उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः । शृण्वन् तद्वल्गुगीतानि प्राविशद्भवनं पितुः
महामणिव्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत्
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः
यत्र स्फटिककुड्येषु महामारकतेषु च । मणिप्रदीपा आभान्ति ललनारत्नसंयुताः
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः । कूजद्विहङ्गमिथुनैः गायन्मत्तमधुव्रतैः
वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः । हंसकारण्डवकुलैः जुष्टाश्चक्राह्वसारसैः
उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम्
वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम्
आत्मानं च प्रवयसं आकलय्य विशाम्पतिः । वनं विरक्तः प्रातिष्ठद् विमृशन्नात्मनो गतिम्
शौनक उवाच । (वंशस्थ) हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः
सूत उवाच । वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह
निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्त विज्ञान विधूत विभ्रमः । शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तां अनुजानुवर्तितः
(अनुष्टुप्) कामं ववर्ष पर्जन्यः सर्वकामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै
नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः । अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित्
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया
आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः
सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी धृतराष्ट्रश्च युयुत्सुः गौतमो यमौ
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः
सत्सङ्गात् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृत् आकर्ण्य रोचनम्
तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शसंलाप शयनासन भोजनैः
सर्वे तेऽनिमिषैः अक्षैः तं अनु द्रुतचेतसः । वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह
न्यरुन्धन् उद्गलत् बाष्पं औत्कण्ठ्यात् देवकीसुते । निर्यात्यगारात् नोऽभद्रं इति स्यात् बान्धवस्त्रियः
मृदङ्गशङ्खभेर्यश्च वीणापणव गोमुखाः । धुन्धुर्यानक घण्टाद्या नेदुः दुन्दुभयस्तथा
प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया । ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः
सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि
अश्रूयन्ताशिषः सत्याः तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः
अन्योन्यमासीत् संजल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः
(वंशस्थ) स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु