्गव
व्योमवाणी तदैवाभूत् मा ऋषे खिद्यतामिति । उद्यमः सफलस्तेऽयं भविष्यति न संशयः
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर । तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः
सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः । गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति
इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् । नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन्
नारद उवाच - अनयाऽऽकाशवाण्यापि गोप्यत्वेन निरूपितम् । किं वा तत्साधनं कार्यं येन कार्यं भवेत् तयोः
क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् । मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया
सूत उवाच - तत्र द्वौ अपि संस्थाप्य निर्गतो नारदो मुनिः । तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान्
वृत्तान्तः श्रूयते सर्वैः किंचित् निश्चित्य नोच्यते । असाध्यं केचन प्रोचुः दुर्ज्ञेयमिति चापरे । मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः
हाहाकारो महानासीत् त्रैलोक्ये विस्मयावहः । वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम्
भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः