सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैः वृत पद्माकर श्रियम्
गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् । चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम्
सम्मार्जित महामार्ग रथ्यापणक चत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः
द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः
निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः
प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेग उच्छशित शयनासन भोजनाः
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्य निनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः
वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः । लसत्कुण्डल निर्भात कपोल वदनश्रियः
नटनर्तकगन्धर्वाः सूत मागध वन्दिनः । गायन्ति चोत्तमश्लोक चरितानि अद्भुतानि च
भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् । यथाविधि उपसङ्गम्य सर्वेषां मानमादधे
प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः
स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम्
राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः
नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम्
श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्
सितातपत्रव्यजनैः उपस्कृतः नवर्षैः अभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ यथार्कोडुप चाप वैद्युतैः
प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा
ताः पुत्रमङ्कं आरोप्य स्नेहस्नुत पयोधराः । हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः
अथाविशत् स्वभवनं सर्वकाममनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश
पत्न्यः पतिं प्रोष्य गृहानुपागतं क्य सञ्जात मनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् व्रतैः व्रीडित लोचनाननाः
तं आत्मजैः दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयोः विलज्जतीनां भृगुवर्य वैक्लवात्
यद्यप्यसौ पार्श्वगतो रहोगतः तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदात् चलापि यच्छ्रीर्न जहाति कर्हिचित्
एवं नृपाणां क्षितिभारजन्मनां अक्षौहिणीभिः परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः
स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा
उद्दामभाव पिशुनामल वल्गुहास । व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥ सम्मुह्य चापमजहात् प्रमदोत्तमास्ता । यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः
तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः
एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया
तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा
कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः । वयस्यैः कृष्णबलयोः जिघांसुर्दैत्य आगमत्