उद्दामभाव पिशुनामल वल्गुहास । व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥ सम्मुह्य चापमजहात् प्रमदोत्तमास्ता । यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः
तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः
एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया
तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा
कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः । वयस्यैः कृष्णबलयोः जिघांसुर्दैत्य आगमत्
तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत्
गृहीत्वा अपरपादाभ्यां सहलाङ्गूलमच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् । स कपित्थैर्महाकायः पात्यमानैः पपात ह
तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति । देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः
तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातराशौ गोवत्सान् चारयन्तौ विचेरतुः
स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम्
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् । तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्गमिव च्युतम्
स वै बको नाम महानसुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः
( मिश्र ) तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरोः । चच्छर्द सद्योऽतिरुषाक्षतं बकः तुण्डेन हन्तुं पुनरभ्यपद्यत
तं आपतन्तं स निगृह्य तुण्डयोः दोर्भ्यां बकं कंससखं सतां पतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम्
तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः । समीडिरे चानकशङ्खसंस्तवैः तद्वीक्ष्य गोपालसुता विसिस्मिरे
मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणमिवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः
( अनुष्टुप् ) श्रुत्वा तद् विस्मिता गोपा गोप्यश्चातिप्रियादृताः । प्रेत्य आगतमिवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः
अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् । अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम्
अथापि अभिभवन्त्येनं नैव ते घोरदर्शनाः । जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत्
अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवान् अन्वभावि तथैव तत्
इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम्
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः
शौनक उवाच । अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत् स प्रेत्य गतवान् यथा
तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः
सूत उवाच । अपीपलद्धर्मराजः पितृवद् रञ्जयन् प्रजाः । निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया
सम्पदः क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम्
किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे