श्रीनारद उवाच। निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः। मायिनां परमाचार्यं मयं शरणमाययुः
स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः। दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन्सेश्वरान्नृप। स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः
ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः। त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः
अथानुगृह्य भगवान्मा भैष्टेति सुरान्विभुः। शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत
ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात्। यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः
तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः। तानानीय महायोगी मयः कूपरसेऽक्षिपत्
सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः। उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम्। तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत्
वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः। प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ
तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिताः। तद्विज्ञाय महायोगी रसपालानिदं जगौ
स्मयन्विशोकः शोकार्तान्स्मरन्दैवगतिं च ताम्। देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः। अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात्
धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः। रथं सूतं ध्वजं वाहान्धनुर्वर्मशरादि यत्
सन्नद्धो रथमास्थाय शरं धनुरुपाददे। शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप। दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः। अवाकिरन्जगुर्हृष्टा ननृतुश्चाप्सरोगणाः
एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप। ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत
एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः। वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकं पुनानान्यपरं वदामि किम्
सूत उवाच । आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्निव
स उच्चकाशे धवलोदरो दरोऽपि उरुक्रमस्य अधरशोण शोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः
तमुपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः
तत्रोपनीतबलयो रवेर्दीपमिवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा
प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्गदया गिरा । पितरं सर्वसुहृदं अवितारं इवार्भकाः
नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः
भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम
अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् । प्रेमस्मित स्निग्ध निरीक्षणाननं पश्येम रूपं तव सर्वसौभगम्
यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद् दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत
इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम्
मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः । आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव