इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान्
स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः । पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह
स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम्
यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ अन्यत्र करदण्डयोः
तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः । धनं प्रहीणमाजह्रुः उदीच्यां दिशि भूरिशः
तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैः त्रिभिर्भीतो यज्ञैः समयजत् हरिम्
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचित् मासान् सुहृदां प्रियकाम्यया
ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः
एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् । मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे
( मिश्र ) नैतद् विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम्
( वंशस्था ) सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्यभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः
श्रीसूत उवाच । ( इंद्रवज्रा ) इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् । पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः
श्रीराजोवाच । ( अनुष्टुप् ) ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् । यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः
तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो । नूनमेतद्धरेरेव माया भवति नान्यथा
वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः । यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम्
श्रीसूत उवाच । ( इंद्रवंशा ) इत्थं स्म पृष्टः स तु बादरायणिः तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात् पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम
इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः । लीलावतारकर्माणि कीर्तितानीह सर्वशः
पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् । हरये नम इत्युच्चैः मुच्यते सर्वपातकात्
(उपेंद्रवज्रा) सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः
(मिश्र-१२) मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम्
तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् । तदेव शोकार्णवशोषणं नृणां यदुत्तमःश्लोकयशोऽनुगीयते
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः
तद्वाग्विसर्गो जनताघसंप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः
नैष्कर्म्यमप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम्
यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु । अविस्मृतिः श्रीधरपादपद्मयोः गुणानुवादश्रवणादरादिभिर्हरेः
(मिश्र-११,१२) अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति च । सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम्
(इंद्रवज्रा) यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् । नारायणं देवमदेवमीशं अजस्रभावा भजताविवेश्य
(मिश्र-११,१२) अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च श्रृण्वताम्
(अनुष्टुप्) एतद्वः कथितं विप्राः कथनीयोरुकर्मणः । माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम्
य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः । श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः