स उच्चकाशे धवलोदरो दरोऽपि उरुक्रमस्य अधरशोण शोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः
तमुपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः
तत्रोपनीतबलयो रवेर्दीपमिवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा
प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्गदया गिरा । पितरं सर्वसुहृदं अवितारं इवार्भकाः
नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः
भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम
अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् । प्रेमस्मित स्निग्ध निरीक्षणाननं पश्येम रूपं तव सर्वसौभगम्
यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद् दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत
इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम्
मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः । आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव
सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैः वृत पद्माकर श्रियम्
गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् । चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम्
सम्मार्जित महामार्ग रथ्यापणक चत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः
द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः
निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः
प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेग उच्छशित शयनासन भोजनाः
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्य निनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः
वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः । लसत्कुण्डल निर्भात कपोल वदनश्रियः
नटनर्तकगन्धर्वाः सूत मागध वन्दिनः । गायन्ति चोत्तमश्लोक चरितानि अद्भुतानि च
भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् । यथाविधि उपसङ्गम्य सर्वेषां मानमादधे
प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः
स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम्
राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः
नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम्
श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्
सितातपत्रव्यजनैः उपस्कृतः नवर्षैः अभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ यथार्कोडुप चाप वैद्युतैः
प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा
ताः पुत्रमङ्कं आरोप्य स्नेहस्नुत पयोधराः । हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः
अथाविशत् स्वभवनं सर्वकाममनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश
पत्न्यः पतिं प्रोष्य गृहानुपागतं क्य सञ्जात मनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् व्रतैः व्रीडित लोचनाननाः