अहो बत स्वर्यशसः तिरस्करी कुशस्थली पुण्ययशस्करी भुवः । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः
नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबंति याः सख्यधरामृतं मुहुः व्रजस्त्रियः सम्मुमुहुः यदाशयाः
या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यः प्रमुखान्हि शुष्मिणः । प्रद्युम्न साम्बाम्ब सुतादयोऽपरा याः चाहृता भौमवधे सहस्रशः
एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात् पुष्करलोचनः पतिः न जातु अपैत्याहृतिभिः हृदि स्पृशन्
(अनुष्टुप्) एवंविधा गदन्तीनां स गिरः पुरयोषिताम् । निरीक्षणेन अभिनन्दन् सस्मितेन ययौ हरिः
अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम्
अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः
कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ
मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् । आनर्तान् भार्गवोपागात् श्रान्तवाहो मनाग्विभुः
तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यतार्हणः । सायं भेजे दिशं पश्चात् गविष्ठो गां गतस्तदा
अनुजानीहि नौ भूमन् तवानुचरकिङ्करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात्
( वसंततिलका ) वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम्
श्रीशुक उवाच । ( अनुष्टुप् ) इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ
श्रीभगवानुवाच । ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना । यत् श्रीमदान्धयोर्वाग्भिः विभ्रंशोऽनुग्रहः कृतः
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा
तद्गच्छतं मत्परमौ नलकूबर सादनम् । सञ्जातो मयि भावो वां ईप्सितः परमोऽभवः
श्रीशुक उवाच । इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम्
इत्थं भावेन कथितो भगवान् भगवत्तमः । न इत्थं भावेन हि परं द्रष्टुं अर्हन्ति सूरयः
नास्य कर्मणि जन्मादौ परस्य अनुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत्
अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः
परिमाणं च कालस्य कल्पलक्षण विग्रहम् । यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पमथो श्रृणु
शौनक उवाच । यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः । चचार तीर्थानि भुवः त्यक्त्वा बंधून् सु-दुस्त्यजान्
क्षत्तुः कौशारवेः तस्य संवादोऽध्यात्मसंश्रितः । यद्वा स भगवान् तस्मै पृष्टः तत्त्वं उवाच ह
ब्रूहि नः तद् इदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्याग निमित्तं च यथैव आगतवान् पुनः
सूत उवाच । राज्ञा परीक्षिता पृष्टो यद् अवोचत् महामुनिः । तद्वोऽभिधास्ये श्रृणुत राज्ञः प्रश्नानुसारतः
राजोवाच। कस्मिन्कर्मणि देवस्य मयोऽहन्जगदीशितुः। यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम्
श्रीनारद उवाच। निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः। मायिनां परमाचार्यं मयं शरणमाययुः
स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः। दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन्सेश्वरान्नृप। स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः
ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः। त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः