तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः
सूत उवाच । अपीपलद्धर्मराजः पितृवद् रञ्जयन् प्रजाः । निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया
सम्पदः क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम्
किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे
मातुर्गर्भगतो वीरः स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद् दह्यमानोऽस्त्रतेजसा
अङ्गुष्ठमात्रममलं स्फुरत् पुरट मौलिनम् । अपीव्यदर्शनं श्यामं तडिद् वाससमच्युतम्
श्रीमद् दीर्घचतुर्बाहुं तप्तकाञ्चन कुण्डलम् । क्षतजाक्षं गदापाणिं आत्मनः सर्वतो दिशम् । परिभ्रमन्तं उल्काभां भ्रामयन्तं गदां मुहुः
अस्त्रतेजः स्वगदया नीहारमिव गोपतिः । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ
विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः । मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः
ततः सर्वगुणोदर्के सानुकूल ग्रहोदये । जज्ञे वंशधरः पाण्डोः भूयः पाण्डुरिवौजसा
तस्य प्रीतमना राजा विप्रैर्धौम्य कृपादिभिः । जातकं कारयामास वाचयित्वा च मङ्गलम्
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित्
तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ
दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि । रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना
तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः । भविष्यति न सन्देहो महाभागवतो महान्
युधिष्ठिर उवाच । अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः
ब्राह्मणा ऊचुः । पार्थ प्रजाविता साक्षात् इक्ष्वाकुरिव मानवः । ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम्
धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः । हुताश इव दुर्धर्षः समुद्र इव दुस्तरः
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव
पितामहसमः साम्ये प्रसादे गिरिशोपमः । आश्रयः सर्वभूतानां यथा देवो रमाश्रयः
सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः । रन्तिदेव इवोदारो ययातिरिव धार्मिकः
धृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः । आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात्
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः
जिज्ञासितात्म याथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्गायां यास्यत्यद्धा अकुतोभयम्
इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान्
स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः । पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह
स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम्
यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ अन्यत्र करदण्डयोः